वाचस्पत्यम्/ध

विकिस्रोतः तः
← वाचस्पत्यम्/द वाचस्पत्यम्/ध
तारानाथ भट्टाचार्य
वाचस्पत्यम्/न →
पृष्ठ ३८३५

धकारः तवर्गीयः पञ्चमः व्यञ्जनवर्णभेदः । तस्योच्चारणस्थानं दन्त-

मूलं “दन्त्या लतुलसाः स्मृताः” इति तवर्गस्य दन्त्यत्वोक्तिः
दन्तमूलपरत्वेन, अन्यथा भग्नदन्तस्य तवर्गोच्चारणानुप-
पत्तेः । व्यञ्जनवर्णत्वादर्द्धमात्रत्वम् तस्य । तस्योच्चारणे
आभ्यन्तरप्रयत्नः स्पृष्टता जिह्वाग्रेण दन्तमूलस्य सम्यक्-
स्पर्शेन तस्थोच्चारणात् तथात्वम् । वाह्यप्रयत्नाश्च संवार-
नादवोषा महाप्राणश्च, सि० कौ० मूलं दृश्यम् । अस्य
वाचकशब्दा वर्णाभिधानतन्त्रोक्ता यथा “धो धनार्थो
रुचिः स्थाणुः सात्वतो योगिनीप्रियः । मीनेशः
शङ्खिनी तोयं नागेशो विश्वपावनी । धिषणा धारणा
चिन्ता नेत्रयुग्मं प्रियो मतिः । पीतवासास्त्रिवर्णा च
धात्री धर्मः प्लवङ्गमः । सन्दर्शो मोहनो लज्जा वज्र-
तुण्डः सुकन्धरा । वामपादाङ्गुलीमूलं ज्येष्ठा सुर
पुरं भवः । स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः”
अस्य मातृकान्यासे वामपादाङ्गुलिमूले न्यास्यता ।
अस्याधिष्ठातृदेवताया ध्येयरूपम् । “षड्भुजां मेषवर्णाञ्च
रक्त्राम्बरधरां पराम् । वरदां शोभनां रम्यां चतुर्वर्ग-
प्रदायिनीम् । एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा
जपेत्” अस्य स्वरूपञ्च । “धकारं परमेशानि! कुण्डली
मोक्षरूपिणी । आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं
सदा । पञ्चप्राणमयं देवि! विसिनीसहितं सदा ।
त्रिविन्दुसहितं वर्णं धकारं यदि भावयेत् ।
पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम्” कामधेनु० । अस्य
काव्यादौ प्रथमन्यासफलं वृ० र० टीकायामुक्तं यथा
“दोधः सौख्यं मृदं नः” ।

पु० दधाति धा--ड । १ धर्मे २ कुवेरे ३ ब्रह्मणि च । ४ धने

न० मेदि० । ५ धकारवर्णे “धोधनार्थो रुचिः स्थाणुः”
वर्णाभिधानम् ।

धक्क नाशने चुरा० उभ० सक० सेट् । धक्कयति--ते अदधक्कत्--त ।

धट पु० धन--शब्दे “पुंसि घः” पा० नस्य टः । १ तुलायाम्

उन्मानार्थं मानदण्डभेदे अमरः । तदुपलक्षिते २ तुलाराशौ
“सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः । चर्कादीनां
त्रिकोणानि मूलानि राशयः क्रमात्” ज्यो० त० ।
३ परीक्षाभेदे तन्निरुक्तिः पितामहेन दर्शिता यथा
धकाराद्धर्ममुद्दिष्टं टकारात् कुटिलं नरम् । धृतं धारयते
यस्मात् धटस्तेनाभिधीयते” । तुलाशब्दे ३३३१ पृष्ठादौ
दृश्यम् । “धटोऽग्निरुदकञ्चैव विषं कोशस्तु पञ्चमः ।
षष्ठन्तु तण्डुलाः प्रोक्ताः सप्तमं तप्तमाषकम् । अष्टमं
फालमित्युक्तं नवमं धर्मजं तथा । दिव्यान्येतानि
सर्वाणि निर्दिष्टानि स्वयम्भुवेति” वृहस्पतिः ।
परीक्षायां नक्षत्रादिपरीक्षाशब्दे दृश्यम् । धटपरीक्षायां
कालविशेषनिषेधौ “तुला स्यात् सर्वकालिकी” इति
“बाते वाति विवर्जयेत्” च पितामहेनोक्तौ ।

धटक पु० “तुल्या यवाभ्यां कथितात्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं

च तेऽष्टौ । गद्यानकस्तद्द्वयमिन्द्रतुल्यैर्वल्लैस्तथैवो धटकः
प्रदिष्टः” लीला० उक्ते द्वाचत्वारिंशद्गुञ्जापरिमाणे

धटकर्कट पु० ६ त० । तुलायाः शिक्याधारे ईषद्वक्रे कर्कट-

शृङ्गनिभे आयसकीलकभेदे दिव्यत० रघु० । “कक्षच्छेदे
तुलाभङ्गे धटकर्कटयोस्तथा” वृहस्पतिः ।

धटिका स्त्री “द्व्यक्षेन्दुसंख्यैर्धटकैस्तु सेरस्तैः पञ्चभिः स्याद्-

धटिका च ताभिः” लीला० उक्ते पञ्चसेरात्मके (धडा
पशरी) इति प्रसिद्धे परिमाणे । धटी स्वार्थे क ।
१ चीरवस्त्रे २ कौपीने (धड़ा) ।

धटी स्त्री धन० रवे अच् नस्य टः गौरा० ङीष् । १ कौपीने

२ चीरबस्त्रे मेदि० गर्भाधानोत्तरं स्त्रियै देये ३ वस्त्रभेदे
तद्धारणे नक्षत्रादि यथा “मूलश्रवणहस्तेषु पुष्यादि-
त्योत्तराषु च । मृगपौष्णे धटी देया सौम्यबारे शुभे
तिथौ” ज्यो० सा० ।

धटिन् त्रि० धटोऽस्त्यस्य इनि । १ तुलाधारके २ तुलाराशौ

३ शिवे च पु० “घण्ठोऽघण्टो धटी धण्टी चरुचेली मिली-
मिली” भा० शा० २८६ अ० । नीलकण्ठेन तु घटीति तत्र
पठित्वा व्याख्यातम् “घटयति कर्मफलैर्योजयति
नरानिति घटी इति” मुद्रादोषात् धटीत्यपपाठः ।

धण शब्दे भ्वा० प० अक० सेट् । धणति अधाणीत् अधणीत् । दधाण ।

धत्तूर पु० धयति धातून् धा--ऊर पृषो० । धुस्तूरे । हेमच०

धन धान्योत्पादने जुहो० पर० सेट् । दधन्ति अधानीत्

अधनीत् दधान । गृहीतकर्मकत्वात् अकर्मकत्वम् । तेन
दधन्ति भूमिः धान्यमुत्पादयतीत्यर्थः, वैदिकोऽयम् ।

धन शब्दे भ्वा० पर० अक० सेट् । धनति अधानीत् अधनीत् ।

धन न० धन--अच् । १ गोधने २ वित्ते च मेदि० । ३ स्नेहपात्रे

शब्दर० ४ धनिष्ठानक्षत्रे ज्योतिषम् । अर्थशब्दे ३६ ७ पृ०
धनभेदादिकमुक्तं विशेषस्तु कश्चित् शुद्धित० उक्तो यथा
“धनं तु त्रिविधं ज्ञेयं शुक्लं शवलमेव च । कृष्णञ्च तस्य
विज्ञेयो विभागः सप्तधा पृथकु । क्रमायातं प्रीतिदायं
पृष्ठ ३८३६
प्राप्तञ्च सह भार्य्यया । अविशेषेण सर्वेषां वर्णानां त्रि-
विधं धनम् । वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् ।
याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः । त्रिविधं
क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । युद्धार्थलब्धं करजं
दण्ड्यबध्यापहारतः । वैशेषिकं धनं दृष्टं वैश्यस्यापि
त्रिलक्षणम् । कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनु-
ग्रहात् । कुषीदकृषिबाणिज्यं प्रकुर्वीत स्वयकृतम् ।
आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः” । तामसादि-
भेदेन तस्य त्रैविध्यं नारदेन उक्तं यथा “पार्श्विकद्यूत-
चौर्य्यार्त्तिप्रतिरूपकसाहसैः । व्याजेनोपार्जितं यत्तु
तत् कृष्णं समुदाहृतम्” । पार्श्विकः पात्रतया
योऽर्जयति । आर्त्त्या परपीड़या प्रतिरूपकेण कृत्रिम-
रत्नादिना । साहसेन समुद्रयानगिर्य्यारोहणा-
दिना । व्याजेन ब्राह्मणवेशेन शूद्रादिना । कृष्णं
तामसम् । राजसधनं यथा “कुसीदकृषिबाणिज्यशुल्क-
गानानुवृत्तिभिः । कृतोपकारादाप्तञ्च राजसं समुदा-
हृतम्” । अनुवृत्त्या सेवया । सात्विकधनं यथा ।
“श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम् । धनं सप्त-
विधं शुद्धं मुनिभिः समुदाहृतम्” । श्रुतेनाध्ययनेन
शौर्य्येण जयादिना । तपसा जपहोमदेवार्चादिना ।
कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धम् । शिष्यागतं
गुरुदक्षिणादिना । याज्यागतं आर्त्विज्यलब्धम । शुद्धं
सात्विकम्” शुद्धित० दृश्यम् । ५ युक्ते ६ योज्ये च “स्वोच्चाप-
कृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः । तत् तेषु
धनमित्युक्तमृणं पश्चान्मुखेषु तु” सू० सि० । “स्वोच्चजीवा-
कर्षिता ग्रहाः पूर्वाभिमुखं भगणैः राशिभिर्भगोलस्थ
क्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादश-
राश्यन्तिके यद्राशिविभागैरित्यर्थः । यद्यत्सङ्ख्यामितं
गच्छन्ति तत्तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु पूर्वा-
वगतग्रहराश्यादिभोगेषु धनं योज्यम्” रङ्ग० । ७ लग्नात्
द्वितीयस्थाने तत्र जन्मलग्नात् द्वितीयस्थाने चिन्त्यपदार्था
ग्रहयोगभेदेन शुभाशुभं च जातकपद्धतावुक्तं यथा
“सुवर्णरत्नविक्रयक्रयाश्च कोशसंग्रहः । धनामिधान-
मन्दिरे बुधैर्विचिन्त्य आदरात् । समस्तपापखेचरैर्युते-
क्षितं धनाभिधम् । दरिद्रताविधायकं विशेषतः कृशा-
नुना । शुद्धः शनिर्धनगतो धनिनं करोति दृष्टी
युधेन रविजान्यखगप्रदृष्टः । सूर्य्योऽपि, सौम्यखचरा
धनगा धनानि नानाविधानि न यदा खलदृष्टदेहाः । बुध-
गुरुकवयश्चेद्वित्तगा वित्तलामं विदघति यदि दृष्टाः
सोमसौम्येन्दुपुत्रैः । क्रमश, इह कविश्चेत् सौम्यगेहे
घनाप्त्यै भवति शुभखगानां दृष्टितो मानवस्य । क्षीणः
शशी ज्ञेन विलोकितोऽर्थे पूर्वार्जितार्थस्य विनाशदः
स्यात् । नवीनवित्तागमरोधकौ च धने कुजेन्दू त्वचिं
दोषदौ स्तः । रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षड्विंशके ज्ञे
धननाशदः स्यात् । भाव्दे विधुः पीड़नमङ्गिराश्च भूपे-
ऽल्पतायाञ्च कविः षडव्दे । द्वितीयस्य पतिर्नेत्रखामी
शुकमतादिह । सेन्दुशुक्रोऽष्टषष्ठान्त्यस्थितो रात्र्या
न्ध्यकृच्च सः । ससूर्य्यः शुक्रलग्नेशो जात्यन्धत्वाय-
कल्पते । एमिः पित्रादिभावेशैर्युक्तश्चेत्तत्तदान्ध्यकृत् ।
सशुक्रलग्नपश्चेत् स्यान्नेत्रयोर्वैपरीत्यकृत् । भावाधीशः
शुभैर्युक्तः केन्द्रकोणे शुभप्रदः” ।
वर्षलग्नात् द्वितीयस्थग्रहयोगादिफलम् नी० ता० उक्तं यथा
“वित्ताधिपो जन्मनि बित्तगोऽव्दे जीवो यदा लग्न-
पतीत्थशाली । तदा धनाप्तिः सकलेऽपि वर्षे क्रूरेशराफे
धनधान्यहानिः । जन्मन्यर्थावलोकीज्योऽव्देऽव्देशो
बलवान् यदा । तदा धनाप्तिर्बहुला विनायासेन जायते ।
एवं यद्भावगोजन्मन्यव्दे तद्भावगो गुरुः । लग्नेशे-
नेत्थशाली चेत्तद्भावजसुखं भवेत् । यदा जनुषि यं पश्येत्
भावमव्देऽव्दपो गुरुः । तदा तद्भावजं सौख्यमुक्तं
ताजकवेदिभिः । जन्मषष्ठाधिपः सौम्यः षष्ठोऽव्दे
स्वल्पलामदः । पापार्दिते गुरौ रन्ध्रेऽपवाद उपजायते ।
गुरुर्वित्ते शुभैर्दृष्टयुतो राज्यार्थसौख्यदः । जन्मन्यव्दे
च मुथहाराशिं पश्यन् विशेषतः । एवं सितेऽव्दपे
भूरिधनं धान्यं च जायते । वित्तलग्नेशसंयोगो वित्त
सौख्यफलप्रदः । एवं बुधे सवीर्य्येऽस्माल्लिपिज्ञानो-
द्यमैर्धनम् । जन्मलग्नगताः सौम्या वर्षेऽर्थे धनलाभदाः ।
लाभसद्मनि वित्ते वा बुधेज्यसितसंयुते । तैर्वा दृष्टे धनं
भूरि स्वकुले राज्यमाप्नुयात् । अर्थार्थसहमेशौ चेत्
शुभैर्मित्रदृशेक्षितौ । बलिनौ सुखतो लाभप्रदौ यत्ना-
दरेर्दृशा । मित्रदृष्ट्या मुथशिलेऽङ्गार्थयोः सुखतो धनम् ।
तयोर्भूशरिफे वित्तनाशदुर्जनभीतयः । जन्मनीज्योऽस्ति
यद्राशौ तद्राशिवर्षलग्नगः । शुभस्वामीक्षितयुतो
नैरुज्यस्वाम्यवित्तदः । सूतौ लग्ने रविर्वर्षे धनस्थो
धनसौख्यदः । शनौ वित्ते कार्य्यनाशो लाभोऽल्पोऽथ
धनव्ययः । भ्रातृसौख्यं गुरुयुते भूतयः स्युः शुभेक्षणात् ।
क्रूरयोगेक्षणात् सर्वं विपरीतं फलं वदेत् । वित्तेशो
पृष्ठ ३८३७
जन्मनि गुरुर्वर्षे वर्षेशतां दधत् । यद्भावगस्तमाश्रित्य
लाभदो लग्नमात्मनः । वित्ते सुवर्णरौप्यादेः भ्रात्रादेः
सहजर्क्षगः । पितृमातृक्षमादिभ्यो वित्तं सुहृदि
पञ्चमे । सुहृत्तनयषष्ठेऽरिवर्गाद्धानिप्रभीतिदः । स्त्रीभ्यो
द्यूनेऽष्टमे मृत्युरर्थहेतुर्यशोऽङ्कगे । खे नृपादेर्नृप-
कुलादायेऽन्त्ये व्ययदो भवेत् । इत्थं विमृश्य सुधिया
वाच्यमित्यपरे जगुः” । तद्भावानयनं द्वादशभावशब्दोक्त-
दिशावसेयम् । वीजगणितोक्ते ८ ऋणभिन्ने च । तत्र
धनर्णसङ्कलनादिप्रकारस्तत्रोक्तो यथा
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् योगे युतिः
स्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः ।
उदाहरणम् । रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा
सहितं वदाशु । स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे
धनर्णयोः सङ्कलनामवैषि । अत्र रूपाणामव्यक्तानां
चाद्याक्षराण्युपलक्षणार्थं लेख्यानि यानि ऋणगतानि
तान्यूर्द्ध्वविन्दनि च ।
न्यासः रू ३ं रू ४ं योगे जातं रू ७ं
न्यासः रू ३ रू ४ योगे जातं रू ७
न्यासः रू ३ रू ४ं योगे जातं रू १ं
न्यासः रू ३ं रू ४ योगे जातं रू १
एवं विभिन्नेष्वपि । धनर्णव्यवकलने करणसूत्रं वृत्ता-
र्द्धम् संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युति०
रुक्तवच्च । उदाहरणम् । त्रयाद्द्वयं स्वात् स्वमृणा-
दृणं च व्यस्तं च संशोध्य वदाशु शेषम् ।
न्यासः रू ३ रू २ अन्तरे जातं रू १
न्यासः रू ३ं रू २ं अन्तरे जातं रू १ं
न्यासः रू ३ रू २ं अन्तरे जातं रू १ं
न्यासः रू ३ं रू २ अन्तरे जातं रू १ं।
इति धनर्णसङ्कलनव्यवकलने ।
गुणने करणसूत्रं वृत्तार्द्धम् स्वयोरस्वयोः स्वं धन
स्वर्णघाते क्षयोभागहारेऽपि चैवं निरुक्तम् ।
उदाहरणम् । धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृ-
णेन किं स्यात्” ।
न्यासः रू २ रू ३ धनं धनघ्नं धनं स्वादिति जातं
रू ६ न्यासः रू २ं रू ३ं ऋणमृणघ्नं धनं स्यादिति
जातं रू ६ न्यासः रू २ रू ३ं धनमृणगुणमृणं
स्यादिति जातं रू ६ं न्यासः रू २ं रू ३ ऋणं धनगुण-
मृणं स्यादिति जातं रू ६ं । इति धनर्णगुणनम् ।
भागाहारेऽपि चैवं निरुक्तमिति । उदाहरणम् । रूपा-
ष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् । ऋणं
धनेन स्वमृणेन किं स्याद् द्रुतं वदेदं यदि बोबुधीषि ।
न्यासः रू ८ रू ४ धनं धनहृतं धनं स्यातिति
जातं रू २ । न्यासः रू ८ं रू ४ं ऋणमृणहृतं
धनं स्यादिति जातं रू २ न्यासः रू ८ं रू ४ ऋणं
धनहृतं ऋणं स्यादिति जातं रू २ं । न्यासः रू ८
रू ४ं धनमृणहृतमृणं स्यादिति जातं रू २ं । इति
धनर्णभागहारः । बर्गे करणसूत्रं वृत्तार्द्धम् । “कृतिः
स्वर्णयोः स्वं स्वमूले धनर्णे, न मूलं क्षयस्यास्ति तस्याकृति-
त्वात् । उदाहरणम् । धनस्य रूपत्रितयस्य वर्गं
क्षयस्य च ब्रूहि सखे! ममाशु । न्यासः रू ३ रू ३ं
जातौ वर्गौ रू ९ रू ९ मूलोदाहरणम् । धनात्मका-
नामधनात्मकानां मूलं नवानां च पृथग्वदाशु । ८ ।
न्यासः रू ९ मूलं रू ३ वा रू ३ं न्यासः रू ९ं
एषामवर्गत्वान्मूलं नास्ति । धन--रवे अच् । ८ शब्दे च ।

धनक पु० धनस्य कामः इच्छा धन + कन् । १ धनस्येच्छायाम् ।

२ कृतवीर्य्यजनके नृपभेदे “धनकः कृतवीर्य्यसूः” भाग० ९ । २३ । ७

धनकेलि पु० धनेन केलिरस्य । कुवेरे त्रिका० ।

धनच्छू स्त्री धनं छ्यति नाशयति छो--क । करेटुखगे ।

त्रिका० ।

धनञ्जय धनं जयति सम्पादयति जि--खच् मुम् । १ वह्नौ

“धनमिच्छेत् हुताशनात्” इत्युक्तेस्तस्य धनदत्वात्तथात्वम्
२ चित्रकवृक्षे च अमरः । “सर्वान् जनपदान् जित्वा
वित्तमादाय केवलम् । मध्ये धनस्य तिष्ठामि तेनाहुर्मां
धनञ्जयम्” मा० विरा० ४४ अ० उत्तरं प्रति अर्जुनेन
स्वनामनिर्वचनयुक्ते ३ अर्जुने “पाञ्चजन्यं हृषीकेशो
देवदत्तं धनञ्जयः” गीता । “विजित्य यः प्राज्यमयच्छदुत्त-
रान् कुरूनकुप्यं वसु वासवोपमः । स वल्कलवासांसि
तवाधुना हरन् करोति मन्युंन कथं धनञ्जयः” किरा० ।
४ तन्नामनामके अर्जुनवृक्षे रत्नमा० । ५ विष्णौ च ।
“अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः” विष्णुसं० ।
धन--रवे अच् धनस्य शब्दस्य जयनात् शब्दावाच्यत्वात् तस्य
तथात्वम् “धनञ्जयस्तथा घोषे महारजतवर्णकः । ललाटे
चोरसि स्कन्धे हृदि नाभौ त्वगादिषु” योगार्णवोक्ते
६ देहस्थे वायुभेदे । ७ नागभेदे च “शेषः प्रथमतो जातः
वासुकिन्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ”
भा० आ० ३५ अ० ।
पृष्ठ ३८३८

धनद पु० धनं दयते देङ--पालने धनं ददाति दा--दाने वा

क । १ कुवेरे अमरः । २ धनदातरि त्रि० मेदि० ३ देवीभेदे स्त्री
ण्वुल् धनदायिकाऽपि तत्र । “ध्यायेत् कल्पतरोर्मूले देवीं
तां धनदायिकाम्” । तन्त्रसारे तन्मन्त्रध्यानादिकं दृश्यम् ।
कुवेरश्च पुलस्त्यपुत्रस्य विश्रवसः पुत्रः तत्कथा रामा० उ०
३ अ० उक्ता । “अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।
अचिरेणैव कालेन पितेव तपसि स्थितः । सत्यवान्
शीलवान् दान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्व
संसक्तो नित्यं धर्मपरायणः । ज्ञात्वा तस्य तु
तद्वृत्तं भारद्वाजो महामुनिः । ददा विश्रवसे भार्य्यां
स्वसुतां देववर्णिनीम् । प्रतिगृह्य तु धर्मेण भरद्वाजसुतां
तदा । मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स
तस्यां वीर्य्यसम्पन्नमपत्यं परमाद्भुतम् । जनयामास धर्मज्ञः
सर्वैर्ब्रह्मर्गुणैर्वृतम् । तस्मिन् जाते तु संहृष्टः संबभूव
पितामहः । दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो
भविष्यति । नाम चास्याकरोत् प्रीतः सार्धं देवर्षि-
भिस्तदा । यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्विश्रवणो नाम भविष्यत्येष विश्रुतः” “स तु वैश्रव-
णस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुती
महातेजा यथाऽनलः । तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे
महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो
नियमैरुग्रैश्चकार सुमहत्तपः । पूर्णे वर्षसहस्रान्ते तं तं
विधिमकल्पयत् । जलाशो मारुताहारो निराहार-
स्तथैव च । एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह । गत्वा
तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टोऽस्मि ते
वत्स! कर्मणानेन सुव्रत! । वरं वृणीष्व भद्रन्ते
वरार्हस्त्वं महामते ॥ अथाब्रवीद्बैश्रवणः पितामहसुप-
स्थितम् । भगवन्! लोकपालत्वमिच्छेयं लोकरक्षणम् ।
अथाब्रवीद्वैश्रवणं वाढ़मित्येव हृष्टवत् । अहं वै लोक
पालानां चतुर्थं स्रष्टुमुद्यतः । यमेन्द्रवरुणानां च
पदं यत्तव चेप्सितम् । तद्गच्छ वत्स! धर्मज्ञ! निधीश-
त्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं
मविष्यसि । एतच्च पुष्पकं नाम विमानं सूर्य्यसन्निभम् ।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज । स्वस्ति तेऽस्तु
गमिष्यामः सर्वं एव यथागतम् । कृतकृत्यावयं तात!
दत्त्वा तव वरद्वयम् । इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं
त्रिदशैः सह । गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् ।
धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । भगवन्!
लब्धवानस्मि वरमिष्टं पितामहात् । निवासनं न मे देवो
विदधे स प्रजापतिः । तं पश्य भगवन्! कञ्चिन्निवासं
साधु मे प्रमो! । न च पीड़ा भवेद्यत्र प्राणिनो यस्य
कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।
वचनं प्राह धर्मज्ञ! श्रूयतामिति सत्तम! । दक्षिणस्यो-
दधेस्तीरे त्रिकूटो नाम पर्वतः । तस्याग्रे तु विशाला सा
महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता
विश्वकर्मणा । राक्षसानां निवासार्थं यथेन्द्रस्यामरा-
वती । तत्र त्वं वस भद्रन्ते लङ्कायां नात्र संशयः” ।
तस्य धनाध्यक्षत्वात् धनदत्वम् । “यथा साधारणीभूतं
नामास्य ध्रनदस्य च” रघुः । ४ धनञ्जयरूपे वायौ पु०
धनपतिशब्दे दृश्यम् । ५ वह्नौ ६ चित्रकवृक्षे च पु० ।

