सामग्री पर जाएँ

वाचस्पत्यम्/न

विकिस्रोतः तः
← वाचस्पत्यम्/ध वाचस्पत्यम्/न
तारानाथ भट्टाचार्य
वाचस्पत्यम्/प →
पृष्ठ ३९२५

नकारः व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारण-

स्थानं दन्तमूलं नासिका च । “दन्त्याऌतुलसाः स्मृताः”
“अमोऽनुनासिका नह्रौ” इति च शिक्षोक्तेः । तस्योच्चारणे
आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः ।
अतएव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः । बाह्यप्रयत्नाश्च संवार
नादघोषा अल्पप्राणश्च “खयां यमाः खयः + क पौ विसर्गः
स्वर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ।
कण्ठम्, अन्ये तु घोषाः स्युः संवारा नादभागिनः ।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः” शिक्षा
अस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा
“नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी । मेषश्च
सविता नेत्रं दन्तुरो नारदोऽञ्जनः । ऊर्द्ध्वगामी द्वि-
रण्डश्च वामपादाङ्गुलेर्नखः । वैनतेयः स्तुतिर्वत्मभवाऽनर्वा
निरागमः । वामनो ज्वालिनी दीर्घो निरीहः सुगति-
र्वियत् । शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ ।
गिरिनायकनीलौ च शिवोऽनादिर्महामतिः” ।
अस्य ध्यानं यथा “ध्यानमस्य नकारस्य वक्ष्यते शृणु
भाविनि! । दलिताञ्जनवर्णाभां ललज्जिह्वां सुलो-
चनाम् । चतुर्भुजां कोटराक्षीं चारुचन्दनचर्चिताम् ।
कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा । एवं ध्यात्वा
नकारन्तु तन्मन्त्र दशधा जपेत्” तत्स्वरूपं यथा
“नकारं शृणु चार्वङ्गि । कोटिविद्युल्लताकृतिम् । पञ्च-
देवमयं वर्णं स्वयं परमकुण्डली । पञ्चप्राणात्मकं
वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम् ।
मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता ।
काव्यादौ प्रथमप्रयोगे फलं यथा “दोधः सौख्यं मुदं
नः” वृ० व० ढीकोक्तम् ।
धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादि-
पूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते । ये च
नादितया पठितास्ते न णत्वमापद्यन्ते इति विवेकः ।

अव्य० नह--वन्धने नश नाशे--वा ड । १ निषेधे २ उपमायां

च मेदि० ३ नञर्थे च । अस्य समासे नलोपः नुडागमश्च
न भवति । “संग्राभे नातिकोविदम्” भा० वि० ४ अ० ।
नञा समासे तु अनातकोवदमिति स्यात् । एकयोना
विंशतिरित्यादिवाक्ये एकाद्नविंशतिः एकान्नविंशति-
रित्यादि । नासत्यौ नाकैत्यादौ च नञशब्दसमासेऽपि
प्रकृतिवद्भावविधानात् न नलोपादि । नैकधानाराचना-
न्तरीयकादयस्तु नशब्देन “सह मुपेति” पा० समासात्
सिद्धा सि० कौ० । गणरत्ने अयं चादिषु पठितः ।
“किंस्वित् प्रत्युत यच्चकच्चन न कं सत्रा समंसाकमः” इति
तट्टीकायां “नेति निषेधोपमानयोरित्युक्त्वा उदाहृतम्
“नैकः सुप्तेषु जागृयात्” । “तिष्ठा देवो न सविता”
इति न सविता सवितेवेत्यर्थः” इति । ४ नकारस्वरूपवर्णे
पु० । “दोधः सौख्यं मुदं” न इति वृ० र० टीका “नोग-
र्जिनी क्षमा” इत्यादिवर्णातिधानम् । नञर्थश्च नञ्शब्दे
वक्ष्यते । भावे बा० ड । ५ बन्धे पु० । नम--कर्त्तरि कर्मणि
वा ड । ६ सुगते ७ हिरण्ये च पु० ८ स्तुते त्रि० मेदि० ।
९ रत्ने पु० । एकाक्षरकोषः ।

नंशुक त्रि० “पचिनश्योर्णुकन् कनुमौ च” उणा० णुकन्

नुमागमश्च । अणौ उज्वलद० । यावत्पर्यन्तं गत्वा-
भावो विनश्यति तावत्परिमाणे ।

नंष्टृ त्रि० नश--तृच् नुम् च । नाशप्रतियोगिनि पक्षे नङ्ग्धृ

तत्रार्थे स्त्रियां ङीप् ।

नःक्षुद्र त्रि० नसा क्षुद्रः । क्षुद्रनासिके हेम० ।

नक् अव्य० नश--क्विप् बा० कुत्वम् । रात्रौ “अपस्वसुरुषसो

नग्जिहीते” ऋ० ७ । ७१ । १ । स्वरादिगणे ज्योक् योक्
नक् कमिति क्वचित् पाठी दृश्यते । सि० कौ० गणरत्ने च
योक् नक् च न दृश्यते ।

नकिञ्चन त्रि० नास्ति किञ्चन यस्य नञर्थस्य नशब्दस्य

“सह सुपेति” प्रा० समासः । अकिञ्चने दरिद्रे “सर्व-
कामरसैर्हीनाः स्थानभ्रष्टा नकिञ्चनाः” भा० उ० १३२ अ० ।
नञा मयू० समासे नञो नलोपे अकिञ्चन इत्येव ।
“स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति”
रघुः । “अकिञ्चने किञ्चन नायिकाङ्गके किमारकूटा-
भरणेन न श्रियः” नैष० ।

नकिम् अव्य० न किम् च चादिपाठात् अव्ययत्वं नशब्देन

समासः । वर्जनार्थे मनोरमा । एवं पृषो० नकिम् न
किर् नकीम् एतेऽपि वर्जने मनोरमा

नकुच पु० न कुचति कुच--सङ्कोचे नशब्देन समासः ।

(मान्दार) डहुवृक्षे अनरः ।

नकुट न० न कुटति कुट--क नशब्देन समासः । नासिकायां शब्दमा० ।

नकुल पुंस्त्री नास्ति कुलमस्य “नभ्राडनपान्नवेदानासत्य

नमुचिनकुलनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या” पा० नञो
न नलोपादि । (वेजी) ख्याते १ जन्तुभेदे स्त्रियां
पृष्ठ ३९२६
ङीष् । “नकुलः पिच्छिलो वातनाशी श्लेष्मकपित्तकृत्”
राजनि० तन्मांसगुण उक्तः । २ पाण्डोः क्षेत्रे
माद्र्यामश्विनीकुमाराभ्यां जाते पुत्रभेदे “ततो माद्री
विचार्यैवं जगाम मनसाऽश्विनौ । तावागम्य सुतौ
तस्यां जनयामासतुर्यमौ । नकुलं सहदेवञ्च रूपेणा
प्रतिमौ भुवि” “पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः” भा० आ०
१२४ अ० । ३ पुत्रे पु० शब्दमाला । ४ शिवे च “युधिष्ठिरस्य
या कन्या नकुलेन विवाहिता” विदग्धमु० । ५ कुलरहित-
मात्रे त्रि० गौरा० ङीष् नकुली ६ कुक्कुट्यां ७ जटामांस्यां
स्त्री मेदि० । ८ शङ्खिन्यां स्त्री ९ कुङ्कुमे हेमच० जातौ
ङीष् । १० नकुलजातिस्त्रियाञ्च ।

नकुलाढ्या स्त्री न कुलाढ्या । गन्धनाकुल्यां राजनि० ।

नकुलान्धता स्त्री नकुलस्येवान्धता । सुश्रुतोक्ते नेत्रवि-

काररूपरोगभेदे “यो ह्रस्वजात्यो नकुलान्धता च
गम्भीरसंज्ञा च तथैव दृष्टिः” इत्युदिश्य “विद्योतते
या तु नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् । चित्राणि
रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः”
इति लक्षिता नकुलान्ध्यमप्यत्र ।

नकुलीश पु० कालीपीठस्थे भैरवभेदे “नकुलीशः कालिपीठे

दक्षपादाङ्गुली मता” पीठमाला २ हकारे वर्णाभिधानम् ।
“नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रभृत्” तन्त्रसारे
(ह्री) वीजोद्धारः । नकुलेश्वरादयोऽप्यत्र ।

नकुलेष्टा स्त्री ६ त० । १ रास्नायां अमरः । २ नकुलस्य प्रिये त्रि० ।

नक्क नाशने चुरा० उभ० सक० सेट् । नक्कयति ते अननक्कत्

त । णोपदेशत्वाभावात् प्रनक्कति इत्यादौ न णत्वम् ।

नक्त न० नज--क्त । रात्रौ “रुशद्दृशे ददृशे नक्तया चित्”

ऋ० ४ । ११ । १ “नक्तया चिद् रात्रावपि” भा० सप्तमीस्थाने
याच् । तत् अङ्गत्वेनास्त्यस्य अच् । २ व्रतभेदे
तद्व्रतकालादि कालमाधवीये निर्णीतं यथा
“अथ नक्तं निर्णीयते । तत्र वाराहपुराणे धान्यव्रते
पठ्यते “मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं प्रपूजयेदिति । अत्र
नक्तशब्दो भोजनपरः कालपरत्वे प्रकुर्वीतेत्यस्या-
नन्वयात् । न हि कालः केनचित्कर्तुं शक्यते । तस्य
भोजनस्य रात्राविति कालविधिः । अतो दिवाभोजन-
रहितत्वे सति रात्रिभोजनं व्रतस्य स्वरूपम् । अन्यथा
स्वतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात् । तस्य
च नक्तमोजनस्य विष्णुपूजनमङ्गम् तत्सन्निधौ पठित-
त्वात् । तथा होमोऽपि तदङ्गम् “होमं च तत्र कुर्वीत”
इत्यभिधानात् । एवं च सति प्रधानाविरोधेन पूजा
होमयोरङ्गयोर्दिवानुष्ठानमुक्तं भवति । प्रधानस्य च
नक्तस्य कालद्वयं भविष्यत्पुराणे दर्शितम् “मुहूर्त्तोनं
दिनं नक्तं प्रवदन्ति मनीषिणः । नक्षत्रदर्शनान्नक्तमहं
मन्येगणाधिप!” इति । अस्य च कालद्वयस्याधिकारिभेदेन
व्यवस्थामाह देवलः “नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः
स्मृतम् । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते”
इति । स्मृत्यन्तरेऽपि “नक्तं निशायां कुर्वीत गृहस्थो
विधिसंयुतः । यतिश्च विधवा चैव कुर्य्यात्तु सदिवा-
करम् । सदिवाकरं तु तत्प्रोक्तमन्तिमे घटिकाद्वये ।
निशानक्तं तु विज्ञेयं यामर्द्धे प्रथमे सदेति” रात्रि-
नक्तभोजने व्यासः “त्रिमुहूर्त्तः प्रदोषः स्याद्भानावस्तंगते
सति । नक्तं तु तत्र कर्त्तव्यमिति शास्त्रविनिश्चयः” इति
तदेवं नक्तव्रतकालौ व्यवस्थितौ । तत्र नक्तं प्रदोषव्या
पिन्यां तिथौ कार्यम् तदाह वत्सः “प्रदोषव्यापिनी
ग्राह्या तिथिर्नक्तव्रते सदा । एकादशीं विना सर्वा शुक्ले
कृष्णे तथा स्मृता” इति । एकादश्यां तु यन्नक्तं तत्रो-
दयव्यापिनी तिथिर्ग्राह्या तदुक्तं स्कन्दपुराणे “प्रदोष-
व्यापिनी ग्राह्या सदा नक्तव्रते तिथिः । उदयस्था सदा
पूज्या हरिनक्तव्रते तिथिः” इति । अत्राप्येकभक्त-
न्यायेन षोड़शविधभेदा उत्प्रेक्षणीयाः । मध्याह्नप्रदोष-
योरेव भिन्नत्वात् । पूर्वेद्युरेव प्रदोषव्याप्तौ पूर्वतिथि-
र्ग्राह्या । परेद्युरेव प्रदोषव्याप्तौ परतिथिः । उभयत्र
प्रदोषव्याप्तौ परतिथिरेव तदाह जावालिः “सदैव
तिथ्योरुभयोः प्रदोषव्यापिनी तिथिः । तत्रोत्तरत्र
नक्तं स्यादुभयत्रापि सायतः” इति । उभयत्रापि दिवा-
रात्रौ च सा तिथिर्विद्यते यत इत्यर्थः । उभयत्र प्रदोष
व्याप्त्यभावेऽपि परैव तदाह जावालिः “अतथात्वे-
परत्र स्यादस्तादर्वाक यतो हि सेति” । प्रदोषे तदभावे-
ऽप्यस्तमयादर्वाग्यतः सा विद्यते ततः सा ग्राह्येत्यर्थः ।
अस्य च दिवारात्रव्रतत्वेन प्रदोषध्याप्तिवत्सायङ्काल-
व्याप्तिरपि निर्णयहेतुर्भवतीत्यनेनाभिप्रायेणार्वागस्त
यादित्युक्तम् । दिवारात्रिव्रतत्वं च कूर्मपुराणेऽभिहितम्
“प्रदोषव्यापिनी यत्र त्रिमुहूर्त्ता यदा दिवा । तदा
नक्तव्रतं कुर्य्यात् स्वाध्यायस्य निषेधवत्” इति । यद्य-
प्यत्र प्रदोषकालसायङ्कालौ द्वावेष प्रयोजकौ प्रतिभासेते
पृष्ठ ३९२७
तथापि प्रदोषव्याप्तिर्मुख्यः कल्पः । सायङ्कालव्याप्तिरनु-
कल्प इति जाबालिवचनादवगम्यते । तत्र ह्यतथात्व इति
प्रदोषव्याप्त्यभावमनूद्य तादृश्यास्तिथेर्ग्राह्यत्वे अर्वागस्ता-
द्यत इति हेतूपन्यासात् । ईदृशे विषये गृहस्थोऽपि
यतिवद्दिवा नक्तमाचरेत् तदुक्तं स्कन्दपुराणे “प्र-
दोषव्यापिनी न स्याद्दिवा नक्तं विधीयते । आत्मनो
द्विगुणच्छायामतिक्रामति भास्करे । तन्नक्तं नक्तमित्या-
हुर्न नक्तं निशि भोजनम् । एवं ज्ञात्वा ततो विद्वान्
सायाह्ने तु भुजिक्रियाम् । कुर्य्यान्नक्तव्रती नक्तफलं
भवति निश्चितमिति” । यत्तु सप्तमीभानुवासरादौ
सौरनक्तं विहितं तत्र पूर्वोक्तविपर्य्यासेन सायङ्काल-
व्याप्तिर्मुख्यः कल्पः । प्रदोषव्याप्तिरनुकल्पः । एतदेवाभि-
प्रेत्य सुमन्तुः “त्रिमुहूर्त्तस्पृगेवाह्नि निशि वै तावती
तिथिः । तस्यां सौरं भवेन्नक्तमहन्येव तु भोजनमिति”
अत्र सायंव्याप्तेर्मुख्यकालत्वात् प्रथमतो निर्देशः ।
प्रदोषव्याप्तेरनुकल्पत्वात् पश्चान्निर्देशः । इतरनक्तेषु तु
प्रदोषव्याप्तेरनुकल्पत्वादुदाहृतकूर्मपुराणवचने सैव प्रथमं
निर्दिष्टा सायंकालव्याप्तिः पश्चान्निर्दिष्टेति विवेकः ।
तेष्वितरनक्तेषु प्रदोषव्यापितिथिग्रहणेऽपि भानुवासर-
संक्रान्त्यादिना गृहंस्थस्यापि यदा रात्रिभोजननिषेधः
तदा दिवैव नक्तं कुर्य्यात् तथा च भविष्योत्तरपुराणे
“ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः । दिनान्ते
तेऽपि भुञ्जीरन् निषेधाद्रात्रिभोजने” इति । तस्मिंश्च
दिवाभोजन उत्तमोऽन्तिमो मुहूर्त्तो, मध्यम उपान्त्यः,
ततः प्राचीनो जघन्यः । एवं च सत्यन्तिमभागत्रि-
मुहूर्त्तवचनान्युपपद्यन्ते रात्रिभोजनेऽपि घटिका-
त्रयमुत्तमः कालः । घटिकाषट्कं मध्यमः कालः
एतदेवाभिप्रेत्य वचनं स्मर्य्यते “प्रदोषोऽस्तमयादूर्द्ध्वं
घटिकात्रयमिष्यत” इति । “त्रिमुहूर्त्तः प्रदोषः स्याद्रवावस्तं
गते सतीति” । निशीधपर्य्यन्तो जघन्यः कालः । “नक्तं
प्रकुर्वीत रात्राविति” सानाग्येगाभिधानात् । असौर
नक्तेषु साम्येन वैषम्येण वा दिनद्वये प्रदोषैकदेशव्याप्तौ
परेद्युरेव नक्तं कार्य्यम् सायंकालस्य गौणस्य तत्तिथि-
व्याप्तत्वात् । अत्राप्येकभक्तवदन्याङ्गं नक्तोपवास
स्थानीयनक्तयोर्निर्णयो द्रष्टव्यः । यथोक्तलक्षणलक्षित-
योरेकभक्तनक्तयोरेकस्मिन् दिने यदा प्रसक्तिस्तदा कथं
कर्त्तव्यम् । न चैतादृशी प्रसक्तिरेव नास्तीति शङ्क-
नीयम् । भविष्योत्तरपुराणोक्ते रथसप्तमीव्रते कदा-
चित्तत्प्रसक्तेः । तथाहि तत्र तृतीयादिषु सप्तस्यन्तेषु
पञ्चसु दिनेषु क्रमेणैकभक्तनक्तायाचितीपवासपारणानि
विहितानि । तत्र यदा तृतीया यामत्रयपरिमिता
तत ऊर्द्धं चतुर्थी तदा भध्याह्नव्यापित्वात् तृतीयैकभक्तं
तत्र प्राप्तं प्रदोषव्यापित्वाच्चतुर्थीनक्तमपि तत्रैव तथा
सति परस्परविरोधो दुःपरिहरः । अत्रोच्यते ।
एकभक्तस्य प्राथम्यात् प्रबलत्वेन तस्मिन्मुख्यकल्प एवानुष्ठेय-
स्तद्विरोधिनि तु नक्तेऽनुकल्पः । स च द्विविधः
दिनान्तरामष्ठानात् कर्त्रन्तरानुष्ठानाम् । सदा चतुर्थी
परेद्युर्वृद्धा सायंकालं ध्याप्नोति तदा तस्य गौणकाल-
व्यापित्वादेक एव कर्त्ता दिनभेदेन व्रतद्वयमनुतिष्ठेत् ।
यदा चतुर्थी सभा क्षीणा च । तदा गौणकालस्याप्त्य-
सम्भवेन पूर्वेद्युरेव भार्यापुत्रादिना कर्त्रन्तरेण तन्नक्त
करणीयम् ।” “अहःसु तिथयः पुण्याः कर्म्मामुष्ठानती
दिवा । नक्षत्रादिव्रतयोगे तु रात्रियोगो विशिष्यते”
ति० त० सामान्योक्तिः उक्तविषयपरिहारेण प्रवर्त्तनीया ।
अस्य प्रशंसा देवीपु० यथा
“उपवासात् परं भैक्ष्यं भिक्षापरमयाचितम् ।
अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत् । देवैस्तु मुक्तं
पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा । पराह्णे पितृभिर्भुक्तं
सन्ध्यायां गुह्यकादिभिः । सर्ववेलामतिक्रम्य नक्ते भुक्त-
मभोजनम् । वामाचारे मह देव! नक्तेनैवोद्धरन्नरम्”
विभुनृपस्य ३ पुत्रभेदे “विभोरत्याञ्च पृथुषेणः तस्य नक्त
आकूत्यां जज्ञे नक्तादृतिपुत्रो गयो राजर्षिप्रवरः”
भाग० ५ । १५ । ४ लज्जिते त्रि० ।

नक्तक पु० नक्त इव कायति चै--क । (नेकड़ा) कर्पटे अमरटीकायां भरतः

नक्तचारिन् पु० नक्ते रात्रौ चरति चर--णिनि ७ त० ।

१ विड़ाले २ पेचके त्रिका० रात्रिचारिमात्रे त्रि० । नक्त-
चरादयोऽप्यत्र “जयेन्नक्तचरान् सर्वान् सपुरोहित
धूर्गतः” भा० आ० १० अ० ।

नक्तञ्चर पुंस्त्री नक्तं रात्रौ चरति चर-ट ७त०। १राक्षसे

हला० स्त्रियां ङीप् । २ गुग्गुलौ जटा० । ३ चौरे ४ पेचके
शब्दार्थचि० । ५ रात्रिचरमात्रे त्रि०

नक्तञ्चर्य्या स्त्री नक्तं चर्य्या चरणम् । रात्रौ चरणादौ

“नक्तञ्चर्य्यां दिवास्वप्नमालस्यं पैशुनं मदम् । अतियो-
गमयोगञ्च श्रेयसोऽर्थी परित्यजेत्” भा० आ० २८९ अ० ।

नक्तञ्चारिन् त्रि० नक्तं चरति चर--णिनि । रात्रिचारि-

मात्रे “दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्यएव च” मनुः
पृष्ठ ३९२८

नक्तञ्जात त्रि० नक्तं रात्रौ जातः । १ रात्रिजाते २ ओषधिभेदे

स्त्री “नक्तञ्जातया ओषधे! रामे कृष्णे असिक्ने च”
अथ० १ । २३ । ४ । नक्तप्रभवादयोऽप्यत्र

नक्तन् न० नज--बा० तनिन् । रात्रौ “वयो ये भूत्वी

पतयन्ति नक्तभिः” ऋ० ७ । १०४ । १८ “नक्तभिः रात्रिभिः” भा०

नक्तन्तन त्रि० नक्तम् रात्रौ भवः ट्युल् तुट् च । रात्रिभवे

“इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम्” भट्टिः ।
स्त्रियां ङीप् ।

नक्तन्दिव न० नक्तं रात्री च दिवा दिने च सप्तम्यर्थ-

वृत्त्योः द्वन्द्वः अचतुरेत्यादिना नि० अच् । रात्रौ दिने-
चेत्यर्थे । “विभज्य नक्तन्दिवमस्ततन्द्रिणा” किरा०

नक्तभोजिन् त्रि० नक्तं रात्रौ भुङ्क्ते भुज--णिनि । व्रतार्थं

दिवाऽभोजनेन रात्रिभोजिनि दिवाभोजनाभाववि-
शिष्टरात्रिभोजनकर्त्तरि हविष्यभोजनं स्नानं सत्यमा-
हारलाथवम् । अग्निकार्यमधः शय्यां नक्तभोजी
षडाचरेत्” भविष्यपु० ।

नक्तम् अव्य० नज--व्रीडे वा० तमु । रात्रौ अमरः । “तुषार

मूर्त्तेरिव नक्तमंशवः” मावः । “महोषधीर्नक्तमिवात्म-
भासः” कुमा० ।

नक्तमाल पु० नक्तम् रात्रौ आ अलति अल--अच् । करञ्ज-

वृक्षे अमरः । “मरुद्भिरानर्त्तितनक्तमाले” रघुः ।

नक्तमुखा स्त्री नक्तं नक्तव्रताङ्गं मुखमाद्यभागोऽस्याः ।

रात्रौ हला० यथा रात्रिप्रथमभागस्य नक्तव्रताङ्गं तथा
नक्तशब्दे उक्तं दृश्यम् ।

नक्तव्रत न० “नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः ।

निशि व्रतं तु विज्ञेयं यामार्द्धे प्रथमे सदा” इत्युक्तलक्षणे
दिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्द्धे भोजनरूपे
व्रते नक्तशब्दे दृश्यम् ।

