शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ४/ब्राह्मण ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

९.४.३ अष्टानां धिष्ण्याग्नीनां चयनम्

अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपति । अग्नय एते यद्धिष्ण्या अग्नीनेवैतच्चिनोति ता एता विशः क्षत्रमयमग्निश्चितः क्षत्रं च तद्विशं च करोत्यमुं पूर्वं चिनोत्यथेमान्क्षत्रं तत्कृत्वा विशं करोति - ९.४.३.१

एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि तद्भूमानं दधाति - ९.४.३.२

पञ्चचितिक एष भवति । एकचितिका इतरे क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यूर्ध्वमेतं चिनोति क्षत्रं तदूर्ध्वं चितिभिश्चिनोति तिरश्च इतरान्क्षत्राय तद्विशमधस्तादुपनिषादिनीं करोति - ९.४.३.३

उभाभ्यां यजुष्मत्या च लोकम्पृणया चैतं चिनोति । लोकम्पृणयैवेमान्क्षत्रमेव तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोति विशं क्षत्रादवीर्यतराम् - ९.४.३.४

स यदिमांल्लोकम्पृणयैव चिनोति क्षत्रं वै लोकम्पृणा क्षत्रं तद्विश्यत्तारं दधात्युभयांश्चिनोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वानथाग्नेस्तस्योक्तोबन्धुर्यं यमेवाध्वरधिष्ण्यं निवपति तं तं चिनोत्याग्नीध्रीयं प्रथमं चिनोति तं हि प्रथमं निवपति दक्षिणत उदङ्ङासीनस्तस्योक्तो बन्धुः - ९.४.३.५

तस्मिन्नष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति तासामश्मा पृश्निर्नवमो नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तानेवास्मिन्नेतद्दधाति यश्चितेऽग्निर्निधीयते स दशमो दश वै प्राणा मध्यमाग्नीध्रं मध्यतस्तत्प्राणान्दधाति मध्ये ह वा एतत्प्राणाः सन्त इति चेति चात्मानमनुव्युच्चरन्ति - ९.४.३.६

एकविंशतिं होत्रीय उपदधाति । एकविंशतिर्वेव परिश्रितस्तस्योक्तो बन्धुरेकादश ब्राह्मणाच्छंस्य एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभ इन्द्र ऐन्द्रो ब्राह्मणाच्छंस्यष्टावष्टावितरेषु तस्योक्तो बन्धुः - ९.४.३.७

षण्मार्जालीये । षड्वा ऋतवः पितरस्तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे स एषामेष दक्षिणतः स वा इतीममुपदधातीतीमानित्यमुं विशं तत्क्षत्रमभिसम्मुखां करोति - ९.४.३.८

अथैनान्परिश्रिद्भिः परिश्रयति । आपो वै परिश्रितोऽद्भिरेवैनांस्तत्परितनोति स वै पर्येव निदधाति क्षत्रं हैता अपां याः खातेन यन्त्यथ हैता विशो यानीमानि वृथोदकानि स यदमुं खातेन परिश्रयति क्षत्रे तत्क्षत्रं दधाति क्षत्रं क्षत्रेण परिश्रयत्यथ यदिमान्पर्येव निदधाति विशि तद्विशं दधाति विशा विशं परिश्रयति तेषां वै यावत्य एव यजुष्मत्यस्तावत्यः परिश्रितो यावत्यो ह्येवामुष्य यजुष्मत्यस्तावत्यः परिश्रितः क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति - ९.४.३.९

अथैषु पुरीषं निवपति । तस्योक्तो बन्धुस्तूष्णीमनिरुक्ता हि विडथाग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपति दिश एषोऽग्निस्ताभ्य एतानि हवींषि निर्वपति तदेना हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते पञ्च भवन्ति पञ्च हि दिशः - ९.४.३.१०

तदाहुः । दशहविषमेवैतामिष्टिं निर्वपेत्सा सर्वस्तोमा सर्वपृष्ठा सर्वाणि च्छन्दांसि सर्वा दिशः सर्व ऋतवः सर्वम्वेतदयमग्निस्तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते दश भवन्ति दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.४.३.११

तत्त्वै देवस्वामेव । एतानि हवींषि निर्वपेदेता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदेता देवताः सुता एतेन सवेन यद्वैनमेता देवता एतस्मै सवाय सुवते तस्मादेता देवस्वः - ९.४.३.१२

ता वै द्विनाम्न्यो भवन्ति । द्विनामा वै सवेन सुतो भवति यस्मै वै सवाय सूयते
येन वा सवेन सूयते तदस्य द्वितीयं नाम - ९.४.३.१३

अष्टौ भवन्ति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.४.३.१४

तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडेष्टा देवता भवन्त्यसमवहितं स्विष्टकृते - ९.४.३.१५

अथैनं पूर्वाभिषेकेणाभिमृशति । सविता त्वा सवानां सुवतामेष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजेति ब्राह्मणानेवापोद्धरत्यनाद्यान्करोति - ९.४.३.१६

इति धिष्ण्याग्निचयनम्।

अग्निचयनं वृत्तं।