धनदण्ड पु० धनेन दण्डः । मनूक्ते धनग्रहणदण्डे

“वाग्दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डमतःपरम्” ।

धनदाक्षी स्त्री धनदस्य कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः

षच्समा० ङीष् । कुवेराक्षीलतायां लताकरञ्जे राजनि० ।

धनदानुज पु० ६ त० । १ रावणे शब्द च० २ कुम्भकर्ण्णादौ च

तेषां विश्रवसः कैकसीतो जातत्वात् तथात्वं तत्कथा ।
“सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज
विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् । ईदृशास्ते भविष्यन्वि
पुत्राः पुत्रि! न संशयः । तेजसा भास्करसमो यादृशोऽयं
धनेश्वरः । सा तु तद्वचनं श्रुत्वा कन्यका पितृगौर-
वात् । तत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते” ।
“कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच
कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम । पश्चिमो यस्तव-
सुतो भविष्यति शुभानक्षे! । मम वंशानुरूपः स धर्मात्मा
च न संशयः । एवमुक्ता तु सा कन्या राम! कालेन
केनचित् । जनयामास वीमत्सं रक्षोरूपं सुदारुणम् ।
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं
विंशतिभुजं महास्यं दीप्तमूर्धजम्” “तस्य त्वनन्तरं
जातः कुम्भकर्णो महाबलः । प्रमाणाद् यस्य किपुलं
प्रमाणं नेह विद्यते । ततः शूर्पणखा नाम संजज्ञे
विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः
सुतः” “भुजमूर्द्ध्वोरुबाहुल्यात् एकोऽपि धनदानुजः”
रघुः ।
पृष्ठ ३८३९

धनदायिन् त्रि० धनं ददाति दा--णिनि ६ त० । १

धनदातरि २ वह्नौ पु० शन्दरत्ना० “धनमिच्छेत् हुताशनात्”
इत्युक्तेस्तस्य तथात्वम् ।

धनदेश्वर पु० काशीस्थे कुवेरस्थापिते शिवलिङ्गभेदे ।

धनन्ददा स्त्री धनं ददते दद--बा० खच् मुम् । बुद्धशक्ति-

भेदे त्रिका० ।

धनपति पु० ६ त० । १ कुवेरे “सन्देशं मे हर धनपतिक्रोध

विश्लेषितस्य” “नत्वा देवं धनपतिसखं यत्र साक्षाद्वस-
न्तम्” मेघ० । २ धनञ्जयाख्ये देहस्थे वायुभेदे च तस्य
धनपतित्वकथा “शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशि-
नीम् । यथा वायुः शरीरस्थो धनदः संबभूव ह । आद्यं
शरीरं यत्तस्मिन् वायुरन्तःस्थितोऽभवत् । प्रयोजनात्
मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः । तत्रामूर्त्तस्य वायोस्तु
उत्पत्तिः कीर्त्त्यते मया । तां शृणुष्व महाभाग!
कथ्यमाना मयाऽनघ! । ब्रह्मणः सृजतः सृष्टिं मुखा-
द्वायुर्विनिर्ययौ । प्रचण्डशर्करावर्षीतं ब्रह्मा प्रव्यषेध-
यत् । मूर्त्तो भवस्य शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन् ।
सर्वेषाञ्चैव देवानां बद्वित्तं फलमेव च । तत् सर्वं
बाहि येनोक्तं तस्माद्धनर्पातर्भव । तस्य ब्रह्मा ददौ तुष्ट-
स्तिथिमेकादशीं प्रभुः । तस्यामनग्निपक्वाशी यो
भवेन्नियतः शुचिः । तस्मै तु घनदो देवस्तुष्टः सर्वं प्रय-
च्छति । एषा धनपतेर्मूर्त्तिः सर्वकिल्विषनाशिनी”
वराह पु० । (खाजाञ्चि) २ धनाध्यक्षे त्रि० ।

धनपाल त्रि० धनं पालयति पालि--अण् । १ धनरक्षके

२ कुवेरे पु० ।

धनपिशाची स्त्री धने पिशाचीव । अतिशयधनतृष्णायां

स्वार्थे क । धनपिशाचिकाऽप्यत्र हारा० ।

धनप्रयोग पु० धनस्य बुद्ध्यर्थं प्रयोगः । ऋणरूपेण

अधमर्णाय धनस्य दानरूपे प्रयोगे । तन्नक्षत्रादि सुहूर्त्त-
चिन्तामणौ पीयूषधारायाञ्चोक्तं यथा
“स्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे लग्ने
धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः । नारे
ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि यत् तद्वंशेषु
भवेदृणं न च बुधे देयं कदाचिद्धनम्” । “स्वात्या-
दित्येति । स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखा-
पुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशसु नक्षत्रेषु द्रव्य
प्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयं यदाह
भीमपराक्रमः “मृदुपुष्याश्विनी चैव विशाखाश्रवणत्रयम् ।
पुनर्वसौ च शंसन्ति घनादिनिधिवर्त्तनम् । वर्त्तन-
मृणादिरूपेण दानं मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्ते
ऋणदाने एव न निषेध इति विशेषः । हृतनष्टादौ तु
निषिद्धैव । अथ लग्ने चरे मेषकर्कतुलामकराणामन्यतमे
धर्मो नवमं सुतः पञ्चमम् अष्टशब्देन लक्षणयाष्टमस्था-
नमुच्यते तेषां शुद्धिः नवमपञ्चमस्थानयोः शुभग्रहसत्त्वं
पापग्रहराहित्यञ्च अष्टमे तूभयराहित्यमित्यर्थः । एवं
रूपया शुद्ध्या सहिते लग्ने ऋणं देयम् । उक्तञ्च
रत्नमालायां “शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने
द्रविणप्रयोगः” इति । अथाऽऽरे मङ्गलवार ऋण न ग्राह्यं
तदुक्तं ज्योतिःप्रक्राशे “ऋणं भौमे न गृह्णीयान्न देयं
बुधवासरे । ऋणच्छेदं कुजे कुर्यात् सञ्चयं सोमनन्दने” ।
अत्र तुर्विशेषे संक्रमः संक्रान्तिः तद्दिवसे, वृद्धौ वृद्धियोगे
करेऽर्केऽह्नि हस्तनक्षत्रसहिते रविवारे हस्तार्के इति
यावत्तत्रापि ऋणं न आह्यमिति प्रत्येकं सम्बन्धः । ननु
कुतो न आह्यमित्यत आह यदिति यद्यस्माद्धेबोस्त-
दृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् तदृणं तत्पुत्र-
पौत्रादिभिरपि परिहर्त्तुमशक्यमित्यर्थः अर्थादेषु
भौमसंक्रान्त्यादिदिनेषु ऋणमवश्यं परिहर्त्तव्यमिति
निष्कृष्ठोर्थः । “हस्तेऽर्कवारे संक्रान्तौ यदृणं स्यात् कुलेषु तत ।
वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेदिति” ज्योतिः
प्रकाशकारोक्तेश्च । अथ बुधे बुधवारे कदाचिदप्यृणं
न देयम् । “न देयं बुधवासरे” इत्यधुनैवोक्तत्वात् । पी० धा०
तत्र निषिद्धनक्षत्रादि तत्रैवोक्तं यथा
“तीक्ष्णमिश्रध्रुवोग्रैर्यद्द्रव्यं दत्तं निवेशितम् । प्रयुक्तञ्च
विनष्टञ्च विष्ट्यां पाते न चाप्यते” मु० चि० “तीक्ष्णेति
तीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्द्रव्यं सुवर्णादि दक्षं
कलान्तरं विनैव दत्तं न तु स्वत्वपरित्यागेन, तद्दत्तमित्युच्यते
निवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं प्रयुक्तं
कलान्तररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मै चिद्दत्तं,
विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं
तद्द्रव्यं निश्चयेन कदाचिदपि नाप्यते तथा विष्ट्यां
भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं न
प्राप्यते चकाराद्ग्रहणेऽपि न देयसिति व्याख्येयं
वसिष्ठवाक्यस्वरसात् उक्तञ्च वसिष्ठेन “ध्रुवोग्रसाधारण-
दारुणर्क्षे निक्षिप्तमर्थं त्वथ वा प्रनष्टम् । चौरैर्हृतं
दत्तमुपप्लवे वा विष्ट्याञ्च पाते न च लभ्यते तत्” । उपप्लवे
ग्रहणे । यत्तु केचिद्व्याकुर्वते “निश्चयेन चौरहृतस्य द्रव्यस्य
पृष्ठ ३८४०
प्राप्त्यप्राप्तिविचारोऽन्धकादिनक्षत्रैरेव बालाभोऽन्धके
निकट एव हृतस्य चौरैरित्युक्तत्वात् । चौरानिर्णये-
त्वनेनैव विचारः” तच्चिन्त्यं वसिष्ठवाक्येऽपि चौरैर्हृ-
तमिति साक्षाच्चौरपदोपादानाद्येन केनापि विचारः
कर्त्तव्य इति युक्तमुत्पश्यामः । एवं चौरानिर्णयेऽपि
स्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चय
एव उभयैक्याभावे तु प्रयत्नेनेति” ।

धनप्रिया स्त्री काकजम्बुवृक्षे राजनि० ।

धनर्च पु० धनार्थमर्चा यस्य वेदे सक० । धनार्थार्चायुक्ते

वह्नौ “नार्वणं धनर्चम्” ऋ० १० । ४६५ ।

धनवत् त्रि० धन + अस्त्यर्थे मतुप् मस्य वः । धनस्वामिनि

“रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः” “धनवन्तं प्रजा-
वन्तं सात्विकं धार्मिकं तथा” मनुः स्त्रियां ङीप् । सा
च २ धनिष्ठानक्षत्रे जटा० । तस्य च धनदेवताकत्वात्
तथात्वम् ।

धनसनि त्रि० सन--सम्मक्तौ इन् ६ त० । धनलाभयुक्ते

“तद्य इमे वीणायां गायन्त्येनं ते गायन्ति । तस्मात्ते
धनसनयः” छा० उ० । “धनसनयो धनलाभयुक्ता
धनवन्तः” भा० ।

धनस्थान न० धनचिन्तनार्थं स्थानग् । लग्नात् द्वितीयस्थाने ।

धनस्य नामधातुः लालसया धनमिच्छति धन + क्यच्

लालसायां सुक् अक० प० सेट् । धनस्यति अधनस्यीत् । पक्षे
असुक् धनास्यति इति भेदस्तत्रार्थे ।

धनस्यक त्रि० धनस्य नामधातुः ण्वुल् । १ लालसया धनेच्छौ

२ गोक्षुरे पु० शब्दच० ।

धनहर त्रि० धनं हरति हृ--ताच्छील्यादौ ट ।

१ धनहरणशीले चोरे स्त्रियां ङीप् सा च २ चोरनामग-
न्धद्रव्ये स्त्रा अमरः तस्या धनहरचोरनामतुल्यनामक-
त्वात्तथात्वम् ।

धनहृत् त्रि० धनं हरति हृ--क्विप् तुक् । १ धनहारिणि २ चण्डालकन्दे पु० पारस्करनि० ।

धनाधिकारिन् त्रि० धनमधिकरोति अधि + कृ--णिनि

६ त० । धनाध्यक्षे (तहविलदार) ख्याते कोशाध्यक्षे ।
अधि + कृ--क्विप् तुक् । धनाधिकृदप्यत्र ।

धनाधिगोप्तृ त्रि० धनमधिगोपायति अधि--गुप--वा

आयाभाव तृच् । १ धनपालके (खाचाञ्चि) ख्याते कोषा-
ध्यक्षे स्त्रियां ङीप् । २ कुवेरे पु० । “स तद्गृहस्यो-
परि वर्त्तमान आलोकयामास धनाधिगोप्ता” भा० उ०
१९३ अ० ।

धनाधिप त्रि० धनमधिपाति अधि + पा--रक्षणे क ६ त० । १

धनरक्षके (खाजाञ्चि) कोषाध्यक्षे २ कुवेरे पु० अमरः । “धना-
धिपेन विद्धस्य अनुह्रादस्य संयुगे” हरिवं० २५१ अ० ।

धनाधिपति पु० ६ त० । १ कुवेरे “अनुचरेण धनाधिपतेरथो-

नगविलोकनबिस्मितमानसः” किरा० । “कौवेरं प्रययौ
तीर्थं यत्र तप्त्वा महत्तपः । धनाधिपत्यं संप्राप्तो
राजन्नैलविलः प्रभुः” भा० शा० १८ अ० । अधिपतेर्भावः
ष्यञ् आधिपत्यम् धनस्याधिपत्यमित्यर्थः ।

धनाध्यक्ष त्रि० ६ त० । (खाजाञ्चि) १ कोषाध्यक्षे “लोह-

वस्त्राजिनादीनां रत्नानाञ्च विधानवित् । विज्ञाता फल्गु-
साराणामनाहार्य्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च
धनाध्यक्षः प्रकीर्त्तितः । आयद्वारेषु सर्वेषु धनाध्यक्ष
समा नराः । व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवी-
क्षिता” इति मत्स्यपु० २१४ अ० तल्लक्षणमुक्तं २ कुवेरे पु०

धनाय नामधातुः आत्मनो धनमिच्छति क्यच् गर्द्धार्थे नि० ।

गर्द्धेन धनेच्छायाम् । पर० अक० सेट् । धनायति
अधनायीम् । “शूद्रा यदर्थजारा न पोषाय
धनायति” यजु० २३ । ३० । “आनन्तर्य्यञ्चारभते न प्राणानां
धनायते” ना० ता० १३२ अ० । आर्षस्तङ् ।
अगर्द्धे तु धनीयतीत्येव ।

धनायु पु० नृपभेदे विष्णपु० ।

धनार्थिन् त्रि० धनमर्थयते अर्थ + णिनि ६ त० । धनप्रार्थके

“न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः” मनुः ।

धनाशा स्त्री ६ त० । धनलोभे “जीर्य्यन्ति जीर्य्यतः केशा

दन्ता जीर्य्यन्ति जीर्य्यतः । धनाशा जीविताशा च
जीर्य्यतोऽपि न जीर्य्यति” हरिवं० ३० अ० ।

धनाश्री स्त्री रागिणीभेदे (धानसी) सा च हनुमन्मते श्री-

रागस्य तृतीया भार्य्या । कलनाथमते मेघरागस्य चतुर्थी
भार्य्या ।

धनिक त्रि० धनमादेयत्वेनाऽस्त्यस्य ठन् । उत्तमर्णे अधमर्ण-

सकाशात् स्वप्रयुक्तधनग्राहके । “एकच्छायाश्रितेष्वेषु
धनिकस्य यथारुचि” याज्ञ० । २ साधौ वणिजि ।
धन--बा० इक । ३ धन्याके पु० मेदि० राजनि० क्लीवत्वम् ।
४ धवे स्वामिनि पु० हेमच० । धनी स्वार्थे क । धानका
५ धनिकभार्यायां बणिक् स्त्रियां स्त्री मेदि० । ६ बध्वाम्
हेमच० ७ युवत्यां शब्दरत्ना० ८ प्रियङ्गुवृक्षे स्त्री शब्दच० ।
दशरूपकग्रन्थव्याख्यातरि ९ विष्णुसूनौ विद्वद्भेदे पु०
पृष्ठ ३८४१

धनिन् त्रि० धनमस्त्यस्य धन + इनि । धनवति “धनिनः श्रो-

त्रियो राजा नदी वैद्यश्च पञ्चमः” चाणक्यः । “महापक्षे
धनिन्यार्य्ये निःक्षेपं निःक्षेपेद्बुधः” मनुः ।

धनिष्ठ त्रि० अतिशयेन धनी इष्ठन् इनो लोपः । १ अतिशय-

धनयुक्ते स्त्रियां टाप् सा च अश्विन्यादिमध्ये २ त्रयोविंशे
नक्षत्रे स्त्री तस्या वसुदेवताकत्वात् तथात्वम् । अश्लेषा
शब्दे तत्स्वरूपादिकं दृश्यम् । तत्र धनिष्ठा पञ्चतारा
इत्येव पाठः मुद्रादोषात् पञ्चतारेति त्रुटितम् । “मस्त-
कोपरिसमागते धने मर्दलाकृतिनि पञ्चतारके । यान्ति
कान्तिमति मेषलग्नतः सारसाक्षिरसधस्रलिप्तिकाः”
कालिदासः ।

धनी स्त्री धनमस्त्यस्याः अच् गौरा० ङीष् । १ युवत्यां स्वार्थे

कापि वा न ह्रस्वः । धनीकापि तत्रार्थे शब्दच० ।

धनीय नामधातुः आत्मनोऽलोभेन धनमिच्छति क्यच् प०

अक० सेट् । धनीयति अधनयीत् । गर्द्धे तु धनायतीत्येव

धनीयक न० धनाय हितः छ संज्ञायां कन् । धन्याके

रत्नमा० ।

धनु पु० धन--उन् । १ प्रियङ्गुवृक्षे २ धनुर्द्धरे त्रि० मेदि० ।

३ शीघ्रगन्तरि च “शव्याहरी धनुतरौ” ऋ० ४ । ३५ । ५ ।
“धनुतरौ शीघ्रगन्तृतरौ” भा० । ४ धनुषि च धन्वन्तरिः ।

धनुःपट पु० धनुष इव पटो विस्तारोदले यस्य । (पियासाल)

वृक्षे वा षत्वे धनुष्पटोऽप्यत्र अमरः ।

धनुःशाखा स्त्री धनुषः शाखा यस्याः । १ मूर्वायाम् शब्दच० ।

धनुरवयव इव शाखा यस्याः । २ पियालतरौ शब्दच०

धनुःश्रेणी स्त्री धनुषः श्रेणीव । १ महेन्द्रवारुण्यां २ मूर्वायाञ्च ।

राजनि० ।

धनुर्गुण पु० ६ त० । १ मौर्व्यां जीवायां शब्दच० । धनुषो गुणी

यस्याः सकाशात् ५ व० । २ मूर्वायां स्त्री शब्दर० ।

धनुर्ग्रह पु० धनुस् + अनुद्यमने ग्रह--अच् । धनुर्द्धरे

तद्ग्राहके तु अण् धनुर्ग्राह इत्येव । २ धृतराष्ट्रपुत्रभेदे ।
“कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः” भा०
आ० ६७ अ० तत्पुत्रोक्तौ । ग्रह--भावे अप् ६ त० ।
धनुर्विद्यायाम् “गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्”
भा० शा० २१० अ० । ग्रहेर्ज्ञानार्थत्वात् तथात्वम् ।

धनुर्द्रुमः पु० धनुषः साधनं द्रुमः । वंशवृक्षे राजनि० । तस्य

धनुःसाधनत्वात् तथात्वम् ।

धनुर्द्धर पु० धनुर्धरति धृञ् अच् ६ त० । धानुष्के धन्विनि

अमरः “धनुर्द्धरः केशरिणं ददर्श” “क्षितावभूदेकधनु-
र्द्धरोऽपि सः” रघुः । २ धृतराष्ट्रपुत्रभेदे “कवची क्रथनः
कुण्डी कुण्डधारी धनुर्द्धरः” भा० शा० ११७ तत्
पुत्रोक्तौ । ३ विष्णौ पु० । “धनुर्द्धरो धनुर्वेदः” विष्णुसं० ।

धनुर्द्धारिन् त्रि० धरति धृ--णिनि ६ त० । धानुष्के ।

“शूरश्च रणदक्षस्य गजाश्वरथकोविदः । धनुर्द्धारी
भवेद्राज्ञः सर्वक्लेशसहः शुचिः” मत्स्यपु० २१४ अ० तस्य
लक्षणमुक्तम् ।

धनुर्भृत् पु० बिभर्त्ति भृ--कर्त्तरि क्विप् तुक् ६ त० । धनुर्द्धरे

धानुष्के । “धनुर्भृतोऽप्यस्य दयार्द्रभावम्” धनुर्भृता-
मग्रत एव रक्षिणाम्” रघुः ।

धनुर्मख पु० धनुरुपलक्षितो मखः । कृष्णाह्वानार्थं कंसेन

छलतः कृते यज्ञभेदे । “राजा धनुर्मखं नाम कारयिष्यति
वै सुखी” हरिवं० ७९ अ० । धनुर्यागादयोऽप्यत्र ।
“आरभ्यतां धनुर्यागश्चतुर्दश्याम् यधाविधि । विशसन्तु
पशून् मेध्यान् भूतराजाय मीढुषे” भाग० १० । ३६ । २२ ।
“समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः” हरिवं० ८ अ० ।

धनुर्मध्य न० ६ त० । धनुषो मध्यभागे हस्तके धन्विभिर्यत्र

धनुर्गृह्यते तस्मिन् स्थाने अमरः ।

धनुर्माला स्त्री धनुषो मालः सम्बन्धो यस्याः । मूर्वा-

लतायाम् शब्दच० ।

धनुर्यास पु० धनुरिव यासः । दुरालभायां सारसुन्दरी ।

धनुर्लता स्त्री धनुरवयवयोग्या लता । सोमवल्ल्यां राजनि० ।

धनुर्वक्त्र पु० धनुरिव वक्त्रमस्य । कुमारानुचरभेदे । “विद्यु-

ताक्षो धनुर्वक्त्रो जाठरोमारुताशनः” भा० श० ४६ अ०
तदनुचरोक्तौ ।

धनुर्विद्या स्त्री धनुषो विद्या । धनुरादीनां प्रयोगसंहार-

ज्ञापके विद्याभेदे तदारम्भनक्षत्रादि दीपिकायामुक्तं
यथा “अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवह-
रिवसुमूलाश्वीन्दुभाग्यान्त्यभेषु । विशनिशशिबुधाहे विष्णु-
बोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानमिति” ।