नक्ता स्त्री नज--व्रीडे क्त बा० तस्य नः । (ईशलाङ्गली) कलिकार्य्यां राजनि० ।

नक्तान्ध्य न० नक्ते आन्ध्यम् । भावप्र० उक्ते रात्री दृष्टिराहि-

त्यापादके नेत्ररोगभेदे “सएव श्लेष्मा दृष्टौ पटलत्रयङ्गतो
नक्तान्ध्यं करोतीत्याह त्रिषु स्थितोयः पटलेषु दोषो
नक्तान्ध्यमापादयति प्रसह्य । दिवा स सूर्यप्रगृहीत दृष्टिः
पश्येत् तु रूपाणि कफाल्पभावात्” । दोषोऽत्र कफजः
कफस्योपक्रान्तत्वात् । नक्तान्ध्यस्य स्लेष्मविदग्धदृष्टा-
वन्तर्भावात् न पृथग् गणना । “ऐर्म्मं हन्यादर्म्भ
नक्तान्ध्यकाचान्नीलीरोगं तैमिरं चाञ्जनेन” सुश्रुतः ।
तद्युक्तमानवे नक्तान्ध इत्येव “आगस्त्यं नातिशीतोष्णं
नक्तान्धानां प्रशस्यते” सुश्रुतः । नेत्ररोगशब्दे दृश्यम् ।

नक्र पुंस्त्री न क्रामति दूरस्थलम् क्रम--ड नभ्राडित्यादिना

नञःप्रकृतिभावः । १ कुम्भीरे अमरः स्त्रियां जातित्वात्
ङीष् । (झणकाट) २ द्वारशाखाग्रदारुणि ३ नासिकायाञ्च
न० मेदि० । “ह्रदा प्रसन्ना इव गूढनक्राः” “आनायि-
भिस्तामपकृष्टनक्राम्” रघुः । “अण्डजाः पक्षिणः सर्पा
नक्राः मत्स्याश्च कच्छपाः” मनुः नामिकायां स्त्री शब्द
माला । ४ जलजन्तुभेदे मकरादौ च “तथा चेन्ना-
श्वरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशां
जनञ्चैनम्” काद० । “नक्रकेतनः मकरध्वजः” इत्यर्थः ।

नक्रराज पु० ६ त० टच् समा० । जलजन्तुप्रधाने (हाङ्गर)

ख्याते जलजन्तुभेदे हारा० ।

नक्रहारक पु० नक्रमपि हरति हृ--ण्वुल् ६ त० । (हाङ्गर)

ख्याते जलजन्तुभेदे हारा० ।

नक्ष गतौ भ्वा० पर० सक० सेट् निघण्टुः । नक्षति अनक्षी

मनक्ष । “नक्षद्दाभं ततुरिं पर्वतेष्ठा” ऋ० ६ । २२ ।
“नि त्वा नक्ष्य! विश्पते! द्युमन्तम्” ७ । १५ । ७ “हे
नक्ष्य उपगम्य नक्षतिर्गतिकर्मा” भा०

नक्षत्र न० नक्ष--अत्रन् न क्षीयते क्षरते वा--बा० नि० नभ्राडि-

त्यादि० निपा० नञः प्रभृतिभावः । अश्विन्यादिषु सप्तविंश-
तितारासु नक्षत्राभिमानिदेवताश्च अश्विन्यादयः दक्षसुताः
चन्द्रकलत्राणि च तत्कथा कालिकापु० २० अ० कालिकापु०
शब्दे २०१४ पृ० दृश्यम् । ताश्च “अश्विनी भरणी
चैव कृत्तिका रोहिणी तथा । मृगशीर्षा तथैवाद्रां
तथा चैव पुनर्वसुः । पुष्याऽश्लेषामधा पूर्वफल्गुन्यु-
त्तरफल्गुनी । हस्ताचित्रास्वातयश्च विशाखा अनुरा-
धिका । ज्येष्ठा मूला तथा पूर्वोत्तराघाढ़े ततःपरम् ।
श्रवणा च धनिष्ठा च तथा शतभिषाह्वया । पूर्वोत्तरे
भाद्रपदे रेवती च ससंज्ञकाः” ज्यो० उक्तानि अधिक-
मृक्षशब्दे पृ० दृश्यम् । २ मुक्तामयहारभेदे स च नक्ष-
त्रसंख्यया सप्तविंशत्यारचितः । “नक्षत्रमालामरणमिव
मदनद्विपस्य” कादम्ब० । नक्षत्रं च २१६०० कलात्मकस्य
राशिचक्रस्य अष्टशतकलात्मकम् “भभोगोऽष्टशती
लिप्ता” सू० सि० उक्तेः युक्तञ्चैतत् २१६०० कलात्मकस्य
तस्य २७ विंशत्या भागे ८०० शतान्येन कला लभ्यन्वे ।
तेषां योगतारास्वरूपादिकमश्लेषाशब्दे ४९७ पृ० उक्तम्
विक्षेपादयश्च खगोलशब्दे २४२४ । २५ पृ० उक्ताः ।
तेषां प्रयोगे लिङ्गमेदश्च यथा “हस्तास्वातिश्रवणा
पृष्ठ ३९२९
अक्लीवे मृगशिरा न पुंसि स्यात् । पुंसि पुनर्वसुपुष्यौ
मूलन्त्वस्त्रियां शेषाः स्त्रियां बोध्याः” इदं प्रायिकम् ।

नक्षत्रकान्तिविस्तार पु० नक्षत्रकान्तीना विस्तारो यत्र ।

धवलयावनाले राजनि० ।

नक्षत्रगण पु० नक्षत्रघटितो गणः समुदायभेदः । दृ० सं उक्ते

नक्षत्रविशेषाणां समूहात्मके गणभेदे । तत्र गणभेदस्य
संज्ञाभेदाःकार्यविशेषोपयोगिसं च वृ० सं० ९८ अ० उक्तं यथा
“त्रीण्युत्तराणि तेषां रोहिण्यश्च ध्रुवाणि १ तैः कुर्यात् ।
अभिषेकशान्तितरुनगरधर्मवीजध्रुवारम्भान् । मूलशिव-
शक्रभुजगाधिवानि तीक्ष्णानि २ तेषु सिद्ध्यन्ति ।
अभिधातमन्त्रवेतालबन्धवधभेदसम्बन्धाः । उग्राणि ३ पूर्वभ-
रणीपित्र्याण्युत्सादनाशशाठ्येषु । योज्यानि बन्ध-
विषदहनशस्त्रघातादिषु च सिद्ध्यै । लघु ४ हस्ताश्विन-
पुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयाना-
दिषु सिद्धिकराणि प्रदिष्टानि । मृदुवर्ग ५ स्त्वनुराधाचि-
त्रापौष्णैन्दवानि मित्रार्थे । सुरतबिधिवस्त्रभूषणमङ्गल-
गीतेषु च हितानि । हौतभुजं सविशाखं मृदुतीक्ष्णं ६
तद्विमिश्रफलकारि” । ६ त० । २ तारासङ्घे च ।

नक्षत्रचक्र न० नक्षत्राणां चक्रं यत्र । १ राशिचक्रे २ तन्त्रोक्ते

दीक्षोपयोगिचक्रभेदे चक्रशब्दे २८०९ पृ० दृश्यम् ।

नक्षत्रजात न० नक्षत्रे तद्विशेषे जातं जन्म । वृ० सं० उक्ते

नक्षत्रविशेषे जन्मनि । तत्सूचितफलं तत्रोक्तं यथा
“प्रियभूषणः सुरूपः सुमगो दक्षोऽश्विनीषु मतिमांश्च ।
कृतनिश्चयसत्यारुग् दक्षः सुखितश्च भरणीषु । बहुभुक्
परदाररतस्तेजखी कृत्तिकासु विख्यातः । रोहिण्यां
सत्यशुचिः प्रियंवदः स्थिरसुरूपश्च । चपलश्चतुरो भीरुः
षटुरुत्माही धनी मृगे भोगी । शठगर्वितचण्डकृतघ्न-
हिंस्रपापश्च रौद्रर्क्षे ६ । दान्तः सुखी सुशीलो दुर्मेधा
रोगभाक् पिपासुश्च । अल्पेन च सन्तुष्टः पुनर्वसौ
जायते मनुजः । शान्तात्मा मुभनः पण्डितो धनी
धर्मसंश्रितः पुष्ये । शठसर्वभक्षपापः कृतघ्नधूर्तश्च
भौजङ्गे ९ । बहुभृत्यधनो भोगी सुरपितृभक्तो महोद्यमः
पित्र्ये १० । प्रियवाग्दाता द्युतिमान् अढनो नृपसेवको
भाग्ये ११ । सभगो विद्याप्नधनो भोगी सुखभाग् द्वितीय-
फल्गुन्याम् । उत्साही धृष्टः पानपोऽघृणी तस्करो
हस्ते । चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवति
चित्रायाम् । दान्तो बणिक् कृपालुः प्रियवाग् धर्माश्रितः
खातौ । ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलह-
कृद्विशाखासु । आट्यो विदेशवासी क्षुधालुरटनोऽनुरा-
धासु । ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुर-
कोपः । मूले मानी घनवान् सुखी न हिंस्रः स्थिरो
भोगी । इष्टानन्दकलत्रो वीरो दृढ़सौहृदश्च जलदेवे २० ।
वैश्वे २१ विनीतधार्मिको बहुमित्रकृतज्ञसुभगश्च । श्रीभा-
श्छ्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः । दाता-
ढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः । स्फुटवागव्यसनी
रिपुहा साहसिकः शतभिषासु दुर्ग्राह्यः । भद्रपदासू-
द्विग्नः स्त्रीजितधनपटुर्दाता च । वक्ता सुखी प्रजावान्
जितशत्रुर्धार्मिको द्वितीयासु २६ । सम्पूर्णाङ्गः सुभगः
शूरशुचिरर्थवान् पौष्णे २७” ।

नक्षत्रदर्श त्रि० नक्षत्रं पश्यति दृश--अण् उप० स० ।

१ नक्षत्रवीक्षके । नक्षत्रं तत्फलं दर्शयति सूचयति
दृशणिच्--अण् । २ गणके ज्योतिर्विद्भेदे “प्रज्ञानाय नक्षत्र-
दर्शम्” यजु० ३० । १० पुरुषमेधे प्रज्ञानोद्देशकमेध्यपशुकथने

नक्षत्रदान न० नक्षत्रभेदे दानम् । नक्षत्रभेदे द्रव्यभेदस्य

दाने तच्च हेमा० दा० उक्तं यथा भारते
“नारद उवाच कृत्तिकासु महाभाग! पायसेन समर्पिषा ।
सन्तर्प्य ब्राह्मणान् साधून् लोकान् प्राप्नोत्यनुत्तमान् ।
रोहिण्यां पाण्डवश्रेष्ठ! माषैरत्नेन सर्पिषा । पयोनु-
पानाद्दातव्यमानृण्यार्थं द्विजातये । दोग्ध्रीं सवत्सान्तु
नरो नक्षत्रे सोमदैवते ५ । दत्त्वादित्यविमानस्थः स्वर्गं
प्राप्नोत्यनुत्तमम्” सोमदैवतं नक्षत्रं, मृगशीर्षम् । “आर्द्रायां
कृशरं दत्त्वा तिलमिश्रं समाहितः । नरस्तरति
दुर्गाणि क्षुरधारांश्च पर्वतान् । पूपं पुनर्वसौ दत्त्वा
घृतपूर्णं सुपाचितम् । यशस्वी रूपसम्पन्नो बह्वन्ने
जायते कुले । पुष्ये तु काञ्चनं दत्त्वा कृतं चाकृतमेव
च । अनालोकेषु लोकेसु सोमवत् स विराजते” । कृतं
घटितम् अकृतमघटितम् । “अश्लेषासु तथा रौप्यं
वृषभं यः प्रयच्छति । स सर्वमयनिर्मुक्तः शास्त्रवानभि-
जायते । मघासु तिलपूर्णानि वर्द्धमानानि मानवः ।
प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते । फाल्गुनीपूर्वसमये
ब्राह्मणानामुपोषितः । मक्ष्यान् फाणितसंयुक्तान् दत्त्वा
सौभाग्यमृच्छति । घृतक्षीरसमायुक्तं विधिवत् षष्टि-
फौदनम् । उत्तराविषये दत्त्वा स्वर्गलोके महीयते ।
यद्वा प्रदीयते दानमुत्तराविषये नरैः । सदा फलमन-
न्तञ्च भवतीह विनिश्चयः” । फाल्गुनीपूर्वसमये, पूर्व-
फल्गुनीसमय इत्यर्थः । फाणितं गुड़विकारः उत्तरा-
पृष्ठ ३९३०
विषये उत्तरफाल्गुनीसमय इत्यर्थः । “हस्ते हस्ति-
रधं दत्त्वा चतुर्युक्तसुपोषितः । नरस्तरति दुर्गाणि
क्षुरधारांश्च पर्वतान्” । चतुर्युक्तं, चतुर्भिर्हस्तिभिर्युक्तम् ।
“चित्रायां वृषभं दत्त्वा पुण्याङ्गाङ्गां च भारत! ।
चरत्यप्चरसां लोके रमते नन्दने वने” । पुण्याङ्गाङ्गामिति
शुभलक्षणलक्षितशरीरां धेनुमित्यर्थः । “स्वातीष्यथ धनं
दत्त्वा यदिष्टतममात्मनः । प्राप्नोति लोकान् सुशुभा-
निह चैव महद्यशः । विशाखायामनड्वाहं धेनुं दत्त्वाथ
दुग्धदाम् । सप्रासङ्गञ्च शकटं सधान्यं वस्त्रसंयुतम्” ।
प्रासङ्गो युगान्तरणाष्ठम् । “पितॄन् देवांश्च प्रीणाति प्रेत्य
चानन्त्ययक्षुते । न च दुर्गाण्यवाप्नोति स्वर्गलोकं च
गच्छति । दत्त्वा यधोक्तं विप्रेभ्यो वृत्तिमिष्टा स विन्दति ।
नारकीयांश्च स क्लेक्षान्नाप्नोतीति विनिश्चयः । अनुराधासु
प्रावारवस्त्रीत्तरमुपोषितः । दत्त्वा युगशतं चापि नरः
स्वर्गे महीयते” । प्रावारः प्रवारपटः, वस्त्रोत्तरं
परिधानवस्त्रादिकम् । “कालशाकन्तु विप्रेभ्यो दत्त्वा
मर्त्त्यः समूलकम् । ज्येष्ठायां मृत्युमुत्साद्य
गतिमिष्टाञ्च गच्छति । मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः
समाहितः । स्वपितॄन् प्रीणयेदेव गतिमिष्टाञ्च गच्छति ।
अथ पूर्वास्वाषाढ़ासु दधिपात्राण्युपोषितः । कुलवृत्तोप-
सम्पन्ने व्राह्मणे वेदपारगे । प्रदाय जायते श्रेष्ठकुले
बहुगुणाकुले । पुत्रपौत्रैः परिवृतः पशुमान् धनवां-
स्तथा । उदमन्यं ससर्पिष्कं प्रभूतमधुफाणितम् ।
दत्त्वीत्तरास्यापाढ़ासु सर्वलोकानवाप्नुयात्” । उदमन्यः
उदकमिश्राः सक्तवः । फाणितं दुग्धखण्डविकारः ।
“दुग्धन्त्यभिजितो योगे दत्त्वा मधुवृतप्लुतम् । धर्मनिष्ठो
मनीषिभ्यः स्वर्गलोके महीयते” । अयमर्थः । उत्तरा-
षाढ़ानक्षत्रचतुर्थपादः श्रवणस्याद्यघटिकाचतुष्टयमभि-
जिद्योगः । “श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् । गोप्रयुक्तं
धनिष्ठसु यानं दत्त्वा समाहितः । वस्त्रमस्मिन्नवं दत्त्वा
प्रेत्य राज्यं प्रपद्यते । गन्धं शतभिषायोगे दत्त्वा
सागुरुचन्दनम् । प्राप्नोत्यप्सरसां लोकं प्रेत्य गन्धांञ्च
शाश्वतान् । पूर्वभाष्ट्रपदायोगे राजमाषान् प्रदाय वै ।
सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् । औरभ्र-
मुत्तरायोगे यस्तु मांसं प्रयच्छति । पितॄन् प्रीणाति
सकलान् प्रेत्यानन्त्यं रुमश्नुते” । उरभ्रो, मेषस्तस्य
मांसमौरभ्रम् । “कांस्योपदोहनीं धेनुं रेवत्यां यः प्रय-
च्छति । स प्रैत्य कामानादाय दातारमुपतिष्ठति ।
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तभः । हस्त्यश्वरथ-
सम्पन्ने वर्चखी जायते कुले । भरणीषु द्विजातिभ्य-
स्तिलधेनुं प्रदाय वै । गाः प्रसूताश्च प्राप्नोति नरः प्रेत्य
यशस्तथा । भीष्म उवाच । इत्येष लक्षणोद्देशः प्रोक्तो
नक्षत्रयोगतः । देवक्या नारदेनेह स्तुषाभ्यः साऽव्रवीदि-
दम्” । विष्णुधर्मोत्तरे “कृत्तिकासु सुवर्णस्य दानं
बहुफलं स्मृतम् । रक्तवस्त्रस्य रोहिण्यां सौम्ये ५ भे लवणस्य
च । कृशरस्य तथार्द्रायामादित्ये ७ रजतस्य च । घृतस्य
तु तथा पुष्ये गन्धानामथ सर्पभे ९ । तिलानाञ्च तथा
पैत्र्ये १० प्रियगोर्भगदैवते ११ । आर्यम्णे १२ चाज्यपूपानां
सावित्रे १३ पायसस्य तु । चित्रायां चित्रवस्त्राणां सक्तूनां
वायुदैवते १५ । ऐन्द्राग्न्ये १६ चैव लोहानां मैत्रे १७ माल्य-
फलस्य च । छत्रस्य च तथा शाक्रे १८ मले मूलफलस्य च ।
हेम्नश्च मधुयुक्तस्य दानमाप्ये २० महाफलम् । विश्वेश्वरे २२
ऽन्नपानस्य श्रवणे वसनस्य च । धान्यस्य वासवे २३ विप्रा
बारुणे २४ चौषधस्य च । आजे २५ पुराणवीजानां सस्यानां
तदनन्तरे २६ । गोरसानां तथा पौष्णे २७ स्रानानामथ-
याश्विने । तिलानाञ्च सदा दानं भरणीषु महाफलम्” ।

नक्षत्रनाथ पु० ६ त० । १ चन्द्रे “नक्षत्रनाथः समुपाजगाम”

हरिवं० ३१७ अ० “नक्षत्रनाथांशुरिवारविन्दे” रघुः ।
तस्य नक्षत्राधिष्टातृदक्षसुताश्विन्यादि नाथत्वात् तथात्वम् ।

नक्षत्रनेमि पु० नक्षत्रस्य तच्चक्रस्य नेमिरिव । १ ध्रुवतारके

२ चन्द्रे ३ रेवत्यां च हेमच० । ४ विष्णौ “नक्षत्रनेमिर्नक्षत्री
क्षमः क्षामः समीहनः” विष्णुस० । “शिशुमारस्य ज्योति-
श्चक्रस्य नेमिवत् प्रवर्त्तको हृदयस्थिता” विष्णुरिति कथितो
नक्षत्रनेमिः शिशुमारवर्णने “विष्णुर्हृदयामति श्रुतेः” भा०

नक्षत्रपति पु० नक्षत्रं पाति पा--डति । चन्द्रे शब्दार्थचि० ।

नक्षत्रपत्यादयोऽप्यत्र ।

नक्षत्रपथ पु० नक्षत्रोपलक्षितः पन्धाः अच् समा० । नक्षत्र-

चक्रस्य भ्रमणमार्गे । नक्षत्रमार्गादयोऽप्यत्र “अतीत-
नक्षत्रपथानि यत्र” माघः । खगोलशब्दे दृश्यम् ।

नक्षत्रपदयोग पु० “मेषगे भास्करे षष्ठे शीतगौ स्वोच्चगे यमे ।

नक्षत्रपदयोगोऽयं शत्रुमेघानिलोयथा” ज्यो० उक्ते राज्ञां
युद्धयात्राङ्गयोगभेदे ।

नक्षत्रपुरुष पु० नक्षत्रैरेवाङ्गविशेषैः पुरुष इव । नक्षत्र-

विशेषैरङ्गविशेषात्मकैः तन्नामघ्रताङ्गे पुरुषे अस्य
व्रताङ्गता व्रतनिमित्तकालश्च वृ० स० १०५ अ० उक्तो यथा
पृष्ठ ३९३१
“पादौ म्लं, जङ्घे च रोहिणी तथाश्विन्यः ।
ऊरूचाषाढाद्वयमथ गुह्यं फाल्गुनीयुग्मम् । कटिरपि च
कृत्तिकाः, पार्श्वयोश्च यमला भवन्ति भाद्रपदाः । कुक्षिस्था
रेवत्यो, विज्ञेयमुरो ऽनुराधा च । पृष्ठं विद्धि धनिष्ठा,
भुजौ विशाखा, स्मृतौ करौ हस्तः । अङ्गुल्यश्च पुनर्वसु,
रश्लेषासंज्ञिताश्च नखाः । ग्रीवा ज्येष्ठा, श्रवणौ श्रवणः,
पुष्यो मुखं, द्विजाः (दन्ताः) स्वातिः । हसितं शतभिषगथ
गासिका मघा, मृगशिरा नेत्रे । चित्रा लघाटसंस्था,
शिरो भरण्यः, शिरोरुहाश्चार्द्रा । नक्षत्रपुरुषकोऽयं
कर्तव्यो रूपमिच्छद्भिः । चैत्रस्य बहुलपक्षे ह्यष्टम्यां
मूलसंयुते चन्द्रे । उपवासः कर्तव्यो विष्णुं सम्पूज्य
धिष्ण्यं च । दद्याद्ध्रते समाप्ते वृतपूर्णंभाजनं सुवर्णयु-
तम् । विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या वा” ।
वामनपु० ७७ अ० विस्तारो दृश्यः ।

नक्षत्रभोग पु० राशिचक्रस्थनक्षत्राणामेकैकदिने भोगः ।

२१६०० कलात्मकस्य सप्तविंशत्या समं विभक्तस्य ८००
शतकलारूपे भोगे “भभोगोऽष्टशती लिप्ताः” सू० सि० ।

नक्षत्रमान न० सू० सि० उक्ते दिनादिमानभेदे अहन्शब्दे

५७६ पृ० नाक्षत्रमानशब्दे च दृश्यम् ।

नक्षत्रमाला स्त्री नक्षत्रसंख्यिका माला । १ सप्तविंशतिमौ-

क्तिकादिरचितमालायाम् अमरः । ६ त० । २ नक्षत्रश्रेणौ
च “यावन्नक्षत्रमाला विचरति गगने भूषयन्तीव भासा”
वृ० सं० १०५ अ० । ३ हस्तिनां मालाभेदे च “निशार्द्धसमयेनेव
परिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन” काद० (गन्धहस्तिना)

नक्षत्रयाजक पु० नक्षत्रनिमित्तं वृत्त्यर्थं याजयति

यज--णिच्--ण्वुल् । नक्षत्रनिमित्तदोषोद्भावनेन शान्ति-
कारके अपकृष्टब्राह्मणे “आह्वायका देवलका नक्षत्र
ग्रामयाजकाः । एते ब्राह्मणचाण्डाला महापलिक
पञ्चमाः” भा० शा० ७६ अ० तस्य निन्दोक्ता

