सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ४/ब्राह्मण २

विकिस्रोतः तः

९.४.२ []वातहोमाः

अथ वातहोमाञ्जुहोति । इमे वै लोका एषोऽग्निर्वायुर्वातहोमा एषु तल्लोकेषु वायुं दधाति तस्मादयमेषु लोकेषु वायुः - ९.४.२.१

बाह्येनाग्निमाहरति । आप्तो वा अस्य स वायुर्य एषु लोकेष्वथ य इमांल्लोकान्परेण वायुस्तमस्मिन्नेतद्दधाति - ९.४.२.२

बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स वायुर्योऽस्यामथ य इमां परेण वायुस्तमस्मिन्नेतद्दधाति - ९.४.२.३

अञ्जलिना । न ह्येतस्येतीवाभिपत्तिरस्ति स्वाहाकारेण जुहोति ह्यधोऽधो धुरमसौ वाऽआदित्य एष रथोऽर्वाचीनं तदादित्याद्वायुं दधाति तस्मादेषोऽर्वाचीनमेवातः पवते - ९.४.२.४

[]समुद्रोऽसि नभस्वानिति । असौ वै लोकः समुद्रो नभस्वानार्द्रदानुरित्येष ह्यार्द्रं ददाति तद्योऽमुष्मिंलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत् - ९.४.२.५

मारुतोऽसि मरुतां गण इति । अन्तरिक्षलोको वै मारुतो मरुतां गणस्तद्योऽन्तरिक्षलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत् - ९.४.२.६

अवस्यूरसि दुवस्वानिति । अयं वै लोकोऽवस्यूर्दुवस्वांस्तद्योऽस्मिंलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत् - ९.४.२.७

त्रिभिर्जुहोति । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेषु लोकेषु वायुं दधाति - ९.४.२.८

यद्वेव वातहोमाञ्जुहोति । एतमेवैतद्रथं युनक्त्येतद्वै देवा एतं रथं सर्वेभ्यः कामेभ्योऽयुञ्जत युक्तेन समश्नवामहा इति तेन युक्तेन सर्वान्कामान्त्समाश्नुवत तथैवैतद्यजमान एतं रथं सर्वेभ्यः कामेभ्यो युङ्क्ते युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते - ९.४.२.९

वातहोमैर्युनक्ति । प्राणा वै वातहोमाः प्राणैरेवैनमेतद्युनक्ति त्रिभिर्युनक्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवैनमेतद्युनक्त्यधोऽधो धुरमधोऽधो हि धुरं योग्यं युञ्जन्ति हस्ताभ्यां हस्ताभ्यां हि योग्यं युञ्जन्ति विपरिक्रामं विपरिक्रामं हि योग्यं युञ्जन्ति - ९.४.२.१०

स दक्षिणायुग्यमेवाग्रे युनक्ति । अथ सव्यायुग्यमथ दक्षिणाप्रष्टिमेवं देवत्रेतरथा मानुषे तं नाभियुञ्ज्यान्नेद्युक्तमभियुनजानीति वाहनं तु दद्याद्युक्तेन भुनजा इति तमुपर्येव हरन्त्याध्वर्योरावसथादुपरि ह्येष तमध्वर्यवे ददाति स हि तेन करोति तं तु दक्षिणानां कालेऽनुदिशेत् - ९.४.२.११

रुङ्मतीहोमः

अथ रुङ्मतीर्जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुक्मैच्छत्तस्मिन्देवा एताभी रुङ्मतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति - ९.४.२.१२

यद्वेव रुङ्मतीर्जुहोति । प्रजापतेर्विस्रस्ताद्रुगुदक्रामत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेताभी रुङ्मतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति - ९.४.२.१३

[]यास्ते अग्ने सूर्ये रुचः । या वो देवाः सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्विति रुचं रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति तिस्र आहुतीर्जुहोति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रुचं दधाति - ९.४.२.१४

अथ वारुणीं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वरुणो देवता तस्माऽएतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते वारुण्यऽर्चा स्वेनैवैनमेतदात्मना स्वया देवतया प्रीणाति - ९.४.२.१५

यद्वेव वारुणीं जुहोति । प्रजापतेर्विस्रस्ताद्वीर्यमुदक्रामत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतया वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति वारुण्यऽर्चा क्षत्रं वै वरुणो वीर्यं वै क्षत्रं वीर्येणैवास्मिन्नेतद्वीर्यं दधाति - ९.४.२.१६

तत्त्वा यामि ब्रह्मणा वन्दमान इति । तत्त्वा याचे ब्रह्मणा वन्दमान इत्येतत्तदाशास्ते यजमानो हविर्भिरिति तदयमाशास्ते यजमानो हविर्भिरित्येतदहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणेह बोधीत्येतदुरुशंस मा न आयुः प्रमोषीरित्यात्मनः परिदां वदते - ९.४.२.१७

अथार्काश्वमेधयोः संततीर्जुहोति । अयं वा अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्त्समदुधुस्तथैवैनावयमेताभिराहुतिभिः संतनोति संदधाति - ९.४.२.१८

स्वर्ण घर्मः स्वाहेति । असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति - ९.४.२.१९

स्वर्णार्कः स्वाहेति । अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति - ९.४.२.२०

स्वर्ण शुक्रः स्वाहेति । असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति - ९.४.२.२१

स्वर्ण ज्योतिः स्वाहेति । अयमग्निर्ज्योतिस्तं पुनरिह दधाति - ९.४.२.२२

[]स्वर्ण सूर्यः स्वाहेति । असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः - ९.४.२.२३

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनावेतत्संतनोति संदधाति - ९.४.२.२४

यद्वेवाह । []स्वर्ण घर्मः स्वाहा स्वर्णार्कः स्वाहेत्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता
न सा यस्यै न गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति - ९.४.२.२५

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.४.२.२६

अथात आहुतीनामेवावपनस्य । यां कां च ब्राह्मणवतीमाहुतिं विद्यात्तमेतस्मिन्काले जुहुयात्कामेभ्यो वा एतं रथं युङ्क्ते तद्यां कां चात्राहुतिं जुहोत्याप्तां तां सतीं जुहोति - ९.४.२.२७

तदाहुः । न जुहुयान्नेदतिरेचयानीति स वै जुहुयादेव कामेभ्यो वा एता आहुतयो हूयन्ते न वै कामानामतिरिक्तमस्ति - ९.४.२.२८
इत्याहवनीयाग्निचयनोत्तरकर्माणि।

  1. वात/वातरशना उपरि टिप्पणी
  2. वा.सं. १८.४५
  3. वा.सं. १८.४६
  4. वा.सं. १८.५०
  5. वा.सं. १८.५०