धनुर्वृक्ष पु० धनुः साधनं धनुरिव वा वृक्षः । १ वंशे २ धन्वन-

वृक्षे ३ भल्लातकवृक्षे ४ अश्वत्थवृक्षे च राजनि० ।

धनुर्वेद पु० धनूंषि तदादीन्यस्त्राणि विद्यन्ते ज्ञायन्तेऽनेन

विद--ज्ञाने करणे घञ् । यजुर्वेदस्योपवेदभेदे स च लुप्त-
प्रायः अग्निपु० तत्र प्रतिपद्यविषयादिकमुक्तं यथा
“अग्निरुवाव । चतुष्पादं धनुर्बेदं वदे पञ्चविधं द्विज! ।
रथनागाश्वपत्तीनां योघांश्चाश्रित्य कीर्त्तितम् । यन्त्र-
मुक्तं १ पाणिमुक्तं २ मुक्तसन्धारितं ३ तथा । अमुक्तं ४
बाहुयुद्धञ्च ५ पञ्चधा तत् प्रकीर्त्तितम् । तत्र शस्त्रास्त्र-
पृष्ठ ३८४२
सम्पत्त्या द्विविधं परिकीत्तितम् । ऋजुमायाविभेदेन
भूयो द्विविधमुच्यते । क्षेपणीचापयन्त्राद्यैर्यन्त्रमुक्तं,
प्रकीर्त्तितम् । शिलातोमरपत्र्याद्यं पाणिमुक्तं २ प्रकी-
र्त्तितम् । मुक्तसन्धारित ३ ज्ञेयं प्रासाद्यमपि यद्धवेत् ।
खङ्गादिकममुक्तञ्च ४ नियुद्धं विगतायुधम् ५ । कृर्य्याद्यो-
ग्यानि पात्राणि योद्धुमिच्छुर्ज्जितश्रमः । धनुःश्रेष्ठानि
युद्धानि प्रासमध्यानि तानि च । तानि खङ्गजघन्यानि
वाहुप्रच्यवनानि च । धनुर्वेदे गुरुविप्रः प्रोक्तो वर्णद्वयस्य
च । युद्धाधिकारः शूद्रस्य स्वयं वापदि शिक्षया ।
देशस्थैः सङ्करै राज्ञः कार्य्या युद्धे सहायता । अङ्गुष्ठ-
गुल्फपार्ष्ण्यङ्घ्रि श्लिष्टाः स्युः सहिता यदि । दृष्टं
समपदं स्थानमेतल्लक्षणतस्तथा । बाह्याङ्गुलिस्थितौ पादौ
स्तब्धजानुबलावुभौ । त्रिवितस्त्वन्तरास्थानमेतद्वैशाखमु-
च्यते । हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।
चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतम् । हलाकृति-
समं यच्च स्तब्धजानूरुदक्षिणम् । वितस्त्यः पञ्च विस्तारे
तदादोढं प्रकीर्त्तितम् । एतदेव विपर्य्यस्तं प्रत्याली-
ममिति स्मृतम् । तिर्य्यग्भूतो भवेद्वामो दक्षिणोऽपि
भवेदृजुः । गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुला-
न्धरौ । स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतम् ।
ऋजुजानुर्भयेद्वामो दक्षिणः सुप्रसारितः । अथ वा दक्षि-
णञ्जानु कुब्जं भवति निश्चलम् । दण्डायतो भवेदेष
चरणः सह जानुना । एवं विकटसुद्दिष्टं द्विहस्ता-
न्तरमाथतम् । जानुनी द्विगुणे स्यातामुत्तानौ चरणा-
बुभौ । अनेन विधियोगेन सम्पुटं परिकीर्त्तितम् ।
किञ्चिद्विवर्त्तितौ पादौ समदण्डायनौ स्थिरौ ।
दृष्टमेव यथान्यायं षोड़शाङ्गलमायतम् । स्वस्तिकेनात्र
कुर्वीत प्रमाणं प्रथमं द्विज! । कार्मुकं गृह्य
वामेन वाणं दक्षिणकेन तु । वैशाखे यदि वा जाते
स्थितौ वाप्यथ वायतौ । गुणान्तन्तु ततः कृत्वा कार्मुके
प्रियकार्मुकः । अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः ।
धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च । भुजा-
भ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभघ्रत! । यस्य वाणं
धनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः । विन्यासो धनुषश्चैव
द्वादशाङ्गुलमन्तरम् । ज्यया विशिष्टः कर्त्तव्यो नाति-
हीनो न चाधिकः । निवेश्य कार्मुकं नाभ्यां
नितम्बे शरसञ्चयम् । उत्क्षिपेदुत्थितं हस्तमन्तरेणा-
क्षकर्णयोः । पूर्वेण मुष्टिना ग्राह्यं स्तनाग्रेदक्षिणे शरः ।
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् । नाभ्यन्तरा
नैव बाह्या नोर्द्धका नाधरा तथा । न च कुब्जा न
चोत्ताना न चला नातिवेष्टिता । सना स्थैर्य्यगुणीपेता मौर्वीं
दण्डमिव स्थिता । छादयित्वा ततो लक्ष्यं पूर्वेणानेन
मुष्टिना । उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।
स्तब्धाङ्गो निश्चलग्रीवो मयूराञ्चितमस्तकः । ललाटनासा-
वक्त्रांसाः कुर्युरश्वसमम्भवेत् । अन्तरं त्र्यङ्गुलं ज्ञेयं
चिवुकस्यांसकस्य च । प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये
द्व्यङ्गुलं स्मृतम् । तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः ।
गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु । अनामया
पुनर्गृह्य तथा मध्यमयापि च । तावदाकर्षयेद्वेगाद्या-
वद्वाणः सुपूरितः । एवंविधसुपक्रम्य मोक्तव्यं विधि-
वत् खगम् । दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन
सुव्रत! । मुक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ।
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज! । कूर्परन्तदधः
कार्य्यमाकृष्य तु धनुष्मता । ऊर्द्ध्वं विसुक्तके कार्य्ये-
लक्षश्लिष्टन्तु मध्यमम् । श्रेष्ठं प्रकृष्टं विज्ञेयं धनुः-
शास्त्रविशारदैः । ज्येष्ठस्तु सायको ज्ञेयो भवेत्द्वादश-
मुष्टयः । एकादश तथा मध्यः कनीयान्दश मुष्टयः ।
चतुर्हस्तं घनुःश्रेष्टं त्रयः सार्द्धास्तु मध्यमम् ।
कनीयस्तु द्वयं प्रोक्तं नित्यमेव पदातिनः । अश्वे रथे गजे
श्रेष्ठे तदेव परिकीर्त्तितम्” २४८ अ० । अग्निरुवाच ।
“पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायुधान् । सुनिर्धौतं
घनुः कृत्वा रङ्गभूमौ निधापयेत् । ततो वाणं समागृह्य
दंशितः सुसमाहितः । तूणमासाद्य बध्नीयाद्दृढां कक्षाञ्च
दक्षिणाम् । विलक्ष्यमपि तद्बाणं तत्र चैव सुसंस्थितम् ।
ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना । तेनैव
सहितं मध्ये शरं सङ्गृह्य धारयेत् । वामहस्तेन वे
कक्षां धनुस्तस्मात्समुद्धरेत् । अविषण्णमतिर्भूत्वा गुणे
पुङ्खं निवेशयेत् । सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे
दृढ़ः । वासकर्णोपविष्टञ्च फलं वामस्य धारयेत् । वर्णान्
मध्यनया तत्र वामाङ्गल्या च धारयेत् । मनो लक्ष्यगतं
कृत्वा मुष्टिना च विधानवित् । दक्षिणे गात्रभागे तु
कृत्वा वाणं विमोक्षयेत् । ललाटपुटसंस्थानं दण्डं
लक्ष्ये निवेशयेत् । आकृष्य ताड़येत्तत्र चन्द्रकं षोड़-
शाङ्गुलम् । मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा
तथा । निगृह्णीयान्मध्यमया ततोऽङ्गुल्या पुनः पुनः ।
अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्नुञ्च दक्षिणम् । चतुरस्म-
पृष्ठ ३८४३
गतं वेध्यमभ्यसेच्चादितः स्थितः । तस्मादनन्तरं तीक्ष्णं
परावृत्तं गतञ्च यत् । निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्र-
कन्ततः । वेध्यस्थानेष्वथैतेषु सन्न्यस्य पुटकं धनुः । हस्ता-
वापशतैश्चित्रैस्तर्जयेद्दुस्तरैरपि । तस्मिन् वेध्यगते विप्र!
द्वे बेध्ये दृढसञ्ज्ञके । द्वे वेध्ये दुष्करे वेध्ये द्वे
तथा चित्रदुष्करे । नतनिम्नञ्च तीक्ष्णञ्च दृढ़वेध्ये
प्रकीर्त्तिते । निम्नं दुष्करमुद्दिष्टं वेध्यमूर्द्ध्वगतञ्च
यत् । लस्तकायनमध्ये तु चित्रटुष्करसञ्ज्ञके । एवं
वेध्यगुणङ्कृत्वा दक्षिणेनेतरेण च । आरोहेत् प्रथमं
वीरो जितलक्ष्यस्ततो नरः । एष एवंविधः प्रोक्तस्तत्र
दृष्टः प्रयोक्तृभिः । अधिकं भ्रमणं तस्य तस्माद्वेध्यात्
प्रकीर्त्तितम् । लक्ष्यं संयोजयेत्तत्र पत्रिपत्रगतं
दृढ़म् । भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदति ।
समन्तात्ताड़येद् भिन्द्याच्छेदयेद्व्यथयेदपि । कर्मणां संवि-
धानज्ञो ज्ञात्वैवं विधिमाचरेत् । मनसा चक्षुषा दृष्ट्या
योगशिक्षुः श्रमं जयेत्” २४९ अ० “अग्निरुवाच । जितहस्तो
जितमतिर्जितदृग् लक्ष्यसाधकः । नियतां सिद्धिमासाद्य
ततो वाहनमारुहेत् । दशहस्तो भवेत् पाशो वृत्तः
करमुखस्तथा । गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्क्कवर्मि-
णाम् । अन्येषां सुदृढ़ानाञ्च सुकृतं परिवेष्टितम् । तथा
त्रिंशत्समं पाशं बुधः कुर्य्यात् सुवर्त्तितम् । कर्त्तव्यं
शिक्षकैस्वस्य स्थानं कक्षासु वै तदा । वामहस्तेन
सङ्गृह्य दक्षिणेनोद्धरेत्ततः । कुण्डलस्याकृतिं कृत्वा भ्रा-
म्बैकं मस्तकोपरि । क्षिपेत् तूणमये तूर्णं पुरुषे चर्म-
वेष्टिते । वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च ।
मम्प्रयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम् । विजित्य
तु यथान्यायं ततो बन्धं समाचरेत् । कट्याम्बद्ध्वा ततः
खड्गं वामपार्श्वावलम्बितम् । दृढं निगृह्य वामेन
निष्कर्षेद्धक्षिणेन तु । षड़ङ्गुलपरीणाहं सप्तहस्तसमु-
च्छ्रितम् । अयोमय्यः शलाकाश्च कर्माणि विविधानि
च । अर्द्धहस्ते समे चैव तिर्य्यगूर्द्ध्वगतं तथा ।
योजयेद्विधिना येन तथा त्वङ्गदतः शृणु । तूणचर्मावनद्धाङ्गं
स्थापयित्वा नवं दृढ़म् । करेणादाय लगुड़ं दक्षिणाङ्गुलकं
नवम् । उद्यम्य घातयेद्यस्य नाशस्तेन रिपोर्दृढ़म् ।
उभाभ्यामथ हस्ताभ्यां कुर्य्याद्यस्य निपातनम् । अक्ले-
शेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता । वाहानां
श्रमकरणं प्रचारार्थं पुरा तवं २५० “अग्निरुवाच ।
भ्यान्तमुदुभ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम् । सम्प्रातं
समुदीर्णञ्च श्येनपातमथाकुलम् । उद्धूतमवधूतञ्च सध्यं
दक्षिणमेव च । अनालक्षितविस्फोटौ करालेन्द्रमहा-
मुखौ । विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्द्धतृतीयांशपादपादार्द्धवारिजाः । प्रत्यालीढमथा-
लोढं वराहं लुलितन्तथा । इति द्वात्रिंशतो ज्ञेयाः
खड्गचर्मविधौ रणे । परावृत्तमपावृत्तं गृहीतं
लघुसञ्ज्ञितम् । ऊर्द्ध्वोत्क्षिप्तमधःक्षिप्तं सन्धारितविधा-
रितम् । श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा रणाः । ऋज्वायतं
विशालञ्च तिर्य्यग्भ्रामितमेव च । पञ्चकर्म विनिर्द्दिष्टं
व्यस्ते पाशे महात्मभिः । छेदनं भेदनं पातो भ्रमणं
शमनं तथा । विकर्त्तनं कर्त्तनञ्च चक्रकर्मेदमेव च ।
आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा ।
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितम् । दृष्टिघातं
भुजाघातं पार्श्वघातं द्विजोत्तम! । ऋजुपक्षे समायातं
तोमरस्य प्रकीर्त्तितम् । आहतं विहृतं चैव प्रभूतङ्क-
मलासनम् । ततोऽर्द्धगात्रं नमितं वामदक्षिणमेव च ।
आवृत्तञ्च परावृत्तं पादोद्धूतमवप्लुतम् । हंसमार्गं
विमर्दञ्च गदाकर्म प्रकीर्त्तितम् । करालमवधातञ्च
दंशोपप्लुतमेव च । क्षिप्तहस्तं स्थितं शून्यं परशोस्तु
विनिर्दिशेत् । ताड़नं छेदनं विप्र! तथा चूर्णनमेव
च । सुद्गरस्य तु कर्माणि तथा प्लवनघातनम् । संश्रा-
न्वमथ विश्रान्तं गोविसर्गं सुदुर्द्धरम् । भिन्दिपालख
कर्माणि लगुड़स्य च तान्यपि । अन्त्यं मध्यं
परावृत्तं निदेशान्तं द्विजोत्तम! । वज्रस्येतानि कर्माणि
पट्टिशस्य च तान्यपि । हरणं छेदनं घातो बलोद्धारण-
मायतम् । कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ।
त्रासनं रक्षणं घातो बलाद्धरणमायतम् । क्षेपणीकर्म
निर्दिष्टं यन्त्रकर्मैतदेव तु । सन्त्यागमवदंशश्च वराहो-
द्धूतकं तथा । हस्तावहस्तमालीनमेकहस्तावहस्तके ।
द्विहस्तबाहुपाशे च कटिरेचितकोद्गते । उरोललाट-
घाते च भुजाविधमनन्तथा । करोद्धूतं विमानञ्च पादा-
हति विपादिकम । गात्रसंश्लेषणं शान्तं तथा
गात्रविपर्य्ययः ऊर्द्ध्वप्रहारं घातञ्च गोमूत्रं सव्य-
दक्षिणे । पारकन्तारकं गण्डं कवचं विधमाकुलम् ।
तिर्य्यग्बन्धमपामार्गं भीमवेगं सुदर्शनम् । सिंहाक्रान्तं
गजाक्रान्तं गर्दभाक्रान्तमेव च । गदाकर्माणि जानी-
यान्नियुद्धस्याथ कर्म च । आकर्षणं विकर्पञ्च बाहूनां
पृष्ठ ३८४४
मूलमेव च । ग्रीवाविपरिवर्त्तञ्च पृष्ठमङ्गं सुदारुणम् ।
पर्य्यासनविपर्य्यासौ पशुमारमजाविकम् । पादप्रहार-
मास्फोटं कटिरेचितकन्तथा । गात्राश्लेषं स्कन्धगतं
महीव्याजनमेव च । उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं यथा । गजस्कन्धमव-
क्षेपमपराङ्मुखमेव च । देवमार्गमधोमार्गममार्गगमना-
कुलम् । यष्टिघातमवक्षेपो वसुधादारणन्तथा । जानु-
बन्धं भुजाबन्धं गात्रबन्धं सुदारुणम् । विपृष्ठं
सोदकं श्वभ्रं भुजावेष्टितमेव च । सन्नद्धैः संयुगे
भाव्यं सशस्त्रैस्तैर्गजादिभिः । वराङ्कुशधरौ चोभौ
एको ग्रीवागतोऽपरः । स्कन्धगौ द्वौ च धानुष्कौ द्वौ
च खड्गधरौ गजे । रथे रथे गजे चैव तुरङ्गाणां
त्रयं त्रयम् । धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य
च । धन्विनो रक्षणार्थाय चर्मिणन्तु नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनम् । यो
युद्धे याति स जयेदरीन् सम्पालयेद्भुवम्” ।
धनूंषि धनुषः प्रयोगोपसंहारान् वेत्ति जानाति
विदअण् उप० स० । २ धानुष्के त्रि० ३ विष्णौ पु० । “धनुर्द्धरो
धनुर्वेदः” विष्णुसं० । भावे घञ् । ४ विद्याभेदे अष्टादश-
विद्याशब्दे ५४२ पृ० दृश्यम् ।

धनुष पु० धन--बा० उषन् । ऋषिभेदे “धनुषाख्योऽथ रैभ्यश्च

अर्वावसुपरावसू” भा० शा० ३३८ अ० ।

धनुषाक्ष पु० ऋषिभेदे “आससाद महावीर्य्यं धनुषाक्षं

मनीषिणम्” भा० व० १२५ अ० ।

धनुष्कपाल पु० धनुषः कपालमिव इसुसोः सामर्थ्ये

षत्वम् । धनुरवयवे । कस्कादिषु पाठस्तु असामर्थ्यार्थः ।

धनुष्कर त्रि० धनुः करेऽस्य इसुसोः सामर्थ्ये षत्वम् ।

धनुर्हस्ते १ धानुष्के । धनुः करोति कृ--ट । २ चापकारके
शिल्पिभेदे त्रि० । अहत्वादौ तु अण् धनुष्कार ।
तत्करमात्रे त्रि० । “इषुकारं हेत्यै धनुष्कारं कर्मणे
ज्याकारं दिष्टाय” यजु० ३० । ७ ।

धनुष्पाणि त्रि० धनुः पाणौ यस्य इसुसोः सामर्थ्ये षत्वम् ।

धनुर्हस्ते “युवजानिर्धनुष्पाणिः” भट्टिः ।

धनुष्मत् त्रि० धनुः धार्य्यत्वेनास्त्यस्य मतुप् । धनुर्द्धरे अमरः ।

“भीष्मो धनुष्मानुपजान्वरत्निः । (जामदग्न्यः) भट्टिः ।

धनुस न० धन--शब्दे उसि । १ चापे शरनिक्षेपयन्त्रभेदे

अमरः । ज्याकर्षणोत्थशब्दयोगात्तस्य तथात्वम् ।
तल्लक्षणम् । “धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैव
च । कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ।
सुखसम्पत्तिकरणं सममुष्ट्यायतं घनुः । विपदो मुष्टि-
वैषम्ये तदङ्गे भङ्गमावहेत्” युक्तिकल्पतरुः । धनुर्वेद-
शब्दे तल्लक्षणादि दृश्यम् । २ पियालवृक्षे पु० मेषाव-
धिके ३ नवमे राशौ “ना स्वर्णभाः शैलसमोदयोऽतिशब्दो-
दिनं प्राक् दृढ़सूक्ष्मपीतः । रक्तोष्णपित्तो
धनुरल्पसूतिसङ्गो द्विमूर्त्तिर्द्विपदोग्निरुग्रः” नी० ता० ।
अयञ्च राशिः २१६०० कलात्मकस्य राशिचक्रस्य १४४००
कलोत्तरं १८०० कलात्मकः मूलपूर्वाषाढोत्तराषाढा
प्रथमचरणात्मकः । “मूलं पूर्वाषाढ़ा प्रथमश्चाप्यतारां-
शको धन्वी” ज्यो० त० । अस्य स्वरूपं “चापी नरोऽश्व
जघनः” वृहज्जा० । “अश्वतुल्यजघनः नरस्तेन चतुष्पा-
दित्यर्थः । यथाह यवनेश्वरः । “धन्वी मनुष्यो
हयपश्चिमार्द्धस्तमाहुः” भट्टोत्पलः । ४ चतुर्हस्तमाने
क्रोशशब्दे ३३४० पृ० दृश्यम् । ५ धनुर्द्धरे त्रि० शब्दार्थचि०
गोलक्षेत्रस्य व्यासार्द्धात् न्यूने ६ अंशभेदे चापशब्दे क्षेत्र-
शब्दे च दृश्यम् । “ज्यां प्रोज्झ्य शेषं तत्त्वाश्वि-
हतं तद्विवरोद्धृतम् । सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्य
धनुरुच्यते” सू० सि० । “यस्य धनुः कर्त्तुमिष्टं तस्मिन्न
शुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृतिगुणं तद्वि-
वरोद्धृतं तयोः शुद्धाशुद्धपिण्डयोरन्तरेण भक्तं फलं
शुद्धज्या यतमा ततमसङ्ख्यातत्त्वाश्विनोः संवर्गे घाते
संयोज्य सिद्धं धनुः कथ्यते । अत्रोपपत्तिः । ज्या यतमा
शुद्ध्यति ततमायाश्चापकलायास्ततमसङ्ख्यागुणिततत्त्वा-
श्विनः ज्यान्तरेण तत्त्वाश्विकलास्तदा शेषज्यायाः
केत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा” रङ्ग० ।
बहु० अनङ् । धृतधन्वा इत्यादि धन्वना शब्देनैव तत्प्रयो-
गोपपत्तौ धृतधनुरित्यादिप्रयोगनिरासार्थमनङ्विधानम् ।

धनुस्तम्भ पु० सुश्रुतोक्ते विकृते वायुभेदे । “धनुस्तुल्यं

नमेद्यस्तु स धनुस्तम्भसंज्ञकः” तत्र लक्षितम् ।

धनू स्त्री धन--ऊ । धनुषि उज्व० ।

धनेयक न० धन्याक + पृषो० । धन्याके भरतः ।

धनेश पु० ६० । १ कुवेरे “इमे चैवाष्टकलशाः निधीनामंशस-

म्भवाः । अक्षया राजराजस्य धनेशस्य महात्मनः” हरिवं०
१०८ । २ लग्नात् द्वितीयस्थानपतौ च । धनेश्वरादयो-
ऽप्यत्र । “धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे” भा० उ०
१९२ अ० । “भाग्येशराज्येशधनेश्वराणामेकोऽपि चन्द्राद्यदि
केन्द्रवर्त्ती । स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसामाज्यपति-
त्वमेति” ज्यो० त० । ३ विष्णौ “रत्नगर्भो धनेश्वरः” विष्णुस० ।
पृष्ठ ३८४५

धन्ध न० धन--बा--ध । अल्पाकारे त्रिका० । स्वार्थे ष्यञ्

धान्ध्यमप्यत्रार्थे त्रिका० ।

धन्य त्रि० धनं लब्धा “धनगणं लब्धा” पा० यत् । धनस्य निमित्तं

संयोग उत्पातो वा “गोद्व्यच” पा० यत् । धनाय हितं
वा यत् । १ धनस्य लब्धरि २ धननिमित्ते संयोगादौ ३
धनप्रयोजनके ४ धनाय हिते ५ श्लाघ्ये च । ६ अश्वकर्णवृक्षे पु०
राजनि० ७ सुखवति ८ सुकृतिनि त्रि० अमरः । “धन्यासि
वैदर्भि! गुणैरुदारैः” नैष० । “धन्यास्ता गुणरत्न-
रोहणभवो धन्या मृदन्यैव सा” सा० द० । “धन्योऽसि
यस्य हरिरेष समक्ष एव” माघः । “धन्यं यशस्यमा-
युष्यं स्वर्ग्यं चातिथिपूजनम्” मनुः । ९ कृतार्थे त्रि० ।
१० विष्णौ पु० “सुमेधा मेधजो धन्यः” विष्णुस० । “धन्यः
कृतार्थः” भा० । ११ आमलक्यां धात्र्याम् १२ उपमातरि
मेदि० १३ पिण्डारकवनदेवताभेदे च स्त्री १४ धन्याके स्त्री
हेमच० ।

धन्यव्रत न० धनाय हितं यत् धन्यं कर्म० । वराहपु० उक्ते व्रतभेदे ।

धन्याक पु० धन्यते भक्षार्थिभिः पिन्याकादि० नि० ।

(धनिया) ख्याते पदार्थे “शिलायां साधुसम्पिष्टं धन्याकं
वस्त्रगालितम् । शर्करोदकसम्मिश्रं कर्पूरादिसुसंस्कृतम् ।
नवीने मृण्मये पात्रे स्थितं पित्तहरं परम्” भावप्र० ।

धन्व गतौ सौ० भ्वा० प० सक० सेट् । धन्वति अधन्वीत् दधन्व ।

“राजाय धन्याय धन्वसि” ऋ० ९ । ८६ । ३१ “परिषिच्य-
मानाः क्षयं सुवीरं धन्वन्तु सोमाः” ९ । ९७ । २६ ।

धन्व न० धन्व--अच् । १ चापे भरतः । “धनुर्द्धराय देवाय

प्रियधन्वाय धन्विने” भा० द्रो० १०३ अ० । २ धन्वन्तरि-
पितरि राजभेदे “काश्यस्य काश्यपः पुत्रो राजा
दीर्घतपास्तथा । धन्वस्तु दीर्घतपसो धन्वात् धन्वन्तरिः
सुतः” हरिवं० २९ अ० ।

धन्वङ्ग पु० धनोः धनुषोऽङ्गमिवाङ्गमस्य । (धामनि) ख्याते

वृक्षभेदे “धन्वङ्गः कफपित्तास्रकासहृत् तुवरो मधुः ।
वृंहणो बलकृद्रूक्षः सन्धिकृद् व्रणरोपणः” भावप्र० ।

धन्वचर त्रि० धन्वना धनुषा सह चरति चर--ट । १ धानुष्के ।

“धन्वचरो न वंसगः” ऋ० ५ । ३६ । १ ।

धन्वज धन्वनि मरुदेशे जायते जन--ड । १ मरुभवे “जङ्ग-

लानां धन्वजानाञ्च पिप्पल्यासवम्” सुश्रुतः ।

धन्वदुर्ग न० धन्वना वृतं दुर्गम् । चतुर्दिशं पञ्चयोजनमरु-

वेष्ठिते दुर्गभेदे दुर्गशब्दे दृश्यम् ।

धन्वन् पु० धवि--कनिन् । १ अल्पोदकदेशे मरुदेशे अमरः ।

धन्वति शरोऽस्मात् अपादाने कनिन् । २ चापे ३ स्थलमात्रे
च मेदि० । ४ आकाशे माधवः “धन्वच्युत इषां न यामनि”
ऋ० १ । १६८ । ५ । धन्वच्युतः आकाशच्युतः धन्वन्शब्दो-
ऽन्तरीक्षस्य वचनः तेन तत्स्थमुदकं लक्ष्यते” भा० ।

धन्वन पु० धन्व--सौ० ल्यु । (धामनि) इति ख्याते धन्वङ्ग-

वृक्षे रत्नमाला । “चन्दनैः स्यन्दनैः सालैः सरलै-
र्देवदारुभिः । वेतसैर्धन्वनैश्चापि ये चान्ये वलवत्तराः”
भा० शा० ११५ अ० ।

धन्वन्तर न० चतुर्हस्तमिते दण्डरूपे परिमाणभेदे ।

“वितस्तिः स्यादतो द्वाभ्यां हस्तः स्यात्तच्चतुष्टयम् । दण्डो
धन्वन्तरं तस्य सहस्रद्वितयेन तु” (क्रोशः) त्रिका० ।

धन्वन्तरि पु० धनोः तन्निमित्तशल्यस्यान्तं पारमृच्छति

ऋगतौ इन् किच्च । १ समुद्रोत्थिते देववैद्यभेदे । धन्वन्तरि-
स्ततो देवोवपुष्मानुदतिष्ठत” भा० आ० १८ अ० । द्वापरे
तस्योत्पत्तिकथा हरिवं० १९ अ० यथा ।
“धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ! । स सम्भूतः
समद्रात्तुमथ्यमानेऽमृते पुरा । उत्पन्नः कलशात् पूर्वं
सर्वतस्तु श्रिया वृतः । अभ्यसन् सिद्धिकार्य्यं हि विष्णुं
दृष्ट्वा हि तस्थिवान् । अब्जस्तमिति होवाच तस्माद-
ब्जस्तु स स्मृतः । अब्जः प्रोवाच विष्णुं वै तनयोऽस्मि
तव प्रभो! । विधत्स्व भागं स्थानञ्च मम लोकेश्वरेश्वर! ।
एवमुक्त्वा स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः । कृतो यज्ञ
विभागो हि यज्ञियैर्हि सुरैः पुरा । देवेषु विनियुक्तञ्च
विधिहोत्रं महर्षिभिः । न शक्यमुपहोमो वै तुभ्यं
कर्तुं कदाचन । अर्वाग्भूतोऽसि देवानां पुत्रस्त्वं हि
महीश्वरः । द्वितीयायान्तु संभूत्यां लोके ख्यातिं
गमिष्यसि । अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ।
तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो! । चरुमन्त्रै-
र्व्रतैर्जप्यैर्यक्ष्यन्ति त्वां द्विजातयः । अष्टधा त्वं पुनश्चैव-
मायुर्वेदं विधास्यसि । अवश्यभावी ह्यर्थोऽयं प्राग्-
दृष्टस्त्वब्जयोनिना । द्वितीयं द्वापरं प्राप्य भवितां त्वं
य संशयः । इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ।
द्वितीये द्वापरे प्राप्ते सौनहोत्रिः स काशिराट् । पुत्रका-
मस्तपस्तेपे धन्वो दीर्घं महत्तदा । प्रपद्ये देवतां तान्तु
या मे पुत्रं प्रदास्यति । अब्जं देवं स पुत्रार्थे तदाराधि-
तवान्नृपः । ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।
यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत! । नृप
पृष्ठ ३८४६
उवाच । भगवन्! यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान्
भव । तथेति समनुज्ञाय तत्र वान्तरधीयत । तस्य गेहे
ममुत्षन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराजः
सर्वरोगप्रणाशनः । आयुर्वेदं भरद्वाजात् प्राप्येह स
भिषक्क्रियम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्य
पादयत् । धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः । पुत्रो
भीमरथस्यापि दिवोदासः प्रजेश्वरः । दिवोदासस्तु
धर्मात्मा वाराणस्यधिपोऽभवत्” आयुर्वेदशब्ददर्शित
वाक्ये काशिराजस्य दिवोदासस्य धन्वन्तरितोक्तिः
तदपत्ये उपचारात् अतो न विरोधः । “धन्वन्तरिश्च
भगवान् स्वयमेव कीर्तिर्नाम्ना नृणाम् पुरुरुजां रुज
आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेद
मनुशास्त्यवतीर्य्य लोके” भाग० २ । ७ । २२ । “स वै भगवतः
साक्षात् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यात
आयुर्वेददृगिज्यभाक्” । “नारायणांशो भगवान् स्वयं
धन्वन्तरिर्महान् । पुरा समुद्रमथने समुत्तस्थौ महोदधेः ।
सर्वबेदेषु निष्णातो मन्त्रतन्त्रविशारदः । शिष्यो हि
वैनतेयस्य शङ्करस्योपशिष्यकः” व्रह्म० वैव० श्रीकृष्ण
जन्मखण्डे ५१ अ० ।
२ दिवोदासे त्रिका० । विक्रमादित्यसभास्थनवरत्नान्तर्गते
कविभेदे ज्योतिर्वि० । “धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टथटकर्परकालिदासाः । ख्यातो वराहमिहिरो
नृपतेः समायां रत्नानि वै वररुचिर्नव विक्रमस्य” ।
अत्र वराहमिहिरौ इति शब्दकल्पद्रुमे द्विवचनान्ततया
पाठः प्रामादिक एव द्विवचनान्तत्वे नवसंख्यानुपपत्तेः
वराहो मिहिर इति विग्रहः वृहज्जातकटीकायां
भट्टोत्पलेनोक्तः । अतएव “वराहमिहिरात्मजेन पृथुय-
शसा” तत्पुत्रकृतषट्पञ्चाशिकायामुक्तं वराहमिहिरा-
त्मजत्वमात्मनो विशेषणमुपपद्यते वराहमिहिरयो-
र्भिन्नत्वे तदनुपपत्तेः इति सूक्ष्ममीक्षणीयम् ।