नक्षत्रयोग पु० नक्षत्रभेदे योगः क्रूरग्रहादिभिर्योगः । नक्ष-

त्रव्यूहशब्दे वक्तव्ये नक्षत्रेषु क्रूरादिग्रहयोगे “सांव-
त्सरा ज्योतिषि चाभियुक्ताः नक्षत्रयोगेषु च निश्च
यज्ञाः” भा० उ० ४७ अ०

नक्षत्रयोगिनी स्त्री नक्षत्रैरभिमानितया युज्यते

युजथिनुण् । दाक्षायणीषु अश्विन्यादिषु “तस्मै नक्षत्रयो-
निन्धः सप्तविंशतिरुत्तमाः । रोहिणीप्रमुखाः कन्या दक्षः
प्राचेतसो ददौ” हरिवं० २२६ अ० । रोहिण्याश्चन्द्रस्या-
तिप्रियत्वात् तन्मुखत्वमुक्तमिति बोध्यम् ।

नक्षत्रयोनि स्त्री ६ त० । विवाहादौ योनिकुटे उपयमशब्दे

१२५० पृ० दृश्यम् ।

नक्षत्रराज पु० ६ त० टच् समा० । चन्द्रे

“नक्षत्रराजे वर्षान्ते व्यभ्रे ज्योतिर्गणा इव” भा० शा० २९ अ०

नक्षत्रलोक पु० ६ त० । नक्षत्राधिष्ठितलोकभेदे “कस्मिन्नु

चन्द्रलोका ओताश्च प्रोताश्च नक्षत्रलोकेषु गार्गीति
कस्मिन्नु नक्षत्रलोका ओताश्च प्रोताश्च देवलोकेषु” शत० ब्रा०
१४ । ६ । ६ । १ । तल्लोकस्थानादिकं च काशीख० ल० उक्तं यथा
“दक्षः घ्नजाविनिर्माणे दक्षो जातः प्रजा-
पतिः । षष्टिर्दुहितरस्तस्य रूपलावण्यभूमणाः । सर्वा
लावण्यवाहिन्यो रोहिणीप्रमुखाः श्रुताः । ताभिस्तप्त्वा
तपस्तीव्रं प्राप्य वैश्चेश्वरीं पुरीम् । आराधितो महादेवः
सोमः (उमया सहितः) सोमविभूषणः । भवतोऽपि
महादेव! भव! तापहरो हि यः । रूपेण भवता तुल्यः स
नोभर्त्ता भवत्विति । लिङ्गं संस्थाप्य सुमहन् नक्षत्रेश्वर-
संज्ञितम् । वरणायास्तटे रम्ये सङ्गमेश्वरसन्निधौ । दिव्यं
वर्षसहस्रन्तु पुरुषायितसंज्ञितम् । तपस्तप्तं महत्ताभिः
पुरुषैरपि दुष्करम् । ततस्तुष्टो हि विश्वेशोव्यतरद्वर-
मुत्तमम् । सर्वासामेकवृत्तीनामेकार्थस्थिरचेतसाम् ।
श्रीविश्वेश्वर उवाच । न ख्यातं हि तपोऽत्युग्रमेतदन्या-
भिरीदृशम् । पुराऽबलाभिस्तस्माद्वोनाम नक्षत्रमत्र वै!
पुरुषायितसंज्ञेन तप्तं यत्तपसाऽधुना । भवतीभिस्ततः
पुंस्त्वमिच्छया वो भविष्यति । ज्यातिश्चक्रे समस्तेऽस्पि-
न्नग्रगण्या भविष्यथ । मेषादीनाञ्च राशीनां योनयो
यूयमुत्तमाः । ओषधीनां सुधायाश्च ब्राह्मणानाञ्च यः
पतिः । पतिमत्यो भवत्योऽपि तेन पत्या शुभाननाः! ।
भवतीनामिदं लिङ्गं नक्षत्रेश्वरसंज्ञितम् । पूजयित्वा
नरो गन्ता नक्षत्रलोकमुत्तमम् । उपरिष्टान्मृगःङ्कस्य
लोको वस्तु भविष्यति । सर्वासां तारकाणाञ्च मध्ये
मान्या भविष्यथ । नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ।
ते वो लोके वसिष्यन्ति नक्षत्रसदृशप्रभाः । नक्षत्रग्रह-
राशीनां बाधा तेषां कदाचन । न भविष्यति ये काश्यां
नक्षत्रेश्वरवीक्षकाः” ।

नक्षत्रविद्या स्त्री नक्षत्राणां तत्रस्थितग्रहादीनां चारज्ञा-

नाय विद्या । ज्योतिषविद्यायाम् “न चेत्पातनिमित्ताभ्यां
न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां
लिप्सेत कर्हिचित्” मनुः । “विज्ञानेन वा ऋग्वेदं
विजानाति” इत्युपक्रमे “व्रह्मविद्यां भूतविद्यां क्षत्रविद्यां
नक्षत्रविद्याम्” छा० उ० ।
पृष्ठ ३९३२

नक्षत्रवीथि स्त्री नक्षत्रैस्तद्भेदैः कृता वीथिः शा० त० ।

गगनस्थाने नक्षत्रविशेषकृतायां वीथौ तद्भेदादिकं वृ० सं०
९ अ० उक्तं यथा
“नागगजैरावतवृषगोजरद्गवमृगाजदहनाख्याः । अश्वि-
न्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः अथिताः । नागा
तु पवनयाम्यानलानि, पैतामहात्त्रिभास्तिस्यः । गोवीथ्या-
मश्विन्यः पौष्णं द्वे चापि भाद्रपदे । जारद्गव्यां श्रव-
णात् त्रिभं भृमाख्या त्रिभं च मैत्राद्यम् । हस्तविशा-
णात्वाष्ट्राण्यजेत्यषाढ़ाद्वयं दहना । तिस्रस्तिसस्तासां
क्रमादुदङ्मध्ययाम्यमार्गस्याः । तासामप्युत्तरमध्यदक्षि-
णस्थितैकैका । वीधीमार्गानपरे कथयन्ति यथा स्थिता
भमार्गस्य । नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।
उत्तरमार्गो याम्यादि २ र्निगदितो मध्यमस्तु भाग्याद्यः १० ।
दक्षिणमार्गोऽषाढ़ादिः कैश्चिदेवं कृता मार्नाः । ज्यो-
तिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्याकम् । स्वय-
मेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये । उत्तरवीथिपु
शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा । मध्यासु मध्य-
कवदः कष्टफलो दक्षिणस्थासु । अत्युत्तमोत्तमोनं
सममध्यस्य नमधमकष्टफलम् । कष्टतमं सौम्याद्यासु वीथिषु
प्रधाक्रमं ब्रूयात्” ।

नक्षत्रव्यूह पु० वृ० सं० १५ उक्ते नक्षत्रविशेषस्य क्रूरादिवेधेन पुरु-

षविशेषाणां द्रव्यभेदानां च शुभाशुभसूचके नक्षत्रसमूहे
यथा “आग्नेये ३ सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
आकरिकनापितद्विजघटकारपुरोहिताव्दज्ञाः । रोहि-
ण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकदिकाः । गोवृषजल-
चरकर्षशिलोच्चयैश्वर्यसम्पन्नाः । मृगशिरसि सुरभिवस्त्रा-
ऽजकसुमफलरत्नवनचरविहङ्गाः । मृगसोमपीथियान्ध-
र्बकामुका लेखहारश्च । रोद्रे ६ बधबन्धनानृतपरदारस्ते-
यशावभेदरताः । तुषधान्यतीक्ष्णमन्त्राभिचारबेतालक-
र्मज्ञाः । आदित्ये ७ सत्यौदार्यशौचकुलरूपधीयशोऽर्थ-
युताः । उत्तमधान्या वणिजः सेवाभिरताः सशिल्पि-
जनाः । पुष्यं यबगोधूमा शालीक्षुवनानि मन्त्रिणो
भूपाः । मलिकोपलीविनः साधवश्च यज्ञेष्टिसक्तास ।
अहिदेवे ९ कृत्रिमकन्दमूलफककीटपन्नगविमाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च । षित्र्ये १०
धनधान्याद्यं फाष्ठागाराणि पर्वताश्रयिणः । पितृभक्तव-
णिक्शूराः क्रव्यादाः स्त्राद्विषो मनुजाः । प्राक्फल्गु-
नीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि। कर्पासलव-
णमाक्षिकतैलानि कुमारकाश्चापि । आर्यम्णे १२ नार्दव-
शौचविनयपाषण्डिदानशास्त्ररताः । शोभनधान्यमहाध-
नधर्मानुरताः समनुजेन्द्राः । हस्ते तस्करकुञ्जररधिक-
महामात्रशिल्पिपण्यानि । तुषधान्यं श्रुतयुक्त्वा
बणिजस्तेजोयुताश्चात्र । त्वाष्ट्रे १४ भूषणमणिरागलेख्यगान्ध-
र्वगन्धयुक्तिज्ञाः । गणितपटुतन्तुवायाः पालाक्यारा-
जधान्यानि । स्वातौ खगमृगतुरगा बणिजो धान्यानि
वातबहुलानि । अस्थिरसौहृदलघुसत्वतापसाः पण्यकु-
शलाश्च । इन्द्राग्निदैवते १६ रक्तपुष्पफलशाणिनः सतिल-
मुद्गाः । कर्पासमाषचणकाः पुरन्दरहुताशमक्ताश्च ।
मैत्रे १७ शौर्णसमेता मणयायकसाधगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरप्त्वमुत्पन्नम् । पौरन्दरे १८
ऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः । विजि-
गीषवी नरेन्द्राः सेनानां चापि नेतारः । मूले
भेषजभिषजो गणमुख्याः कुसुममूलफलवार्त्ताः । वोजा-
न्यतिधनयुक्ताः फलमूलैर्ये च वर्त्तन्ते । आप्ये २० मृदबो
जलमार्गगामिनः सत्यशौचधनयुक्ताः । सेतुकरवारि-
जीवकफलकुसुमान्यम्बुजातानि । विश्वेश्वरे २१ महामा-
त्रमल्लकरितुरयदेवताभक्ताः । स्यावरयोधा भोगान्विताश्च
ये चौजसा युक्ताः । श्रवणे मायापटवो नृत्योद्युक्ताश्च
कर्मसु समर्थाः । उत्साहिनः सघर्मा मागवताः सत्यवच-
नाश्च । वसुभे २३ मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियां
दूष्याः । दानाभिरता बहुवित्तसंयुताः शमपराश्च
नराः । वरुणेशे २४ पाशिकमत्स्यबन्धजलजानि
जलचरा जीवाः । सौकरिकरजकशौण्डिकशाकुनिकाश्चापि
वर्गेऽस्मिन् । आजे २५ तस्करपशुपालहिंस्रकीनाशनीच-
शठचेष्ठाः । धर्मव्रतैर्विरहिता नियुद्धकशलाश्च ये
मल्लजाः । आहिर्बुध्न्ये २६ विप्राः क्रतुदानतपोयुता
महाविभवाः । आश्रमिणः पाषण्डा नरेश्वराः
शारदधान्यं च । पौष्णे २७ सलिलजफलकुसुमलवणप्रणि-
शङ्खमौक्तिकाब्जानि । सुरमिकुसुमानि गन्धा बणिजो
नौकर्णधाराश्च । अश्विन्यामश्वहराः सेनापतिवैद्यसेवका-
स्तुरगाः । तुरगारोहाश्च बणिग्रूपोपेतास्तुरगरक्षाः ।
याम्ये २ ऽसृक्पिशितमुजः क्रूरा बधवन्धताड़नासकाः ।
तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्वेन । पूर्वात्रयं
सानल ३ मग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
सपौष्ण २७ मैत्र १७ पितृदैवतं १० च प्रजापतेर्भं ४ च कृषी-
वलानाम् । आदित्य ७ हस्ताभिमिदा बणिग्-
पृष्ठ ३९३३
जनानां प्रवदन्ति भानि । मूलत्रिनेत्रा ६ निल १५ वारु-
णानि २४ भान्युप्रजातेः प्रभविष्णुतायाम् । सौम्यै ५
न्द्र १८ चित्रावसु २३ दैवतानि सेवाजनस्याभ्यमुपागतानि ।
सार्पं ९ विशाखा श्रवणो भरण्यश्चण्डान्त्यजातेरिति
निर्दिशन्ति । रविरविसुतयोगमागतं क्षितिसुतभेदनवक्र-
दूषितम् । ग्रहणगतमथोल्कया हतं नियतमुपाकर-
पीड़ित च यत् । तदुपहतमिति प्रचक्षते प्रकृति-
विर्ण्यययातमेव वा । निगदितपरिवर्गदूषणं कथितवि-
पर्ययगं समृद्धये” ।

नक्षत्रव्रत न० नक्षत्रनिमित्तं व्रतम् शा० त० । नक्षत्रनिमित्रे

व्रतभेदे तत्र मामान्यतः कालनिर्णयः ति० त० उक्तो यथा
“नक्षत्रद्वेधे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रमहोरात्रं
यस्मिन्नस्तं गतोरविः । यस्मिन्नुदेति सविता तन्नक्षत्रं
टिनं स्मृतम् पूर्वार्द्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु
“तत्रैवोपबसदृक्षं यन्निशीथादधोभवेत् । उपवासे यदृक्षं
स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्दपुराणात् निशी-
थादध इत्यनेन अर्द्धरामपूर्वकालत्वेन सूर्य्यास्तमयकाल-
स्यापि लाभात् । “उपोषितष्यं नक्षत्रं येनास्तं याति
सास्करः । यत्र वा युज्यते राम! निशीथे शशिना सह”
हति विष्णुधर्मोत्तराच्च उपवासवन्नक्तव्रतादीनामहोरा-
त्रसाध्यता अहोरात्रसाध्यभोजनद्वयस्यैकतरपरित्याग-
सहितकालविशेषनियामकत्वात् । यस्मिन्नुदेतीति तु
दिवसकर्त्तव्यस्नानदानादाविति बोध्यं, पितृकार्येऽपि
शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः “सा तिथिस्तच्च
नक्षत्रं यस्मिन्नभ्युदितो रविः । वर्द्धमानस्य पक्षस्य हीने-
त्वस्तमयं प्रति” हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे बर्द्ध-
मानस्य चन्द्रस्य बर्द्धमानत्वेन शुक्लपक्षस्य । जालमाधवी-
योऽप्येवम्” ति० त० रघु० ।
तदुव्रतानि च हेमा० व्र० भविष्यपु० उक्तानि यथा
“इत्येते कथिताः कृष्ण! तिथियोगा मया तव । नक्षत्र-
देवताः सर्वाः नक्षत्रेषु व्यवस्थिताः । इष्टान् कामान्
प्रयच्छन्ति यथास्थानं सुरेश्वर! । चन्द्रमा यत्र नक्षत्रे
यदा समधितिष्ठति । उक्तस्तु देवयज्ञस्तु तदा स सफली
भवेत् । देवताश्च प्रवक्ष्यामि नक्षत्राणां यथातथम् ।
नक्षत्राणि च सर्वाणि यज्ञञ्चैव पृथक् पृथक् । अश्चिन्या-
मश्विनाविष्ट्वा दीर्घायुर्जायते वरः । व्याधिभिर्मुच्यते
क्षिपं योऽत्यर्थं व्याधिपीड़ितः । भरण्यां यमराड़िष्टः
कृतमैरसितैः शुभैः । तथा गन्धादिभिः शुभ्रैरपमृत्युं
विमोचयेत् । अनलः कृत्तिकायान्तु ऋद्धिं संपूजितः
पराम् । रक्तमाल्यादिभिर्दद्याद्घृतहोमेन च ध्रुवम् ।
प्रजाः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा ।
रोहिण्यां देवशार्दूल! गोजन्महा जगत्पते! । मृगशीर्षे
तथा सोमं जातिमारोग्यमेव च । आर्द्रायान्तु शिवं
पूज्य पशून् विजयमेव च । सितैः पद्मादिभिर्दिव्यैर्देवत्वं
पयसा च वै । पुत्रान् पुनर्वसौ दद्याच्चरुणा तर्प्यिता-
ऽदितिः । तिष्ये वृहस्पतिर्बुद्धिं विपुलं सुखमेव तु ।
भोगान् गन्धादिभिर्नागा अश्लेषायां प्रपूजिताः । तर्पि-
ताश्च प्रयच्छन्ति भक्षाद्यैर्मधुरैः शुभैः । मधासु पितरः
पुष्टिं वृतपायसतर्पिताः । पूर्वायां ११ विजय दद्याद्भगो
देवः सुतर्पितः । भक्त्या प्रपूजितो दद्यादुत्तरायां १२
तथार्य्यषा । भर्त्तारमीप्सितं नार्य्याः पुंसश्च प्ररयोषितम् ।
नीरोगत्वं तथायुष्यं सम्पद चारुरूपताम् । पुष्प-
वस्त्रार्चितो हस्ते दद्यात्तेजोनिधिस्तथा । चित्रासु
पूजितन्त्वष्टा दद्यादारोग्यमेव च । स्वात्यां संपूजितो
वायुः पुत्रानिष्टान् प्रयच्छति । इन्द्राग्नी तु विशाखायां
पीतरक्तैः प्रपूज्य च । धनं राज्यञ्च लज्ज्वेह तेजखी
निवसेत्सदा । रत्नैर्मित्रमनूराधास्वेवं संपूज्य भक्तितः ।
प्रियो जनानां सर्वेषां चिरञ्जीवति सर्वदा । ज्येष्ठाया
पूर्ववत्त्विन्द्रमिष्ट्वा पुष्टिमवाप्नुयात् । गुणैः सर्वैस्तु संपूर्णः
कर्मणा वचनेन च । मूले निरृतिमिष्ट्वा च भक्ष्यैस्तु
पललादिभिः । पूर्ववत् फलमाप्नोति स्वस्थाने च ध्रुवो
भवेत् । अथ इष्ट्वा जले २० चैतैर्हुत्वा तत्रैव पूर्ववत् ।
सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा । आषाड़ासु
तथा विश्वं विरिञ्च्युत्तरयोगनः । संपूज्य श्रियमाप्नोति
परं विजयमेव तु । श्रवणे पूजितो विष्णुः सर्वात्
कामान् प्रयच्छति । धनिष्ठासु वसूनिष्ट्वा न मयं प्राप्नु-
यात् कचित् । महतोऽपि भयात्तीर्णो गन्धपुष्पादिभिः
शुभैः । वरुणं शतभिषास्वर्च्य व्याधिभिर्मुच्यते नरः ।
अजं भाद्रपदायान्तु २५ शुबस्फटिकसन्निभम् । संपूज्य मुक्ति-
माप्नोति भात्र कार्य्या विचारणा । उत्तराया २६ महिर्ब्रध्नं
परां शान्तिमवाप्नुयात् । रेवत्यां पूजितः पूषा ददाति
विविधान् पशून् । सितैः पुष्यैस्तथा दीपैर्धूपैर्विजय-
बर्द्धनैः । य एते वै समाख्याता यज्ञाः संक्षेपतो मया ।
नक्षत्रदेवतानां हि साधकानां हिताय वं । तस्माहित्ता-
नुसारेण भवन्ति फलदायकाः । गन्तुमिच्छेद्यदान्यत्र
क्रियापारस्य एव च । नक्षत्रदेवतायज्ञं कृत्वादौ
पृष्ठ ३९३४
सर्वमाचरेत् । एवं कृते हि तत्सर्वं यात्राफलमवाप्नु-
यात् । क्रियाफलन्तु संपूर्णमित्युक्तं भानुना स्वयम् ।”

नक्षत्रशूल पु० “ज्येष्ठा पूर्वां भाद्रपदा रोहिण्युत्तरफाल्गुनी ।

पूर्वादिषु क्रमाच्छूलाः यात्रायां मरणप्रदाः” ज्योति०
उक्ते यात्रायां निषिद्धे पूर्वादिदिक्षु नक्षत्रभेदे तस्य
शूलतुल्यमरणप्रदत्वात् शूलत्वम् ।

नक्षत्रसत्र न० नक्षत्रनिमित्तं सत्रम् । नक्षत्रनिमित्ते सत्र-

भेदे । तत्र नाक्षत्रमासग्रहणम् विष्णुध० उक्तं यथा
“नक्षत्रसत्राण्ययनादि चेन्दोर्मासेन कुर्य्याद्भगणात्मकेन”
“नक्षत्रसत्राणि नाक्षत्रमाससाध्ययागभेदाः याज्ञिकप्र-
सिद्धाः” समयप्रदीपः ।

नक्षत्रसन्धि पु० नक्षत्रयोः सन्धिः । पूर्वनक्षत्रादुत्तरनक्षत्रे

चन्द्रादेर्ग्रहाणां वा गतिरूपसंक्रान्तौ । तिथिसन्धिशब्दे
दृश्यम् ।

नक्षत्रसाधन न० नक्षत्रं साध्यते ज्ञायतेऽनेन साधि--करणे

ल्युट् । सि० शि० उक्ते ग्रहाणां नक्षत्रमानसाधने गणन
भेदे तच्च वाक्यं तिथिशब्दे ३२९७ पृ० दर्शितम् ।

नक्षत्रसूचक पु० नक्षत्राणि शुभाशुभतया सूचयति ण्वुल्

६ त० । “अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स
पङ्क्तिदूषकः पापी ज्ञेयो नक्षत्रसूचकः” इति वृ० सं० १ अ०
“तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम् ।
परवाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” इत्युक्ते च सिद्धा-
न्ताममिज्ञे ज्योतिर्विदि । णिनि नक्षत्रसूचीत्यप्यत्र ।

नक्षत्रामृत न० वारभेदे नक्षत्रयोगकृते अमृतयोगे अमृत-

शब्दे ३२४ पृ० दृश्यम् ।

नक्षत्रिन् पु० नक्षत्रमस्त्यस्य स्याम्येन नियम्यतया वा इनि ।

१ चन्द्रे २ विष्णौ च “नक्षत्रेमिर्नक्षत्री क्षमः क्षामः
समीहनः” विष्णु स० । “नक्षत्राणामहं शशीति” गीतोक्ते
र्नक्षत्रेशरूपेण स्थितत्वात् तस्य तथात्वम् ।

नक्षत्रिय पु० नक्षत्राय हितः च । नक्षत्राधिष्टावृदेबभेदे ।

“नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा” यजु० २२ । २८ ।
नशब्देन “सह सुपा” पा० स० । २ क्षत्रियभिन्ने च ।

