शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ४/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

९.४.१ राष्ट्रभृद्धोमः

अथातो राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यद्राजानो राष्ट्राणि बिभ्रति राजान उ एते देवास्तस्मादेता राष्ट्रभृतः - ९.४.१.[१]

यद्वेवैता राष्ट्रभृतो जुहोति ।प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन्गन्धर्वाप्सरसो भूत्वा तानि रथो भूत्वा पर्यगच्छत्तानि परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुते - ९.४.१.[२]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि मिथुनान्युदक्रामन्नेतास्ता देवता याभ्य एतज्जुहोति - ९.४.१.[३]

गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि भूत्वोदक्रामन्न्नथो गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपप्रैति गन्धं चैव स रूपं च कामयते - ९.४.१.[४]

मिथुनानि जुहोति । मिथुनाद्वा अधि प्रजातिर्यो वै प्रजायते स राष्ट्रं भवत्यराष्ट्रं वै स भवति यो न प्रजायते तद्यन्मिथुनानि राष्ट्रं बिभ्रति मिथुना उ एते देवास्तस्मादेता राष्ट्रभृत आज्येन द्वादशगृहीतेन ता उ द्वादशैवाहुतयो भवन्ति तस्योक्तो बन्धुः - ९.४.१.[५]

पुंसे पूर्वस्मै जुहोति । अथ स्त्रीभ्यः पुमांसं तद्वीर्येणात्यादधात्येकस्मा इव पुंसे जुहोति बह्वीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुंसो बह्व्यो जाया भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च पुंसे जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमांसमेव तद्वीर्येणात्यादधाति - ९.४.१.[६]

ऋताषाडृतधामेति । सत्यसाट् सत्यधामेत्येतदग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस इत्यग्निर्ह गन्धर्व ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम मुदो नामेत्योषधयो वै मुद ओषधिभिर्हीदं सर्वं मोदते स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहेति तस्योक्तो बन्धुः - ९.४.१.[७]

संहित इति । असौ वा आदित्यः संहित एष ह्यहोरात्रे संदधाति विश्वसामेत्येष ह्येव सर्वं साम सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस इति सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्रामायुवो नामेत्यायुवाना इव हि मरीचयः प्लवन्ते स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः - ९.४.१.[८]

सुषुम्ण इति । सुयज्ञिय इत्येतत्सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरस इति चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भां हि नक्षत्राणि कुर्वन्ति स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः - ९.४.१.[९]

इषिर इति । क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदं सर्वं व्यचः करोति वातो गन्धर्वस्तस्यापो अप्सरस इति वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्रामोर्जो नामेत्यापो वा ऊर्जोऽद्भ्यो ह्यूर्ग्जायते स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः - ९.४.१.[१०]

भुज्युः सुपर्ण इति । यज्ञो वै भुज्युर्यज्ञो हि सर्वाणि भूतानि भुनक्ति यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरस इति यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम स्तावा नामेति दक्षिणा वै स्तावा दक्षिणाभिर्हि यज्ञ स्तूयतेऽथो यो वै कश्च दक्षिणां ददाति स्तूयत एव स स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः - ९.४.१.[११]

प्रजापतिर्विश्वकर्मेति । प्रजापतिर्वै विश्वकर्मा स हीदं सर्वमकरोन्मनो गन्धर्वस्तस्य ऋक्सामान्यप्सरस इति मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्त्विति स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः - ९.४.१.[१२]

अथ रथशीर्षे जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै नाज्येन पञ्चगृहीतेन ता उ पञ्चैवाहुतयो हुता भवन्ति तस्योक्तो बन्धुः - ९.४.१.[१३]

शीर्षतः । शीर्षतो वा अभिषिच्यमानोऽभिषिच्यत उपरि धार्यमाण उपरि हि स यमेतदभिषिञ्चति समानेन मन्त्रेण समानो हि स यमेतदभिषिञ्चति सर्वतः परिहारं सर्वत एवैनमेतदभिषिञ्चति - ९.४.१.[१४]

यद्वेव रथशीर्षे जुहोति । असौ वा आदित्य एष रथ एतद्वै तद्रूपं कृत्वा प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुत उपरि धार्यमाण उपरि हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत समानेन मन्त्रेण समानो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत सर्वतः परिहारं सर्वतो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत - ९.४.१.[१५]

स नो भुवनस्य पते प्रजापत इति । भुवनस्य ह्येष पतिः प्रजापतिर्यस्य त उपरि गृहा यस्य वेहेत्युपरि च ह्येतस्य गृहा इह चास्मै ब्रह्मणेऽस्मै क्षत्रायेत्ययं वा अग्निर्ब्रह्म च क्षत्रं च महि शर्म यच्छ स्वाहेति महच्छर्म यच्छ स्वाहेत्येतत् - ९.४.१.[१६]

[सम्पाद्यताम्]