धन्वन्तरिग्रस्ता स्त्री ६ त० । कटुक्यां राजनि० ।

धन्वन्य त्रि० धन्वनि मरुदेशे भवः यत् । मरुदेशभवे “शंनो

आपो धन्वन्याः शमनः सन्त्वनूप्याः” अथ० १ । ६ । ४ ।

धन्वपति पु० ६ त० । मरुदेशपतौ । तत इदमर्थादौ अश्वपत्या०

अण् । धान्वपत तत्सम्बन्धिनि त्रि० ।

धन्वयवास पु० ६ त० । मरुभवे यवासभेदे दुरालभाभेदे भरतः

स्वार्थे क । धन्वयवासक तत्रार्थे राजनि० । धन्वयास
तत्रार्थे अमरः ।

धन्वसह पु० धन्वं धनुर्ग्रहं सहते सह--अच् । धनुर्द्धरे, “धन्वसहा नीयते” ऋ० १ । १२७ । ३ ।

धन्वायन त्रि० धन्वा मरुदेशोऽयत्यनेन करणे ल्युट् ।

मरुदेशगमनसाधने स्त्रियां ङीप् । “भीमधन्वायनी सेना
धृष्टद्युम्नेन पालिता” भा० उ० १९७ अ० ।

धन्वायिन् त्रि० धन्वना सह एति गच्छति इ--णिनि ६ त० ।

१ धनुर्द्धरे २ रुद्रभेदे पु० इषुमद्भ्यो धन्वायिभ्यश्च वो नमो
नमः” यजु० १६ । २२ ।

धन्विन् त्रि० धन्वं चापोऽस्त्यस्य व्रीह्या० इनि । धनुर्द्धरे

अमरः । “आकर्णकृष्टमपि कामितया स धन्वी” रघुः ।
“पुंभिर्न कैश्चदपि धन्विभिरन्वबन्धि” माघः । २ विदग्धे
३ अर्जुने पु० विश्वः ४ अर्जुनवृक्षे ५ दुरालभायां ६ बकुल-
वृक्षे च पु० राजनि० । ७ विष्णौ पु० “ईश्वरो विक्रमी धन्वो”
विष्णुस० ८ तामसमनोःपुत्रभेदे पु० “तपोरतिरकल्माषस्तन्वी
धन्वी परन्तपः । तामसस्य मनोरेते दश पुत्रा महाबलाः”
हरिवं० ७ अ० । ९ धनूराशौ च धनुस्शब्दे दृश्यम् ।

धन्विन पुंस्त्री धन्व--बा० इनन् । शूकरे “दिव्यो धन्विन

उक्तो कोलः स्यात् शूकरो गौरुस्राः” वृह० ८८ अ० ।

धन्विस्थान न० ६ त० । “वैक्लवं समपादञ्च वैशाखं मण्डलं

तथा । प्रत्यालीढ़ं तथालीढ़ं स्थानान्येतानि धन्विनाम्”
इत्युक्तेषु धानुष्कस्थितिभेदेषु । धनुर्वेदशब्दे दृश्यम् ।

धम ध्माने सौ० पर० सक० सेट् । धमति अधमीत् दधाम ।

“वायुना धम्यमानोऽत्र द्वश्यतेऽग्निः क्वचित् क्वचित्”
भा० व० २९५ अ० । “ते बाहुभ्यां धमितमग्निमात्मनि”
ऋ० १ । २४ । ७ “अयं बधेऽपि वरुणाऽधमत्” ताण्डब्रा० ।
“विक्रम्य विधमिष्यामि निवर्त्तध्वं महामुराः” हरिवं०
२५१ अ० ।

धम त्रि० धम--ध्माने अच् । १ शब्दकर्त्तरि २ अग्निसंयोगकर्त्तरि च ।

धमक त्रि० ध्मा--क्वुन् धमादेशश्च । ध्मानकरे उज्ज्वल० ।

धमधम पु० धम + प्रकारे द्वित्वम् । पार्वत्याः क्रोधसंभूते कुमा-

रानुचरगणभेदे । “उल्कामाली धमधमो ज्वालाजिह्वः
प्रमर्द्दनः” हरिवं० १६८ अ० । कुमारामुचरमातृभेदे स्त्री
“ख्याता दहदहा चैव तथा धमधमा नृप!” भा० श० ४७ अ० ।

धमन त्रि० धम--ध्माने सौ० युच् । १ भस्त्राध्मायके २ क्रूरे च

मेदि० ३ नले तृणभेदे अमरः ।

धमनि(नी) स्त्री धम--सौ० करणे अनि वा ङीप् ।

नाड़ीभेदे सिराभेदे । २ हट्टविलासिन्याम् अमरः ।
३ हरिद्रायां ४ ग्रीवायाम् हेमच० ५ पृश्निपर्ण्यां राजनि० ।
पृष्ठ ३८४७
६ नाड़िकायां शाकभेदे भावप्र० । ७ वाक्ये निरु० । सुश्रुते
धमनीभेदकार्य्यादिकमुक्तं तच्च कायशब्दे १९१६ पृष्ठादौ
दृश्यम् । ततः सिध्मा० लच् । धमनील तद्युक्ते त्रि० ।

धम्मिल्ल पु० सौ० धम--विच् मिल--क पृषो० कर्म० । संयतेषु

केशेषु (ख्ॐपा) । कुसुमगर्भमौक्तिकादिना बहिर्बद्धे
केशकलापे भरतः । “धम्मिल्ले नवमल्लिका समुदयो
हस्ते सिताम्भोरुहम्” “धम्मिल्लमर्द्धमुक्तं कलयति
तिलकं तथा शकलम्” सा० द० । पृषो० धम्मल
धम्मिलावप्यत्र शब्दच० ।

धय त्रि० घेट--श । पानकर्त्तरि धेटष्टित्त्वात् स्त्रियां ङीपि-

प्राप्ते स्वशोऽन्यत्र नेष्यते इति हरदत्तोक्तेः न ङीप् ।

धर त्रि० धृ--अच् । १ धारके “रथचरणधराङ्गनाकराब्जैः” माघः

गदाधरः चक्रधरः । २ पर्वते ३ कर्पासतूलके ४ कूर्मराजे
५ वसुभेदे च मेदि० । “उत्कं धरं द्रष्टुमवेक्ष्य शौरिम्”
माघः । कूर्मराजस्य भूमिधारकत्वात् तथात्वम् । “धरो
ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभाषश्च
वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ० ।

धरण त्रि० धृ--युच् । १ धारके २ अद्रिपतौ ३ लोके ४ स्थले

४ धान्ये ५ सूर्य्ये च पु० हेमच० । ७ अर्कवृक्षे ८ सेतौ त्रिका० ।
“तुल्या यवाभ्यां कथिताऽत्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं
च तेऽष्टौ” लीला० उक्ते ९ चतुर्विंशतिरत्तिकामिते
मानभेदे न० । “पलं सुवर्णाश्चत्वारः पलानि धरणं दशेति”
मनूक्ते १० दशपलमितते ११ पलस्य दशमांशे वैद्यकपरिभाषा
“माषैश्चतुर्भिः शाणः स्यात् धरणः स निगद्यते ।
सुश्रुतोक्ते १२ चतुर्माषकपरिमाणे पु० । भावे ल्युट् ।
१३ धारणे न० । “सारं धरित्रीधरणक्षमञ्च” कुमा० ।

धरणप्रिया स्त्री जिनानां शासनदेवताभेदे हेमच० ।

धरणि(णी) स्त्री धृ--अनि । १ पृथिव्यां अमरः वा ङीप् ।

ङीबन्तः २ शालमलिवृक्षे शब्दच० । ३ कन्दभेदे राजनि० ।

धरणि(णी)ज धरणितो जायते जन--ड । १ मङ्गले २ नरका-

सुरे च ३ धरणिजातमात्रे त्रि० “धरणिजे चतुर्थगे
ज्वरजठराशृगुद्भवः” वृ० स० १०४ अ० । ४ सीतायां स्त्री ।

धरणि(णी)धर पु० धरणिं(णीं) धरति धृ--अच् ६ त० ।

१ पर्वते २ कच्छपे च राजनि० । ३ विष्णौ हला०
गोवर्द्धनधारित्वात्तस्य तथात्वं “स हि संवर्त्तको वह्निरनिलो
धरणीधरः” विष्णुस० । “शेषदिग्गजादिरूपेण धरणीं
धरतीति” भा० । “परमर्षिजनभुवनपतिः धरणिधरः श्रुति-
विनयविधिः” भा० शा० ३४८ अ० । पर्वते “धरणीधरदुहि-
तुर्भयादकौ” माघः । ६ शिवे “प्रभवं सर्वभूतानां धारणं
धरणीधरम्” भा० आश्व० ८ अ० शिवस्तवे

धरणि(णी)रुह पु० धरण्यां रोहति रुह--क ७ त० । वृक्षे

“धरणिरुहाधिरुहो बधूर्लतायाः” माघः ।

धरणीकन्द पु० धरणीनामकः कन्दः । १ कन्दभेदे कन्दालौ

धाराकन्दे राजनि० ।

धरणीकीलक पु० धरण्याः कीलक इव । पर्वते शब्दर० ।

धरणि(णी)धृत् पु० धरणिं(णीं) धरति धृ--क्विप् तुक् ।

१ पर्वते २ अनन्ते देवे च “माहात्म्यं श्रोतुमिच्छामि ।
शेषस्य धरणीधृतः” हरिवं० १२० अ० ।

धरणीपुर पु० धरण्याकारं पुरम् । धराकारे चतुरस्रे

मण्डले न० । धरणीसदनादयोऽप्यत्र ।

धरणीप्लव पु० धरण्याः प्लवो यस्मात् । समुद्रे त्रि० ।

धरणीभृत् पु० धरणीं बिभर्त्ति भृ--क्विप् तुक् च । १ पर्वते

२ विष्णौ ३ अनन्ते च । “प्रावृषीवातिवृष्टानि शृङ्गाणि
धरणीभृताम्” हरिवं० २४९ अ० ।

धरणीश्वर पु० ६ त० । १ शिवे शब्दरत्ना० २ भूमिपतौ ३ विष्णौ च

धरणीसुत पु० ६ त० । १ मङ्गले अवानेयशब्दे दृश्यम् । २ नरका-

सुरे कुजशब्दे दृश्यम् । ३ सीतायां स्त्री कालिकापु० ३७
अ० तत्कथा दृश्या ।

धरा स्त्री धरति विश्वं धृ--अच् । १ पृथिव्याम् अमरः २ गर्भाशये

३ मेदसि च मेदि० ३ नाड्यां राजनि० । “धरायां तस्य
संरम्भं सीताप्रत्यर्पणैषिणः” रघुः ।
दानार्थकल्पितायां सुवर्णमयधरायां तद्विधानादि मत्स्य-
पुराणोक्तं हेमाद्रिदानखण्डे दर्शितं यथा ।
“मत्स्य उवाच । अथातः सम्प्रवक्ष्यामि घरादानमनुत्तमम् ।
पापक्षयकरं नॄणाममङ्गल्यविनाशनम् । कारयेत् पृथिवीं
हैमीं जम्बुद्वीपानुकारिणीम् । मर्यादापर्वतवतीं मध्ये
मेरुसमन्विताम् । लोकपालाष्टकोपेतां नववर्षसमन्विताम् ।
नदीनदशतोपेतामन्ते सागरवेष्टिताम्” “अनुकारिणीम्
सदृशीमित्यर्थः । इह हि जम्बुद्वीपसदृशीं कुर्य्यादित्युक्तेः
निखिलनगनगरसरोवरवनाद्यन्वितमहीसादृश्यप्राप्तौ मर्या-
दापर्वतवतीमित्यादिना तावन्मात्रान्वितधरण्यनुकार इति
गम्यते । इतरथा सामान्येनैव तदवगतेर्विशेषानर्थक्यप्रस-
ङ्गात्, तदयमर्थः हैमीं पृथ्वीं कुर्य्यादित्युक्ते सप्तद्वीप-
वत्याः प्रसङ्गे जम्बुद्वीपानुकारिणीमित्युच्यते तत्रापि
नानापर्वतानुकारप्रसङ्गे मर्य्यादापर्वतवतीमिति” तथा
सति मेरोरनुकरणप्राप्तौ मध्ये मेरुसमन्वितामिति
पृष्ठ ३८४८
नानादेवगणव्यावृत्त्यर्थं लोकपालाष्टकोपेतामिति । एवं च
असंख्येयपक्षाश्रयणे पुराणान्तरोपदर्शितवर्षचतुष्टयादिप-
क्षपरिग्रहशङ्कानिवृत्त्यर्थंनववर्षसमन्वितामित्युच्यते । तत्र
जम्बुद्वीपमुपवर्णितं विष्णुपुराणे” हेमा० दा० । “नववर्षन्तु
मैत्रेय! जम्बुद्वीपमिदं मया । लक्षय जन स्तारं सक्ष-
पात् कथितं तव । जम्बुद्वीपं समावृत्य लक्षलोजनवि-
स्तरः । मैत्रेय! बलयाकारः स्थितः क्षारोदधिर्बहिः ।
जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः । तस्यापि
मेरुर्मैत्रेय! मध्ये कनकपर्वतः । चतुरशीतिसाहस्रयो-
जनैरस्य चोच्छ्रयः । प्रतिष्ठा षोड़शाद्धस्ताद्वात्रिंशन्मूर्ध्नि
विस्तृतः । मूले षोड़शसाहस्रो विस्तारस्तस्य सर्वतः”
पुराणान्तरे तु, अष्टसष्टियोजनोच्छ्रय इत्युक्तम् । तथा
“मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्त तम् । इलावृतं
महाभाग! चत्वारश्चानुपर्वताः विष्कम्भा रचिता मेरोर्यो
जनायुतमुच्छ्रिताः । पूर्वेण मन्दरोनाम दक्षिणे गन्धमा-
दनः । वैभ्राजः पश्चिमे पार्श्वे सुपार्श्वमोत्तरे स्मृतः”
मर्य्यादापर्वतास्तु, ब्रह्माण्डपुराणे दर्शिताः” “जादरो-
देवकूटश्च पूर्वस्यान्दिशि पर्वतौ । तौ दक्षिणोत्तरातामा-
वानीलनिषधायतौ । कैलासोहिमवांश्चैव दक्षिणे वर्ष-
पर्वतौ । पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ । त्रिशृङ्गो-
जारुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्ण-
वन्तव्यवस्थितौ । निषधः पारिया(पा)त्रश्च पश्चिमौ वर्ष-
पर्वतौ । तौ दक्षिणोत्तरायायामावानोलनिषधायतौ” ।
नीलनिषधपर्वतौ तु, अग्ने वक्ष्येते । “लोकपालाष्टको-
पेतामिति, लोकपाला इन्द्रादयोऽष्टौ, तेषां लक्षणं
पूर्वमुक्तं ब्रह्माण्डदाने” तत्सन्निवेशाश्च मेरोरुपरि पद्र-
क्षिणक्रमेण पूर्वादिदिक्षु कर्त्तव्याः । नववर्षसमन्विता-
मिति । वर्षोपवर्णनञ्च, ब्रह्माण्डपुराणे “उत्तरं
तत्समु हिमाद्रेश्चैव दक्षिणम् । एतद्वै भारतं नाम
भारती यत्र न्ततिः । भारतं प्रथमं वर्षं ततः किंपु-
रुषं स्मृतम् । हरिवर्षं तथैवान्यं मेरोर्दक्षिणतो
द्विज! । रम्यकं चोत्तरे वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः करवश्चैव यथा वै मारतं तथा । मेरोः पूर्वण
भद्राश्च कतुमालं च पश्चिमे । वर्षे द्वे तु समाख्याते
तयोर्मध्यनिलावृतम् । नवसाहस्रमेतेषामेकैकं द्विजसत्तम!”
तथा । “हिनवान् हमकूटश्च निषघश्चव दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः । सहस्राद्वि-
तयोच्छायास्तावाद्वस्तारिणश्च ते । लक्षप्रमाणौ द्वौ मध्ये
दशहीनास्तयापरे” “लक्षप्रमाणावित्यादि इलावृतस्यो-
भयपार्श्ववर्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्ष-
गुणौ विज्ञेयौ, तद्बाह्यवर्त्तिनौ श्वेतहेमकूटौ नवतिस-
हम्रयोलना प्रणौ विज्ञेयौ, तथा तद्बाह्यस्थितौ शृङ्गी-
हिमवन्तौ अशीतिसहस्रयोजनप्रमाणावित्यर्थः । अत्र
युक्तिरुक्ता मत्स्यपुराणे, “द्वीपस्य मण्डलीभावात् ह्रास-
वृद्धिः प्रकार्त्तितेति” । ब्रह्माण्डपुराणे “मेरोस्तु
पश्चिमे भागे नवसाहस्रसम्मित । चतुस्त्रिंशत्सहस्राणि
गन्धमादनपर्वतः । वत्वारिंशत्सहस्राणि परिवृद्धो
महीतलात् । सहस्रमवगाहे तु सति द्विगुणविस्तरः ।
पूर्वोण माल्यबान् शैलस्तत्प्रमाणः प्रकीर्त्तितः” “अत्र
शतसहस्रादियाजनपरिमाणानां पृथिव्यादीनां कर्तुम-
शक्यत्वात् योजनसहस्रस्थाने अर्द्धाङ्गुलादिमानं
परिकल्प्य यथोक्तसंख्यातारतम्यमनुष्ठेयम् । नदीनदश-
तोपेतमिति, नद्यो भासीरथीप्रभृतिकाः, नदाः शोणा-
दयः, तेषां साकल्येन विधातुमशक्यत्वात् यावच्छक्य-
मनुकारः कर्त्तव्यः । अन्ते सागरवेष्टितामिति, यद्यपि
यावत्परिमाणा पृथ्वी तावानेव सागरः तथाप्यनुकारमा-
त्रोपदेशात् शक्यानुकारमात्रमाचरणीयम्” हेमा० “महा-
रत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् । हेम्नः पलसहस्रेण
तदर्द्धं वाथ शाक्तितः । शतत्रयेण वा कुर्यात् द्विशतेन
शतेन वा । कुर्यातञ्चपलादूर्द्धमशक्तोऽपि विचक्षणः ।
तुलापुरुषवत् कुर्यात् लोकेशावाहनम्बुधः । ऋत्विङ्म-
ण्डपसम्भारभूबणाच्छादनादिकम् । वेद्यां कृष्णाजिनं
कृत्वा तिलानामुपरि न्यसेत् । तथाष्टादश धान्यानि
रसांश्च लवणादिकान् । तथाष्टौ पूर्णकलशान्
समन्तात् परिकल्पयेत् । वितानकञ्च कौशेयं फलानि विवि-
धानि च । तथांशुकानि रम्याणि श्रीखण्डशकलानि
च । इत्येवं रचयित्वा तामधिवासनपूर्वकम् । शुक्लमाल्पा-
म्बरधरः शुक्लाभरणभूषितः । प्रदक्षिणं ततः कृत्वागृही-
तकुसुमाञ्जलिः” मत्स्यपु० “महारत्नेत्यादि, महारत्नानि,
माणिक्यप्रभृतीनि परिभाषायां, दर्शितानि, वसुरुद्रार्क-
रूपमुक्तं ब्रह्माण्डदाने, आच्छादनादिकमित्यादिशब्देन
देशकालवृद्धिश्राद्धदेवादिपूजाव्राह्मणवाचनाधिवासनादि-
सर्वं तुलापुरुषोक्तमनुष्ठेयं पूर्णकलशान् स्रग्गन-
पञ्चरत्नदूर्वाङ्कुरचूतपल्लवान्वितानित्यवधेयं वितानं पञ्च-
वर्णमिति । प्रदक्षिणं कृत्वेति, त्रिःप्रदक्षिणमावृत्ये-
त्यर्थः, प्रदक्षिणादिकं च द्वितीयदिवसे पूणाहुत्यन्तकर्म-
पृष्ठ ३८४९
शेषसमाप्तौ सर्वौषधिस्नानानन्तरमनुष्ठोयम्” हेमा “नमस्ते
सर्वदेवानां त्वमेक भवनं यतः । धात्री च सर्वभूता-
नामतः पाहि वसुन्धरे! । वसून् धारयसे यस्मात्
बसु चातीव निर्मलम् । वसुन्धरा ततोजाता तस्मात्पाहि
भयादलम् । चतुर्मुखोऽपि नोपच्छेद्यस्यादन्तं तवाचले ।
अनन्तायै नमस्तस्मात् पाहि संसारकर्दमात् । त्वमेव
लक्ष्मीर्गोविन्दे शिव गौरीति संस्थिता । गायत्री ब्रह्मणः
पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा । बुद्धिर्वृहस्पतौ
ख्याता मेधा मुनिषु सास्थता । विश्वं व्याप्य स्थिता
यस्मात्ततोविश्वम्भरा मता । धृतिः क्षितिः क्षमा क्षौणी
पृथ्वी वसुमती रसा । एताभिर्मूर्त्तिभिः पाहि देवि!
ससारसागरात् । एवमुच्चार्य्य तां देवीं ब्राह्मणेभ्यो निवे-
दयेत् । धरार्द्ध वा चतुर्भागं गुरवे प्रतिपादयेत् ।
शेषञ्चैवाथ ऋत्विगभ्यः प्रणिपत्य विसर्जयेत्” मतुस्यपु० पत्रापि
पूर्ववद्दानवाक्यमुच्चार्य्य जलपूर्वं दानमाचार्य्यानुज्ञया
अन्येभ्योपि दानं दीनानाथादिभ्यः । स्वल्पे त्वेकाग्निविधानं,
भूमिपतिकर्त्तव्ये कर्मणि ग्रामादिदक्षिणादानम् अशक्त-
कर्तृके यथाशक्ति सुवर्णदक्षिणादानमित्यनुसन्धैयम् । अथ
ब्राह्मणवाचनानन्तरं देवतापूजनविसर्जनानि कुर्य्यात्” ।
हेमा० आर्थर्वणगोपथब्राह्मणे, “अथ रोहिण्यां संकल्प्यो-
षितो ब्रह्मा यथावीजरसरत्नगन्धावकीर्णतीर्थोदकपूर्ण-
कलशमभिमृष्टाभिषेकर्मन्त्रैर्यथोक्तैर्दातारमभिषिञ्चति । “व्र-
तेन त्वं व्रतपते” इति व्रतमुपैत्यायाचिताशनावधःशा-
यिनां भवती, व्रतोपचरं यथाशक्त्येकरात्रं पञ्चरात्रं वा
द्वादशरात्रं व्रतञ्चरित्वा श्चोभूते तन्त्रमाज्यभागान्तं कृत्वा-
न्वारभ्याथाज्य जुहुयात् कामसूक्तं कालसूक्तं पुरुष
सूक्तमित्रथ सुवर्णमयीं भूमिं भूमेः प्रकृतिं गोचर्म-
भात्रां कृत्वानीय बेद्युत्तस्यां वेदिमित्युपस्थाप्य “गिर-
यस्ने पर्वता” इति पर्वतानवस्थाप्य हिरण्यरजतमणि-
हक्ताप्रवालकादिभिरुप्रशोभयेद्यदहः संप्रयतीरिति (साम-
छन्दसा नेति नदीः कल्पयित्वा रसैश्च परिपूरयेत् “अपर-
मग्रमसि समुद्रन्त्वाभ्यंवसृजामीति समुद्रान्) वनस्पतिः सह
देवैर्नश्रापयन्निति “वृहस्पतिर्नेति” वनस्पतीनन्यांश्च यज्ञे
त्वा मनमा सङ्कल्पयेन्मनसा सङ्कल्पवतीह भवात वियीन्
बिभ्रतीति नमस्कारयित्वा सत्यं वृहस्पत्यनुवाकीये
देवासोदिव्येकादशस्थेति, पुण्याहं वाचयेत् संस्थापयेन्न
च दिवो देवज्ञातेनेत्यभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्दातुरेषा-
स्मैरोहिणीकामं निकामं वा दुःखं इति । “यथा रोहन्ति
वीजानि हलाकृष्टे महीतले । एवं कामाः प्ररोहन्ति
प्रेत्येह मनसा सदा । सर्वेषामेव दानानां यत्फलं
समुदाहृतम् । तत् प्राप्नोति च विप्रेभ्यो दत्त्वा भूमिं
यथाविधि” । मत्स्यपुराणे “अनेन विधिना यस्तु
दद्याद्धेमधरां शुभाम् । पुण्यकालेऽभिसंप्राप्ते स पदं याति
वैष्णवम् । विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
नारायणपुरङ्गत्वा कल्पत्रयमथो वसेत् । पुत्रपौत्रप्रपौ-
त्रांश्च तारयेदेकविंशतिम् । इति पठति य इत्थं यः
शृणोति प्रसङ्गादपि कलुषवितानैर्मुक्तदेहः समन्तात् ।
दिवममरवधूमिर्याति संप्रार्थ्यमानः पदममरसहस्रैः
सेवितं चन्द्रमौलेः” लिङ्गपु० उक्तविधिस्तु तत्र खण्डे दृश्यः ।