नक्षत्रेश पु० ६ त० । चन्द्रे अमरः । “नक्षत्रेशकृतेक्षणो गिरि-

गुरौ ग दां रुचिं धारयन्” (उमावल्लभः) सा० द० ।

नक्षत्रेश्वर पु० ६ त० । १ चन्द्रे नक्षत्राधिष्ठावृदेवताभिः

काश्यांस्थापिते २ शिवलिङ्गभेदे न० नक्षत्रलोकशब्दे
दृश्यम् ।

नक्षत्रेष्टि स्त्री नक्षत्रनिमित्ता इष्टिः शा० त० । नक्षत्रनिमित्तके इष्टिभेदे

नक्षत्रेष्टका स्त्री इष्टकाभेदे तैत्तिरीयसंहिता ५ । ४ । १ । २

नख सर्पणे भ्वा० पर० सक० सेट् । नखति अनखीत् अनाखीत्

ननाख नेखतुः । अणोपदेशत्वात् न णत्वं प्रनखति ।

नख पु० न० न खं “छिद्रमत्र नभ्राडित्यादि” पा० नञो न

नलोपः नखन्यते खन--ड वा नह बन्धने “नहेर्लोपश्च”
ख वा उणा० । १ करजे कराङ्गुल्यग्रस्ये कण्टके अमरः ।
“कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि”
माघः “न च्छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान्”
मनुः “नखक्षतानीव वनस्थलीनाम्” कुमा० “ऐन्द्रिः किन्त
नखैस्तस्या विददार स्तनौ द्विजः” रघुः “न नखैर्विलिखेद्भू-
मिम्” कूर्मपु० । खाङ्गत्वेऽपि उपसमर्जने क्रोडा० स्त्रियां
ङीषोनिषेधे संज्ञायां “नखमुखात् संज्ञायाम्” नियमात्
ङीष् । शूर्पणखा गौरमुखा असंज्ञायान्तु ताम्रानखी
कन्या सि० कौ० । नखस्य मूलं कर्णा० जाहच् ।
नखजाह तन्मूले न० “लोष्ट्रमर्द्दी तृणच्छेदी नखस्वादी
च यो नरः” मनुना तस्य दन्तेन खादनं निषिद्धम् ।
२ खण्डे पु० हेम० ३ शुक्तिकायां गन्धद्रव्यभेदे न० स्त्री०
स्त्रियां बह्वा० ङीप् । “द्विधा शङ्खनखाख्यान्या
शुक्त्याख्या वदरीच्छदा” रत्नमा० “खल्पपत्रस्त्वसौ शुक्ति-
र्नखरी वदरच्छदा । महांस्त्वसौ शङ्खनखः शङ्खाख्यो
गन्धसारणः” शब्दार्थचि० “नखद्वयं ग्रहश्लेष्मवातास्र-
ज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषा-
पहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कदु”
भाव० तद्गुणा उक्ताः ।

नखकुट्ट पु० नखं कुट्टति कुट्ट--छेदे अण् उप० स० । नापिते त्रिका० ।

नखगुच्छफला स्त्री नख इव गुच्छः फलं च यस्याः ।

निष्पावभेदे राजनि० ।

नखदारण न० नखं दार्य्यतेऽनेन दारि--करणे ल्युण् ।

नखनिकृन्तने नापितास्त्रभेदे (नरहुन) ।

नखनिकृन्तन न० निकृत्यतेऽनेन कृत--ल्युट् बा० मुम्

६ त० । नखच्छेदनार्थे नापितास्त्रभेदे (नरहुन) तत्सा-
धनत्वात् २ लोहमात्रेऽपि “यथा सोम्यैकेन नखनिकृन्तनेन
विज्ञातेन सर्वं कार्ष्णायसं विज्ञातं स्यात् वाचाऽऽरम्भणं
विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्” छा० उ०

नखनिष्पाव पु० नखं तत्तुल्यफलतया निष्पुनाति निष्प-

णाति निस् + पु--अण् । नखफलिन्याम् राजनि० ।

नखपर्णी स्त्री नख इव पर्णमस्या ङीप् वृश्चिकालिक्षुप-

भेदे राजनि० ।
पृष्ठ ३९३५

नखपुष्पी स्त्री नख इव पुष्पमस्या ङीप् । पृक्कायां राजनि०

नखप्रच न० नखश्च प्रचितञ्च मयू० नि० । नखप्रचितयोः ।

नखफलिनी स्त्री नख इव फलमस्त्यस्य बाहुल्येन मूम्नि

इनि ङीप् । नखनिष्पाववृक्षे राजनि० ।

नखमुच त्रि० नख मुञ्चति मुच--मूलविभु० क । नखमोचके

धनुषि संक्षिप्तसार० ।

नखम्पच त्रि० नखं पचति तापयति नख + पच--खश् मुम् च ।

१ नखतापके “कथमप्यभवत् स्मरानलोष्णः स्तनभारो न
नखम्पचः प्रियस्य” माथः । २ यवाग्वां स्त्री शब्दार्थचि० ।

नखर पु० न० नखं राति रा--क नख--बा० उणा० अर वा

१ नखे अर्द्धर्चा० । “सकम्पनर्ष्टिनखरा मूसलानि
परश्वधाः” भा० द्रो० १३१८ श्लो० “किं पुनरलङ्कृतस्त्वं सम्प्रति
नखरक्षतैस्तस्याः” सा० द० । नशब्देन “सह सुपा” पा०
स० । २ खरभिन्ने त्रि० ।

नखरजनी स्त्री नखो रज्यतेऽनया रन्ज--करणे ल्युट् नलोपः

ङीप् । (मेइँदी) प्रसिद्धे वृक्षे तस्याः फलम् अण्
हरीतक्या० अणो लुप् प्रकृतिलिङ्गत्वात् तत्फलेऽपि स्त्री

नखरञ्जनी स्त्री नखं रञ्जयति रन्ज--णिच्--ल्यु गौरा०

ङीष् । नखनिकृन्तने नापितास्त्रभेदे (नरुहुन) “अनन्त-
चरणोपान्तचारिणी मलहारिणी । पुनर्भवच्छेदकरी
गङ्गेव नखरञ्जनी” उद्भट्टः ।

नखरायुध पुंस्त्री नखर एवायुधं यस्य । १ सिंहे २ व्याघ्रे

३ कुक्कुरे च राजनि० । स्त्रियां जातित्वात् ङीष् ।

नखराह्व पु० नखरमाह्वयते स्पर्द्धते आकारेण आ + ह्वे--क ।

करवीरे राजनि० ।

नखरी स्त्री नखरः पुष्पाकारेणास्त्यस्य अच् गौरा० ङीष् ।

१ नखीनामगन्धद्रव्ये शब्दमाला । २ क्षुद्रनख्यां रत्नमा० ।

नखलेखक त्रि० नखं लिखति जीविकार्थं “शिल्पिसं-

ज्ञयोरपूर्वस्यापि” उणा० लिख--क्वुन् नित्यक० । जीवि-
कार्थदन्तलेखनशिल्पकारके । अस्य “नित्यं क्रीड़ाजीवि-
कयोः” पा० समासे “अके जीविकार्थे” पा० आद्युदात्तता

नखविष पुंस्त्री नखे विषमस्य । नरादौ हेमच० “नागाः

स्युर्दृग्विषा लूनविषास्तु वृश्चिकादयः । व्याघ्रादयो
सोमविषा नखविषा नरादयः । लालाविषास्तु
लूताद्याः कालान्तरविषाः पुनः । मूषिकाद्याः” हेमच० ।
जङ्गमविषशब्दे ३०१२ पृ० आदिपदग्राह्यं दृश्यम् ।

नखविष्किर पुंस्त्री० नखैर्विकिरति वि + कॄ--क “बिष्किरः

शकुनिर्विकिरो वा” पा० सुट् षत्वञ्च । नखैर्विकीर्य्य-
भक्षके श्येनादौ “प्रतुदान् जालपादांश्च कोयष्टिनख-
विष्किरान्” अभक्ष्यमांसोक्तौ मनुः “नखविष्किरान्
नखैर्विकीर्य्य ये भक्षयन्ति तानभ्यनुज्ञातारण्यकुक्कुटादिव्यति-
रिक्तान् श्येनादीन्” कूल्लू० ।

नखवृक्ष पु० नखति नख--सर्पणे अच् नित्यक० । नीलवृक्षे राजनि० ।

नखशङ्ख पु० नख इव शङ्खः । क्षुद्रशङ्खे शब्दर० ।

नखाघात पु० नखैराघातः । नर्म्मार्थं सुरते नायकेन

नायिकाङ्गे तद्विपर्येण वा नखैराघाते तत्स्थानानि
कामशास्त्रे उक्तानि यथा “नखाधातः प्रदातव्यो यथा
स्थानानि नर्मसु । पार्श्वयोः स्तनयोश्चैव ऊरौ चैव
नितम्बके । कक्षस्थले च कक्षान्ते कपाले बाहुमूलके ।
ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् । तथा
सर्वशरीरेषु नखं दद्याच्छनैः शनैः” इति । नखपदनख-
क्षतादयोऽप्यत्र “नवनखपदमङ्गं गोपयस्यंशुकेन” सा० द०
“नखक्षतानीव वनस्थलीनाम्” कुमा० २ युद्धार्थं नस्यै-
राथाते च ।

नखाङ्क पु० नखमङ्क इव यस्य । १ व्याघ्रनख्याम् शब्दर० नखस्याङ्कः । २ नखाधातचिह्ने च पु० ।

नखाङ्ग न० नख इवाङ्गमस्य । नख्यां रत्नमाला ।

नखानखि अष्य० नखैश्च नखैश्च प्रहृत्य वृत्तं युद्धम् “इच्

कर्मव्यतिहारे” पा० इच् समा० । परस्परनखाथातेन प्रवृत्ते
युद्धे “कचाकचि युद्धमासीत् दन्तादन्ति नखानखि”
भा० क० ४९ अ० ।

नखायुध पुंस्त्री नख आयुधमिव यस्य । १ व्याघ्रे २ सिंहे ३ कुक्कुरे च राजनि० ।

नखालि पु० नखानामालिरत्र । १ क्षुद्रशङ्ख्ये शब्दच० ६ त० ।

२ नखपङ्क्तौ च ।

नखालु पु० नख इव आलुः नख--सर्पणे बा० आलुच् वा । नीलवृक्षे राजनि० ।

नखाशिन् पु० नखमश्नाति अश--णिनि ६ त० ।

१ पेचके त्रिका० । २ नखखादिनि त्रि० ।

नखि पु० नखति सर्पति नख--इन् । १ सर्पके । उज्ज्वकत्तदस्तु

नखेनातिक्रामति नख + णि--नखयति “अच इः” उणा०
इ । २ नखेनातिक्रामके इत्याह स्म । इदं चिन्त्यं
हस्तिनातिक्रामतीत्यादौ अतिहस्तयतीतिवत् नखेनाति-
क्रामतीति वाक्ये अतिनखयतीत्येव स्यात् न नखयतीति

नखिन् पु० नखः अस्त्यस्य, प्राशस्त्येन बा इनि । १ सिंहे

राजनि० । २ व्याघ्रे ३ महानखयुक्तमात्रे त्रि० । “नखि-
नाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो
नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च” चाणक्यः । “भूत्या
केशरिणां सिंहा व्याघ्राश्च नखिनां वराः” हरिवं० ७३ अ० ।
पृष्ठ ३९३६

नखी स्त्री नख आकारत्वेनास्त्यस्य अच् गौरा० ङीष् नख +

बह्वा० ङीप् वा । स्वनामख्याते गन्धद्रव्ये अमरः
धूपशब्दे उदा० दृश्यम् ।

नग पु० न गच्छति गम--ड “नगोऽप्राणिषु” पा० नञो न

नलोपः । १ पर्वते २ वृक्षे च अमरः । “नगजा नगजा
दयिता दयिताः” भट्टिः “नगाह्वयो नाम नगारिसूनुः”
भा० वि० ३९ अ० । अप्राणिष्वित्युक्तेः अगो वृश्चिकः शीते-
नेत्यादौ नलोपः इति बोध्यम् ।

नगज त्रि० नगाज्जायते जन--ड् ५ त० । १ पर्वतजातमात्रे

“नगजा नगजाः” भट्टिः २ हस्तिनि च । हिमाद्रिकन्याय
३ पार्वत्यां ४ क्षुद्रपाषाणभेदालतायां स्त्री राजनि० ।

नगनदी स्त्री नगजाता नदी शा० त० । पर्वतनिःसृतनद्याम् ।

“विश्रान्तः सन् व्रज नगनदीतीरजातानि सिञ्चन्” मेघ०

नगनन्दिनी स्त्री ६ त० । हिनालयजातायां दुर्गायां शब्द० ।

नगपति पु० ६ त० । १ हिमालये त्रिका० यथोक्तं ब्रह्माण्डपु०

“शैलानाम् हिमवन्तञ्च नदीनाञ्चैव सागरम् । गन्धर्वा-
णामधिपतिञ्चक्रे चित्ररथम् विधिः” नगानां वृक्षाणां पत्यौ
२ चन्द्रे च तस्य वनस्पतीशत्वम् औषधीशशब्दे दृश्यम् ।

नगभिद् पु० नगं भिनत्ति भिद--क्विप् ६ त० । १ पाषाणभेद-

नास्त्रभेदे राजनि० । २ इन्द्रे च तस्य तथात्वं गोत्रभिद्-
शब्दे २६९८ पृ० दृश्यम् ।

नगभू पु० नगे भवति भू--क्विप् ७ त० । १ क्षुद्रपाषाणभेदायां

राजनि० । २ पर्वतजातमात्रे त्रि० ६ त० । ३ पर्वतभूमौ स्त्री

नगर न० नगा इव प्रासादाः सन्त्यत्र बा० र ।

“पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् । अनेकजा-
तिसम्बद्भं नैकशिल्पिसमाकुलम्! सर्वदैवतसंबद्धं नगरं
त्वभिधीयते” इत्युक्तलक्षणे १ पुरभेदे । गौरा० ङीष् ।
नगरीत्यप्यत्र अमरः । तस्य लक्षणं भविष्योत्तरे
“दीर्घं वा चतुरखं वा नगरं कारयेन्नृपः । तत्त्र्यस्रं
वर्त्तुलं वापि कदाचिदपि कारयेत् । दीर्थं पादैकप्रसर-
ञ्चतुरस्रं समोचितम् । त्रिभिः पादैः समं त्र्यस्रं
वर्त्तुलं वलयाकृति । दीर्थं स्याद्दीर्थकुशलसुखसम्पत्ति-
हेतवे । चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः । त्र्यस्रं
त्रिशक्तिगाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्द-
शभी राजहस्त उदाहृतः । राजहस्तैश्च दशभी
राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदा-
हृतम् । राजच्छत्रैश्च दशमी राजकाण्ड उदाहृतः । राज
काण्डैश्च दशभी राजपुरुष उच्यते । राजधानी तु कथि-
ता दशभी राक्षपुरुषैः । राजधानी दशगुणा राजक्षेत्र-
सुदाहृतम् । सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने ।
भयस्त्रीभोगसम्पत्तिमर्त्यकीर्त्तिसुखार्थिनाम् । राजक्षेत्रे
नरपतिः पुरपत्तनमारभेत् । लक्ष्मीर्जयः क्षमा सौख्यं
पञ्चत्वं भङ्ग एकता । समृद्धिवित्तं नाशश्च मङ्गलञ्च बलं
क्षयम् । साम्राज्यं भोगसम्पत्तिरिति भोड़श कीर्त्तिताः ।
यथार्थसंज्ञा नगरे मुनिना तत्त्ववेदिना” इति युक्तिकल्प-
तरुः । “नृपवासपुरी प्रोक्ता विशाम्पुरमपीष्यते ।
एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम् । मिश्रन्तु
खर्वटं नाम नदीगिरिसमाश्रयम् । विप्राश्च विप्रभृत्याश्च
यत्र चैव वसन्ति हि । स तु ग्राम इति प्रोक्तः शूद्राणां
वास एव च । पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्यु-
तम् । अनेकजातिसम्बद्धं नैकशिल्पिसमाकुलम् । सर्व-
दैवतसम्बद्धं नगरन्त्वभिधीयते” इति विष्णु० पु०
टीकायां श्रीघरस्वामिधृतभृगुवचनम् । “नगरं सर्व्रयो
भद्रं कर्त्तव्यं रोधकं हि वा । स्वस्तिकं मध्यगं कार्य्यं
कुमारीपुरमेव वा । चतुस्पथचतुर्युक्तं सर्वकाममुखा-
वहम् । छिन्नकर्णं द्विमुखञ्च दुःस्थितं कृशदुर्बलम् । नगरं
न प्रशंसन्ति गर्तबिद्धं विभेदितम् । अग्रतः स्वल्पप्रासादं
छिन्नकर्णं विदुर्बुधाः । द्विमुखं कर्णहीनन्तु कृशमध्यं
कृशं विदुः । दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्बलम् ।
सौम्यं सर्वसुखाह्लादपूरितं वारुणं बलम् । याम्यमायुः-
प्रदं पूर्णनगरं प्रीतिवर्द्धनम् । ईशवासवसंपूर्णं सर्वा-
रोम्यसुखप्रदम् । मध्यञ्चतुष्पथीपेतं नच तत् पीड़वेत्
क्वचित् । व्रह्मस्थानं हितं विप्र! शिवस्तत्र सदा स्थितः ।
चतुर्विंशतिनाद्ध्यस्तु हस्तास्ल्यष्टशतं एरम् । अत्र मध्यं
प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम् । अथ किष्कुशता-
न्यष्टौ प्राहुर्मुख्यं निवेशनम् । नगरार्द्धञ्च विष्कम्भं स्वेष्टं
ग्रामं ततोऽर्द्धतः । नगरार्द्धमितं खेष्टं खेटाद् ग्रामोऽर्द्ध-
योजनः । द्विक्रोशं परमा मीमा क्षेत्रमीमा चतुर्धनुः ।
त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनु-
र्ग्राममार्गः सीमामार्गा दशैव तु । धनूंचि दूश विस्तीर्णः
श्रीमान्राजपथः कृतः । नृवाजिरथतागानामसम्बाथं
सुसञ्चरः । धनूंषि चैव चत्वारि शाखा रथ्यास्तु निर्मिताः ।
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका । जङ्घापथा-
श्चतुष्पादास्त्रिपादस्य गृहान्तरम् । वृतीपादस्त्वर्द्धपादः
प्राग्वंशपादकः स्मृतः” देवी पु० । नगरसन्निवेशशब्दे
दृश्यम् । नगरनिर्माणकालश्च “स्थिरराशिगते भानौ
पृष्ठ ३९३७
चन्द्रे च स्थिरभोदये । शुद्धे काले दिने चैव नगरं
कारयेन्नृपः” ज्यो० “सनगरं नगरन्ध्रकरौजसः रघुः ।
नगरे काकः पात्रे समि० ७ त० स० । नगरकाक नगर
स्थिते काकतुल्याचारवति एवं ७ त० । नगरवायस तत्रार्थे
बुक्तरोह्या० तयोराद्युदात्तता ।

नगरकीर्त्तन न० नगरे हरेर्नामकीर्त्तनम् । नगरे भ्रम-

णेन हरिनामकीर्त्तने “नाचारो नाधिकारो वा न स्थान
नियमस्तथा । ग्रामे वा नगरे साधुर्वने वा कीर्त्तयेद्ध-
रिम्” हरिनाममाहात्म्ये ।

नगरघात पु० नगरं हन्ति अमनुष्यकर्त्तृकत्वेन टकं बाधिन्वा

अण् उपस० । १ हस्तिनि गजे सि० कौ० । हन--भावे घञ्
६ त० । २ नगरस्थलोकस्य हनने च ।

नगरमर्दिन् त्रि० नगरं मृद्नाति मृद--णिनि ३ त० । १ नगरा-

वमर्दके २ मत्तगजे पु० । ततः बाह्वा० अपत्यादौ इञ् ।
नागरमर्दिनि तदपत्यादौ ।

नगरमार्ग पु० ६ त० । राजमार्गे तत्करणप्रकारादि

औशनसनीति परिशिष्टे उक्तं यथा “राजमार्गास्तु कर्त्तव्या-
चतुर्दिक्षु नृपालयात् । उत्तमो राजमार्गस्तु त्रिंशद्धस्त-
मिता भवेत् । मध्यमो षिंशतिकरो दशपञ्चकरोऽधमः ।
पण्यमार्गास्तथा चैत्ये पुरग्रामादिषु स्थिताः । करत्रया-
त्मिका पद्या वीथिः पञ्चकरात्मिका । मार्गो दशकरः
प्रोक्तो ग्रामेषु नगरेषु च । प्राक्पश्चाद्दक्षिणोदक्स्थान्
ग्राममध्यात् प्रकल्पयेत् । पुरं दृष्ट्वा राजमार्गान् सुबहून्
कल्पयेन्नृपः । न वीधिं न च पद्यां हि राजधान्यां
प्रकल्पयेत् । षड्योजनान्तरेऽरण्ये राजमार्गन्तथो-
त्तमम् । कल्पयेद् मध्यमं मध्ये तयोर्मध्ये तथाऽधमम्
दशहस्तीत्मकं नित्यं ग्रामे ग्रामे नियोजयेद् । कूर्म-
पृष्ठा मार्गभूमिः कार्य्या ग्राम्यैः सुपेतुका । कुर्य्यान्मा-
र्गान् पार्श्वखातान् निर्गमार्थं जलस्य च । राजमार्ग-
मुखानि स्युर्गृहाणि सकलान्यपि । गृहपूर्वे सदा
वीथिं मलनिर्हरणस्थलम् । पङ्क्तिद्वयगतानोह
गृहाणि कारयेत् तथा । भार्गान् सुधाकर्करैर्वा घटितान्
प्रतिवत्सरम् । अभियुक्तनिरुद्धैर्वा कुर्य्याद्ग्रामजनै-
र्नृपः । ग्रामद्वयान्तरे चैव पान्त्रशालां प्रकल्पयेत् ।
नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम् । तत्रा-
गतं तु संपृच्छेत् पान्यं शालाधिपः सदा । प्रयातोऽसि
कुतः स्यानात् क्व गमित्यसि तत् वद । ससहायोऽसहायो
वा सशस्त्रः किमबाहनः । का जातिः किं कुलं नाम
स्थितिः कुत्रास्ति ते चिरम् । इति पृष्ट्वा लिखेत् सायं
शस्त्रं तस्य प्रगृह्य च । सावधानमना भूत्वा स्वापं
कुर्वीत स्वापयेत् । तत्रस्थान् गणयित्वा तु शालाद्वारं
पिधाय च । संरक्षयेद् यामिकैस्तु प्रभाते तान् प्रबो-
धयेत् । अजानरवृषाश्वोष्ट्रगजेभ्यः क्रमतो हरेत् ।
भृतिं पणार्द्धवृद्ध्या तु रक्षार्थं मार्गशालयोः । शस्त्रं
दद्याच्च गणयेत् द्वारमुद्द्वाट्य मोचयेत् । कुर्य्यात् सहायं
सीमान्तं तेषां ग्रामजनं सदा” ।