धराकदम्ब पु० धराजातः कदम्बः । धाराकदम्बे हारा० ।

धराङ्गुर पु० धराया अङ्कुर इव । वायुफले शोकरे हारा० ।

धरात्मज पु० ६ त० । १ मङ्गलग्रहे २ नरकासुरे च ३ सीतायां

स्त्री तत्कथा कालिकापु० ३७ अ० दृश्या । धरापुत्रा-
दयोऽप्यत्र ।

धराधर पु० धरां धरति धृ--अच् । १ पर्वते २ अनन्ते ३ विष्णौ

च । “सत्यमेधा । धराधरः” विष्णुस० । “अ शैरशेषैः
शेषाद्यैर शषां धारयन् धराम्” भाष्यकृतवाक्ये तन्निरुक्तिः ।

धराधिप पु० ६ त० । नृपे “माहेश्वरींमथ सभां समासाद्य

धराधिपः” भा० व० ४८ अ० । धराधिनाथधराधीशादयोऽत्र

धरामर पु० धरायामभर इव । १ भूदेवे ब्राह्मणे धरासुरा-

दयोऽप्यत्र ।

धरित्री स्त्री धृ--इत्र गौरा० ङीष् । भूमौ अमरः “सारं

धरित्रीधरणक्षमञ्च” कुमा० । “गुरुर्धरित्री क्रियतेतरां
त्वया” माघः ।

धरिमन् पु० धृ--इमनिच् । तुलापरिमाणे निरु० ।

“तथाधरिममेयानां शतादभ्यधिके बवः” मनुः ।

धरीमन् पु० धरिमन् + छान्दसो दीवः । १ सारभूते वेदिरूपे

स्थाने । “अयं जातो मनुषो धरीमणि” ऋ० १ । १२८ । १
“धरीमणि सारनूते वेदिरूपे स्थाने” भा० २ धारके त्रि० ।
“अमचन् पयसा धरीमणि” ऋ० ९ । ८६ । ४ “धरीमणि
धारके” भा० ।

धरुण त्रि० धृ--उनन् । धारके “धरुणोऽस्य पानाय” ताण्ड्य

बा० ९ । १ । ६ । “धरुणोऽसि सर्वधारकोऽसि अपानेन प्रा-
णवायोः शरीरे धारणात् धारयिता अपानः” भा० । स्त्रियां
गौरा० ङीष् वा । “धरुण्यसि शाले! वृहच्छन्दापूति-
धारणः” अथ० ३ । १२ । ३ पक्षे टाप च । “धद्यसि धरुण्क
पृष्ठ ३८५०
स्तृता विश्वकर्मणी” यजु० १३ । १६२ उदके निघण्टुः
३ वह्नौ च “उपसृजन् धरुणं मात्रे धरुणो मातरं धयन्”
यजु०८ । ५१ “धारयतीति धरुणोऽग्निः” वेददी० ४ धारायाञ्च
“अपामतिष्ठद्धरुणह्वरम्” ऋ० १ । ५४ । १० धरुणशब्दो
धारावचनः धरुणह्वरम् धारानिधकम्” भा०
५ एकविंशतौ ६ आदित्ये च तयोस्तथात्वं च शतब्रा०
८ । ४ । १ । १२ उक्तं यथा “धरुण एकविंशतिः” इति । य
एवैकविंशस्तोमस्तं तदुपदधाति । तद्यत्तमाह धरुण
इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा
आदित्यो धरुण एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रय
इमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाह
धरुण इति यदाह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियते
आदित्योहर्भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ
संवत्सररूपाण्युपदधाति” “धरुणमधिरुह” यजु० । १ । १८
७ ब्रह्मणि ८ स्वर्गे पु० ९ नीरे १० सम्मते त्रि० मेदि० ।

धर्णसि पु० धृ--वा० नसि । १ बले निघण्टुः । २ धर्त्तव्ये वज्रादौ

च “नि शुष्ण इन्द्र धर्णसिं वज्रम्” ऋ० ८ । ६ । १४ । “धर्णसिं
धर्त्तव्यम्” ३ धारके च “पृचादि धर्णसिम्” ऋ० १ । ११ । ११

धर्णि त्रि० धृ--नि । “धारके “अग्निरीशे वसूनां शुचिं-

धर्णिरेषाम्” १ । १२७ । ७ “धर्णिः धारणकुशलः” भा० ।

धर्त्तूर पु० धुस्तुर + पृषो० । धुस्तुरे पारस्करनि० ।

धर्त्र न० धृ--त्र । १ गृहे २ यज्ञे ३ धर्मे च उणादिको० ४ धारके

त्रि० “पञ्चानां त्वां वातानां यन्त्राय धर्त्राय गृह्णामि”
तैत्ति० सं० १६ । १ । २ “धर्त्रमसि दिवं दृंह ब्रह्मवनि
बधाय” यजु० १ । १८ । धर्त्रं धारकम्” वेददी० ।

धर्म्म पु० न० अर्द्धर्च्चा० ध्रियते लोकोऽनेन धरति लोक वा धृ--मन् ।

“चोदनालक्षणोऽर्थोधर्मः” जै० सूत्रलक्षिते पदार्थे तत्र धर्म-
शब्दस्य यागादिपरत्वम् भाष्यसम्मतमन्यमते स्वर्गसाधना-
दृष्टभेदपरत्वं तथाहि “अथातो धर्मजिज्ञासेति” सूत्रमाष्ये
“धर्माय जिज्ञासा धर्मजिज्ञासा, सा हि तस्य ज्ञातु-
मिच्छा । स कथं जिज्ञासितव्यः? को धर्मः,
कथंलक्षणः, कान्यस्य साधनानि कानि साधनाभासानि,
किंपरश्चेति । तत्र को धर्मः, कथंलक्षणः--इति
एकेनैव सूत्रेण व्याख्यातं--‘चोदनालक्षणोऽर्थो धर्मः’--
इति । कानि अस्य साधनानि, कानि साधनाभासानि,
किंपरश्चेति शेषलक्षणेन व्याख्यातं, क्व पुरुषपरत्वं क्व
वा पुरुषो गुणभूतः?--इत्येतासां प्रतिज्ञानां पिण्डस्यै-
तत् सूत्रम् ‘अथातोधर्मजिज्ञासा’--इति । धर्मः
प्रसिद्धो वा स्यात्, अप्रसिद्धो वा? स चेत् प्रसिद्धः, न
जिज्ञासितव्यः; अथाप्रसिद्धः, नतरां; तदेतदनर्थकं
घर्मजिज्ञासाप्रकरणं, अथवाऽर्थवत्?” । धर्मं प्रति
हि विप्रतिपन्ना बहुविदः,--केचिदन्यं धर्ममाहुः,
केचिदन्यं, सोऽयमविचार्य्यप्रवर्त्तमानः कञ्चिदेवोपाददानो
विहन्येतार्थात् अनर्थं च ऋच्छेत्, तस्माद्धर्मो जिज्ञा-
सितव्य इति, स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रति-
जानीमहे” भा० “तदभिधीयते चोदनालक्षणोऽर्थो
धर्म । २ सू० “चोदनां--इति क्रियायाः प्रवर्त्तकं
वचनमाहुः, आचार्य्यचोदितः करोतीति हि
दृश्यते । लक्ष्यते येन तल्लक्षणं धूमो लक्षणमग्नेरिति
हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रे-
यसेन संयुनक्तीति प्रतिजानीमहे । चोदना हि भूतं,
भवन्त, भावष्यन्तं, सूक्ष्म, व्यवहितं, विप्रकृष्टमित्येवंजा-
तीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम्,”
य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते । कथमव-
गम्यतां? । यो हि यागमनुतिष्ठति, तं ‘धार्मिकः’
--इति समाचक्षते, यश्च यस्य कर्त्ता स तेन व्यपदि-
श्यते, यथा पाचकः, लावक इति । तेन यः पुरुषं
निःश्रेयसेन संयुनक्ति, स धर्मशब्दनोच्यते । न केवलं
लोके, वेदेऽपि ‘यज्ञेन यज्ञमयजन्त देबाः, तानि धर्माणि
प्रथमान्यासन्’--इति यजतिशब्दवाच्यमेव धर्मं समाम-
नन्ति । उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्च
इति, कोऽर्थः? यो निःश्रेयसाय, ज्योतिष्टमादिः ।
कोऽनर्थः? यः प्रत्यवायाय, श्येनो, वज्रः, इषुरि-
त्येवमादिः । कथं पुनरसावनर्थ? । हिसा हि सा,
सा मा भूत् इति अर्थग्रहणम् ।” शावरभाष्यम्
एतन्मतानुसारेण लौगाक्षिभास्करेणोक्तं यथा “अथ को
धर्मः किं तस्य लक्षणमिति चेदुच्यते । यागादिरेव
धर्मः । तल्लक्षणस्तु वेदप्रतिपाद्यप्रयोजनवदर्थो धर्मः ।
प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति । भोजना-
दावतिव्याप्तिवारणाय वेदप्रतिपाद्येति । अनर्थफलक-
त्वादनर्थभूते श्येनयागादावतिव्याप्तिवारणायार्थ इति
न च चोदनालक्षणोर्थो धर्म इति सौत्रधर्मलक्षण-
विरोधः चोदनाशब्दस्य तत्र विधिरूपवेदैकदेश-
परत्वादिति वाच्यम् । सर्ववेदस्य तात्पर्य्येन धर्मप्रति-
पादकत्वात् । स च यागादिः । “यजेत स्वर्गकामः”
इत्यादि वाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते” ।
पृष्ठ ३८५१
अन्यमते तु अदृष्टविशेषस्यैव धर्मत्वं तत्त्वबोधिन्यां
तदुभयमतं संक्षिप्य दर्शितं यथा
“चोदनालक्षणोऽर्थो धर्मः” इति । चोदनैव लक्षणं प्रमाणं
यस्य तादृशो योऽर्थः स धर्मः चोदना प्रवर्त्तको वेदो
विधिरूपः । चुद प्रेरणे इत्यस्माच्चौरादिकधातोः वेदमात्र-
स्यैवेयं परिमाषेत्यपरे । तथा च बेदैकप्रमाणगम्योऽर्थः
पुण्यनामाऽदृष्टविशेषः धर्मः कार्य्यापूर्वापरनामा तथा च
तार्किकाः विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः ।
प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते” । भविष्ये
“धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम्” । तैत्ति-
रीयश्रुतिरपि “धर्मो विश्वस्य जगतः प्रतिष्ठा लोके
धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदतीति” प्रशंसा-
ममिदधती अभ्युदयसाधनं धर्म इति प्रतिपादयति ।
भाष्यमपि “कोऽर्थो योऽभ्युदयाय” । गुरुमते विधेरपूर्वे
शक्त्याऽपूर्वस्य बिधिवाच्यत्वात वेदगम्यत्वं सूपपन्नमेव ।
अगृहीतग्राहित्वस्य प्रामाण्यरूपत्वाद्वेदमात्रलभ्यत्वम-
पूर्वस्य । अन्येषां मते तु यागादेरिष्टसाधनत्वान्यथानुप-
पत्त्या कल्प्यत्वेऽप्यपूर्वस्य, वेदस्य प्रवर्त्तकत्वान्यथानुपपत्त्या
कल्पनीयत्वेन वेदमूलकत्वात् वेदप्रमाणकत्वम् । भट्टमते
तु चोदना प्रेरणा फलभावना लिङाद्यर्थाभिधारूपा
तया च केन कथमित्याकाङ्क्षामुत्थाप्य लक्ष्यते आश्रीयते
कर्त्तव्यत्वेन बोध्यते यः करणीभूतो धात्वर्थयागादिः
स धर्म इत्यर्थः तथाच विश्वामित्रः “यमार्य्याः क्रियमाणं
हि शंसन्त्यागमवेदिनः । स धर्मोयं विगर्हन्ति
तमधर्मं प्रचक्षते” इति । अतएव “चोदनागम्योग्निहोत्रादि-
र्धर्मो नातल्लक्षणचैत्यवन्दनादिरिति” शास्त्रदीपिका । तत्र
चोदनागम्यो वेदबोधितकर्त्तव्यताक इत्यर्थः । अत्र मते
धर्मशब्दो निरूढ़लाक्षणिकः अदृष्ट एव तस्य शक्तेः
“स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” इत्युक्त्वा “शस्त-
ञ्चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च” इत्यमरोक्तेः
द्रव्ये तज्जनके घर्मिणि त्रिषु बाच्यलिङ्गमित्यर्थः ।
अतएव भट्टवार्त्तिकं “द्रव्यक्रियागुणादीनां धर्मत्वं स्थाप-
यिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता
श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण
च धर्मत्वं तस्मान्नेन्द्रियगोचाः” इति । यद्यपि पुण्यनामा-
दृष्टविशेष एव धर्मस्तदर्थस्तथापि द्रव्यक्रियादीनामपि
धर्मत्वं व्यवस्यापयिष्यते तेषां धर्मजनकतया कारणे
कार्य्यत्वो पचारात् तेषु धर्मव्यपदेश इति भावः । न
ताद्रूप्येण न स्वरूपतः, अपि तु धर्मजनकतयेति शेषः ।
धर्मजनकत्वे मानमाह श्रेय इति “श्रेयोऽभ्युदयसाधनम्”
उक्तभविष्यवचनात् तत्र साक्षात् स्वर्गादिसाधनमदृष्टं
तत्साधनता यागादेरित्यर्थः ताद्रूप्येण स्वरूपतः । अत्र
च वेदमात्रप्रमाणलब्धसत्ताकार्थत्वं लक्षणं गुणविशेषश्च
स्वरूपं, द्वितीयमते वेदैकप्रमितकर्त्तव्यताकार्थत्वं लक्षणं
द्रव्यक्रियागुणादयः स्वरूपम् उभयत्र वेदप्रामाण्यादेव-
प्रामाण्यम्” ।
तद्भेदादिकं हेमाद्रिव्रतखण्डे उक्तं यथा भविष्यपु०
“वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् । वर्णा-
श्रमस्तृतीयस्तु गौणोनैमित्तिकस्तथा । वर्णत्वमेकमा-
श्रित्य यो धर्मः सम्प्रवर्त्तते । वर्णधर्मः १ स उक्तस्तु
यथोपनयनं नृप । आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते ।
स खल्वाश्रमधर्मस्तु २ भिक्षादण्डादिको यथा । वर्णत्वमा-
श्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते । स वर्णाश्रमधर्मस्तु ३
स्यान्मौञ्ची मेखला यथा । यो गुणेन प्रवर्त्तेत
गुणधर्मः ४ स उच्यते । यथा मूर्द्धाभिषिक्तस्य प्रजानां
परिपालनम् । निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते ।
नैमित्तिकः ५ स विज्ञेयः प्रायश्चित्तविधिर्यथा” “वर्णत्व-
मेकमाश्रित्येति एकशब्दो वक्ष्यमाणोभयनिमित्तव्यावृत्ति-
परः, वक्ष्यमाणधर्मभिन्नत्वात् अयं त्वाश्रमत्वमनपेक्ष्य वर्ण-
त्वनिमित्तकोऽतः सत्यामप्युपनयनस्याष्टवर्षत्वाद्यपेक्षायां
नैकशब्दविरोध इति । अयवा वीप्सायामेकशब्दः
ततश्चैकैकं वर्णत्वमुद्दिश्य यो विधीयते स वर्णधर्म इति
अतएवाष्टवर्षादिवाक्यैरनेकवर्णत्वोद्देशेन विधीयमानमुप-
नयनं दृष्टान्तीकृतम् । निमित्तमेकमाश्रित्येत्यत्र प्राय-
श्चित्तस्य नित्यकाम्यवैधर्म्यमात्रेण नैमित्तिकत्वं न तु
राहुदर्शननिमित्तस्नानादिवदकरणजनितदोषपरिहारार्थ
तया, निषिद्धकर्मकृताधर्मपरिहारार्थतयैव तद्विधानो-
पपत्तेः । न च जातेष्टिवदुभयार्थत्वं, तत्र फलनिमित्तयो
रुभयोरुपात्तत्वान्न त्विह तथेति । साधारणधर्मस्तु
महाभारते । “श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च । स्वेषु
दारेषु सन्तोषः शौचं विद्यानसूयिता । आत्मज्ञानं
तितिक्षा च धर्मः साधारणी ६ नृप!” चातुर्वण्यस्येति
शेषः । “तपश्चान्द्रायणादि । यदाह देवलः “व्रतो-
पवासनियमैः शरीरोत्तापनं तपः” । व्रतशब्दोऽत्र स्नान
दानजपहोमपूजादिपरः । एतेन व्रतखण्डप्रतिपा-
द्यानां धर्माणामपि साधारणत्व सूचितम् । आत्म-
पृष्ठ ३८५२
ज्ञानमित्यनेन मोक्षखण्डप्रतिपाद्यानामपि धर्माणां
साधारणत्वम् । न च शूद्राधिकरणन्यायेन शूद्राणां
विद्यायामनधिकार इति कथं मोक्षधर्माणां साधा-
रणत्वमिति वाच्यम् तेषामुपनयनाभावेनाध्ययनासम्भ-
वाद्वेदवाक्यविचार एवानधिकारः न पुनरवैदिके “श्रा-
वयेच्चतुरोवर्णानिति” शूद्राणामपि पञ्चयज्ञादिवत् पुराण-
स्मृतिप्रतिपाद्यविद्योपदेशदर्शनात् । ननु तथापि कथं
वेदान्तवाक्यविचारजनितज्ञानाभावे शूद्राणां मोक्षधर्मा-
धिकार इति चेत् मैवम् मोक्षसाधनस्य ज्ञानस्य
तदेकसाध्यत्वसिद्धेः, तथा च श्रुतिः “तरति शोकमात्म-
वित् ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति परं
विद्ययामृतत्वमश्नुते” इति, मोक्षस्यात्मज्ञानसाध्यतां वदति ।
आत्मज्ञानस्य च पुराणादिवचननिचयविचारपरिचया-
दप्युपपत्तेः श्रोतव्य इत्यादिवाक्यानां तु विचारनिय-
मविधित्वानङ्गीकारात् अङ्गीकारे वा तस्य द्विजाति-
नियततया “श्रावयेच्चतुरोवर्णानित्यादिपुराणवचनविषय-
विधेरप्यध्ययनविधिवद्विचारपर्य्यन्ततास्तु ततश्च यथा
द्रव्यसाध्यत्वाविशेषेऽपि क्रतूनान्तत्तद्वर्णबिहितोपायनिय-
मार्जितद्रव्यसाध्यत्वम् एवमात्मज्ञानसाध्यत्वाविशेषेऽपि
मोक्षस्य तदुपायविशेषजनितज्ञानसाध्यत्वमिति सर्वमन-
वद्यम्” तथा चोक्तं भागवते “स्त्रीशूद्रद्विजबन्धूनां
त्रयी न श्रुतिगोचरः । इति भारतमाख्यानं मुनिना
कृपया कृतम्” । महाभारतेऽपि “मामुपाश्रित्य तु
कौन्तेय! येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा
शूद्रास्तेऽपि यान्ति परां गतिम्” । विष्णुः । “क्षमा
सत्य दमः शौच दानमिन्द्रियसंयमः । अहिंसा गुरुशु-
श्रूषा तीर्थानुसरणं दया । आर्जवं लोभशून्यत्वं देव,
ब्राह्मणपूजनम् । अनभ्यसूया च तथा घर्मः
सामान्य उच्यते इति” । ब्रह्मवैवर्त्ते “विद्या, दया, दमः,
शौचं, सत्यमस्तेयता तपः । जितेन्द्रियत्वमक्रोधो
लज्जा धर्मः इति स्मृतिः” । विष्णुधर्मोत्तरे “तस्य
द्वाराणि यजनं तपोदानं दया क्षमा । ब्रह्मचर्य्यं
तथा सत्यं तीर्थानुसरणं शुभम् । स्वाध्यायसेबा
साधूनां सहवासः सुरार्च्चनम् । गुरूणां चैव शुश्रूषा
ब्राह्मणानाञ्च पूजनम् । इन्द्रियाणां यमश्चैव ब्रह्मचर्य्य-
ममत्सरम् । गङ्गास्रानं शिबो देवो विप्रपूजात्मचिन्त-
वम् । ध्यानं नारायणस्यैतत् संक्षेपाद्धर्मलक्षणम्”
“दानमित्यनेन दानखण्डप्रतिपाद्यानाम्, तीर्थानुसरणमि-
त्यनेनापि तीर्थखण्डप्रतिपाद्यानाम् देवब्राह्मणपूजन
मित्यनेनापि परिशेषखण्डप्रतिपाद्यानाम् देवतापूजना-
दिधर्माणां साधारणत्वम्” । वृहस्पतिः “दया, क्षमा-
ऽनसूया, च शौचानायासमङ्गलम् । अकार्पण्य,
मस्पृहत्व सर्वसाधारणानि च । परे वा बन्धुवर्गे वा
मित्रे द्वेष्टरि वा सदा । आपन्ने रक्षितव्यं तु दयैषा
परिकीर्त्तिता । बाह्ये वाऽऽध्यात्मिके चैव दुःखे चौत्पा-
तिके क्वचित् । न कुप्यति न वा हन्ति सा क्षमा
परिकीर्त्तिता । न गुणान् गुणिनो हन्ति स्तौति मन्दगुणा-
नपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्त्तिता ।
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यव-
स्थानं शौचमेतत् प्रकीर्त्तितम् । शरीरं पीद्ध्यते येन
सुशुभेनापि कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स
उच्यते । प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि
मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः । स्तोकादप्युप-
कर्त्तव्यमदीनेनान्तरात्मना । अहन्यहनि यत्किञ्चित्
अकार्पण्यं हि तत् स्मृतम् । यथोपपन्ने सन्तोषः
कर्त्तव्योऽत्यल्पवस्तुनि । परस्य चिन्तयन्नर्थं साऽस्पृहा
परिकीर्त्तिता” । तदेवं निरूपिताः षट्प्रकारा धर्माः ।
अन्यथाऽपि तद्भेदस्तत्रैवोक्तो यथा
विश्वामित्रः “यमार्य्याः क्रियमाणं हि शंसन्त्याग-
मवेदिनः । स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते” ।
भृनुः “प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म वैदिकम् ।
सर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा । प्रवृत्तसं-
ज्ञको धर्मो गुणतस्त्रिविधोमयेत् । सात्विको राजसश्चैव
तामसश्चेति भेदतः । काम्यबुद्ध्या च यत् कर्म मोक्षेऽबि
फलवर्जितम् । क्रियते द्विज! कर्मेह तत् सात्विक-
मुदाहृतम् । मोक्षायेदं करोमोति सङ्कल्प्य क्रियते तु
यत् । तत् कर्म राजसं ज्ञेयं न साक्षान्मोक्षकृद्भवेत् ।
कार्य्यबुद्ध्यानपेक्षं यत् कर्मविध्यनपेक्षया । क्रियते द्विज-
वर्य्येह तत्तामसमुदाहृतम्” ।
धर्म्माधिष्ठातृदेवस्योत्पत्तिः तत्र खण्डे वराहपु० दर्शिता
यथा “अथोत्पत्ति प्रवक्ष्यामि धर्मस्य महतीं नृप! ।
माहात्म्येन समायुक्त विस्तरेण नराधिप! । पू
ब्रह्माव्ययः शुद्धः परादपरसंज्ञितः । स सिसृक्षुः
प्रजास्त्वादौ पालनं तास्वचिन्तयत् । तस्य चिन्तयत-
स्त्वङ्गाद्दक्षिणाख्यात् सकुण्डलः । प्रादुर्बभूव पुरुषः
श्वेतमाल्यानुलेपनः । तं दृदोवाच भगर्वांश्चतुष्पादं वृषाक-
पृष्ठ ३८५३
तिम् । पालयेमाः प्रजाः पुत्र! त्वं ज्येष्ठो जगतो भव ।
इत्युक्तः स समुत्तस्थौ चतुष्पादः कृते युगे । त्रेतायां
स त्रिभिः पादैर्द्वाभ्यां वै द्वापरेऽभवत् । कलायेकेन
पादेन प्रजाः पालयते विभुः । षड्भेदो ब्राह्मणानां स
त्रेधा क्षत्रे व्यवस्थितः । द्वेधा वैश्येषु शूद्रेषु त्वेकधा
जगतः प्रभुः । रसातलेषु सर्वेषु द्वापरेषु स्वयम्भुवः ।
चतुःशृङ्गस्त्रिपाच्चैव द्विशिराः सप्तहस्तवान् । त्रिधैव
बद्धो विप्राणां मुखगः पालयन् प्रजाः” ।
भाग० ४ । १ । अ० । तत्पत्नीपुत्रादिभेदा दर्शिता यथा
“त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः । पितृभ्य
एकां युक्तेभ्यो भवायैकां भवच्छिदे । श्रद्धा मैत्री दया
शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा
ह्रीर्मूर्त्तिर्धर्मस्य पत्नयः । श्रद्धाऽसूत धृतिम् मैत्री प्रसाद-
मभयं दया । शान्तिः सुखं मुदं तुष्टिः णयं पुष्टिरसू-
यत । योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत । मेघा
स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् । मूर्त्तिः
सर्वगुणोपेतौ नरनारायणावृषी । ययोर्जन्मन्यदोविश्वमभ्य-
नन्दत् सुनिर्वृतम्” ।
वामनपुरा० अन्येऽपि तस्य भार्य्यापुत्रा उक्ता यथा
“धर्मस्य भार्य्याऽहिंसाख्या तस्यां पुत्रचतुष्टयम । सम्प्राप्तं
मुनिशार्दूल! योगशास्त्रविचारकम । ज्येष्ठः सनत्-
कुमारोऽभूत् द्वितीयश्च सनातनः । तृतीयः सनको नाम
चतुर्थश्च सनन्दनः । साङ्ख्यवेत्तारमपरं कपिलं वोढु-
मासुरिम् । दृष्ट्वा पञ्चशिखं श्रेष्ठं योनयुक्तं तपो
निधिम् । ज्ञानयोगं न ते दद्युर्जायां सोऽपि कनीय-
साम्” । देवादिभेदेन धर्ममेदा वामनपु० ११ अ०
उक्ता यथा “किंलक्षणो भवेद्धर्मः किमाचरणसत्-
क्रियः । यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्
ऋषय उचुः । देवानां परमो धर्मः सदा यज्ञादिकाः
क्रियाः । स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृतिः १ ।
दैत्यानां वाहुशालित्वं मात्सर्य्यं युद्धसत्क्रिया ।
विन्दनं नीतिशास्त्राणां हरभक्तिरुदाहृता २ ।
सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा । स्वाध्यायो
ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ३ । उत्कृष्टोपासनं
ज्ञेयं नृत्यवाद्येषु वादिता । सरस्वत्यां स्थिरा मक्ति-
र्गान्धर्वो धर्म उच्यते ४ । विद्याधरत्वमतुलं विज्ञानं
पौरुषे मतिः । विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव
च ५ गान्ध विद्यावेदित्वं भक्तिः स्थाणौ तुक्का स्थिरा ।
कौशल्यं सर्वशिल्पेषु र्मः कैम्पुरुषः स्मृतः ६ । ब्रह्मचर्य्य-
ममानित्वं योगार सरतिर्दृढ़ा । सर्वत्र कामचारित्वं
धर्मोऽयं पैतृकः स्मृतः ७ । ब्रह्मचर्य्यं यताशित्वं जप्य-
ज्ञानञ्च राक्षस! नियमोधर्मवेदित्वमार्षं धर्मं प्रच-
क्षते ८ । स्वाध्याया व्रह्मचर्य्यञ्च दानं यजनमेव च ।
अकार्पण्यमनायासं दयाहिंसाक्षमादयः । जितन्द्रिय-
त्वं शौचञ्च माङ्गल्यं भक्तिरुच्यते । शङ्करे भास्करे
देव्यां धर्मोऽयं मानव० स्मृतः ९ । धनाधिपत्यं भोगाश्च
स्वाध्यायः शङ्कराच्चनम् । अहङ्कारमशौचञ्च धर्मोऽयं
गुह्यकेष्विति १० । परदाराभिमर्षित्वं परार्थेऽपि च
लोलुपा । स्वाध्यायस्त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः
स्मृतः ११ । अविवेकताथाऽज्ञानं शौचहानिरमत्यता ।
पिशाचानामयं धर्मः सदा चामिपगृध्नुता १२ । योनयस्तु
द्वादशैताः सहधर्माश्च राक्षस! । ब्रह्मणा कथिताः
पुण्या द्वादशैव गतिप्रदाः” । २ धनुषि ३ यमे ४ सोमपे च पु०
मेदि० । ५ सत्सङ्गे ६ अर्हति जिने च पु० हेमच० । ७ न्याये
८ स्वभावे ९ आचारे १० उपमायां ११ क्रतौ १२ अहिंसा-
याम् । १३ उपनिषदि मेदि० पु० न० । १४ आत्मनि तस्य सर्वस्य
स्वस्मिन् धारणात् १५ जीवे देहप्राणादेर्धारणात् १६
षट्कलप्रस्तावे प्रथमगुरुकेऽन्त्यलघुचतुष्टयके द्वादशभेदे ।
१७ भाग्याख्ये लग्नेन्दुभ्यां नवमस्थाने तद्भावानयनं द्वादश-
भावशब्दोक्तदिशा बोध्यम् । तत्र चिन्त्यपदार्था जन्मकाले
तद्भावस्थग्रहयोगादिकफलं जातकपद्धतावुक्तं यथा
“विहाय भावान् सकलान् प्रयत्नाद्भाग्याभिध दैवविदा
विचिन्त्यम् । भाग्यान्वितो ना यदि शीलविद्याः कुलं
तदायुश्च भवेत् सुधन्यम् । लग्नाच्चन्द्रात् यद्भवेदङ्क-
संख्यं भाग्यस्थानं प्राक्तनैः कीर्त्तितं तत् । चिन्त्यो वीर्य्या-
ढ्यात्तयोस्तत्पतिः कः कस्मिन् भावे कीदृशः कारको
वा । भाग्यालयं स्वामियुतेक्षितं चेत् स्वदेशतो भाग्य-
विवृद्धिदं तत् । अन्येन दृष्टं त्वथ वा युतं चेदन्वल
देशे फलदानदक्षम् । भाम्यभे शुभखगा मिलिताः स्यु-
राज्यदा न रिपुनीचगृहे चेत् । धर्मधान्यसुखवृद्धि-
कराश्च स्वायुषः स्थिरधनस्य च वृद्ध्यै । नीचारि-
संस्थाश्च न सौम्यदृष्टाः पापाश्च भाग्येन शुभप्रदाः स्युः ।
क्रूरा अपि स्वे भवने शुभाः स्युर्विशेषतः सद्ग्रह
वीक्षिताश्चेत् । पूर्णचन्द्रसहितं शुभ ९ भं चेत् स्यात्
प्रधानपुरुषः पुरुषोऽसौ । स्वेचरेक्षणसमागमयुक्तं
सद्गुरोस्तु युतितोऽतिविशेषात् । स्वोच्चस्थिताः सर्वनभश्च
पृष्ठ ३८५४
रेन्द्राः शुभाः शुभस्थानगता विदध्युः । नरं समृद्धं
शुभदृष्टदेहा भूपं हतारिं सुशरीरकीर्त्तिम् । त्र्यादि
खेचरयुतिश्च भाग्यभे भूपतिं हि जनयेत् बुधोनिता ।
शौरिभूसुतगुरूनिता नरं कामकीर्त्तिधनसौख्यवर्जितम् ।
धर्मे तु तीर्थं दिनकृन्नवाब्दे चन्द्रो नखे १० वातमसृक्
च शक्रे १४ । मातुर्मृतिर्ज्ञोऽङ्गयुगे २६ कविर्मां तिथ्यव्दके
१५ तातमृतिं गुरुश्च” ।
वर्षलग्नात् धर्मभावफलं नी० ता० उक्तं यथा
“भौमेऽव दपे त्रिनवगे क्रूरायुक्ते बलान्विते । गुणावह-
स्तदा मार्गश्चिरं कार्य्यं स्थिरं तनु । त्रिधर्मस्थोऽव्दपः
सूर्य्यः कन्दलीमार्गसौख्यदः । अन्यप्रेषणयानं स्यात्
सं चेन्नाधिकृतो भवेत् । शुक्रेऽव्पे त्रिनवगे मार्गसौख्यं
विलोमगे । अस्ते वा कुगतिः सौम्ये देवयात्रा
तथाविधे । क्रूरार्दिते कुयानं स्यात् गुरावेवं विचिन्तयेत् ।
इत्थशाले लग्नधर्मपत्योर्यात्राऽस्त्यचिन्तिता । लग्नेशो
धर्मपे यच्छन् स्वं महश्चिन्तिताध्वगः । एवं लग्ना-
वदयोर्योगे मुथहाङ्गपयोरपि । गुरुस्थाने कुजे धर्मे
सद्यात्रा भृत्यवित्तदा । ज्ञस्थाने लग्नपो भौभो दृष्टः
सद्यानसौख्यदः । स्वस्थानगो हि बलवान् लग्नदर्शी सुया-
नदः । जन्माधिकारी ज्ञो मन्दस्थाने क्रूरयुतो यदा ।
पन्था रिपोः स्वकटकाद्गुरुशुक्रेन्दुजीवयोः । धर्मे
शनिर्नाधिकारी पन्थानमशुभं वदेत् । इत्थं गुरौ
दूरयात्रा नृपसङ्गस्ततो गुणः । कुजेऽव्दपे नष्टवले
स्वजनाद्दूरतो गतिः । द्यूनेन्थिशा धर्म इन्द्रौ सबलेऽध्वा
विदेशजः । वर्षेशो बलवान् पापायुतः केन्द्रेऽधिकार-
वान् । अधिकारे गतिः सङ्ख्ये मेनापत्येऽपि वा वदेत् ।
एवंविधे कुजे जीवे युतेऽर्कान्निर्गते पुनः । परसैन्यो-
परिगतिजयख्यातिसुखावहा । जीवान्नवमगे भौमे
शुभां यात्रां नृणां वदेत्” । १८ आधेये स्ववृत्तिपदार्थे
“धर्मादनिच् केवलात्” पा० बहु० अनिच् । विधर्मा सुधर्मा
केवलादित्युक्तेः परमः स्वीघर्मो यस्येति बहुब्रीहौ न ।
सन्दिग्धसाध्यघर्मा इत्यादौ तु कर्मधारयपूर्वपदो
बहुव्रीहिः समानविभक्तिकपदपूर्वकेतरत्वस्यैव केवलशब्दार्थ-
त्वात् निवृत्तिधर्मा अनुच्छित्तिधर्मा इत्यादौ अनिच् ।

धर्म्मकर्म्मन् न० धर्मस्य धर्मार्थं कर्म । धर्मप्रतिपादककर्मभेदे

“वेदप्रणिहितं धर्मकर्म तन्मङ्गलं परम्” ब्रह्मवै० पु० ।
धर्मकार्य्यधर्मक्रियादयोऽप्यत्र ।

धर्म्मकथादरिद्र पु० धर्मार्थकथायां दरिद्रः । कलिकाले

जातमानवे कलौ नॄणां धर्मकथाशून्यत्वात् तथात्वम् ।

धर्म्मकाम पु० धर्मं कामयते फलानमिसन्धानेन कम--अण्

उप० स० । कर्त्तव्यबुद्ध्या धर्मकारके “अथ ते (तव) यदि
धर्मविचिकित्सा वृत्तिविचिकित्सा वा स्यात् । ते तत्र
ब्राह्मणा सम्यग्दर्शनयुक्ता आयुक्ता अरूक्षा धर्मकामाः
स्युः” एका० धृता तैत्तिरीयश्रुतिः । “धर्मकामाः
जीवन्मुक्तवत् कर्मण्योदासीन्यमकुर्वाणाः” एका० रघु० ।

धर्म्मकाय पु० धर्मस्य धर्मार्थं कायोऽस्य । बुद्धे त्रिका० ।

धर्म्मकील पु० धर्मस्य कील इव । राजशासने त्रिका० ।

संज्ञायां कन् । धर्मकीलक ब्रह्मशासने शब्दरत्न० ।

धर्म्मकृत् त्रि० धर्मं धर्मसाधनं कर्म करोति कृ--क्विप् तुक् ।

१ धर्मसाधनकर्मकरे । “ज्येष्ठासु च न बहुमित्रः सन्तुष्टो
धर्मकृत् प्रचुरकोपः” वृ० सं० । २ विष्णौ पु० धर्मगुप्
“धर्मकृद्धर्मी” विष्णुस० । “धर्माधर्मविहीनोऽपि धर्म-
मर्य्यादास्थापनार्थं धर्ममेव करोतीति धर्मकृत्” भा० ।

धर्मकेतु पु० धर्मः अहिंसारूपकर्म केतुर्यस्य । १ बुद्धे शब्दा०

तस्याहिंसारूपपरमधर्मकृत्त्वात् तथात्वम् । काश्यपवंश्ये
२ सुकेतुनृपपुत्रभेदे । “सुकेतुतनयश्चापि धर्मकेतुरिति
श्रुतः” हरिवं० २९ अ० । “अलर्कात् सन्ततिस्तस्मात्
सुनीतोऽथ निकेतनः । धर्मकेतुःसुतस्तस्मात् सत्यकेतुरजा-
यत” भाग० ९ । १७ । ६ ३ निकेतनपुत्रे नृपभेदे च । धर्मः
केतुरिवास्य । ४ धर्मध्वजे त्रि० ।

धर्मकोष पु० धर्मः कोष इव धर्मस्य कोषः समूहो वा । धर्म-

रूपे रक्षणीये १ वस्तुनि २ धर्मसमूहे च “ब्राह्मणो
जायमानो हि पृथिव्यामघिजायते । ईश्वरः सर्वभूतानां
धर्मकोषस्य गुप्तये” मनुः ।

धर्मक्षेत्र न० त ६० । धर्म्मार्जनार्थक्षेत्रे कर्मभूमौ भारतवर्षे ।

धर्मस्य पूर्वमविद्यमानस्योत्पत्तेः विद्यमानस्य च वृद्धे-
र्निमित्ते शस्यस्येव २ स्थानभेदे च “धर्मक्षेत्ने कुरुक्षेत्रे
समवेता युयुत्सवः” गीता । कुरुक्षेत्रञ्च श्रुतिस्मृतिप्रसिद्धं
देवयजनस्थानमविमुक्तं वा कुरुक्षेत्रशब्दे दर्शितं तद्व्या-
वृत्तये धर्मक्षेत्रमिति विशेषणम् । “तस्मिन् याताः
पाण्डवाः पूर्वावधिधार्मिका यदि पक्षद्वयहिंसानिमित्ता
दधर्म्माद्भीता निवर्त्तेरन् ततः प्राप्तराज्या एव मम सुत
अथ वा धर्मक्षेत्रमाहात्म्येन पापिनामपि मत्पुत्राणां
कदाचित् चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः कपटो-
पात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं
हता एवेति स्वपुत्रराज्यालाभे पाण्डवराज्यलाभे च
दृढ़तरमुपायमपश्यतो महानुद्वेग एव प्रश्नवीजम्” भधुसू०
पृष्ठ ३८५५

धर्मगुप् त्रि० धर्मं गोपायति गुप--आयाभावपक्षे क्विप् ६ त० ।

१ धर्मरक्षके २ विष्णौ पु० “धर्मगुष् धर्मकृत् धमी” विष्णुस० ।
“धर्मसंरक्षणार्थाय सम्भवामि युगे युगे” गीतायां स्वस्य
धर्मरक्षार्थमाविर्भावस्योक्तेस्तस्य तथात्वम् ।

धर्मघट पू० धर्मार्थं देयो घटः । सौरवैशाखे प्रत्यहं धर्मार्थं

दीयमाने गन्धोदकभोज्यादिसहिते घटे । तद्विधानादि
भविष्यषु० उक्तं यथा “विनिष्क्रान्ते ततश्चैत्रे यदा
मेषगतो रविः । दोषादिरहिते काले चतुर्वर्षं समाचरेत् ।
तत्र नित्यं घटं दद्यात् मासमेकं सभोज्यकम् ।
चन्दनेन समालिप्तं दक्षिणादिमिरन्वितम् । व्रत-
मेतत् समाकुर्य्यात् यावत् वर्षचतुष्टयम्” । इदन्तु
व्रतरूपं दानम् । हेमाद्रिदानखण्डे तु अन्य-
विधं धर्माख्यघटस्य दानमुक्तं यथा “अथ धर्मघटदान
माह विष्णुः “शीतलेन सुगन्धेन वारिणा पूरितं घटम् ।
शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम् । दध्योदनयुतं
कुर्य्याच्छरावं तस्य चोपरि । उपानच्छत्रसंयुक्तं धर्माख्यं
कल्पयेद्घटम् । पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रमुदी-
रयेत् । ॐ नमो विष्णुरूपाय नमः सागरसम्भव! ।
अपांपूर्णोद्धरास्मांस्त्वं दुःखसंसारसागरात् । उदकुम्भो
मया दत्तो ग्रीष्मे काले दिने दिने । उदकुम्भप्रदानेन
प्रीयतां मधुसूदनः” । भविष्योत्तरे “प्रत्यहं धर्मघटको
वस्त्रसंवेष्टिताननः । ब्राह्मणस्य गृहे नेयः शीतामल-
जलः शुचिः । वसन्तग्रीष्मयोर्मध्ये यः पानीयं प्रय-
च्छति । पले पले सुवर्णस्य फलमाप्नोति गानवः । मार्ग-
शीर्षात् समारभ्य उदकुम्भन्तु यः क्षिपेत् । दिने दिने
सहस्रस्य गवां पुण्यफलं लभेत् । तस्यैवोद्यापनं कार्य्यं
मासि मासि नरोत्तम । मण्डकावेष्टकाभिश्च पक्वान्नैः
सार्वकामिकैः । उद्दिश्य शङ्करं विष्णुं ब्रह्माणमथ वा
पितॄन् । सतिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः ।
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य
प्रदानात् सततं मम सन्तु मनोरथाः । अनेन विधिना
यस्तु धर्मकुम्भं प्रयच्छति । वसन्ते ग्रीष्मसमये प्रपादान-
फलं लभेत् । प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः” ।
एतत् परमेव “दद्युर्धर्मघटांश्चापि सुगन्धोदकपूरितान्”
काशीख० १२ अ० वचनम् । धर्मकुम्भादयोऽप्यत्र ।

धर्मचक्र न० ६ त० । धर्मसमूहे । “भीष्मेण विहितं राष्ट्रे

धर्मचक्रमवर्त्तत” भा० आ० १०९ अ० । “यत्र पूर्वाभि-
सर्गे वै धर्मचक्रं प्रवर्त्तितम्” भा० शा० १५७ अ० ।
धर्मस्य चक्रं यत्र । २ बुद्धे पु० त्रिका० ।

धर्मचक्रभृत् पु० धर्मचक्रं विभर्त्ति भृ--क्विप् तुक् । १ जिन

धरणिः २ धर्मसमूहधारके त्रि० ।

धर्मचारिन् त्रि० धर्मं तत्साधनकर्म चरति चर--णिनि

६ त० । १ धर्मसाधनकर्मकारके । “स चेत् स्वयं कर्मसु
धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः” रघुः ।
स्त्रियां ङीप् । सा च २ सहधर्गकारिण्यां जायायां शब्द-
रत्ना० । “ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे”
भा० व० २९ अ० ।

धर्मचिन्तन न० चिन्ति--भावे ल्युट् ६ त० । धर्मस्य चिन्तायां हेमच० ।

धर्मचिन्ता स्त्री चिन्ति--भावे अ ६ त० । धर्म्मस्य चिन्तने

उपाधौ अमरः ।

धर्मज पु० धर्मार्थं जायते जन--ड । १ औरसे प्रथमे पुर्त्रौ

“यस्मिन्नृणं सन्नयति येन चानन्त्यमश्रुते । स एव धर्मजः
पुत्रः कामजानितरान् विदुः” मनुः । धर्मात् जायते
जन--ड । २ धर्मपुत्रे युधिष्ठिरे । “एवं सञ्चिन्त्य
भगवान् स्यराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः
साधूनां वर्म दर्शयन्” भाग० ३ । ३ । १७ । युधिधिरस्य
धर्मतो जन्मकथा भा० आ० १२३ अ० । “संवत्सरधुते गर्मे
गान्धार्य्या जनमेजय! । आह्वयामास वै कुन्ती गर्मार्ये
धर्ममच्युतम् । सा वलिं त्वरिता देवी धर्मायोपजहार
ह । जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा ।
आजगाम ततो देवो धर्मो मन्त्रबलात्ततः । विमाने
सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता । विहस्य तां ततो
ब्रूयाः कुन्ति! किन्ते ददाम्यहम् । सा तं विहस्यमाना-
ऽपि पुत्रं देह्यब्रवीदिदम् । संयुक्ता सा हि धर्मेण
योगमूर्त्तिधरेण ह । लेभे पुत्रं वरारोहा सर्वप्राणमृतां
हितम् । ऐन्द्रे १८ चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे ।
दिवामध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते । समृद्ध-
यशसं कुन्ती सुषाव प्रवरं सुतम् । जातमात्रे सुते तस्मिनु
वागुवाचा शरीरिणी । एष धर्मभृतां श्रेष्ठी भविष्यति
नरोत्तमः । विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां
भविष्यति । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः
सुतः” । ३ बुद्धभेदे ४ दिव्यभेदे न० धटशब्दे दृश्यम् ।
५ धर्मतो जातमात्रे त्रि० । ६ नरनारायणयोः पु० द्वि०
व० । धर्मशब्दे तयोर्मूर्त्तिरूपधर्म्मपत्नीजन्मकथा
दृश्या ।
पृष्ठ ३८५६

धर्मजन्मन् पु० धर्मतो जन्म यस्य । युधिष्ठिरे “वीक्ष्य धर्म-

मथ धर्मजन्मना” माघः ।

धर्मजन्य त्रि० धर्मेण जन्यः । धर्मतो जाते सुखे “सुखं

तु जगतामेव काम्यं धर्मेण जन्यते” भाषायां तस्य
तथीक्तेस्तथात्वम् ।

धर्मजिज्ञासा स्त्री धर्मार्थं धर्माचरणाय जिज्ञासा ।

वेदवाक्यविचारे धर्मसन्देहे वेदवाक्यानां विषयेत्यादाङ्गपञ्चक-
युक्ते विचारभेदे धर्ममीमांसायाम् “अथातोधर्मजि-
ज्ञासा” जै० सू० धर्ममीमांसाकर्मसीमांसाशब्दयोश्च
समानार्थतया धर्मस्योपक्रमे तल्लक्षणनिर्देशाय प्रवृत्ते
“चोदनालक्षणोऽर्थो धर्म” इति जै०२२ सूत्रे धर्मशब्दस्य
कर्मपरत्वं भाष्यसम्मतं युक्तम् न तु पुण्यपरत्वमिति ।

धर्मजीवन पु० याजनप्रतिग्रहादिना परस्य धर्ममुत्पाद्य

जीपति जीव--ल्यु । याजनादिना परस्य धर्मोत्
पादनेन जीवनोपाययुते ब्राह्मणभेदे “यश्चापि धर्म-
समयात् प्रच्युता धर्मजीवनः” मनुव्याख्याने कुल्लू० ।

धर्मज्ञ त्रि० धर्मं जानाति ज्ञा--क । अयं धर्मं इति ज्ञान-

युते । “धर्मज्ञः सत्यवादी च” “अमात्यमुख्यं धर्मज्ञं
प्राज्ञं दक्षं कुलोद्गतम्” मनुः ।

धर्मण पु० धर्माय नम्यते नम--बा० कर्मणि ड । (धामनि)

ख्याते १ वृक्षभेदे । (ढेमना) ख्याते ४ सर्पभेदे च मेदि० ।

धर्मतीर्थ न० धर्मकृतं तीर्थम् । तीर्थभेदे “ततो गच्छेन्महाराज!