नगरन्ध्रकर पु० नगरस्य क्रौञ्चस्य रन्ध्रं करोति कृ--ट ६ त० ।

कार्त्तिकेये क्रौञ्चदारणशब्दे दृश्यम् । “सनगरं
नगरन्ध्रकरौजसः” रघुः ।

नगरादिसन्निवेश पु० १०६ अ० अग्निपु० उक्तप्रकारे

नगरादिस्थापने यथा
“ईश्वर उवाच नगरादिकवास्तुञ्च राज्यादिकविवृद्धये ।
योजनं योजनार्द्धं वा तदर्द्धं स्थानमाश्रयेत् । अभ्यर्च्य
वास्तुनगरं प्राकाराद्यन्तु कारयेत् । ईशादित्रिंशत्पदके
पूर्वद्वारं च सूर्यके । गन्धर्वाभ्यां दक्षिणे स्याद्वारुणे
पश्चिमे तथा । सौम्यद्वारं सौम्यपदे कार्या हट्टाः सुवि-
स्तराः । येनेभादि सुखं गच्छेत् कुर्याद्द्वारं तु षट्करम् ।
छिन्नकर्णं विभिन्नञ्च चन्द्रार्द्ध्वाभं पुरं न हि । वज्रसूची-
मुखं नेष्टं सकृद् द्वित्रिसमागमम् । चापाभं वज्रनागाभं
पुरारम्भे हि शान्तिकृत् । प्रार्च्य विष्णुहरार्कादी-
न्नत्वा दद्याद् बलिं बली । आग्नेये स्वर्णकर्मारान्
पुरख विनिवेशयेत् । दक्षिणे नृत्यवृत्तीनां वेश्या-
स्त्रीणां गृहाणि च । नटानाञ्चक्रिकादीनां कैवर्त्ता
देश्च नैरृते । रथानामायुधानाञ्च कृपणानाञ्च वारुणे ।
शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः ।
ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे । फलान्ना-
दिविक्रयिण ईशाने च वणिग्जनाः । पूर्वतश्च
बलाध्यक्षा आग्नेये विविधं बलम् । स्त्रीणामादेशिनो दक्षे
काण्डीरान्नैरृते न्यसेत् । पश्चिमे च महामात्यान्
कोषपालांश्च कारुकान् । उत्तरे दण्डनाथांश्च नायक-
द्विजसङ्कुलान् । पूर्वतः क्षत्रियान् दक्षे वैश्यान् शूद्रांश्च
षश्चिमे । दिक्षुवैद्यान् वाजिनश्च बलानि च चतुर्दिशम् ।
पूर्वेण सुरलिङ्गादीन् श्मशानादीनि दक्षिणे । पश्चिमे
गोधनाद्यञ्च कषिकर्तॄंस्तथोत्तरे । न्यसेत् म्लेच्छांश्च
कोणेषु ग्रामादिषु तथा स्थितिम् । श्रियं वैश्रवणं द्वारि
पूर्वे तौ पश्यतां श्रियम् । देवादीनां पश्चिमतः पूर्वा-
पृष्ठ ३९३८
स्यानि नृहाणि हि । पूर्वतः पश्चिमास्यानि दक्षिणे
चोत्तराननान् । नाकेशविष्ण्वादिधाम रक्षार्थं
नगरस्य च । निर्द्दैवतन्तु नगरग्रामदुर्गगृहादिकम् ।
भुज्यते तत् पिशाचाद्यैरोगाद्यैः परिभूयते ।
नगरादि सदैवं हि जयदं भुक्तिमुक्तिदम् । पूर्वायां श्रीगृहं
प्रोक्तमाग्नेय्यां वै महानसम् । शयनं दक्षिणस्यान्तु
नैरृत्यामायुधाश्रयम् । भोजनं पश्चिमायान्तु वायव्यां
धान्यसङ्गहः । उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृ-
हम् । चतुःशालं त्रिशालं वा द्विशालं चैकशालकम् ।
चतुःशालगृहाणान्तु शालालिन्दकभेदतः ।
शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि । त्रिशालानि तु
चत्वारि द्विशालानि तु पञ्चधा । एकशालानि चत्वारि
एकालिन्दानि वच्मि च । अष्टाविंशदलिन्दानि गृहाणि
नगराणि च । चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु ।
षडलिन्दानि विंशच्च अष्टाभिर्विंशदेव हि । अष्टा-
लिन्दं भवेदेवं नगरादौ गृहादिषु” गृहशब्दे दृश्यम् ।

नगराध्यक्ष पु० नगरे राज्ञा बियोजितः अध्यक्षः । राज्ञा

नियोजिते नगररक्षार्थम् अधिकारिभेदे “नगरे नगरे
वा स्यादेकः सर्वार्थचिन्तकः । उच्चैः स्थाने घोररूपो नक्ष-
त्राणामिव ग्रहः । भवेत्, स तान् परिक्रामेत् सर्वानेव
सभासदः” भा० शा० ८७ अ० । २ नगररक्षके च “उग्र-
सेनो नरपतिर्वसुदेवश्च भारत! । निक्षिप्तौ नगराध्यक्षौ
शेषाः सर्वे विनिर्गताः” हरिवं० १४७ अ० ।

नगरीकाक पुंस्त्री नगर्य्याः काक इव । वके त्रिका०

स्त्रियां जातित्वात् ङीष् ।

नगरोत्थ त्रि० नगरादुत्तिष्ठति उद् + स्था--क ५ त० । १ नगरो-

त्पन्ने २ नागरमुस्तकवृक्षे स्त्री राजनि० ।

नगरौषधि(धी) स्त्री नगरजाता औषधिः । कदल्यां शब्दच० वा ङीप् ।

नगाटन पुंस्त्री नगे वृक्षे अटनमस्य । १ वानरे त्रिका० स्त्रियां

जातित्वात् ङीष् । ७ त० । २ पर्वतवृक्षयोरटने गतौ च

नगाधिप पु० नगानामधिपः । १ हिमालयपर्वते जटाधरः ।

तस्य तथात्वम् नगपतिशब्दे दृश्यम् । २ सुमेरौ च
नगाधिराजादयोऽप्यत्र । “हिमालयो नाम नगाधिराजः”
कुमा० ।

नगानिका स्त्री “द्वितूर्य्यके गुरुर्यदा नगानिका भवेत्तदा”

इत्युक्तलक्षणे चतुरक्षरपादके छन्दोभेदे ।

नगारि पु० ६ त० । पर्वतपक्षभेदकत्वात् तदरौ इन्द्रे “नगा-

द्वयो नाम नगारिसूनुः” भा० वि० ३९ अ० ।

नगाश्रय पु० नगः पर्वतः आश्रयोऽस्य । १ हस्तिकन्दवृक्षे

राजनि० । २ पर्ववृक्षयोर्वासिनि त्रि० ।

नगेन्द्र पु० नग इन्द्र इव श्रेष्ठत्वात् । १ हिमालये ३ पगतश्रेष्ठे

च “रश्मिष्विवादाय नगेन्द्रसक्ताम्” रघुः “नानाचेष्टै-
र्जलदललितैनिर्विशेस्त्वं नगेन्द्रम्” (कैलासम्) मेघ०

नगौकस् पु० नगो वृक्षः पर्वतो वा ओकः निवासस्थानमस्य ।

१ खगमात्रे अमरः । २ सरभे ३ सिंहे च मेदि० । ४ काके
शब्दच० । ५ वृक्षपर्वतयोर्वासिनि ति० ।

नग्न त्रि० ओनजी व्रीडे कर्त्तरि क्त तस्य नः । १ विवस्त्रे २

कषायवस्त्र धारिणि कौपीनावृते मुक्तकच्छे दिगम्बरे जैनभेदे
पु० नग्नभेदमाह भृगुः “विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र
एव वा । श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि” ।
“विकच्छः परिधानासंवृतकच्छः” तथा च योगियाज्ञ
वल्क्यः “परिधानाद्बहिः कच्छा निबद्धा ह्यासुरी भवेत्”
स्मृतिः “वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम् ।
एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मतः”
बौधायनः “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी ।
अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः” आचारच-
न्द्रिकायाम् । “द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च ।
एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः” आह्निकत०
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च
मूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम् । नोच्छिष्टं सविशेत्
गित्यं न नग्नः स्नानमाचरेत् । न गच्छेन्न्न पठेद्वापि
न चैव स्वशिरः स्पृशेत्” इति कूर्मपु० १५ अ० । ३ पारिभा-
षिकनग्ने च “येषां कुले न वेदोऽस्ति न शास्त्रं नैव
च श्रुतम् । ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं
विगर्हितम्” इति मार्कण्डपु० सदाचाराध्यायः “ऋज्यजुः
सामसंज्ञेयं त्रयी वर्णावृतिर्द्विजः । एतामुज्झति यो
मोहात् स नग्नः पातकी स्मृतः । यस्तु संत्यज्य
गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडपि मैत्रेय! स
नग्नः पापकृन्नरः” इति विष्णुपु० १८ अ० इत्यादिना
परिभाषिताः “नग्नो मुण्डः कपालेन भिक्षार्थं क्षुत्पि-
पासितः । अन्धः शत्रुकुलं गच्छेत् यः साक्ष्यमनृतं
वदेत्” मनुना अनृतसाक्ष्योक्तेः फलं नग्नतादिकमुक्तम् ।

नग्नङ्करण न० अनग्नः नग्नः क्रियतेऽनेन कृ--ख्युन् मुम्

च । अनग्नस्य नग्नतया करणसाधने ।
पृष्ठ ३९३९

नग्नजित् पु० राजभेदे “नग्नजिन्नाम कौशल्य आसीद्राजाति

धार्मिकः । तस्य सत्याऽभवत् कन्या नाम्ना नाग्नजिती
नृप!” भाग १० । ५८ । २३ श्लो० “प्रीतिमनुभवसि नग्नजितः”
माघः २ वास्तुग्रन्थकारके विद्वद्भेदे च “नग्नजिता तु
चतुर्दशदैर्घ्येण द्राविडं कथितम्” “आस्यं सकेशनिचयं
षोड़शदैर्घ्येण नग्नजित् प्रोक्तम्” वृ० सं० ५८ अ० ।
नग्नजितोऽपि राजभेदे “वैदेहाम्बष्ठकम्बोजास्तथा
नग्नजितास्तु ये” भा० क० ७९ अ० । तदपत्ये ब० व० । पुंयोगे
केकयीतिवत् तदपत्येऽपि स्त्रियां ङीष् । ३ सत्यभामायां
कृष्णकलत्रभेदे स्त्री “कालिन्दीं मित्रविन्दाञ्च सत्यां
नग्नजितीं तथा” हरिवं० १४८ अ० । अपत्ये अण् ङीप् ।
नाग्नजितीत्यपि सत्यभामायां दर्शितभागवतश्लोके उदा० ।

नग्नमुषित त्रि० मुषितो नग्नः राजद० । धनाद्यपहरणेन

नग्नतापन्ने “को नग्नमुषितप्रथ्यं बहु मन्येत
राघवम्” भट्टिः ।

नग्नम्भविष्णु पु० अनग्नोनग्नो भवति भू--च्व्यर्थे खिष्णुच्

मुम् च । अनग्ने नग्ने भविष्णौ । तत्रार्थे स्वुकञ् नग्न-
म्भावुक तत्रार्थे त्रि० ।

नग्नहु(हू) पु० नग्नं ह्वयति करोत्यनेन सेवनात् ह्वे--बा० कु कू

वा । षड्विंशतिद्रव्यकृते सुरावीजे किण्वे अमरमाला
“आतिथ्यरूपं मासरं महावीरस्य नग्नहुः” यजु० १९ । १४
“सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतालि नग्नहुः” कर्कः
सर्जादीनि च “सर्ज १ त्वक् २ त्रिफला ५ शुण्ठी ६ पुनर्नवा ७
चतुर्जातक ११ पिप्पली १२ गजपिप्पली १३ वंशाऽ १४ पका १५
वृहच्छत्रा १६ चित्रके १७ न्द्रवारुण्य १८ श्वगन्धा १९ धान्यक २०
यवानी २१ जीरकद्वय २३ हरिद्राद्वय २५ विरूढ़यवव्रीहय २६
एकीकृता नग्नहुः” “शष्पतोक्मलाजनग्नहूं दक्षिणद्वारे-
णाग्निगृहं नीत्वा” यजु० १९ । १ मन्त्रे वेददी० ।

नग्नाट पु० नग्न एवाटति अट--अच् “सह सुपा” स० ।

दिगम्बरे मुक्तकच्छे जैनभेदे हलायुधः । स्वार्थे क
अटण्वुल् वा । नग्नाटक तत्रार्थे हारा० ।

नग्निका स्त्री नग्ना + संज्ञायां कन् । अनागतार्त्तवायाम्

अजातरजस्कायां स्त्रियाम् अमरः “त्रिंशद्वर्षो दशवर्षां
भार्य्यां विन्देत नग्निकाम्” भा० अनु० ४५ अ० ।

नघमार पु० नह--क बा० हस्य घः नघं मारयति

मृणिच--अण् । कुष्ठरोगे “त्रीणि ते कुष्ठ! नामानि
नघमारो नघारिषो नघायं पुरुषः” अथ० १९ । ३९ । २ । एवं
नघारिष नघाय इत्यपि तत्रार्थे

नघुष पु० नहुष + पृषो० । नहुषनृपे मैत्रोप० ।

नङ्ग पु० नं बन्धं गच्छति गम--ड बा० मुम् च । जारे उपपतौ जटा०

नचिकेतस् पु० वाजश्रवसः पुत्रे १ ऋषिमेदे २ अग्नौ च ।

“उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ तस्य ह
नचिकेतानाम पुत्र आस” कठोप० “सर्वे सान्ता अदन्ताः स्युः”
इत्युक्तेर्नचितोऽप्यत्रार्थे “मृत्युप्रोक्तां नचितोऽथ लब्ध्वा
विद्यांमेतां योगविधिञ्च कृत्स्नम्” कठोप० उपसंहारे ।
“तवैव नाम्ना प्रथितोऽयमग्निं सृङ्काञ्चेमामनेकरूपां
गृहाण” । “एतमग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः”
इति च कठोप० तस्मै मृत्युदत्तद्वितीयवरकथने ।
“यएवं विद्वांश्चिनुते नचिकेतस्” कठोप० । स्वार्थे अण्
नाचिकेतोऽप्युक्तार्थे “त्रिणाचिकेतस्त्रयमेतद् विदित्वा”
कठीप० “त्रिणाचिकेतस्त्रिभिरेत्य सन्धिम्” कठोप० “छाया-
तपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः”
शा० भा० धृतिश्रुतिः । सर्वत्र “पूर्वपदात् संज्ञायामिति”
पा० णत्वम् । नाचिकेतश्च उद्दालकर्षेः पुत्रः स च पित्रा
कारणान्तरात् शप्तो यमलोकं गत्वा पुनरागतः इत्यादिः
तत्कथा भा० आ० ७१ अ० नाचिकेतोपाख्याने दृश्या ।
तेन वाजश्रवसोनामान्तरमुद्दालक इति गम्यते ।

नचिर न० नशब्देन “सह सुपा” पा० स० । शीघ्रकाले “यथा

नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे” भा० आ० ९६ अ०
“योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति” । “भवानि
नचिरात् पार्थ! मय्यावेशितचेतसाम्” गीता । नञा
समासे अचिरैत्येव स्यात् । अचिरशब्दे ८३ पृ० दृश्यम् ।

नच्युत त्रि० नशब्देन “सह सुपा” पा० स० । च्युतभिन्ने

मुग्धबोधकारस्तु “रात्रेः कृति विभाषा” पा० ६ । ३ । ७२
सूत्रात् विभाषानुवृत्तिं मन्यमानः “नञी नलोपः” ७२
तस्मात् नुडचि” ७४ इत्यादि सूत्राण्यपि विभाषापराणीति
अभिसन्धाय “नञोऽनौ वाज्झसौ” सूत्रेण विभाषया
अचि अनादेशं झसि च ऐत्यादेशं विदधौ नभ्राडि-
त्यादि पा० ७५ सूत्रञ्च नञः प्रकृतिवद्भावविधायकं
ननलोपादिनियमपरमिति तस्याशयः । पाणिनीयास्तु न
विभाषामनुवर्त्तयन्ति नान्तरीयकादौ तु नशब्देनैव
समास इति प्रतिपेदिरे ।

नज ब्रीडायां भ्वा० आ० अक० सेट् । नजते अनजिष्ट ।

ननाज नेजतुः । ईदित् ओदिच्च नग्नः । अणोपदेशत्वात्
निमित्ते सति न णत्वं प्रनजति ।

नञ् अंव्य० न + वा० अञ् न ञित् ञिदनुबन्धो नञो नलोपनुडर्थः

अञितस्तु ननलोपादि नान्तरीयकनैकधेत्यादि” सि० कौ०
“नञभावे १ निषेथेन स्वरूपार्थे २ ऽप्यतिक्रमे ३ । ईषदर्थे ४
पृष्ठ ३९४०
च सादृश्ये ५ तद्विरुद्धतदन्ययोः” । ६ । ७ इति मेदिनी
निषेधेन काक्वा निषेधेन स्वरूपार्थे प्रकृतार्थे इत्येकम्
तेनाभावेन न पौनरुक्त्यम् । “मथ्नामि कौरवशतं समरे
न कोपात्” वेणी० । “द्वौ नञौ प्रकृतमर्थं गमयतः”
यथा “नाविष्णुः कीर्त्तयेद्विष्णुं नाविष्णुर्विष्णुमर्चयेत् ।
नाविष्णुः संस्मरेद्विष्णुं नाविष्णुर्विष्णुमाप्नुयात्” इति
महाभारतम् । असन्देहार्थं “नञ्” पा० “तत्पुरुषो-
नञ्कर्मधारयः” पा० निर्देशाद्वा पदत्वेऽपि न कुत्वम् ।
“तिङि क्षेपे” पा० अ पचसि जाल्म इत्यादौ असमासेऽपि
नञो नलोपः ।
मसस्तादिनञर्थनिर्णयादिकं वैयाकरणभूषणसारे यथा
“नञ्समासे चापरस्य प्राधान्यात्सर्वनामता । आरोपितत्वं
नञ्द्योत्यं नद्व्यसोऽप्यतिसर्ववत्” । नञ्समासे अपरस्य
उत्तरपदार्थस्य प्रधान्यात्सर्वनामता सिध्यतीति शेषः । अत
एव आरीपितत्वमेव नञ्द्योत्यमित्यभ्युपेयमिति शेषः ।
असर्वैत्यादावारोपितः सर्वैत्यर्थे सर्वशब्दस्य प्रधान्या-
ऽबाधात्सर्वनामता सिद्ध्यति । अन्यथा अतिसर्वैत्यत्रेव
सा न स्यात् । घटोनास्तीत्यादावभावविषयकबोधे तस्य
विशेष्यतायाएव दर्शनात् । अस्मद्रीत्या च स आर्थोबोधो
मानसः । तथा चान्यथाऽसर्वस्मै इत्याद्यसिद्धिप्रसङ्गैति ।
अत्रचारोपितत्वमारोपविषयत्वम् आरोपमात्रं वार्थो
विषयत्वं संसर्गैति निष्कर्षः । द्योत्यत्वोक्तिर्निपातानां द्योतक-
त्वमभिप्रेत्य । घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्य
सर्वानुभवविरुद्ध्वत्वात्पक्षान्तरमाह । “अभावो वा तदर्थोऽस्तु
भाष्यस्य हि तदाशयात् । विशेषणं विशेष्योबा न्यायतस्त्वव-
धार्य्यताम्” । तदर्थोनञर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोः
साधारण्येन कीर्त्तनाय । भाष्यस्येति । तथाच नञ्सूत्रे
महाभाष्यम् । “निवृत्तपदार्थकः” इति । निवृत्तं पदार्थो
यस्य “नपुंसके भावे क्तः” पा० इति क्त अभावार्थकैत्यर्थः ।
यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारो-
पितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थःइति कैयटः
तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनञ्वाच्यत्वात् ।
अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । यत्तूक्तं “तत्सादृ-
श्यममाभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च
नञर्थाः षट् प्रकीर्त्तिताः” इति पठित्वा अब्राह्मणः
अपापम् अनश्वः अनुदरा कन्या अपशवोवा अन्येगोऽ-
श्वेभ्यः अधर्म्म इत्युदाहरन्ति तत्त्वार्थिकार्थमभिप्रेत्येति
स्पष्टमन्यत्र । विशेषणमिति प्रतियोगिनीति शेषः । तथा
च सर्वपदे सर्वनामसंज्ञा । “अनेकमन्यदार्थे” पा० “सेव्यतेऽ-
नेकया सन्नतापाड़या” इत्यादावेकशब्दार्थप्राधान्यादेकवचन-
नियमः । अव्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पु-
रुषत्वम्, अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचना
दिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावैतिवद-
भावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाविकरण्यस्य
तिङ्क्ष्वसत्त्वात्पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रति-
योगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात्सामानाधिक-
रण्यं नानुपपन्नमिति भावः । विशेष्योवेति प्रतियोगिन
इति शेषः । अयं भावः । गौणत्वेऽपि नञ्समासे
“एतत्तदोः सुलोपोऽकोरनञ्समासे हलीति” पा० ज्ञापका-
त्सर्वतामसंज्ञा नानुपपन्ना । असः शिव इत्यत्र सुलोपवा-
रणायानञ्समास इति हि विशेषणम् । नच तत्र तच्छ-
ब्दस्य सर्वनासतास्ति गौणत्वात् । अकीरित्यकज्व्यावृत्त्या
सर्वनाम्नोरेव तत्र ग्रहणलाभात्तथाचानञ्समास इति
ज्ञापकं सुवचम् । “अनेकमन्यपदार्थे” पा० इत्यादावेकवचनं
विशेष्यानुरोधात् । “सुबामन्त्रिते पराङ्गवत् स्वरे” पा०
इत्यतोऽनुवर्त्तमानसुव्ग्रहणात् विशेष्यमेकवचनान्तमेव ।
किञ्चानेकशब्दात् द्विषचनोपादाने बहूनां, बहुवचनो-
पादाने द्वयोः बहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं
जात्यभिप्रायमौत्सर्गिकं वा । सेव्यतेऽनेकयेत्यत्रापि योषयेति
विशेष्यानुरोधात्प्रत्येकं सेवनान्वयबोधनाय चैकवचनं न
तूत्तरपदार्थप्राधान्यप्रयुक्तम् । अतएव “पतन्त्यनेके
जलधेरिवीर्मय” इत्यादिकमपि सूपपादम् । अत्वं भवसीत्यादौ
युष्मदस्मद्भिन्ने लक्षणा नञ् द्योतकः तथा च भिन्नेन
युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था ।
त्वद्भिन्नाभिन्नश्रयिका भवनक्रियेति शार्ब्दबोधः । एवं न
त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः
घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या
बोधः असमस्तनञः क्रियायामेवान्वयात् । सचाभावो-
ऽत्यन्ताभावत्वान्योग्याभाबत्वरूपेण शक्यः तत्तद्रूपेण
बोधादित्याद्यन्यत्र बिस्तरः” ।
शब्दचिन्तासणौ तु अभावएव नञी मुख्यार्थ इति
समर्थितम् यथा
“नञ्समासेऽब्राह्मणमानयेत्यत्र पर्य्युदासे पूर्वपदे नञ्यु-
त्तरपदार्थसम्बन्धिनि क्षत्रिये लक्षणा अघटः पट इत्यादौ
प्रसज्यप्रतिषेषार्थे नञि सामानाधिकरण्यादभाबवल्लक्षणा
व्यासेऽपि न घटः पटैत्यादौ यथा शुक्लपटः इत्यत्र
पृष्ठ ३९४१
शुक्लवल्लक्षणा । न पचतीत्यादौ क्रियासम्बन्धे, भूतले न
घटैत्यादौ प्रसज्यप्रतिषेधे नञो मुख्यार्थता, सुवन्तसम्ब-
न्धेऽपि न समासः विभाभाधिकाराद्विकल्पेन समासानु-
शासनात् । यजतिषु येयजामहं करोति नानुयाजेष्वित्यत्र
पर्य्युदासे नञ्, तेनायमर्थः यजतिषु नानुयाजेषु
अनुयाजव्यतिरिक्तेषु येजामहे इति मन्त्रं करोति ।
अथ नानुयाजेष्वित्यत्र न पर्युदासे नञ् तदा हि पदद्वय-
स्यान्यपरत्वं स्यात् समासापत्तिश्च तस्मादनुषङ्गात् करोति-
ना नञोऽन्वयात् प्रसज्यप्रतिषेधः तेनानुयाजेषु ये
यजामहे इति मन्त्रं न करोतीत्यर्थः एवञ्च नानुयाजेष्विति
पदद्वयस्य नान्यपरता न वा नञो मुख्यार्थत्यागः ।
समासाभावे न साधुता चेति चेत् न समासस्यानित्यत्वात्
मानुयाजेष्विति वाक्ये पर्युदासे नञ् । न चैवं वाक्य-
वृत्तिपदस्थनञोऽन्यपरत्वाभावः गौर्वाहिक इत्यादौ
वाक्येऽपि गवादिपदस्यान्यपरत्वात् । यदि न प्रसज्यप्रतिषेधे
नञ् तदा मन्त्रविधायकतन्निषेधयोर्विरुद्धार्थत्वेन वाक्य-
मेदापत्तिः तस्मात् प्रतीतैकवाक्यत्वबलात् एकवाक्यत्वे
सम्भवति वाक्यभेदस्यान्यय्यत्वात् नञ्पदे लक्षणा कल्प्यते
न तु नञ्पदमुख्यर्थानुरोधादेकवाक्यत्वत्यागः न हि
पदार्थाऽनुरोधेन वाक्यार्थकल्पना किन्तु वाक्यार्थाऽनुरोधात्
पदार्थकल्पना नपदञ्च केवलं नास्त्येव नञ्पदादेव सर्वत्र
समासानित्यत्वेन प्रयोगोपपत्तेः अन्यथा प्रसज्यप्रति-
षेधे नञ् न स्यादेव नपदेनैव चरितार्थत्वात् अमानीना
इत्यपदमेव निषेधवाचकं समासवाक्यभेदेन नञो द्वैवि-
ध्याद्वा तथाभिधानम्” ।
अभावमात्रं नञोर्थः इति नञ्वादे शिरोमणिनोक्तं यथा
  • (१) “संसर्गाभावोऽन्योऽन्याभावश्च नञोऽर्थः ।
  • (२) तत्रचान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबलसिद्धम्
  • (३) नीलघटवति घटो नास्तीति नीलो घटो न घट इत्या-
द्यव्यवहारात् इह पीतघटवति न नीलः घटः, पीतो
घटो न नीलघट इत्यादि व्यवहाराच्च ।
  • (४) प्रतियोग्यमावान्वयौ च तुल्ययोगक्षेमौ तेन यत्पदोप-
स्थापितस्य प्रतियोगिनोऽनुयोगिन्याधाराधेयसम्बन्धे
नैवान्वथबोधः तत्र तत्ससर्गाभावस्यापि । यथा पचति
चैत्रो न पत्रति चैत्रः । चैत्रस्येदं नेदं चैत्रस्य इत्यादि ।
  • (५) तिङाद्यर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापिते एव तत्र
यथैव, तदभावस्यापि तथा ।
  • (६) षष्ठ्यादेव चैत्रादिनिरूपितं खत्वादिकगर्थो न तश्चिष्ठं
स्वामित्वादि तस्य धनाद्यवृत्तित्वेन चैत्रीयेऽपि धने नेदं
चैत्रस्येति प्रसङ्गात् निरूपकत्वादेः सम्बन्धस्य प्रतियो-
गितानवच्छेदकत्वादेषा दिक् ।
  • (७) यत्र चाधारधेयभावो न सम्बन्धमर्य्यादालभ्यस्तत्रानु-
योगिनि सप्तम्यपेक्षा । यथा भूतले घटो न भूतले घट
इत्यादि तत्र च तात्पर्य्यवशात् क्वचित् भूतलादौ
घटाभावः क्वचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयते ।
  • (८) अतएव पृथिव्यां गन्धो न जले इत्यादौ प्रतीतेरेकविशे-
ष्यकत्वानुभवः ।
  • (९) केचित्तु सर्वत्र विशेष्ये विशेषणस्याभावो नञा प्रत्याय्यते
अतएव भूतले घटो नास्तीत्यादौ वचनैक्यनियमः
इति प्राहुः ।
  • (१०) तैर्न जातौ सत्तेत्यत्र गतिश्चिन्तनीया जातिसमबेतत्वस्या-
प्रसिद्धत्वात् सम्बन्धान्तरेण जातिवृत्तित्वस्य सत्तायामपि
सत्त्वात् ।
  • (११) सप्तम्यर्थान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयः इत्यपि कश्चित् ।
यत्र विशेषणविशेष्ययोरभेदेनान्वयो व्युत्षन्नस्तत्रान्यो-
न्यभावो नञा बोध्यते । यथायं घटो नीलो नायं घटो
नील इति । तत्र च विशेषणविशेष्ययोः समानवि-
भक्तिकत्वं निरुद्धविभक्तिकत्वविरहो वा तन्त्रम् ।
  • (१२) अतएव यजतिषु ये यजामहं कुर्य्यान्नानुयाजेष्वित्यादौ
एकवाक्यत्वानुरोधात्
  • (१३) ये यजामहमित्यादेरनुषङ्गगौरवाच्च यजतिष्वनुयाजभेदो बोध्यते ।
  • (१४) विशेषणविभक्तिस्तु प्रयोगसाधुत्वार्था ।
  • (१५) नामार्थयोर्भेदेनान्वयबोघ एव प्रकारीभूतविभक्त्यार्घोप-
स्थितेस्तन्त्रत्वात् लाघवेन तयोरन्वयमात्र एव तथात्वम् ।
  • (१६) विशेषणविभक्तिस्त्वभेदार्थिका ।
  • (१७) नीलोत्पलं चित्रगुरित्यादौ लुप्ताया विभक्तेरनुसन्धानमिति मते--
  • (१८) न राज्ञ इत्यत्र षष्ठ्यर्थस्य स्वत्वस्येवात्रापि सप्तम्यर्थस्य
तयोरभेदस्याभावो बोध्यताम् ।
  • (१९) यत्तु करणनिषेधेविकल्पापत्तेः मेदपरतेति तदसत्
  • (२०) विशेषनिषेधे सामान्यविधेस्तदितरपरतायाः ब्राह्मणेभ्यो
दधि दातव्यं न कौण्डिन्याय दातव्यमित्यादौ व्युत्पत्ति-
सिद्धत्वेन विकल्पानवकाशात् ।
  • (२१) न च तत्रापि कौण्डिन्यभेदो बोध्यः कौण्डिन्यपदस्य
विरुद्धैकवचनावरुद्धत्वात् ।
  • (२२) न खलु महतो राज्ञो न महतो राज्ञ इत्यत्रेव महतां
राज्ञी न महतां राज्ञ इत्यत्रापि राजनि महद-
पृष्ठ ३९४२
भेदाभेदौ प्रतीयेते एकोनद्भावित्यादिवत् कथञ्चित्
तत्समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गात् ।
  • (२३) अतएव रात्रौ श्राद्धं न कुर्वीतेत्यादौ करणनिषेधेऽपि न
विकल्पावकाशः ।
  • (२४) न हि तत्रापि रात्रीतरपरता,
  • (२५) रात्रिभिन्ने श्राद्धविधावपि अमावस्यायां पितृभ्योदद्या-
दित्यादौ रात्रौ श्राद्धप्रसक्तेर्दुर्वारत्वात् ।
  • (२६) न खलु क्रियारहितमपि श्राद्धविधायकं वाक्यान्तरमपि
येनेदं तेन सममेकवाक्यतामासादयेत् ।
  • (२७) नापीदं नानुयाजेष्वितिवत् पृथक् क्रियारहितम् ।
  • (२८) अथ रात्रौ श्राद्धस्य प्रसक्तौ विकल्पापत्तिः अप्रसक्तौ कथं
निषेधः प्रसक्तं हि प्रतिसिध्यते इति चेत् साधीयानयं
मन्त्रपाठः हृदे दहनो नास्तीत्यादौ शाब्दबोधेऽपि
परप्रयत्नेन तत्र दहनप्रसक्तिरुपादीयेत् ।
  • (२९) निषेधविधेर्वैयर्थ्यमिति चेत् तात्पर्य्यानवबोधात् रात्रि-
श्राद्धकरणवारणस्य तदर्थत्वात् ।
  • (३०) एकविषयतया पुनरनन्यगत्या षोड़शिग्रहणाग्रहणयोर्विकल्पः ।
  • (३१) तत्र च षोड़शिग्रहणं नेष्टसाधनमित्यादिकं नार्थः
ग्रहणविधिविरोधात् अपि तु षोडशिग्रहणाभाव इष्ट-
साधनमित्यादि ।
  • (३२) व्युत्पन्नश्च नञ् समभिव्याहृतधात्यर्थस्याभावेऽपि विभक्त्यर्थान्वयः ।
  • (३३) अतएव प्राभाकराः न कलञ्जं भक्षयेदिति श्रुतेः कलञ्ज-
भक्षणाभावविषयकं कार्यमर्थमाहुः ।
  • (३४) नियमस्तु तात्पर्य्यवशात् ।
  • (३५) मुख्यफलाजनकत्वेऽपि चाङ्गस्य परमापूर्वरूपेष्टसाधनत्वमविरुद्धम् ।
  • (३६) ग्रहणविध्यन्यथानुपपत्त्या च षोड़शिग्रहणादतिशयितं
परमापूर्वं तस्माच्चातिशयितं मुख्यं फलं कल्प्यते
इति सर्वसमञ्जसम् ।
  • (३७) प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिरूपाभावाधिक-
रणयो राधाराधेयभावश्च सम्बन्धविधया भासते ।
  • (३८) निपातातिरिक्तस्थल एव प्रातिपदिकार्थयोर्भेदेनान्वये
प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् ।
  • (३९) अतएव इवाद्यर्थान्वये न षष्ठ्याद्यपेक्षा
  • (४०) अघटं मूतलम् असमोदेश इत्यादौ समासे सामानाधि-
करण्याद्यनुरोधात् नञोऽभाववत्परता ।
  • (४१) केचित्तु प्रतियोगिपदोत्तरस्य सुपः प्रतियोगित्वम्
  • (४२) अनुयोगित्वं वा नञुत्तरस्य चाधिकरत्वं वार्थः
  • (४३) नञो वाऽभाववति लक्षणा ।
  • (४४) विभक्त्यर्थानुयोगिसमानविभक्तिकार्थयोरन्योन्याभावसं-
सर्गाभावबोधने नञोऽसामर्थ्यम् ।
  • (४५) तेन न पचति न राज्ञ इत्यादौ कृत्यादेरन्योऽन्याभावो
भूललं न घट इत्यादौ घटादेः संसर्गाभावो न प्रतीयते
इत्याहुः” ।
अस्य गदाधरादिव्याख्यातृसम्मतोऽयमर्थः । अभावत्वम्
अन्योन्याभावत्वञ्च नञ्पदशक्यतावच्छेदकम् । अभावत्वं
च ध्वंसादिसाधारणमखण्डोपाधिः एवमन्योन्याभावत्व-
मपि तदेतत् गदाधरादिभिः समर्थितं यथा
  • (१) अथ घटो नास्तीत्यादिवाक्याद् घटत्वादिरूपसामान्यधर्माव-
च्छिन्नप्रतियोगिताकत्वबोधने तच्छून्ययोर्ध्वंसप्रागभावयोर-
न्वयितावच्छेदकावच्छिन्नप्रतियोनिताकत्वविरहेणाप्रत्ययाद्
ध्वंसप्रागभावसाधारण्यं नञपदशक्तेर्न सम्भवतीति चेत् न
ध्वंसप्रागभावयोरत्यन्ताभावविरोधितामते अन्तरा श्यामे
रक्तं रूपं नास्तीत्यादिव्यवहारानुरोधेन ध्वंस प्रागभा-
वयोरपि समयविशेषावच्छेदेन सामान्यावच्छिन्नप्रति-
योनिकत्वोपगमस्याबश्यकत्वात् तयोरपि नञा प्रतिपा-
दनात् व्युत्पत्तिविरोधेन तयोस्तेनाप्रतिपादनेऽपि सदा
तनत्वघटितात्यन्ताभावत्वापेक्षया ध्वंसादिसाधारणाभा-
वत्वस्य लाघवेन सदातनभावरूपाभावाभावसाधारण्या-
मुरोधेन प्रवृत्तिनिमित्ततया तयोरपि नञ्पदवाच्यत्वा
नपायात् । न चात्यन्ताभावत्वमखण्डधर्मान्तरं अनुयोगिता
विशेषरूपं वा न सदातनत्वघटितमिति न गौरवादिक-
मिति वाच्यं तादृशधर्मान्तरे मानाभावात् तद्व्यक्तिर्नास्ती-
त्यादि वाक्यात्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकयोर्ध्वंस-
प्रागभावयोर्बोधनाच्च ध्वंसप्रागभावसाधारणशक्तेराव-
श्यकत्वात् । न च ध्वंसप्रागभावयोरत्यन्ताभावविरोधस्या-
प्रामाणिकतया तद्व्यक्तित्वावच्छिन्नध्वंसस्याद्यधिकरणे
तादृशात्यन्ताभावसत्त्वात् स एव उक्तबाक्यात् प्रतीयत
इति वाच्यं ध्वंसाद्यधिकरणे तादृशात्यन्तामावस्याप्राम-
णिकत्वात्” गदाधरः ।
“एवम् अन्योन्याभावत्वमप्यखण्डोपाधिः । न तु तादा-
त्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभाववत्वम् । तत्तत्सं-
योगितादात्म्यस्य संयोगरूपतया संयोगिनोऽत्यन्ताभावे-
ऽतिव्याप्तेः । सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकता-
यानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगावच्छिन्नप्रति-
योगिताकाभावेऽतिव्याप्तेर्दुष्परिहरणादिति वस्तुतस्तु
अन्योन्यामावस्य प्रतियोगितावच्छेदकसम्बन्धे मानाभावे-
पृष्ठ ३९४३
न तादात्म्यस्य तत्प्रतियोगितावच्छेदकसम्बन्धत्वाभावा-
त्तादृशलक्षणमसम्भवदुक्तिकमेव । न चैवमभावमात्रस्यैव
प्रतियोगितावच्छेदकसम्बन्धसद्भावे प्रमाणाभाव इति
वाच्यम् । अत्यन्ताभावस्य प्रतियोगितावच्छेदकसम्बन्धा-
नङ्गरीकारे बाधबुद्धिप्रतिबध्यतावच्छेदकनिर्वचनानुप-
पत्तेः । तथाहि घटाभावप्रकारकज्ञानस्य प्रतिबध्यताव-
च्छेदकं हि न घटप्रकारकज्ञानत्वम् । घटाभाववत्ता-
ज्ञानकाले कदाचित् केन चित् सम्बन्धेन धटप्रकारक-
ज्ञानमुत्पद्यते केनचित् सम्बन्धेन तन्नेति नियमा-
नुपपत्तेस्तथाच तादृशनियमानुरोधेन तेन सम्बन्धेन
तत्प्रकारकबुद्धिं प्रति तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगि-
ताकाभाववत्तानिर्णयस्य प्रतिबन्धकताया अवश्यवक्तव्य-
त्वेनात्यन्ताभावप्रतियोगितावच्छेदकसम्बन्धसिद्धिः । न
चैवमन्योन्याभावस्यापि तत्सिद्धौ युक्तिस्तुल्येति वाच्यम् ।
घटत्वप्रकारकबुद्धिं प्रति घटान्योन्याभावत्तानिर्णयस्यैव
विरोधित्वकल्पनेन सामञ्जस्ये विनान्योन्याभावप्रतियोगि-
तावच्छेदकसम्बन्धं प्रतिबध्यप्रतिबन्धकभावानुपपत्ति-
रूपबाधकाभावेन युक्तेरतौल्यात् । ननूभयधर्मस्य
नञ्शक्यतावच्छेदकत्वे गौरवेण लाघवादभावत्वरूपैकधर्म-
स्यैव तदवच्छेदकत्वस्वीकार उचित इति अन्योन्याभावश्चे
त्यादि ग्रन्थोऽलग्नक इति चेन्न । घटो नास्तीत्यादौ
संसर्गाभावत्वप्रकारकबोधानुभवानुरोधेन घटः पटो
नेत्यादौ त्वन्योन्याभावत्वप्रकारकबोधानुभवानुरोधेन च
तथोक्तत्वात्” रघुदेवः ।
  • (२) तत्र चेति तत्र नञर्थे संसर्गाभावे भेदे च अन्वयिता-
वच्छेदकावच्छिन्नप्रतियोगिताकत्वमिति येन रूपेण प्रति-
योगिनोऽभावांशे विशेषेणता तद्धर्मपर्य्याप्तप्रयोगिताव-
च्छेदकताकत्वम् । व्युत्पत्तिबलतभ्यमिति अपदार्थोऽपि
तद्रूपावच्छिन्नोपस्थापकशब्दविशेषसमभिघ्याहाररूपाका-
ङ्क्षाबलात् प्रतियोगिसंसर्गविधया लभ्यमित्यर्थः । थटत्वा-
द्यवच्छिन्नप्रतियोगिताकत्वञ्च घटत्वाद्यवच्छिन्नप्रतियोगिता
निरूपितत्वविशेषिता अनुयोगिता सा च घटादिरूप-