धर्मतीर्थमनुत्तमम् । यत्र धर्मो महाभागस्तप्तवानुत्तमं
तपः । तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम् ।
तत्र स्नात्वा नरो राचन् । धर्मशीलः प्रजायते ।
आसप्तमं कुलञ्चैव पुनीते नात्र संशयः” भा० व० ८४ अ० ।

धर्मद पु० धर्मं स्वधर्मफलं ददाति अन्यस्मै संक्रामयति दा--क ।

१ स्वधर्मफलस्य अत्यस्मिन् संक्रामके २ धर्मोत्पादके च
“एतदेव भगाधानं धर्मिष्टे धर्मदं तथा” हरिवं० १२४ अ० ।
३ कुमारानुचरभेदे पु० । “धर्मदोमन्प्रथभवः सूचीवक्त्रश्च
वीर्य्यवान्” भा० शा० ४६ अ० तदनुचरोक्तौ ।

धर्मदान न० “पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ।

केवलं धर्मबुद्ध्या यत् धर्मदानं प्रचक्षते” देवलोक्ते प्रयो-
जनान्तरानुद्देशेन दाने

धर्मदार पु० ब० व० धर्मार्थमग्न्याधानाद्यर्थम् दाराः । धर्मार्थ-

दारेषु “धर्मदारान् वने त्यक्त्वा परकर्माकरोत् प्रभुः”
कामन्दकीय नीतिशास्त्रम् ।

धर्मदीपिका स्त्री तौडप्रमिद्वे मीमांमाग्रन्थभेदे ।

धर्मदुघा स्त्री धर्मान् दोग्घि आधारस्य कर्त्तुत्वविवक्षया

कर्त्तरि दुह--क धश्चान्तादेशः । धर्मदानस्थाने
बहिर्वेद्याम् शब्दार्थचि० ।

धर्मदेश पु० धर्मसाधन देशः । “स्वभावात् यत्र चरति कृष्ण-

सारः सदा मृगः । धर्मदेश स विज्ञेयो द्विजानां धर्म-
साधनम्” संवर्त्तोक्तं देशभेदे । हेमाद्रिव्र० विस्तारः ।

धर्मद्रवी स्त्री धर्मजनको द्रवो यस्याः गौरा० ङीष् ।

“विष्णुपादाग्रसम्भूते! गङ्गे त्रिपथगामिनि! । धर्म-
द्रवीति विख्याते! पापं मे हर जाह्नवि! । इत्युक्तायां
गङ्गायाम् प्रा० त० दृश्यम् ।

धर्मद्रोहिन् पु० धर्माय परस्य धर्माचरणाय द्रुह्यति द्रुह-

णिनि ४ त० । राक्षसे ।

धर्मधातु पु० धर्ममहिंसारूपं परमं धर्मं दधाति धा--तुन् । बुद्धे हेमच० ।

धर्म्मध्वजिन् पु० धर्मो ध्वजं चिह्नमिवास्त्यस्य इनि । लोके

निजधार्मिकत्वख्यापनार्थं धर्मकारके धर्मचारिणि
लिङ्गवृत्तौ “धर्मध्वजी लिङ्गवृत्तिः” अमरः । “धर्म-
ध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः” मनुः ।

धर्म्मन् पु० धृ--मनिन् । १ धर्मे पुण्ये शुभादृष्टभेदे “प्रेतिरसि-

धर्मणे त्वा धर्मं जिन्व” ताण्ड्यब्रा० १ । ९ । २ । “धर्मणे
धर्माय” भा० । “निर्गुणत्वान्न चिद्धर्मा” सां० सू० । आत्मनो
निर्गुणत्वान्न तस्य चित् धर्मा धर्म इत्यर्थः । “ज्ञानं नैवा-
त्मनो धर्मः” इति सां० प्र० धृतवाक्यात् तथात्वम् । धर्मन्शब्दे
दृश्यम् । २ धारके त्रि० । “पितुं नु स्तोषं महो धर्माणं
तविषीम्” ऋ० १ । १८७ । १ “महो महान्तं धर्माणं सर्वस्य
धारकम्” भा० । अनेनैवोपपत्तौ वहुब्रीहौ “धर्मादनिच
केवलात्” पा० अनिच्करणं चित्स्वरार्थं धर्मशब्दान्त-
तया प्रयोगनिरासार्थञ्च ।

धर्म्मनन्दन पु० ६ त० । युधिष्ठिरे धर्मजशब्दे दृश्यम् । धर्मसुतादयोऽप्यत्र ।

धर्म्मनाभ पु० धर्मः नाभिरिवास्य अच् समा० । विष्णौ हेमच०

धर्मनेत्र पु० १ यदुवंश्ये हैहयस्य पुत्रे । यदुवंशोपक्रमे “हैहय-

स्याभवत् पुत्रो धर्मनेत्र इति श्रुतः” हरिवं० ३३ अ० ।
२ पुरुवंश्य नृपभेदे । “धार्त्तराष्ट्रसुतान् आहुस्त्रीनेतान्
प्रसृतान् भुवि । प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत!”
भा० आ० ९४ अ० । अयञ्च प्रसिद्धात् धृतराष्ट्राद् भिन्नः
धृतराष्ट्रस्य पितुः शान्तनोः प्रतोपपुत्र तया तत्र कीर्तनात् ।
“प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शान्तमु-
श्चैव वाह्णीकश्च महारथ” । ३ पौरवंश्यतंसुनृपपुत्रभेदे च
“तंसोः सुबोधो राजर्षिर्धर्मनेत्रः प्रतापवान् हरिव० १ अ०
पृष्ठ ३८५७

धर्मनैपुण्यकाम पु० धर्मस्य नैपुण्यमतिशयं कामयते

कमअण् । पूर्वं गृहीतवेदप्राये पश्चाद् अध्ययनजन्यादृष्टवि-
शेषेच्छौ । “नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा” मनुः । “नैपुण्य-
मतिशयः धर्मातिशयार्थिनो ग्रामनगरयोः सर्वदान-
ध्यायः स्यात् । कुत्सितगन्धे च सर्वस्मिन्नपि गम्य-
माने । धर्मनैपुण्यकामं प्रत्ययं नित्यानध्यायोपदेशो,
विद्यानैपुण्यकामस्य कदाचिदध्ययनमनुजानाति । ये
शिष्याः केचिद् गृहीतवेदप्राया अध्ययननियमजन्या
दृष्टेच्छवस्ते धर्मनैपुण्यकामाः । केचित् प्रथमाध्येतारो
विद्यातिशयमात्रार्थिनस्ते विद्यानैपुण्यकामाः” कुल्लू० ।

धर्मप(ट्ट)त्तन न० वृ० सं० १४ अ० कूर्मविभागे दक्षिण-

स्यासुक्ते देशभेदे “वैदूर्य्यशङ्खमुक्तात्रिवारिचरधर्मपट्टन-
द्वीपाः” २ श्रावन्त्यां धर्मपुर्य्याम् । त्रिका० । तत् कारण-
तयाऽस्त्यस्य अच् । ३ मरिचे न० अमरः ।

धर्मपति पु० धर्मस्य चतिर्यस्मात् । १ धर्माधिपत्यसाधने वरुणे

“अथ वरुणाय धर्मपतये । वारुणं यवमयं चरुं निर्व-
पति तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति
परमता वै सा यो धर्मस्य पतिरसद्यो हि परमतां
नच्छति तं हि धर्म उपयन्ति तस्माद् वरुणाय धर्म-
पतये” शतब्रा० ५ । ३ । ३ । ९ । धर्मः पतिरिव यस्य ।
२ धर्मशीले च “वरुणो धर्मपतीनाम्” यजु० ९ । ३९ ।
“वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधि-
पत्ये त्वां सुवताम्” वेददी० ।

धर्मपत्नी स्त्री धर्मार्थं पत्नी । निर्दोषायां पत्याम् । “प्रथमा

धर्मपत्नी च द्वितीया रतिवर्द्धिनी । दृष्टमेव फलं तत्र
नादृष्टमुपजायते । धर्मपत्नी समाख्याता निर्दोषा यदि
सा भवेत्” दक्षसं० । “पतिब्रता धर्मपत्री पितृपूजन
तत्परा । मध्यमन्तु ततः पिण्डमद्यात् सम्यक् सुता-
र्थिनी” मनुः । “औरसो धर्मपत्नीजस्तत्समः पुत्रिका-
सुतः” याज्ञ० । १ धर्मदेवस्य पत्नीषु दक्षकन्यारूपासु ।
“नामतो धर्मपत्न्यस्ताः कीर्त्त्यमाना निबोध मे । कीर्त्ति-
र्लक्ष्मीर्वृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा । बुद्धिर्लज्जा
मतिश्चैव पत्न्यो धर्मस्य ता दश” भा० आ० ६६ अ० ।

धर्मपत्र न० धर्मसाधनं पत्रमस्य । यज्ञोदुम्बरे शब्दच० ।

धर्मपर त्रि० धर्मः परो यस्य । धर्मप्रधानके धर्मासक्ते

“जितेन्द्रियो धर्मपरः” भा० व० २०५ अ० । धर्मपरा-
अणोऽप्यत्र ।

धर्मपरिणाम पु० धर्मरूपः परिणामः । पातञ्जलोक्ते

चित्तस्य धर्मिणः व्युत्थाननिरे र्धर्मयोरभिभवप्रादुर्भाव-
रूपे परिणामभेदे यथाह तत्र
“एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा
व्याख्याताः” पात० सू० ।
“एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्था-
रूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामश्चा-
ऽवस्थापरिणामश्चोक्तोवेदितव्यः तत्र व्युत्थाननिरोधयोर्ध-
र्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षण-
परिणामश्च निरोधस्त्रिलक्षणः त्रिभिरध्वमिर्युक्तः स खल्व-
नागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो
वर्त्तमानं लक्षणं प्रतिपन्नः । यत्रास्य स्वरूपेणाभिव्यक्तिरे-
षोऽस्य द्वितीयोऽध्वा न चातीतानागताभ्यां वियुक्तः ।
तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्त्तमानं
लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्न-
मेषोऽस्य तृतीयोऽध्वा नचानागतवर्त्तमानाभ्यां लक्षणाभ्यां
वियुक्तः । एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतल-
क्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्त्तमानं लक्षणं प्रति-
पन्नं यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापार एषोऽस्य
द्वितीयोऽध्वा न चातीतानागताभ्यां लक्षणाभ्यां विमुक्त-
मित्येवं पुनर्निरोध एवं पुनर्व्युत्यानभिति । तथाऽव-
स्थापरिणामो निरोधलक्षणेषु निरोधसंस्कारा बलवन्तो
भवन्ति दुर्बला व्युत्थानसंस्कारा इत्येषु धर्माणामवस्था-
परिणामः तत्र धर्मिणोधर्मैः परिणामो धर्माणाम्
अध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः
परिणाम इत्येवं धर्मलक्षणावस्थापरिणामैः शून्यं न
क्षणमपि गुणवृत्तमवतिष्ठते । चलञ्च गुणवृत्तं
गुणस्वाभाव्यन्तु प्रवृत्तिकारणमुक्तं गुणानामिति । एतेन
भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधपरिणामो वेदितव्यः ।
परमार्थतस्त्वेक एव परिणामौ धर्मिस्वरूपमात्रो हि
धर्मोधर्मिविक्रियैवैष धर्मद्वारा प्रपञ्च्यते इति तत्र धर्मस्य
धर्मिणि वर्त्तमानस्यैवाध्वस्वतीतानागतवर्त्तमानेषु भावा-
न्यथात्वं भवति न द्रव्यान्यथात्वं यथा सुवर्णभाजनस्य
भित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वमिति ।” भा०
“ननु चित्तपरिणतिमात्रमुक्तं न तु तत्प्रकारा धर्म-
लक्षणावस्थापरिणामास्तत् कथं तेषामतिदेश इत्यत
आह । तत्र व्युत्थाननिरुद्धयोरिति । धर्मलक्षणा-
वस्थाशब्दाः परं नोच्चारिताः न तु धर्मलक्षणावस्था
पृष्ठ ३८५८
वरिणामा नोक्ता इति संक्षेपार्थः । तथा हि व्युत्थान
निरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः इमञ्च
धर्मपरिणामं दर्शयता तेनैव धर्माधिकारिणो लक्षणपरि-
णामोऽपि तेन सूत्रित एवेत्याह लक्षणपरिणाम इति
लक्ष्यते अनेनेति लक्षणं कालभेदः लक्षितवस्तु वस्त्वन्तरेभ्यः
कालान्तरयुक्तेभ्योव्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः
अस्यैव व्याख्यानं त्रिभिरध्वमिर्युक्तः अध्वशब्दः
कालवचनः स खल्वनागतलक्षणमध्वानं हित्वा तत्
किमध्ववत् धर्मनिरोधत्वमप्यतिपतति नेत्याह धर्म-
त्वमनतिक्रान्तो वर्त्तमानं लक्षणं प्रतिपन्नं यत्र निरोधो
ऽनागत आसीत् स एव सम्प्रति वर्त्तमानो नतु निरोधो-
ऽनिरोध इत्यर्थः । वर्त्तमानतास्वरूपव्याख्यानं
यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकारिणाऽभिव्यक्तिः
समुदाचारः एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्विती-
योऽद्धा । स्यादेतत् अनागतमध्वानं हित्वा चेद्वर्त्त-
मानतामापन्नस्ताञ्च हित्वा अतीततामापत्स्यते हन्त भोः
अध्वनामुत्पादविनाशौ स्यातां न चेष्यते नह्यसत उत्पादो
नापि सतोविनाश इत्यत आह नचातीतानागताभ्यां
सामान्यात्मनावस्थिताभ्यां वियुक्तैति । अनागतस्य
निरोधस्य वर्त्तमानतालक्षणं दर्शयित्वा वर्त्तमानव्युत्था-
नस्यातीततां तृतीयमध्वानमाह तथा व्युत्थानमिति
तत् किं निरोध एवानागतो न व्युत्थानं नेत्याह ।
एवं पुनर्व्युत्त्ःआनमिति व्युत्थान जात्यपेक्षया पुनर्भावः न
व्यक्त्यपेक्षया न ह्यतीतं पुनर्भवतीति । स्वरूपाभित्य-
क्तिरर्थक्रियाक्षमस्याविर्भावः सचैवं लक्षणपरिणाम
उक्तः तज्जातीयेषु पौनःपुन्येन वर्त्तत इत्याह ।
एवं पुनरिति धर्मपरिणामसूचितमेवावस्थापरिणाम-
माह तथेति धर्माणां वर्त्तमानाध्वनां बलवत्त्वाबलवत्वा-
ऽवस्था तस्याः प्रतिक्षणं तारतम्येन परिणामः । उपसं-
हरति एष इति परिणामभेदानां सम्बन्धिमेदान्निर्धार-
यति तन्त्रानुभवानुसारात् धर्मिण इति । तत्
किमेष परिणामो गुणानां कादाचित्की नेत्याह ।
एवमिति कस्मात्? पुनरयं परिणामः सदातन इत्यत
आह । चलञ्चेति चोहेत्वर्थः वृत्तं प्रचारः
एतदेव कुत इत्यत आह । गुणस्वाभाव्यमिति उक्तमत्रैव
पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामः भूतेन्द्रियेषु
सूत्रकारेण निर्दिष्ट इत्याह एतेनेति । एष धर्म-
धर्मिभेदो धर्मधर्मिणोर्भेदमालक्ष्य तत्र भूतानां पृथि-
व्यादीनां धर्मिणां नवादिर्घटादि र्वा धर्मपरिणामः ।
धर्माणां चातीतानागतवर्तमानरूपतालक्षणपरि-
णामः वर्तमानलक्षणापन्नस्य गवादेर्बाल्यकौमार
यौवनवार्द्धक्यमवस्थापरिणामः । घटादीनामपि नवपुरा-
तनतावस्थापरिणाम एवमिन्द्रियाणामपि धर्मिणां तत्त-
न्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्त्तमानादि
लक्षणपरिणामो वर्त्तमानलक्षणस्य रक्ताद्यालोचनस्फु-
टत्वास्फुटत्वादिरवस्थापरिणामः । स चायमेवंविधो
भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां मेदमा-
श्रित्य वेदितव्यः । अभेदमाश्रित्याह परमार्थतस्त्विति
तुशन्दोभेदपक्षाद्विशिनष्टि पारमार्थिकत्वमस्य ज्ञाप्यते
नत्वन्यस्य परिणामस्य निषिध्यते । कस्मात्? धर्मिस्वरूप-
मात्रोहीति ननु यदि धर्मिविक्रियैव धर्मः कथमसङ्कर-
प्रत्ययो लोके परिणामेष्वित्यत आद्व । धर्मद्वारेति धर्म-
शब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते तद्द्वारेण धर्मिण
एव विक्रियेत्येका चासङ्कीर्णा च द्वाराणामभेदोऽपि
धर्मिणः परस्परासङ्करात् । ननु धर्माणामभिन्नत्वे
धर्मिणोऽध्वनाञ्च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापि
इह धर्मिवद्भवितव्यमित्यत आह तत्र धर्मस्येति भावः
संस्थानभेदः सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिक
व्यपदेशभेदो भवति तन्मात्रमन्यथा भवति । न तु द्रव्यं
सुवर्णभेदमुपैति अत्यन्तमेदाभावादिति वक्ष्यमाणोऽभि-
सन्धिः ।” विवृतिः

धर्मपाठक पु० धर्मं धर्मशास्त्रं पठति पठ--ण्वुल् । मन्वा-

दिधर्मशास्त्राध्येतरि । “त्रैविद्यो हेतुकस्तर्की
नैरुक्तो धर्मपाठकः” मनुः ।

धर्मपाल त्रि० धर्मं पालयति पालि--अण् उप० स० । वर्ण्णा-

श्रमधर्मरक्षके २ दण्डे पु० तद्भीत्या लोकैर्धर्मस्य
चरणात् तस्य तथात्वम् । “दण्ड एव च सर्वात्मा
लोके चरति मूर्त्तिमान् । भिन्दन् छिन्दन् रुजन्
कृन्तन् दारयन् पाटयंस्तथा । घातयन्नभिधावंश्च दण्ड
एव चरत्युत । असिर्विशसनो धर्मस्तीक्ष्णधर्मा दुराधरः ।
श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः । शास्त्रं
ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर! । धर्मपालो-
ऽक्षरो देवः सत्यगो नित्यगोऽग्रजः । असङ्गो रुद्रतनयो
मनुर्ज्येष्ठः शिवङ्करः । नामान्येतानि दण्डस्य कीर्त्ति-
तानि युधिष्ठिर!” भा० शा० १२१ अ० ।
पृष्ठ ३८५९

धर्मपुत्र पु० ६ त० । युधिष्ठिरे हेमच० । १ नरनारायणयो-

रृष्योश्च द्वि० व० धर्मशब्दे दृश्यम् । धर्मतः कृतः पुत्रः ।
२ धर्मतः कृते पुत्रे । “यावद्धुर्जटिधर्मपुत्र (परशुराम)
परशुक्षुण्णाखिक्षत्रियश्रेणीशोणितपिच्छिला वसुमती
कोऽस्यामधास्यत् पदम्” महाना० । धर्मसुतादयोऽप्यत्र ।
धर्मजः पुत्रः । ३ ज्येष्ठे औरसे धर्मपत्नीजे पुत्रे च ।
धर्मजशब्दे मनुवाक्यं दृश्यम् ।

धर्मप्रतिरूपक पु० धर्मस्य प्रतिरूपमिव कायति कै--क ।

“शक्तः परजने दाता स्वजने दुःखदायिनि । मध्वापातो
विषास्वादः स धर्मप्रतिरूपकः” मनूक्तलक्षणयुक्ते
धर्माभासे “यो बहुधनत्वाद्दानशक्तः सन् अवश्यभरणीये
पितृमात्रादिज्ञातिजमे दौर्गत्यात् दुःखोपेते सति
यशोऽर्थमन्येम्यो ददाति स तस्य दानविशेषो धर्मप्रतिरूपको
न तु धर्म एव मध्वापातो मधुरोपक्रमः प्रथमं
यशस्करत्वात् विषास्वादश्चान्ते नरकफलत्वात् तस्मादेतन्न
कार्य्यम्” कुल्लू० ।

धर्मप्रवक्तृ पु० धर्मं सन्दिग्धार्थे अयं धर्म इति प्रवक्ति प्र +

वच--तृच् । धर्मनिर्णायके राज्ञां व्यवहारस्थानस्थे सभ्य-
भेदे । स च ब्राह्मण एव तदभावे क्षत्रियवैश्यौ न शूद्रः
यथाह मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्रा-
ह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न्न तु शूद्रः कथञ्चन । यस्य
शूद्ररा कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं
पङ्के गौरिव पश्यतः” “ब्राह्मणो धर्मप्रवक्तेति विधाना-
देव शूद्रनिवृत्तिः सिद्धा पुननै तु शूद्र इति शूद्रनिषेधो
योग्यब्राह्मणामावे क्षत्रियवैश्ययोरम्यमुज्ञानार्थः ।
अतएव कात्यायनः “यत्र विप्रो न विद्वान् स्यात् क्षत्रियं
तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्ज-
येत्” कुल्लू० ।

धर्मप्रवचन पु० धर्मं प्रवक्ति प्र + वच--ल्यु ।

शाक्यमुनौ शब्दार्थचि० ।

धर्मप्रस्थ पु० तीर्थभेदे “ततो गच्छेत राजेन्द्र! धर्मप्रस्थं

समाहितः । तत्र धर्मो महाराज! नित्यमास्ते युधि-
ष्ठिर! । तत्र कूपोदकं कृत्वा ततः स्नातः शुचिस्तथा ।
पितॄन् देवांस्तु सन्तर्प्यमुक्तपापोदिवं व्रजेत्” भा० व० ८४ अ० ।

धर्मबाणिजिक त्रि० धर्मे बाणिजिक इव । फलकामनया

कर्मकरे तस्य फलकामनया कृतत्वेन धर्मं दत्त्वा
फलस्य ग्रहणात् बाणिजिकतुल्यत्वम् “धर्मबाणिजिका-
मूढ़ाः फलकामाः नराधमाः । अर्च्चयन्ति जगन्नार्थ ते
कामान्नाप्नुवन्त्युत” मल० त० विष्णुधर्मोत्तरपु० ।

धर्मभगिनी स्त्री धर्मतः कृता भगिनी । १ धर्मतः कृतायां

भगिन्यां २ गुरुकन्यायाञ्च ।

धर्मभाणक पु० धर्मं धर्मार्थं भणति पठति । भारतादिपाठके शब्दच० ।

धर्मभिक्षुक पु० धर्मार्थं भिक्षते भिक्ष--उक । मनूक्ते नवविधे

धर्मार्थभिक्षाशीले । “सान्तानिकं यक्ष्यमाणमध्वगं सर्ववे-
दसम् । गुर्वर्थपितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ।
नवैतान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान्
निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः” मनुः ।
“सन्तानप्रयोजनत्वाद्विवाहस्य, सान्तनिको विवाहार्थी
यक्ष्यमाणो अवश्यकर्त्तव्यज्योतिष्टोमादियागं चिकीर्षुः
अध्वगः पान्थः सर्ववेदसः कृतसर्वस्वदक्षिणविश्वजिद्-
यागः, विद्यागुरोर्ग्रासाच्छादनादिरर्थः प्रयोजनं यस्य स
गुर्वर्थः एवं पितृमात्रर्थावपि स्वाध्यायार्थी स्वाध्याया-
ध्ययनकालीनाच्छादनाद्यर्थी ब्रह्मचारी, उपतापी रोगी
एतान्नव ब्राह्मणान् धर्मभिक्षाशीलान् स्नातकान् जानी-
यात् । एतेभ्यो निर्द्धनेभ्यो गोहिरण्यदि दीयत इति
दानविद्याविशेषान्तुरूपेण दद्यात्” कुल्लू० ।

धर्मभृत् त्रि० धर्मं बिभर्त्ति भृ--क्विप् तुक् । धर्मधारके

“एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः” भा० व०
१२३ अ० ।

धर्मभृत त्रि० धर्मो भृतो येन । १ रक्षितधर्मके २ त्रयोदशस्य

मनोः पुत्रभेदे पु० । “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु
रुचेः सुताः । चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः”
हरिवं० ७ अ० ।

धर्मभ्रातृ पु० धर्मतः कृतो भ्राता । १ गुरुपुत्रादौ २ भ्रातृत्वेन

प्रतिपन्ने एकाश्रमिणि च “वानप्रस्ययतिब्रह्मचारिणामृक्-
थभागिनः । क्रमेणाचार्य्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः”
याज्ञ० । “धर्मभ्राता प्रतिपन्नो भ्राता तीर्थशब्दस्याश्रम
वाचित्वादेकतीर्थ्येकाश्रमी । धर्मभ्राता चासावेक-
तीर्थी चेत्यर्थः” वीर० मि० ।

धर्म्ममूल न० त ६० । धर्मस्य प्रमाणे, तानि च मन्वादिभि-

र्दर्शितानि । तत्र मनुः
“वेदोऽखिली धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” । विधिर्बिधेय
स्तर्कश्च वेदाङ्गानि षड़ेव चेति” विधिरज्ञातज्ञापको
वेदभागः विधेयोमन्त्रः तर्कोमीमांसा । अङ्गान्याह
देवलः “शिक्षाव्याकरणनिरुक्तच्छन्दःकल्पज्योतीषीति
वेदाङ्गानि” “शुचो तु चरिते शीलनित्यायारणैन
पृष्ठ ३८६०
शीलत्वाभिधानात् क्वथं पृथगुपादनम् । न आचर्य्यानु-
ष्ठनिलक्षणक्रियारूपत्वादाचारस्य स्वरूपविशेषत्वाच्छी-
लस्य व्यक्त एव भेदः । “शुचौ तु चरिते शीलमिति”
शीलस्य चरितविशेषहेतुत्वादुपचारेण चरितत्वाभि-
धानम् । अथ शीलं कस्य धर्मतां प्रमापयति । आत्मन
एव पुरुषविशेषस्वभावोऽन्यथानुपपद्यमानः स्वस्य श्रेयः
साधनतां बाधयति । तथा च ब्राह्मण्यतेत्यादिहारीत-
वचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यति-
रोकतां बोधयत् स्वभावतामेव ज्ञापयति यदाह
हारीतः “ब्राह्मण्यता १ देवपितृभक्तता २ सौम्यता ३ अपरोप
तापिता ४ अनश्लीलता ५ मृदुता ६ अपारुष्यं ७ मित्रता ८
प्रियवादित्वम् ९ कारुण्यं १० कृतज्ञता ११ शरण्यता १२
प्रशान्ति १३ श्चेति त्रयोदशविधं शीलम्” । आचारो विवाहादौ
कङ्कणबन्धनाद्यनुष्ठानम् । आत्मतुष्टिरत्र धर्मसन्देहे
वैदिकसंस्कारवासितान्तःकरणानां साधूनामेकत्र पक्षे मनः
परितोषः । याज्ञवल्क्यः “श्रुतिः स्मृतिः सदाचारः स्वस्य
च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं
स्मृतम् । पुराणन्यायमीमांसा धर्मशस्त्राङ्गमित्रिताः ।
वेदाः स्थानानि विद्यानाम् धर्मस्य च चतुर्दश” ।