विशेषणप्रतियोगिकेति तत्सम्बन्धतया भासते नञ्पदार्थ-
तावच्छेदकानुयोनिताया घटादेरन्वयोपगमे तु तत्र
तादृशप्रतियोगितानिरूपितत्वमेव सम्बन्धः घटादिनिष्ठ-
प्रतियोगिताप्रतियोगिकनिरूप्यत्वं घटादिरूपप्रतियोगि
प्रतियोगिकमपि इति तस्य घटादिसम्बन्धता” गदाधरः ।
  • (३) “अन्वयितावच्छेदकावच्छिन्नत्वाविशेषितायाः प्रतियोगि-
तायाः नञ्पदार्थे संसर्गाभावे प्रतियोगिसम्बन्धत्वोपगमे
बाधकं दर्शयति नीलघटवतीति न घट इति इत्याद्य
व्यवहारात् इत्यनेन सम्बध्यते । तादृश्याः प्रतियोगिताया
नञर्थे भेदे प्रतियोगिसम्बन्धत्वे बाधकमाह नीलो
घट इति अव्यवहारादिति व्यवहारस्य प्रमाणत्वाभावा-
दित्यर्थः शुद्धप्रतियोगितायाश्च सम्बन्धत्वे अबाधित-
विशेषान्तराभावबोधकतया तत्तद्वाक्यानां प्रामाण्यस्य
दुर्वारतया व्युत्पन्नैरपि तथा प्रयुज्येतेति भावः ।
तद्रूपविशिष्टप्रतियोगिविशेषिते धर्मिणि शुद्धतद्रूपविशिष्ट-
प्रतियोगिविशेषितधर्मिणि शुद्ध्वतद्रूपविविष्टप्रतियोगि-
विशेषितसंसर्गाभावस्य तद्रूपविशिष्टे प्रतियोगिनि शुद्ध-
तद्रूपावच्छिन्नप्रतियोगिविशेषितभेदस्य च बोधने
नञोऽसामर्थ्योपगमेन दर्शितप्रयोगवारणसम्भवेऽपि वस्तुगत्या
नीलघटवति नीलघटादौ “अत्र न घटः इत्यादिप्रयोगस्य
प्रामाण्यप्रसङ्गो दुर्वार इति बोध्यम्” गदाधरः ।
  • (४) “एवं भूतले न घट इत्यादौ भूतलादौ घटसंसर्ना-
भावाधिकरणतावद् घटभेदाधिकरणता कुतो न प्रती-
यते इत्यत आह प्रतियोग्थभावान्वयौ चेति
अधिकरणे इत्यादिः अभावपदं संसर्गाभावपरं तथा चाधि-
करणे यादृशपदोपस्थाप्यस्य प्रतियोगिनः प्रतियोगिताव-
च्छेदकसम्बन्धस्य भानं यादृशञ्च अधिकरणबोधकं यादृश-
पदसमभिव्याहारसापेक्षं च तादृशपदोपस्थाप्यप्रतियोग्य-
न्विताभावस्यापि अधाराधेयभावरूपसम्बन्धस्य भानं
तादृशम् अधिकरणबोधकं तादृशबोधकपदसापेक्षञ्चेत्यर्थः ।
अनुयोगिनि यादृशपदोपस्थाप्ये इत्यादिः आधाराधेय-
भावसम्बन्धेनान्वय इति आधाराधेयभावनियामकप्रति-
योगितावच्छेदकसम्बन्धस्य संयोगादेः संसर्गमर्य्यादया
भानमित्यर्थः तत्संसर्गाभावस्यापि तथेति । तत्प-
दोपस्थाप्यप्रतियोगिविशेषिततत्सम्बन्धावच्छिन्नाभावस्यापि
अधारतासम्बन्धोऽपि तादृशपदोपस्थाप्ये अनुयोगिनि
सम्बन्धमर्य्यादया भासते इत्यर्थः” गदाधरः ।
  • (५) “तिङाद्यर्थस्येति नञोऽसत्त्व इत्यादिः आदिपदात् सुप्प-
रिग्रहः कृत्यादेरित्यादिना तिङ्र्थाश्रयत्वादेः सुवर्थस्वत्वा-
देश्च परिग्रहः । प्रथमान्तपदोपस्थाप्यस्य विशेष्यतानियाम-
कत्वाभिधानं तिङ्प्रत्यये चैत्रस्य धनं पश्यतीत्यादौ
द्वितीयाद्यन्तपदोपस्थाप्येनापि धनादिना षष्ठ्याद्यर्थस्वत्वा-
न्वयात् सुवर्थविशेष्यतयाऽन्वये प्रथमान्तपदोपस्थाप्यत्व-
स्यानियामकत्वात् सुपश्च कारकपदोत्तरस्य योऽर्थस्तद्विशे-
पृष्ठ ३९४४
ष्यत्वे धातूपस्थाप्यत्वं नियामकं शेषषष्ठ्यर्थस्य विशेष्यत्वे
च प्रातिपदिकोपस्थाप्यत्वं प्रत्ययान्योपस्थाप्यत्वं वा, “गुरु
विप्रतपस्विद्वर्गतानां प्रतिकुर्वीत” इत्यादौ प्रतीकारादिक्रिया-
यामपि तदन्वयात् । उपपदविभक्तयश्च यद्यत्पदयोगे याया
विहितास्तत्तदर्थविशेष्यत्वे तत्तत्पदोपस्थाप्यत्वं, यथा
चैत्रादन्य इत्यादावन्यादिपदप्रयोगेऽनुशिष्टानां पञ्चम्यादी-
नामर्थस्य प्रतियोगित्वादेर्विशेष्यत्वे अन्यत्वादिनिष्ठे अन्या-
दिपदोपस्थाप्यत्वं, (तन्त्रम्) तत्रेत्यनुयोगिनीत्यर्थः तथा
आधाराधेयतासम्बन्धेनान्वयः इत्यर्थः । तदभावस्यापि
तिङाद्युपस्थापितकृत्याद्यभावस्यापि तत्र तथा प्रध-
माद्यन्तपदोपस्थाप्ये आधाराधेयभावसम्बन्धेनान्वय
इत्यर्थः । न पचति चैत्रेणेत्यादितश्चैत्रादौ नञर्थ-
स्याभावस्य विशेषणत्वेनानन्वयात् चैत्रेण पाककृतिरि
त्यत्रेव चैत्रेण पचतीत्यादितश्चैत्रादिवृत्तित्वप्रकारेण
पाककृत्याद्यभावस्याबोधाच्चेति भावः” गदाधरः ।
  • (६) “चैत्रस्य धनमित्यादौ षष्ठ्याद्यर्थः स्वामित्वादिकं तच्च
प्रकृत्यर्थचैत्रादिविशेषणतया भासते स्वामित्वप्रकारेण
चैत्रादेरेव धनादौ स्वत्वादिसम्बन्धेनान्वयः
विभक्त्यर्थविशेष्यतापन्नप्रातिपदिकार्थस्य प्रातिपदिकार्थे
साक्षादपि भेदान्वयबोघोपगमात् नामार्थयोर्भेदेनान्वये
प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् । अथ वा षष्ठ्या-
द्यर्थः स्वामित्वादिकं प्रकृत्यर्थविशेष्यतयैव भासते
धनादेस्तदनाश्रयत्वेऽपि तन्निरूपकतया निरूपकतासम्बन्धेन
तत्र तदन्वय इति प्राचाम्मतं दूषयति षष्ठ्यादेश्चेति
आदिपदात् द्वितीयातृतीयापरिग्रहः । चैत्रादिनिरू-
पितमिति । स्वामित्वादिकमित्यादिना कर्मवत्त्वक्रियाज-
न्यत्वादिपरिग्रहः निरूपितत्वसम्बन्धेन चैत्रादिरूपप्रकृ-
त्यर्थान्वयीत्यर्थः । तन्निष्ठमिति आश्रयतासम्बन्धेन विशे-
षणतया चैत्राद्यन्वयि आधेयतासम्बन्धेन चैत्रादिरूपविशे-
षणेनान्वयि वेत्यर्थः । स्वामित्वमित्यादिना कर्तृत्वकर्मत्वा-
दिपरिग्रहः । तस्येति चैत्रस्य चैत्रनिष्ठस्वामित्वादेश्चे-
त्यर्थः । धनाद्यवृत्तित्वेनेति । वृत्त्यनियामकस्वत्वनिरूपक-
त्वादिसम्बन्धेन धनादिसम्बन्धत्वेऽपि धनाद्यवृत्तितये-
त्यर्थः । धनादौ आश्रयतासम्बन्धेन चैत्रादेस्तन्निष्ठस्वामि-
त्वादेश्चाभावसत्त्वेनेति शेषः इति प्रसङ्गात् भवन्मते
अवाधिततादृशचैत्राद्यभावबोधकस्य इत्यादिप्रयोगस्य प्रामा-
ण्यप्रसङ्गात् । ननु स्वामित्वादेः प्रकृत्यर्थविशेष्यतापक्षे
स्तामित्वादेर्निरूपकतासम्बन्धावच्छिन्नाभावस्येव प्रकृत्यर्थ-
विशेषणतापक्षे तद्विशिष्टप्रकृत्यर्थचैत्रादेः स्वत्वादिसम्बन्धा-
वच्छिन्नाभावस्य नञा प्रत्यायनोपगमान्न तत्रातिप्रसङ्गाव-
काशः तादृशाभावस्य धनादौ बाधात् इत्यत आह
निरूपकत्वादेरिति आदिपदात् स्वत्वादिपरिग्रहः । प्रति-
योगितानवच्छेदकत्वादिति वृत्त्यनियामकतयेत्यादिः ।
वृत्त्यनियामकसम्बन्धावच्छिन्नसंसर्गाभावस्याप्रामाणिकत्वात्
येन सम्बन्धेनायमिह इतिप्रत्ययस्तत्सम्बन्धमादायैव नाय
मिति प्रत्ययः, निरूपकतासम्बन्धेनात्र स्वामित्वमिति
प्रत्ययाभावात् तेन सम्बन्धेन नात्र स्वामित्वमितिप्रत्ययस्या
भावः । अतएव धनमात्रे स्वामित्वमात्रस्याश्रयतासम्ब-
न्धावच्छिन्नाभावसत्त्वेन चैत्रीयधने चैत्रनिष्ठस्वामित्व-
मिति धनेषु चैत्रीयत्वस्य स्वामित्वे च चैत्रनिष्ठत्वस्या
व्यावर्त्तकतया न व्यवह्रियते अपि तु धने न स्वामित्व-
मित्येवम् अन्यथा निरूपकतासम्बन्थावच्छिन्नस्वामित्वा-
भावतात्पर्य्येण तथा व्यवहारस्य दुर्वारतापत्तेः । अतएव
कृतिमत्त्वरूपकर्तृत्वसम्बन्धस्य वृत्त्यनियामकतया न
पचतीत्यत्र तत्सम्बावच्छिन्नक्रियाभाववोधासम्भवेन
पचतीत्यादौ कृतिमत्त्वसम्बन्धेन पाकादेः कर्त्तर्य्यन्वयबोधं
नोपजगाम । उपजगाम तु जानातीत्यादावाश्रयतासम्ब-
न्धेन ज्ञानादेरिति भावः” गदाधरः ।
  • (७) “यत्र चेति ययोरित्यर्थः । न संसर्गमर्य्यादया लभा इति
भेदान्वये निराङ्क्षतयेत्यादिः तादृशौ च प्रातिपदिकाद्यर्थौ
तत्रेति तत्पदार्थे तत्पदार्थसंसर्गाभावबोधे अनुयोगिनि
अनुयोगिवाचकपदोत्तरं सप्तम्यपेक्षेति । तत्राभावस-
म्बन्धस्याधारतारूपस्य संसर्गत्वासम्भवेन तदर्थकवि-
भक्तिं विना तद्भानासम्भवादिति भावः । ननु सप्तम्य-
न्तभूतलादिपदेन नञर्थाभावे आश्रयतासम्बन्धेन
भूतलादिवृत्तित्वबोधवत् तादृशपदेनेदं चैत्रस्येत्यादौ
षष्ठ्याद्यन्तपदेनेव प्रथमान्तार्थविशेषणक नञर्थाभावेऽपि
कदाचित् प्रतियोगितया स्वार्थान्वयबोधस्य जननात्
घटाद्यभावो भूतले, भूतलवृत्तित्वाभाववान् घट इति द्विविध
एव भूतले न घटैत्यादिवाक्यजन्यबोधः । एवञ्च तादृश-
वाक्यात् कदाचित् प्रथमबोधः कदाचिच्च द्वितीय इत्यत्र
किं नियामकमित्याकाङ्क्षायां तात्पर्य्यभेदस्य तन्नियमकत्व-
मित्याह तत्र चेति तत्र भूतले न घट इत्यादिस्थले” गदा
  • (८) “ननु सर्वत्र सप्तम्यन्तार्थस्याभावनिष्ठतयैवान्वयोऽस्तु
न तु कदाचिदपि तत्प्रतियोगितया विनिगमकञ्चाग्रे
व्यक्तीभविष्यतीत्यत आह अतएवेति कदाचित् सप्त-
पृष्ठ ३९४५
भ्यन्तार्थप्रतियोगिकाभावस्यापि नञा बोधनादेवेत्यर्थः ।
पृथिव्यां गन्धे न जले इत्यादौ इत्यादिद्विविधवाक्ये
प्रतीतेरेकविशेष्यकत्वानुभवः गन्धाद्येकविशेष्यकप्रतीतिज-
नकत्वानुभवः न जले इत्यतो गन्धाभावस्यैव
जलवृत्तित्वबोधोपगमे तत्प्रतीतावभावस्यैव विशेष्यतया
पृथिव्यां गन्ध इत्यतश्च तद्विशेष्यकबोधानुत्पत्त्या तयोरेक
विशेष्यक बोधजनकत्वानुभवो विरुध्यतेति भावः” गदा० ।
  • (९) “नञर्थाभावनिष्ठाधेयताबोधकत्वं सप्तम्याः खण्डयतां
मतमुपन्यस्यति केचित्त्विति विशेष्ये विशेषणस्याभाव इति
नञोऽसत्त्वे यत्पदार्थे यत्पदार्थो विशेषणतया यत्र भासते
तत्र नञा तत्पदार्थे तत्पदार्थाभावो विशेषणतया प्रता-
य्यते इत्यर्थः । तथा च भूतले घट इत्यतो घटे भूतल-
वृत्तित्वस्य विशेषणतया बोधात् भूतले न घट इत्यतो-
ऽपि घटे भूतलवृत्तित्वाभाव एव विशेषणतया प्रतीयते
न तु घटाभावे भूतलवृत्तित्वम् एकाकारवाक्यस्य द्विविध
बोधजनकत्वोपगमे नञ्पदे सप्तम्यन्तभूतलादिपदसमभि-
व्याहारज्ञानस्य द्विविधकारणत्वकल्पनापत्तेः ।
उभयसाधारणतत्कार्यतावच्छेदकैकस्य सम्भवेऽपि तादृशवाक्य
धर्मिकद्विविधवाक्यार्थतात्पर्यज्ञानस्य पृथक्कारणतया
तत्कारणताधिक्यस्य दुर्वारत्वादिति भावः । एतन्मते
युक्त्यन्तरमाह अतएवेति घटो नास्तीत्यादाविवेत्यादिना
घटौ न स्तः घटा न सन्तीत्यादिपरिग्रहः वचनैक्यनियम
इति विशेष्यविशेषणपदयोः समानवचनत्वनियमेन
सुप्तिङोर्वचनसाम्ये नियम इत्यर्थः भूतले घटोऽस्तीत्यादौ
भूतलाद्यस्तित्वविशेष्यत्वे तदैक्येन तद्घटोऽस्तोत्यादौ
भावस्य भूतलाद्यस्तित्वविशेष्यत्वे घटौ न स्तैत्यादौ द्विव-
चनाद्यनुपपत्तेरिति भावः” गदाधरः ।
  • (१०) “गतिश्चिन्तनीया सत्ताशब्दस्य सत्तासमवाये सत्ताप्रतियो-
गिकत्वविशिष्टसमवायानुयोगित्वे वा लक्षणया उपपत्तिप्र-
कारश्चिन्तनीयः । यथाश्रुतार्थेऽनुपपत्तिं दर्शयति जातीति
अप्रसिद्धेरिति तदभावस्य सत्तायां नञा बोधयितुमश-
क्यत्वादिति शेषः । इदञ्चात्र समवायेन वृत्तेः सप्त-
म्यन्तार्थत्वे बोध्यम् । वृत्तिसामान्यस्य सप्तम्यर्थतोपगमे-
ऽप्रसिद्धिविरहेण तत्पक्षे बाधमाह सम्बन्धान्तरेणेति
एकार्थसमवायेनेत्यर्थः” गदाधरः ।
  • (११) “मतान्तरमाह सप्तम्यर्थेति भूतले घटो नास्ति, जातौ
न सत्तास्तीत्यादौ भूतलजात्याद्यस्तित्वरूपसप्तमीसमभि-
व्याहृतक्रियापदपर्यन्तार्थस्याश्रयतयान्वयी योऽभावः
प्रतियोगितासम्बन्धेन प्रकारीभवतस्तस्य विशेष्यतया
प्रतियोगी भासत इत्यर्थः एवञ्च परम्परया क्रियाविशेष्य
प्रतियोगिवाचकघटादिसमानवचनत्वं क्रियापदस्य निर्व-
हतीति द्रष्टव्यम् । येन रूपेण प्रतियोगिनो विशेषणत्वं
तद्रूपावच्छिन्नविशेषितैव प्रतियोगिता सम्बन्धतया
भासते अतो घटादिमति विशेषाभावमादायात्र घटो
नास्तीत्यादयो व्यवहाराः” गदाधरः ।
  • (१२) “यजति ये यजामहं नानुयाजेष्वित्यादौ अनुया-
जाख्ययागविशेषभिन्नयागेषु ये यजामहे पदवन्तं मन्त्रं
करोति उच्चारयतीत्याकारकबोध उत्पद्यत इत्यर्थः
कारणसत्त्वे कार्य्योत्पादस्यावश्यं भावादिति भावः । अत्र
नञा निषेधबोधने बाधकमाह एकवाक्यत्वेति एकवि-
धेयार्थकत्वानुरोधादित्यर्थः । अत्र नञाऽन्योन्याभावबो-
धनेऽनुयाजभिन्नेषु यागेषु ये यजामहेपदवन्मन्त्रक-
रणरूपैकार्थविधानसम्भवेनैकविधेयार्थकत्वरूपैकवाक्यत्वं
सम्भवति तत्र नञा निषेधवोधने च नैवं यागेषु ये
यजामहेपदवन्मन्त्रविधानं अनुयाजेषु तन्निषेधविधान-
मिति विधेयीभूतार्थद्वैविध्यात् एकविधेयीभूतैकार्थत्वस्य
सम्भवे नानाविधेयार्थकत्वरूपविभिन्नवाक्यत्वकल्पनाया
अन्याय्यत्वेन तत्रेष्टापत्तिकरस्याशक्यत्वादिति भावः”
रघुदेवः ।
  • (१३) “तत्र च नञा निषेधबोधने दूषणान्तरमाह ये यजामह-
मित्यादेरित्यादि । तत्रादिना करोतेः क्रियात्वेन
कारकबोधानुरोधात् करोतिपदस्य ये यजामहमिति पदस्य
चानुषङ्गकल्पने गौरवाच्चेति । तथा चात्र नञा निषेध-
वोधने यागेषु ये यजामहं करोति, नानुयाजेषु येयजा-
महं करोतीत्यर्थः । अनुषङ्गकल्पनं विना तु तादृशबोधो
न सम्भवति । सकृदुच्चरितेत्यादि व्युत्पत्तिभङ्गप्रसङ्गादिति
भावः” रघुदेवः ।
  • (१४) “नन्वत्र नञा निषेधबोधने नानुयाजेष्वित्यत्र सप्तम्यर्था-
न्वयो भवति अनुयाजाधिकरणतादृशनिषेधस्य बोधात् ।
अन्योन्याभावबोधने च न तथेति सप्तम्यर्थानन्वयभयेन
पूर्वोक्तदोषद्वयमभ्युपेत्यात्र नञा निषेधबोधकत्वमवश्यम-
भ्युपेयमित्यत आह विशेषणबिभक्तिस्त्विति तथा चात्र
नञान्योन्यमावबोधनेऽपि विशेषणविभक्तेः प्रयोगसाधु-
त्वरूपप्रयोजनसम्भवेन न नैरर्थक्यमिति भावः” रघुदेवः ।
  • (१५) “ननु सर्वत्र विशेषणविभक्तेः प्रयोगसाधुत्वे नीलो घट
इत्यादावभेदसम्बन्धेनैव घटे नीलस्यान्वयबोधः स च न
पृष्ठ ३९४६
सम्भवति नामार्थयोः साक्षादन्वयस्याव्युत्पन्नत्वादित्यत
आह नामार्थयोरित्यादि भेदेन अभेदादितिरिक्त
सम्बन्धेन तन्त्रत्वात् हेतुत्वात् तथा चाभेदातिरिक्तसम्ब-
न्धावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्ब-
न्धेन शाब्दबुद्धिं प्रति विषयतासम्बन्धेन विभक्तिप-
दज्ञानजन्योपस्थितेर्हेतुत्वस्य कल्पनान्नोक्तानुपपत्तिः ।
तत्राभेदसम्बन्धेनैकनामार्थोपर्य्यपरनामार्थस्य प्रकारतया
तादृशशाब्दबोधस्योक्तकार्यतावच्छेदकसम्बन्धेन तत्रोत्प-
त्त्यभावात् । मतान्तरमाह लाघवेनेत्यादि लाघवञ्च
तत्र जनकतावच्छेदककोटावमेदातिरिक्तसम्बन्धावच्छिन्न-
त्वानिवेशेन तयोः नामार्थयोः तथात्वम् विभक्तिजन्यो-
पस्थितेस्तन्त्रत्वम्” रघुदेवः ।
  • (१६) “नन्वेवं सति नीलो घट इत्यादौ कथं विशेषणविभक्ति-
जन्योपस्थितिं विनाप्यभेदान्वयबोधस्तत्राह विशेषणवि-
भक्तिस्त्विति अभेदार्थिका सर्वत्राभेदार्थिका तथा च तत्र
विभक्तिजन्याभेदोपस्थितिं विनाऽभेदानङ्गीकार इति
भावः” रघुदेवः ।
  • (१७) “ननु यत्र विशेषणविभक्तेरभावस्तत्रका गतिरित्यत आह
नीलोत्पलमित्यादि तथा च तत्रापि यावत् लुप्तविभक्ते
रनुसन्धानं नास्ति तत्र तावत् नाङ्गीक्रियत एव शाब्द
बोध इति भावः । मतेत्वित्यनेनास्वरसः सूचितः स च
तन्मतेऽपि नीलोत्पलमित्यादौ लुप्तविभक्तेरनुसन्धानं
विनाप्यनुभवसिद्धस्य शाब्दबोधस्यापलापो द्रष्टव्यः” रघुदेवः
  • (१८) “न राज्ञ इत्यादि । न राज्ञः पुरुष इत्यादौ यथा पुरुषे
षष्ठ्यर्थस्वत्वस्याभावः प्रतीयते तथात्रापि (नानुयाजेष्वित्यत्र)
प्रयोगे सप्तम्यार्थस्याभेदाभावः प्रतीयत इत्यर्थः । न चैवं
सति एतन्मते नञोऽन्योन्याभावत्वेन शक्तिकल्पनमनर्थकम्
सर्वत्र संसगांभावशक्तित एव नञ्जन्यशाब्दबोधनि-
र्वाहात् भूतलं न घट इत्यादौ विशेषणविभक्त्यर्थाभेदस्य
संसर्गाभाव एव नञा प्रत्याय्यत इत्यभ्युपगमादिति
वाच्यम् । तत्र भेदत्वप्रकारकशाब्दबोधस्यानुभवसिद्धतया
ऽपलापमात्रेण निराकरणासम्भवेन तेन रूपेणापि नञः
शक्तिकल्पनस्यावश्यकत्वादिति” रघुदेवः ।
  • (१९) “केचित्तु यजतिषु ये यजामहं करोति नानुयजेष्वि-
त्यादौ नञो निषेधबोधकत्वेऽनुयाजेषु येयजामहेवन्मन्त्र
विकल्पापत्तिः यजतिषु येयजामह करोतीत्यनेन
यागसामान्ये तत्प्राप्त्या, तदन्तर्गतानुयाजेष्वपि प्राप्तत्वात्
नानुयाजेष्वित्यनेन तत्र तस्य प्रतिषिद्धत्वाच्चेति, तत्र नञ
न प्रतिषेधबोधकत्वं किन्तु भेदबोधकत्वमिति नानुयाजे-
ष्वित्यादौ नजो भेदबोधकत्वे युक्तिमाहुः तन्मतं
दूषयितुमुपन्यस्यति यत्त्विति करणनिषेध इति । नानु-
याजेष्वित्यादौ नञा येयजामहेपदवन्मन्त्रकरणनिषेध-
बोधने इत्यर्थः विकल्पापत्तेरिति अनुयाजेषु तादृशम-
न्त्रकरणाकरणापत्तेरित्यर्थः उपदर्शितरीत्या तादृशम-
न्त्रकरणस्य विहितनिषिद्धत्वादिति भावः” रघुदेवः ।
  • (२०) “विशेषनिषेध इत्यादि व्राह्मणेभ्यो दधि दातव्यं न
कौण्डिन्याय दातव्यमित्यादौ विशेषनिषेधस्थलीयस्य
ब्राह्मणेभ्यो दधि दातव्यभितिसामान्यविधेः कौण्डि-
न्यातिरिक्तव्राह्मणसम्प्रदानकदघिदानबोधकत्वव्यवस्थावत्
प्रकृतेऽपि यजतिषु येयजामहं करोतीति सामान्यविधे-
रप्यनुयागातिरिक्तयागे ये यजामहेपदवन्मन्त्रकरणप्रति-
पादकत्वंनानुयाजे तथाविधमन्त्रकरणस्याप्राप्त्या
पिकल्पासम्भवादिति भावः” रघुदेवः ।
  • (२१) “ननु ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्याय दातव्य-
मित्यादावपि सामान्यविधेर्न विशेषेतरपरत्वम् । न च
तथा सति कौण्डिन्यस्य दधिदानप्रसक्त्या विकल्पापत्ति-
रिति वाच्यं तत्र नञोभेदबोधकत्वमभ्युपेत्य वाक्यैकवा-
क्यतया कौण्डिन्यान्यब्राह्मणसंप्रदानकदधिदानप्रतिपाद-
नाभ्युपगमेन कौण्डिन्थस्य तदप्राप्त्या तन्निषेधाप्राप्त्या च
विकल्पानवकाशात् तत्र सामान्यविधेर्विशेषेतरपरत्वकल्प-
नस्य निर्युक्तिकत्वात् प्रकृतस्थले नञोनिषेधबोधकत्वेन
विकल्पापत्तिर्दुर्द्धरैवेत्यत आह न चेति । विरुद्धैक-
वचनत्वादिति । यथैकनामार्थेऽपरनामार्थान्योन्यभाव-
बोधकनञ्स्थले विशेषणविशेष्यवाचकपदयोः समान
विभक्तिकत्वं तन्त्रम् । तथा समानबचनत्वस्यापि तन्त्रत्वेन
प्रकृते तदभावात्तथा बोधासम्भवादिति भावः” रघुदेवः ।
  • (२२) “नन्वेकनामार्थेऽपरुनामार्थस्यान्योन्याभावबोधे विशेष-
णवाचकपदविशेष्यवात्वकपदयोः समानवचनस्य तन्त्रत्वे
प्रमाणाभाव इत्यत आह न हि खल्वित्यादि । नामा-
र्थयोरभेदान्वयबोधे विशेषणबोधकपदविशेष्यबोधकप-
दयोः समानधचनत्वस्य तन्त्रत्व एव नञ्जन्यान्योन्या-
भावबोधे तयोस्तदायाति नञ्जन्यान्योन्याभावविषयक