धर्ममेघ पु० धर्मात् मेहति वर्षति मिह--अच् धश्चान्तादेशः

६ त० । पातञ्जलोक्ते असंप्रज्ञातसमाधौ । तल्लक्षणादि पात०
सूत्रभाष्यविवृतिषूक्तं यथा “प्रसङ्ख्यानेऽप्यकुसीदस्य
सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः” सू० ।
  • “यदायं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न
किञ्चित प्रार्थयते तत्रापि विरक्तस्य सर्वथा विवेकख्याति-
रेव भवतीति पुंस्कारवीजक्षयान्नास्य प्रत्ययान्तराण्युत्प-
द्यन्ते तदास्य धर्ममेधोनाम समाधिर्मवति” भा०
“ततः पसङ्ख्यानान्नकिञ्चित् सर्वभावाधिष्ठातृत्वादि
प्रार्थयते प्रत्युत तत्राप्रि क्लिश्नाति परिणामित्वदोषदर्शनेन
विरक्तः सर्वथा विवेकख्यातेरेव भवति एतदेव विवृणोति
तत्रापीति यदा व्युत्थानप्रत्यया भवेयुः तदा नायं
ब्राह्मणः सर्वथा विवेकख्यातिः यतस्तस्य प्रत्ययान्त-
राणि न भवन्ति ततः सर्वथा यदा विवेकख्यातिरिति
तदास्य धर्ममेघःसमाधिर्भवति । एतदुक्तं भवति प्रसङ्ख्याने
विरक्तस्तन्निरोधमिच्छन् धर्ममेघं समाधिमुपासीत
तदुपासने च सर्वथा विवेकख्यातिर्भवति” विवृतिः ।
“ततः क्लेशकर्मनिवृत्तिः” सू० ।
“तल्लाभादविद्यादवः क्लेशाः समूलकाषं कषिता
भवन्ति कुशलाकुशलाश्च कर्माशयाः समूलघातं हता
भवन्ति क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्ती भवति
कस्मात् यस्माद्विपर्ययो भवस्य कारणं, न हि क्षीणविप-
र्ययः कश्चित् केनचित् क्वचिज्जातो दृश्यते इति” भा० ।
“तन्निरोद्धुं पारयतीति तस्य च प्रयोजनमाह ।
ततः । कस्मात् पुनर्जीवन्नेव विद्वान् विमुक्तोभवति
उत्तरं यस्मादिति क्लेशकर्मवासनेद्धः किल कर्माशयो
जात्यादिनिदानं, न चासति निदाने निदानी भवितुम-
र्हति यथाहात्र भगवानक्षपादः “वीतसागजन्मादर्शना-
दिति” विवृतिः ।
“तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेय-
मल्पम् ।” सू०
“सर्वैः क्लेशकर्मावरणेर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति
तमसामिभूतमावृतं ज्ञानसत्वं क्वचिदेव रजसा प्रवर्त्तितम्
उद्घाटितं ग्रहणसमर्थैं भवति तत्र यदा सर्वैरावरण-
मलैरपगतमलं भवति तदा भवत्यस्यानन्त्यं ज्ञानस्यानन्त्यात्
ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम्
“अत्नोमणिमविध्यत्तमनङ्गुलिरथावयत् । अग्रीवस्तं प्रत्य-
सुञ्चत्तमजिह्वोभ्यपूजयदिति” भा० ।
“अथैवं धर्ममेघे सति कीदृशं चित्तमित्याह ।
तदेति आव्रियते चित्तसत्वमेभिरिति आवरणानि-
मलाः क्लेशकर्माणि सर्वे च ते आवरणमला-
श्चेति सर्ववरणमलाः तेभ्योऽपेतस्य ज्ञानस्य चित्तसत्वस्य
ज्ञायतेऽनेनेति अनया व्युत्पत्त्या, आनन्त्यादपरिमेयत्वात्
ज्ञेयमल्वम् । यथा हि शरदि घनपटलमुक्तस्य चन्द्रा-
र्च्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्याः
घटादयोऽल्पाः प्रकाशन्ते एवमपगतरजस्तमसश्चित्तसत्वस्य
प्रकाशानन्त्यादल्पं प्रकाश्यमिति तदेतदाह सर्वैरिति
एतदेव व्यतिरेकमुखेन स्फोरयति आवरकेण तमसा-
भिभूतमिति क्रियाशीलेन रजसा प्रवर्त्तितमतएवोद्वा-
टितं तम इत्यथः । अतएव सर्वान् धर्मान् ज्ञेयान् मेहति
वर्षति प्रकाशनेनेति धममेघ इत्युच्यते । नन्वयमस्तु धर्म-
मेघः समाधिः । सवासनक्लेशकर्माशयप्रशमहेतुः अथ
सत्यप्यस्मिन कस्मात् न जायते पूनर्जन्तुः इत्यत आह
यत्रेदमुक्तमिति कारणसमुच्छेदेऽपि चेत् कार्यं क्रियते
हन्त भोः मणिवेधाटयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः,
तथाचानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थः स्यात् ।
अविध्यदब्धोमणिमिति आवयत् ग्रथितवान्, प्रत्य-
पृष्ठ ३८६१
मुञ्चत् पिनद्धवान्, अभ्यपूजयत् स्तुतवानिति” विवृतिः ।
“ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।” सू०
“तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणा-
मक्रमः परिसमाप्यते नहि कृतभोगापवर्गाः परिसमाप्त-
क्रमाः क्षणमध्यवस्थातुमुत्सहन्ते ।” भा०
“ननु धर्ममेघस्य परा काष्ठा तानप्रसादमात्रं परं
वैराग्यं समूलघातमपहन्तु व्युत्थानसमाधिः संस्का-
रान् सक्लेशकर्माशयान, गुणास्तु स्वतएव विकारकरण-
शीलाः कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादि
नारभन्ते इत्यत आह । ततो--गुणानाम् । शीलमिदं
गुणानां यं प्रति कृतार्थास्तं प्रति न प्रवर्त्तन्ते
इति भावः” विवृतिः ।

धर्म्मयु त्रि० धर्म + अस्त्यर्थे बा० यु । धर्मविशिष्टे धार्मिके शब्दच० ।

धर्म्मयुग न० धर्मप्रधानं युगं शाक० त० । सत्ययुगे “नात्यर्थं

धामिकस्तस्य स हि धर्मयुगेऽभवत्” हरिवं० १३ अ० ।
(सः कृकपुत्रो बाहुः) ।

धर्म्मयुज् त्रि० धर्मेण युज्यते युज--कर्मणि क्विप् । १ धर्मयुक्ते

२ न्यायार्जितद्रव्ये न० । “दाता प्रतिग्रहीता च श्रद्धा
देयञ्च धर्मयुक् । देशकालौ च दानानामङ्गान्येतानि
षड्विदुः” देवलः । “धर्मयुक् न्यायार्जितद्रव्यम्” शुद्धित० रघु०
तथाच विष्णुध० “देश काले तथा पात्रे धनं न्यायागतं
तथा । यद्दत्तं ब्राह्मणश्रेष्ठास्त्वनन्तं तत् प्रकीर्त्तितम्”

धर्म्मयूप पु० धर्मस्य यूप इव । विष्णौ । “धर्मयूपो

महामखः” विष्णुस० । “यूपे पशुवत् भगवत्समाराधना-
त्मका धर्मास्तत्र बध्यन्तेऽतो धर्माणां यूपः” भा० यथा
यूपः पशूनां नियोजनस्थानमेवं विष्णुः स्वससाराधना-
त्मकानां धर्माणां स्थानमित्यर्थः ।

धर्म्मरत्न न० जीमूतवाहनकृते स्मृतिनिबन्धभेदे ।

धर्म्मरथ पु० सगरनृपपुत्रभेदे स च कपिलमुनिनेत्राग्निदग्धा-

वशेषितानां वंशकराणां चतुर्ण्णा मध्ये एकतमः ।
यथाह हरिवं० १४ अ० । “स धर्मविजयी राजा
विजित्येमां वसुन्धराम । अश्वं प्रचारयामास
वाजिमेधाय दीक्षितः । तस्य चारयतः सोऽश्वः
समुद्रे पूर्वदक्षिणे । वेलासर्मापेऽप्रहृतो भूमिञ्चैव
प्रवेशितः । तं तं देशं तदा तत्रैः खानयामार
वार्थिवः । आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ।
तमादिदेवं पुरुषं हरिं कृष्णं प्रजापितिम् । विष्णुं
कपिलरूपेण खप्रन्तं पुरुषोत्तमम् । तस्य चक्षुः समु-
त्थेन तेजसा प्रतिबुध्यतः । दग्धास्ते वै महाराज
चत्वारस्त्ववशेषिताः । वर्हकेतुः सुकेतुश्च तथा धर्म-
रथो नृपः । शूरः पञ्चजनो नाम तस्य वंशकरा नृप ।
प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम् । अक्षयं
वंशमिक्ष्वाको! कीर्त्तिञ्चाप्यनिवर्त्तिनीम् । पुत्रं समुद्रञ्च
विभुः स्वर्गे वासन्तथाऽक्षयम् । पुत्राणां चाक्षयान् लोकान्
तस्य ये चक्षुषा हताः । समुद्रश्चार्घमादाय ववन्दे तं
महीपतिम् । सागरत्वञ्च लेभे स कर्मणा तेन तस्य वै ।
तञ्चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धान् । आजहारा-
श्वमेधानां शतं स सुमहायशाः । पुत्राणाञ्च
सहस्राणि षष्टिस्तस्येति नः श्रुतम् ।”
२ अनुवंश्यस्य दिविरथस्य पुत्रभेदे च । “खनमानोऽङ्गदो
जचे तस्माद्दिविरथस्ततः । सुतो धर्मरथो यस्य जज्ञे
चित्ररथोऽप्रजः” रोमपाद इति ख्यातः भाग० ९ । २३ । ३

धर्म्मराज् पु० धर्मेण राजते राज--क्विप् । १ यमे “सोऽग्नि-

र्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट्” मनुः । २ धर्मेण
राजमाने धार्मिके त्रि० । “अथोपविष्टं शयने गौतमं
धर्मराट तदा” भा० शा० १७० अ० । धर्मराट् इति
नाडीजङ्घस्य विशेषणम ।

धर्म्मराज पु० धर्मेण राजते राज--अच् ३ त० । धर्माणां

राजा ईश्वरो वा टच्समा० । १ जिने २ यमे च अमरः ।
३ नृपे ४ युधिष्ठिर च शब्दरत्ना० । तत्र जिनस्य अहिंसा-
रूपपरमधर्मेण राजनात् तथात्वं यमस्य च तथात्वमुक्तम्
भा० व० २९६ अ० । “विवस्वतस्त्वं तनयः प्रतापवां-
स्ततो हि वैवस्वत उच्यते बुधैः । समेन धर्मेण चरन्ति
ता० प्रजास्ततस्तबेहेश्वर धर्मराजता” “तथेत्युक्त्वा तु
त पाशं मुक्त्वा वैवस्वतो यमः । धर्मराजः प्रहृष्टात्मा
सावित्रीमिदमव्रवीत्” नृपाणां तथात्वञ्च “इन्द्रानलयमा-
र्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा
सिहत्य शाश्वतीः । यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मिता
नृपाः मनुना यममात्रातोनिर्माणस्योक्तेः धर्मराजवद्
अधर्मरतानां नराणां नियमनाद्वा तथात्वम् बोध्यम् ।
युधिष्ठिरस्य धर्मप्रधानत्वात् तथात्वम् । “सहायमध्वर
घुरां धर्मराजो विवक्षते” माघः समासान्तविधेरनित्य-
त्वात् क्वचिदार्षे न टच्समा० । “जयाशीर्मिश्च तं विप्रो
धर्मराजानमार्चयत” भा० स० ५ अ० ।

धर्म्मरातृ त्रि० धर्मं राति ददाति रा--तृच् । १ धर्मदातरि स्त्रियां

ङीप् सा च २ चप्सु “आपो देव्य ऋषीणां विश्वरात्र्यो
दिव्यामदन्त्योयाः शङ्कराः धर्मरात्र्यः” हरिवं० १३८ अ०
पृष्ठ ३८६२

धर्म्मलक्षण न० धर्मो लक्ष्यते ज्ञायतेऽनेन लक्ष--करणे ल्युट् ।

१ धर्मप्रमापके वेदादौ । धर्ममूलशब्दे दृश्यम् ।
२ मीमांसायां स्त्री ङीप् । भावे ल्युट् ६ त० । चोदनालक्ष-
णोऽर्थो धर्मः” जै० सूत्रोक्ते ३ धर्मस्य लक्षणे इतरभे-
दानुमापके धर्मस्वरूपादौ च धर्मशब्दे दृश्यम् ।
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्” इति मनूक्ते ।
“पात्रे दानं मतिः कृष्णे मातापित्रोश्च पूजनम् । श्रद्धा
वलिर्गवां ग्रासः षड्विधं धर्मलक्षणम्” इत्युक्ते च
४ धर्मस्य साधने च ।

धर्म्मवत् त्रि० धर्म्म + अस्त्यर्थे मतुप् मस्य वः । धर्मयुक्ते

धार्मिके । “मित्रावरुणवन्त उत धर्मवन्तः” ऋ० ८ । ३५ । १३

धर्म्मवर्म्मन् त्रि० धर्म्म वर्म्म इव यस्य । १ धर्ममात्रस्यैव

आवरकत्वेन धारके २ धर्मं कवचत्वेनामिमन्यमाने ।
धर्मस्य वर्मेव । ३ धर्मरक्षके न० । “ब्रूहि योगेश्वरे
कृष्णे ब्रह्मण्ये धर्मवर्मणि” माग० १ । १ । ३

धर्म्मवासर पु० धर्मस्य तत्साधनस्य वासरः । पौर्णमास्यां त्रिका० ।

धर्म्मवाहन पु० धर्मं बाहयति प्रापयति नरान् वाहि--ल्यु ।

१ शिवे त्रिका० । भावे ल्युट् । धर्मस्य २ प्रापणे न० । ६ त० ।
धर्मस्य धर्मराजस्य याने ३ महिषे ।

धर्म्मविद् त्रि० धर्मं वेत्ति विद--क्विप् । धर्मज्ञे । “अद्भि-

स्तीर्थेन धर्मवित्” मनुः ।

धर्म्मविदुत्तम पु० ६ त० । विष्णौ “धर्मो धर्मविद्युत्तमः” विष्णुस० ।

धर्म्मविद्या स्त्री ६ त० । १ मीमांसादिविद्यायां २ तदुपलक्षित

शास्त्वे च । ततः क्रत्वा० ठक् । धार्मविद्यिक तद्वेत्तरि
तद्ग्रन्थाध्येतरि च ।

धर्म्मविप्लव पु० ६ त० । धर्मस्य व्यतिक्रमे ।

धर्म्मविवेक धर्मस्य विवेकोऽत्र । हलायुधकृते धर्मनिवन्धभेदे

धर्म्मवीर पु० वीरभेदे “स च दानधर्मयुद्धैर्दयया च समन्वित

श्चतुर्द्धा स्यात्” सा० द० उक्ते १ वीररसभेदे २ तद्युक्ते च
“धर्मवीरो युधिष्ठिरादिः” सा० द० ।

धर्म्मवृद्ध त्रि० धर्मेण वृद्धः । धर्मेण वृद्धे श्रेष्ठे अतिशयधर्म-

युक्ते “न धर्मवृद्धेषु वयः समीक्ष्यते” कुमा० । २ यादवे
अक्रूरभ्रातृभेदे पु० । “शफल्कश्चित्रकश्चैव गान्धिन्यान्तु
शफल्कतः । अक्रूरप्रमुखा आसन् पुत्रा द्वादश
विश्रुताः । धर्मवृद्धः सुकर्मा च क्षेत्रोऽपक्षोऽरिमर्दनः”
भाग० ९ । २४ । ९ ।

धर्मवैतंसिक पु० धर्मे वैतांसिक इव आत्मनो धार्मिकत्व

त्वख्यापनाय दातरि । “धर्मवैतंसिको यस्तु पापात्मां
पुरुषस्तथा । ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ।
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः ।
रागमोहान्वितोऽशान्तः कलुषीं योनिमाप्नुयात्” वह्निपु० ।

धर्मव्याध पु० धर्मप्रधानो व्याधः शाक० । धार्मिके व्याध-

भेदे तत्कथा भा० व० २१४ अध्यायादौ दृश्या । तस्य
व्याधस्य व्राह्मणं प्रति स्वकर्मविपाकस्तत्रोक्तो यथा
“शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ! । अहं हि
ब्राह्मणः पूर्वमासं द्विजवरात्मजः । बेदाध्यायी सुकु-
शलो वेदाङ्गानाञ्च पारगः । आत्मदोषकृतैर्ब्रह्मन्नवस्था-
माप्तवानिमाम् । कश्चिद्राजा मम सखा धनुर्वेदपरा-
यणः । संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज! ।
एतस्मिन्नेव काले तु मृगयानिर्गतो नृपः । सहितो
योधमुख्यैश्च मन्त्रिभिश्च स संवृतः । ततोऽव्यहन्-
मृगांस्तत्र सुबहूनाश्रमं प्रति । अथ क्षिप्तः शरो षोरो
मयाऽपि द्विजसत्तम! । ताड़ितश्च ऋषिस्तेन शरेणा
नतपर्वणा । भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् ।
नापराध्याम्यहं किञ्चित् केन पापमिदं कृतम् । मन्वा-
नस्तं मृगञ्चाहं सम्प्राप्तः सहसा विभो! । अपश्यं
तमृषिं विद्धं शरेणानतपर्वणा । अकार्यकरणा-
च्चापि भृशं मे व्यथितं मनः । तमुग्रतपसं बिप्रं
निष्टनन्तं सहीतले । अजानता कृतसिदं मयेत्यहमथा-
व्रुवम् । क्षन्तुमर्हसि मे सर्वमिति प्रोक्तो मया मुनिः ।
ततः प्रत्यब्रवीद्वाक्यमृषिर्भां क्रोधमूर्च्छितः । व्याधस्त्वं
भविता क्रूरः शूदूयोनाविति द्विज! । २१४ अ० ।
व्याध उवाच । एवं शप्तोऽहमृषिणा तदा द्विजवरो-
त्तम । अभिप्रासादयमृषिं गिरा त्राहीति मां तदा ।
अजानता मयाऽकार्यमिदमद्य कृतं मुने! । क्षन्तुमर्हसि
तत्सर्वं प्रसीद भववन्निति । ऋषिरुवाच । नान्यथा
भविता शाप एवमेतदसंशयम् । आनृशंस्यात्त्वहं किञ्चि-
त्कर्त्ताऽनुग्रहमद्य ते । शूद्रयोन्यां वर्त्तमानो धर्मज्ञो हि
भविष्यसि । मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ।
तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि ।
जातिस्मरश्च भविता स्वर्गञ्चैव गमिष्यमि । शापक्षये
निवृत्ते तु भविताऽसि पुनर्द्विजः । एवं शप्तः पुरा तेन
ऋमिणाऽस्म्युग्रतेजसा । प्रसादश्च कृतस्तेन ममैव
द्विपदांवर! । २१५ अ० ।”
पृष्ठ ३८६३

धर्मव्रत त्रि० धर्मे व्रतं संकल्पविशेषीयस्य । १ धर्मरते । २ धर्मस्य

विश्वरूपाख्यपत्न्यां जातायां कन्यायां मरीचिकलत्रे
स्त्री तत्कथा वायुपु० “आसीद्धर्मो महातेजाः सर्वविज्ञा-
नपारगः । विश्वरूपा च तत्पत्नी भर्त्तृव्रतपरायणा ।
तस्यां धर्मात् समुत्पन्ना कन्या धर्मव्रता सती । सर्वलक्षण-
सम्पन्ना लक्ष्मीरिव कुलाधिका” इत्युपक्रमे “मरीचे-
र्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम् । अहं धर्मव्रता-
नाम धर्मपुत्री तपोन्विला । पतिव्रतार्थं विप्रेन्द्र! चरामि
परमं तपः । धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व-
कम् । पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते! ।
पतिव्रतेच्छया पृथ्वी विचरामि ह्यऽहर्निशम् । त्वञ्चेत्
पतिव्रता जाता भजे त्वां भज मां वरम् । लोके न त्वादृशी
कन्या मम तुल्यो न ते वरः । धर्मव्रते! धर्मपुत्नि! तस्मात्
त्वं भज माधुना । धर्मव्रता मुनिं प्राह धर्मं याचय
सुव्रत! तत् श्रुत्वा धर्ममगमन्मुनिं धर्मोददर्श ह । तेजः
पुञ्जवरं नत्वा ह्यासनार्घ्यादिनार्च्चयत् । किमर्थमागतः पृष्टो
मरीचिर्धर्ममव्रवीत् । कन्यार्थं भ्रमता पृथ्वीं दृष्टा ते
कन्यका वरा । मह्यं कन्याञ्च तां देहि श्रेयस्तव
भविष्यति । अर्घ्यादिना समभ्यर्च्च्य धर्मः प्राचेतसेरितम् ।
धर्मव्रतां समानीय दत्तवांस्तां मरीचये” । धर्मस्यव्रतम् ।
हेमाद्रिव्र० उक्ते ३ व्रतभेदे न० व्रतशब्दे दृश्यम् ।

धर्म्मशाला स्त्री धर्मार्थं शाला । धर्मार्थमन्नादिदानाधि-

करणशालायाम् । धर्मसत्रादयोऽप्यत्र ।

धर्म्मशासन न० शास--भावे ल्युट् ६ त० । १ धर्मस्यानुशासने ।

करणे ल्युट् । २ धर्मशास्त्रे च “शरीरकृत् प्राणदाता
यस्य चान्नानि भुञ्जते । क्रमेणैते त्रयोऽप्युक्ताः पितरो
धर्मशासने” भा० आ० ७२ अ० ।

धर्म्मशास्त्र न० शिष्यतेऽनेन शास--करणे ष्ट्रन् ६ त० । धर्म-

शासने मन्वादिप्रणीते धर्मप्रतिपादके ग्रन्थभेदे
स्मृतिशास्त्रे तस्य कर्त्तारश्च हेमाद्रिव्रतखण्डे दर्शिता यथा
“शाङ्खलिखितौ स्मृतयो धर्मशास्त्राणि तेषां प्रणे-
तारोमनुविष्णुयमदक्षाङ्गिरोऽत्रिवृहस्पत्युशनआपस्तम्बव-
शिष्ठकात्यायगपराशरव्यासशङ्खलिखितसवर्त्तगौतमशाता-
तपहारीतयाज्ञवल्क्यप्राचेतसादयः” । यमः “मनुर्यमो-
वसिष्ठोऽत्रिः दक्षो विष्णुस्तथाङ्गिराः । उशना वाक्-
पतिर्व्यास आपस्तम्बोऽथ गौतमः । कात्यायनो
नारदश्च याज्ञवल्क्यः पराशरः । संवर्त्तश्चैव शङ्खश्च
हारीतो लिखितस्तथा । एतैर्यानि प्रणीतानि धर्मशा-
स्त्राणि वै पुरा । तान्येवाति प्रमाणानि न हन्तव्यानि
हेतुभिः” “आदिशब्दाच्च वृद्धदेवलसोमजमदग्निप्रजापति-
विश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनच्छागलेय-
जाबालिच्यवनमरीचिकश्यपाः” तथा हि भविष्यपुराणे
“अष्टादशपुराणेषु यानि वाक्यानि पुत्रक! । तान्यालोच्य
महाबाहो! तथा स्मृत्यन्तरेषु च । मन्वादिस्मृतयो याश्च
षड्विंशत् परिकीर्त्तिताः । तासां वाक्यानि क्रमशः
समालोक्य व्रवीमि ते” इति । मन्वादिस्मृतीनां
षड्त्रिंशत्त्वमुक्तम्, तच्चानन्तरोक्ताभिरेव पूर्य्यते । यानि
पुनर्महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्य-
परिशिष्टानि च तानि च स्मृत्यन्तरेषु चेत्यनेनैवोक्तानि
तथा चोक्तं भविष्यपुराणे “अष्टादश पुराणानि रामस्य
चरितं तथा । विष्णुधर्माणि शास्त्राणि शिवधर्माश्च
भारत! । कार्ष्णञ्च पञ्चमोदेवो यन्महामारतं स्मृतम् ।
सौराश्च धर्मा राजेन्द्र! मानवोक्ता महीपते! । जयेति
नाम चैतेषां प्रवदन्ति मनीषिण इति” “तदपि स्मृत्य-
न्तरेषुचैवेत्यनेनैव परिगृहीतं वेदितव्यम्” हेमाद्रि० व्र० ।

धर्मशील त्रि० धर्मः धर्मसाधनं शीलमस्य धर्मं शीलयति

शील--अण् वा । १ धर्मस्वभावे २ धर्मतत्परे । “तत्र
स्नात्वा नरो राजन्! धर्मशीलः समाहितः”
भा० व० ८४ अ० ।

धर्मसंहिता स्त्री धर्मज्ञापिका संहिता, धर्मः संहितो

निरूपितो यत्र वा । धर्मशास्त्रे अमरः ।

धर्मसहाय पु० धर्मे सहायः । सहाया इत्युपक्रमे “ऋत्वि-

क्पुरोधसः स्युर्धर्मविद् द्विजतापसास्तथा धर्मे” सा०
द० उक्ते ऋत्विगादौ ।

धर्मसार पु० धर्मेषु सारः । १ श्रेष्ठपुण्यकर्मणि २ तत्साधने

च स च गरुड़पु० २२५ अ० विस्तरेणोक्तः ।

धर्मसारथि पु० धर्मः सारथिरिवास्य । धर्मसंघसहायके

“शुद्धस्ततः शुचिस्तस्मात् चित्रकुर्धर्मसारथिः! भाग०
९ । १७८

धर्मसावर्णि पु० एकादशे मनुभेदे । “मनुर्वै धर्मसावर्णिरेका-

दशम आढावान् । अनागतस्तत्सुताश्च सत्यधर्मादयोदश”
भा० ८ । १३ । १२

धर्मसू स्त्री धर्मं सुनोति सू--क्विप् । १ धूम्याटखगे शब्दरत्ना० ।

२ धर्मप्रेरके त्रि० “सोमो राजा वरुणः देवा धर्मसुवः”
तैत्ति० व्रा० १ । ७ । ८ । ३ ।

धर्म्मसूत्र न० धर्मः सूत्र्यतेऽनेन करणे अच् ६ त० । धर्म-

निर्णयार्थं जैमिनीप्रणीते धर्ममीमांसारूपे ग्रन्थभेदे ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ध&oldid=85311" इत्यस्माद् प्रतिप्राप्तम्