शाब्दबोधं प्रत्येकपदार्थेऽपरपदार्थस्याभेदान्वयबोधकै-
कपदसमभिव्याहृतापरपदे नञ्समभिव्याहारज्ञानस्य
हेतुत्वादित्यतस्तत्प्रदर्शितं महतो राज्ञ इत्यनेन । नन्वेक-
पदार्थेऽपरपदार्थान्योन्याभावविषयकशाब्दबुद्धिं प्रवि वि-
पृष्ठ ३९४७
शेषणबोधकपदविशेष्यबोधकपदयोः समानवचनत्वनिया-
मकत्वकल्पने एकोनद्वावित्यादौ नञोऽन्योन्याभावविष-
यकशाब्दबोधानुदयप्रसङ्ग इति तत्र तदनभ्युपगम
आवश्यकस्तथा च ब्राह्मणेभ्यो दधि दातघ्यं न कौण्डि-
न्याय दातघ्यमित्यादौ नञान्योन्याभाववोधने बाधकाभाव
इत्यतः पूर्वोक्तदोषोद्धारपुरःसरं दोषान्तरमाह एको न
द्वावित्यादिवदित्यादिना । अत्र च नित्यद्विवचनाद्यन्तश-
ब्दातिरिक्तस्थले तथाविधनियमस्वीकारे तु पूर्वोक्तदोष-
स्यैव दुरुद्धरतेति सूचनार्थमुक्तं कथञ्चिदिति । ब्राह्म-
णेभ्यो दधि दातव्यं न कौण्डिन्यायेत्यादिनैव कौण्डिन्य
भिन्नब्राह्मणसम्प्रदानकदधिदानबोधसम्भवात् द्वितीयदात-
व्यपदं निरर्थकमिति भावः” रघुदेवः ।
  • (२३) “अतएवेति । यतएव विशेषनिषेधस्थले सामान्यविधेर्वि-
शेषेतरपरत्वम् अतएवेत्यर्थः । अन्यथाऽमावास्यायां
पितृभ्यो दद्यादित्यनेन रात्रौ श्राद्धकरणप्राप्त्या रात्रौ
श्राद्धं न कुर्वीतेत्यनेन तत्र श्राद्धकरणनिषेधस्य च प्राप्त्या
तत्र तत्करणस्य विहितप्रतिषिद्धत्वाभ्यां विकल्पापत्ते
र्दुवारत्वादिति भावः” रघुदेवः ।
  • (२४) “ननु अत्राप्यन्योन्याभावार्थकतया रात्रीतरकाले श्राद्ध-
करणस्य विधानसम्भवेन सर्वसामञ्जस्ये व्यर्थं तत्र नञो
निषेधार्थकत्वकल्पनमित्यत आह न हीति तत्रापि रात्रौ
श्राद्धं न कुर्वीतेत्यत्रापि रात्रीतरपरता नञोन्यान्याभावा
र्थकतया रात्रीतरकाले श्राद्धकरणस्य बोधकतेत्यर्थः ।
तथा च व्यर्थं प्रतिषेधार्थकत्वकल्पनमिति भावः” रघुदेवः ।
  • (२५) “रात्रिभिन्न इत्यादि । रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञो
न्योन्याभावार्थकतया रात्रीतरकाले श्राद्धकरणविधाना-
भ्युपगमेऽमावास्यायां पितृभ्यो दद्यादित्यनेन रात्रौ
श्राद्धप्रसक्तेस्तत्करणापत्तेर्दुरवारत्वादित्यर्थः” रघुदेवः ।
  • (२६) “ननु तथाविधिवाक्ययोर्वाक्यैकवाक्यतया रात्रीतरा-
मावास्यायां कुर्वीतेत्यर्थकत्वाभ्युपगमे न पूर्वोक्तकल्पोक्तदोष
इत्यत आह न खल्वित्यादि । रात्रौ श्राद्धं न कुर्वीते-
त्यतो भिन्नं वाक्यान्तरमस्ति । तेन क्रियारहितश्राद्धवि-
घायकवाक्येन” रघुदेवः ।
  • (२७) “नापीदम् । इदं रात्रौ श्राद्धं न कुर्वीतेति वाक्यम् ।
पृथक्क्रियारहितम् । अनुषङ्गिकक्रियातिरिक्तक्रिया-
रहितम् । केवलं क्रियारहितमित्युक्तौ नानुयाजेष्विति
वाक्यमपि तथा, तत्रानुषङ्गिककरोतिक्रियासत्त्वादतः
पृथगित्युक्तम् । तथा च तयोरेवैकवाक्यतासम्भवे
रात्रीतरवाक्यं क्रियारहितं भवति अन्यथा तयोरेक-
तरवाक्ये क्रियापदस्य वैयर्थ्यापत्तेः । श्राद्धकरणप्राप-
कवाक्यान्तरस्याभावेन प्रकृतवाक्यद्वयस्यैव क्रियापदवत्त-
यैकवाक्यत्वाभावेन पूर्वोक्तदोषो दुर्द्धर एवेति भावः
रघुदेवः ।
  • (२८) ननु रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेधबोधकत्वं
न सम्मवति त्वन्मते विशेषनिषेधस्थले सामान्यविधेर्विशेषे-
तरपरत्वनियमेनामावास्याया पितृभ्यो दद्यादित्यादि
सामान्यविधेः रात्रीतरामावास्वाकाले श्राद्धकरणस्य
विधायकत्वेन तत्र श्राद्धकरणप्रापकवाक्यान्तरस्य चाभावेन
तत्र तस्याप्रसक्तत्वाद्दर्शितसामान्यविधेर्विशेषान्तरपरत्वं
नाभ्युपगम्यते चेत्तदा तत्र तत्पाप्तौ तु विकल्पापत्तिरित्या-
शङ्कते अथ रात्रावित्यादिना । उपहासपूर्वकं समाधान
माह साधीयानिति । तथा च प्रसक्तं हि प्रतिषिध्यत
इति नियमे प्रमाणाभावेनाप्रसक्तस्यापि निषेधे बाधका
भावेन रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेध-
बोधकत्वाभ्युपगमे क्षतिविरह इति भावः” रघुदेवः ।
  • (२९) “निषेधविधेरिति । तादृशनियममस्वीकृत्याप्रसक्तस्यापि
निषेधाभ्युपगमे इत्यादि पूरणीयम् । वैयर्थ्यमिति प्रस-
क्तस्यैव प्रतिषिद्धत्वमिति नियमे तु तत्र तदकरणस्यैव
निषेधविधेः प्रयोजनत्वसम्भव इति तादृशनियमाभ्युपग-
मोऽत्यावश्यकस्तस्य च विशेषविशेषनियन्त्रितत्वान्न दोष
इति भावः । तात्पर्य्यानवबोधादिति । रात्रीतरामा-
वास्याकालाधिकरणश्राद्धकरणबोधतात्पर्य्याऽनिर्णयपसक्तं
यद् रात्रिश्राद्धकरणं तद्वारणस्य तत्प्रयोजनत्वादित्यर्थः ।
रात्रौ श्राद्धकरणनिषेधबोधकवाक्याभावेऽमावास्यायां
पितृभ्यो दद्यादित्यादिवाक्यतो रात्रीतरामावास्याकाले
श्राद्धकरणस्य बोधासम्भवः तथाविधतात्पर्यनिर्णवाभावात्
तथा च रात्रावपि श्राद्धकरणं प्रसज्येत रात्रौ श्राद्धकर-
णस्य निषेधविधौ तु तथाविधवाक्यार्थपर्य्यालोचनक्रमेण
तथाविधविधेरुपदर्शितार्थे तात्पर्यनिर्णयसम्भवेन तस्मात्
तादृशबोधसम्भवेन रात्रौ तदप्राप्तौ तत्र तत्करणाप्रसक्ति
रिति भावः” रघुदेवः ।
  • (३०) “एवं सति विकल्पस्थलस्य दुर्लभत्वापत्तिरित्यत आह
एकविषयतयेत्यादि । अनन्यगतिकतया विकल्पं विना गत्य-
न्तराभावतया तथा च तत्र विकल्पं विना प्रकारान्तरा-
सम्भवेनावश्यं तत्र विकल्पस्वीकारेण न विकल्पस्थलदुर्ल-
भत्वापत्तिरिति भावः” रघुदेवः ।
पृष्ठ ३९४८
  • (३१) “ननु नातिरात्रे षोड़शिनं गृह्णातीत्यत्र नञा इष्टसा-
धनत्वस्यैवाभावः प्रतीयते प्रकारान्तरस्याभावात् तच्च न
सम्भवति षोड़शिग्रहणबिधिविरोधादित्याशङ्क्य उपपा-
दयति अत्र चेति न षोड़शिनं गृह्णातीत्यत्र चेत्यर्थः”
रघुदेवः ।
  • (३२) “ननु धात्वर्थान्विते एव विभक्त्यर्थे नञर्थाभावस्यैवान्वयो
व्युत्पन्न इत्यतआह व्युत्पन्नश्चेति तथा च तादृश-
व्युत्पत्तिकल्पने प्रमाणाभाव इति भावः” रघुदेवः ।
  • (३३) “अतएव तादृशव्युत्पत्तेरभावादेव” रघुरदेवः ।
  • (३४) “ननु क्वचिद्धात्वर्थेऽपि विभक्त्यर्थप्रतियोगिकस्याभावस्य
क्वचिच्च धात्वर्थाभावे विभक्त्यर्थान्वये नियामकाभाव इत्यत
आह नियमस्त्वित्यादि तथा च यत्र धात्वर्थे विभक्त्य-
र्थाभावबोधे तात्पर्य्यं तिष्ठति विरोधेऽपि नास्ति
तत्र तथा बोधः । यत्र तु धात्वर्थाभावे विभक्त्यर्थान्वय
बोधे तात्पर्य्यं तत्र तथैवान्वयबोध इति नियम इति
भावः” रघुदेवः ।
  • (३५) “ननु षोड़शिग्रहणस्याङ्गत्वेन इष्टसाधनत्वाभावात्
नातिरात्रे षोड़शिनं गृह्णातीत्यादौ षोड़शिग्रहणे इष्टसा-
धनत्वाभावबोधनेऽपि न ग्रहणविरोधः किन्तु बाधेन
तत्रेष्टसाधनत्वस्यान्वयबोधासम्भवः तथा च कथं तत्र
ग्रहणविधिविरोधेन धात्वर्थाभावे इष्टसाधनत्वान्वयबो-
धाङ्गीकार इत्यत आह मुख्यफलाजनकत्वेऽपि
चेत्यादि तथा च तत्रेष्टसाधनत्वाभावान्वयबोधस्य स्वीकारे
ग्रहणनिषेधविरोधोदुरपह्नव इति भावः” रघुदेवः ।
  • (३६) “ननु ग्रहणाग्रहणयोस्तुल्यफलजनकत्वे कथं बहुदुः-
खसाध्ये षोड़शिग्रहणे प्रवृत्तिरित्यत आह ग्रहणवि-
ध्यन्यथानुपपत्त्या चेति । तथा च तयोस्तुल्यफलाभा-
वेन नोक्ताशङ्काया अवकाश इति भावः” रघुदेवः ।
  • (३७) “प्रतियोग्यनुयोगिभावः प्रतियोगित्वमनुयोगित्वम्
आधाराधेयभावः आधारत्वमाधेयत्वम् उभयत्रोभयोत्की-
र्त्तनं तुल्यवित्तिवेद्यत्वाभिप्रायेण” रघुदेवः ।
  • (३८) “ननु नञोऽभावार्थकत्वे कथं भूतले न घटः भूतलं न घट
इत्यादौ भूतलेऽधिकरणतासम्बन्धेन नञर्थाभावस्यान्वयो-
ऽन्योन्याभावे च पतियोगितासम्बन्धेन घटादेर्वान्वयो
नामार्थयोर्भेदेनान्वयबोधानङ्गीकारादित्यत आह निपातेति ।
अव्ययनिपातातिरिक्तेत्यर्थः । तथा च फलबलान्निपाता
व्ययजन्यशाब्दबोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थिते-
र्हेतुत्वस्याकल्पनेनानुपपत्त्यभाव इति भावः” रघुदेवः ।
  • (३९) “अतएवेति यतएव फलबलान्निपाताव्ययजन्यशाब्द-
बोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थितेर्न हेतुत्वमतएवे-
त्यर्थः । इवाद्यर्थान्वयबोधे चन्द्र इव मुखमित्यादाविवा-
द्यर्थान्वयबोधे आदिना नञतिरिक्तनिपातमात्रपरिग्रहः”
रघुदेवः ।
  • (४०) “ननु नञोऽभावार्थकत्वेऽघट भूतलमित्यादौ कथं नाना-
धर्माभ्यामेकधर्मिबोधकत्वरूपसामानाधिकरण्योपपत्तिरित्य-
त आह अघटं भूतलमित्यादि । संसर्गाभावाऽन्योन्याभा-
वार्थकनञ्भेदेनोदाहरणद्वयम् । अघटमित्यत्र नपुंसक-
लिङ्गनिर्देशस्तु न विद्यते घटो यतेति बहुव्रीहि
समासस्पष्टीकरणाय अन्यथाऽघट इत्युक्ते न घटोऽघट
इति नञ्तत्पुरुषेऽपि तथा प्रयोगसम्भवे तत्र च
नञोऽन्योन्याभाववत्परतया घटसंसर्गाभाववल्लाक्षणिकनञ
उदाहरणासम्भव इति ध्येयम् । तत्र अभाववत्परता
भाववद्बोधकता” रघुदेवः ।
  • (४१) “यैस्तु निपातजन्यशाब्दबुद्धिं प्रत्यपि प्रकारीभूत-
विभक्त्यर्थोपस्थितेर्हेतुत्वमुपेयते तन्मतमाह केचित्त्विति
प्रतियोगिपदोत्तरस्य सुप इति भूतले न घट इत्यादौ
घटादिबोधकपदोत्तरसुप इत्यर्थः” रघुदेवः ।
  • (४२) “ननु सर्वत्रप्रतियोगित्वस्य नञ्समभिव्याहृतप्रतियोगि
बोधकपदोत्तरसुबर्थत्वे घटीयोऽभावो न घटस्येति
प्रयोगापत्तिः तत्रापि घटनिष्ठप्रतियोगित्वस्य स्वरूप-
सम्बन्धेनाभावस्य घटाभावेश बिद्यमानत्वात् न च न
घटस्येत्यत्र निरूपकत्वसम्बन्धोवच्छिन्नघटनिष्ठप्रतियो-
गितानिष्ठप्रतियोगिताकाभावबोधाभ्युपगमान्न तथा
प्रयोगः घटनिष्ठप्रतियोगिताया निरूपकतासम्बन्धेन
घटाभावे विद्यमानत्वादिति वाच्यम् । वृत्त्यनियामकसं-
सर्गस्याभावप्रतियोगितावच्छेदकत्वाभावेन तथोक्तेरश-
क्यत्वादित्यत आह अनुयोगित्वं वेति वाकारो व्यवस्थित
विकल्पसम्पादकः तथा च क्वचित् प्रतियोगित्वं तथाविध-
सुबर्थः क्वचिदनुयोगित्वं वेति लब्धम् । अतएव पटो न
घटाभावस्येत्यादौ पटे घटाभावप्रतियोगित्वाभावबोध-
स्यानुभवोऽपि सूपपाद इति ध्येयम्” रघुदेवः ।
  • (४३) “नञुत्तरसुपोऽधिकरणात्वर्थकत्वे सर्वत्र नञुत्तरसुपोऽनु-
सन्धानकल्पनं तत्र लक्षणाकल्पनं चेत्युभयकल्पने गौरवम्
तदपेक्षया नञ एवाभाववति लक्षणाकरणकल्पनमुचित
मित्याशयेनाह नञो वेति” रघुदेवः ।
  • (४४) “ननु नञोऽन्योन्याभावबोधने विशेषणवाचकपदविशेष्य-
पृष्ठ ३९४९
वाचकपदयोर्विरुद्धविभक्तिराहित्यं तन्त्रमिति पूर्वमुक्तम्
तत्र च विरुद्धविभक्तिकत्वं विरुद्धार्थप्रतिपादकविभक्तिक-
त्वम् अन्यथा व्यत्ययानुशासनस्थले कर्मत्वाद्यर्थकप्रथमा-
न्तपदार्थसाम्याभावेऽपि एकत्वाद्यर्थप्रथमान्तत्वसाम्येनान्व-
यबोधापत्तेः । तथा च प्रतियोगिवाचकपदोत्तरसुपः
प्रतियोगित्वाद्यर्थकत्वे न न घट इत्यादौ नञोऽन्योन्या-
भावबोधकत्वासम्भवः तस्य विशेष्यवाचकपदात् भिन्नत्वेन
तत्प्रतिपादकविभक्तेर्विशेषणवाचकपदोत्तरविभक्त्यर्थप्रति-
योगित्वादिति भवतास्वीकारात् एवं नञर्थसंसर्गाभावे
भेदेनेतरपदार्थान्वयानुभवेऽनुयोगिवाचकपदोत्तरं सप्तम्यपे-
क्षेति यत्पूर्वमुक्तं तदपि न नञुत्तरसुपोऽधिकरणत्वे
लक्षणयां भवति । एवं नञोऽभाववल्लाक्षणिकत्वे त्वत्-
कल्पे तथाविधभेदान्वयबोधाप्रसक्तौ तथाविधाभेदान्वय-
बोधे तु तादृशसप्तम्यन्तापेक्षा न सम्भवति अघटं भूतल-
मित्यादौ तदभावात् एवञ्च क्वचिन्नञान्योन्याभावः प्रति-
पाद्यते क्वचित् संसर्गाभावः प्रतिपाद्यते इत्यत्र नियाम-
काभावः सर्वत्र तदुभयबोधप्रसङ्गात् इत्यत आह
विभक्त्यर्थेति विभक्त्यर्थस्यान्योन्याभावबोधने अनुयोगि-
वाचकपदसमानविभक्तिकपदार्थस्य, संसर्गाभावबोधने च
नञोऽसामार्थ्यमित्यर्थः तथा च फलानुरोधेन तत्र
तत्तदानुपूर्वीज्ञानस्य हेतुत्वकल्पगान्नानियमप्रसङ्ग इति
भावः” रघुदेवः ।
  • (४५) “तथाविधकार्य्यकारणभावकल्पनं पूर्वमतेऽप्यावश्यक-
मित्याह तेनेति । तथाविधासामर्थ्यकल्पनेनेत्यर्थः ।
संसर्गाभावः संसर्गाभाववदभेदो न प्रतीयते । तथा च
तादृशकार्य्यकारणभावाकल्पने पूर्वमतेऽप्येतेषु स्थलेषु तत्त-
दन्वयबोधस्यापत्तिर्दुर्वारेति तादृशकार्यकारणभावकल्पना-
वश्यकत्वमिति भावः” रघुदेवः ।
इदमत्रावधेयम् प्राप्तिपूर्वकत्वान्निषेधस्येति मीमांसकैर्मन्यते
तेषामाशयः हृदे दहनो नास्तीत्यादौ प्रत्यक्षे अभाव-
ज्ञानस्य प्रतियोगिज्ञानसापेक्षतया प्रतियोगिनश्च ज्ञान-
लक्षणादिना पूर्वं ज्ञायमानत्वेन तस्याभावो ह्रदे
बोधनेऽपि प्राप्तस्य ज्ञातस्य दहनस्य अन्यत्र प्रसक्ता-
वपि हृदे वायौरूपवत् निषेधो न विरुध्यते । शास्त्रीये
तु निषेधे विधीयमानो निषेधः प्राप्तिमुपजीवति प्राप्तिश्च
रागतोऽतिदेशशास्त्रतो वा । तत्र न कलञ्जं भक्षयेदि-
त्यादौ रागप्राप्तस्य विषेधः । अतिदेशश्चतः प्राप्तयोः
“न तौ पशौ करोति” इत्यादौ अघाराज्यभागयोः
पशुयागे निषेघः । अतिदेशशास्त्रस्यान्यत्र चरितार्थत्वेन
अतुल्यबलत्वात् नात्र विकल्पः । किन्तु एकविषयतयाऽगत्या
षोड़शिग्रहणाग्रहणयोर्विकल्पः इति भेदः । अप्राप्तस्य
विधीयमाननिषेधस्य प्राप्तिश्च प्रतियोगिप्राप्तेरित्येव तत्र
प्राप्तिपूर्वकत्वम् । तत्र च पर्युदासः यथा “न तौ पशौ
करोति” इत्यादौ करोतीत्यादेरनुवादत्वेन नानर्थक्यम्
“सम्मेदे नान्यतरवैयर्थ्यमिति” न्यायात् तेन आधारा-
ज्यभागकरणानुवादेन पशुयागभिन्नत्वमात्रं विधेयम्
एवं रात्रौ श्राद्धं न कुर्वीतेति वाक्येऽपि क्रियापदस्या-
नुवादत्वेन तस्य वैयर्थ्याभावात् तत्र श्राद्धकरणानुवादेन
रात्रिभिन्नकालत्वं विधेयम् । यथा वा दध्ना जुहोत्यादौ
होममनूद्य दधिद्रव्यकरणकत्वमात्रं विधीयते एवं श्राद्ध-
करणमनूद्य रात्रीतरकालरूपद्रव्यविधाने क्षत्यभावः ।
अन्यथा कुत्र रात्रीतरकालो बिधीयेत । अतः न रात्रौ
श्राद्धं कुर्वीतेत्यादि वाक्यस्य श्राद्धकरणनिषेधपरताव्यव-
स्थापनं न युक्तिसहं “न कलञ्जं भक्षयेदित्यादाविव
पण्डापूर्वकल्पनाया तदतिक्रमे दुरदृष्टसाधनत्वकल्पना-
याश्चापत्तेर्दुवारत्वात् सकलशिष्टाचारसम्मततस्य रात्रौ
श्राद्धकरणेऽनिष्टाभावस्य विरोधापत्तेश्च । किञ्च इदं
वाक्यं न केवलश्राद्धानुवादेन रात्रीतरकालविधानं किन्तु
यावच्छ्राद्धानुवादेन रात्रीतरकालविधानपरमित्यपि
गन्तव्यम् । यद्यपि अष्टकासु मघासु चेति मनुवचने
अष्टकादिपदस्य बहुवचनान्ततया निर्देशेन तद्विरुद्धै-
कवचनावरुद्धत्वात् भेदपरता सम्भवति पूर्वोक्तव्युत्प-
त्तिविरोधात् तथापि सामान्ये न औत्सर्गिकमेकवचनं
जात्मभिप्रायमिति न विरोध इत्यवधेयम् ।
क्रियायामिव विभक्त्यर्थेऽपि नञर्थाभावान्वय इति
यदुक्तं तत्र न कलञ्जं भक्षयेदित्यादौ धात्वर्थे बलवदनि-
ष्टाननुन्धित्वरूपविध्यर्थस्य” एकादश्यां न भुञ्जीत्यादौ
भोजनाभाव एव विध्यर्थेष्टसाधनत्वस्य च बोध इति विषय-
भेदेन व्यवस्था । अतएव न कलञ्जं भक्षयेदित्यादि निषेध-
वाक्यम् एकादश्यां न भुञ्जीतेत्यादि निषेधविधिवाक्यमिति
भेदः । तदेतत् शब्दशक्तिकाशिकायां समर्थितम् । “पङ्गुः
समुद्रं न तरेदित्यादौ नञादिना समुद्रतरणादेः, पङ्गु-
प्रभृतिकृतिसाध्यत्वनिषेधबोधानुरोधादवश्यं कृतिसाध्यत्वं
लिङर्थः तथा तृप्तिकामोजलं न ताड़येदित्यादौ तृप्ति-
कामेष्टसाधनत्वस्य, न कलञ्जं भुञ्जीतेत्यादौ च कलञ्ज-
भक्षणादेः बलवदनिष्टाजनकत्वेऽपीष्टसाधनत्वस्य निषेधा-
पृष्ठ ३९५०
नुपपत्त्या इष्टसाधनत्वादिकमपि (यथायथम्) । न चाहो
रात्रावच्छेद्यभोजननिवृत्तिरूपस्योपवासस्य कृत्यसाध्यत्वा-
दष्टम्यामुपवसेदिति विधेर्बाधः कृत्यधीनसमयसम्बन्धरूपस्य
क्षैमिककृतिसाध्यत्वस्य नित्येऽप्यनपायात्, तादृशप्रयोगे
भोजनादिप्रतिकूलव्यापारस्यैव वा धात्वर्थत्वात्” इति ।
मीमांसकमतानुसारेण कलञ्जाधिकरणशब्दे १७७७ पृ०
नञर्थादिको दर्शितः । आग्नायस्य क्रियार्थत्वमित्येकान्ता-
श्रयणे दोषकथनावसरे शा० भा० रत्नप्रभयोश्च अत्यन्ताभाव
एव नञः शक्तिर्भेदादौ लक्षणेत्युक्तं यथा
“अपि च ब्राह्मणो न हन्तव्यः इति चैवमाद्या निवृत्तिरु-
पदिश्यते । न च सा क्रिया नापि क्रियासाधनम् इत्यतो
निवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम् । न च
स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं
कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण ।
नञश्चैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयति अभावश्चौ
दासीन्यकारणं सा च दग्धेन्धनाग्निवत् स्वयमेवोपशा-
म्यति तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ब्राह्मणो
न हन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजा-
षतिव्रतादिभ्यः” शा० भा० ।
“नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः
इष्टसाधनत्वं तव्यादिप्रत्ययार्थः इष्टश्चात्र नरकदुःखाभावः
तत्परिपालको हननाभाव इति निषेघवाक्यार्थः ।
हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधन-
त्वधिया पुरुषो निवर्त्तते । नात्र नियोगः कश्चिदस्ति
तस्य (नियोगस्य) क्रियातत्साधनदध्यादिविषयत्वात् । न
च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया अभाव-
त्वान्नापि क्रियासाधनम् अभावस्य भावाहेतुत्वाद्-
तस्य सत्त्वरूपत्वाभावाच्चेत्यर्थः । अतो निषेधशास्त्रस्य
सिद्धार्थे प्रामाण्यमिति भावः । विपक्षे दण्डमाह न च
सा क्रियेति । ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थे-
नानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी
सङ्कल्पक्रिया वोध्यते । सा च नञर्थरूपा तत्राप्राप्त-
त्वाद्विधीयते अहननं कुर्य्यात् इति । तथाच कार्य्यार्थ-
मिदं वाक्यमित्याशङ्क्य निषेधति न चेति औदासीन्यं
हननाभाव इति यावत् तद्व्यतिरेकेण नञः क्रियार्थत्वं
कल्पयितुं न च शक्यमिति योजना मुख्यार्थस्या
भावस्य नञर्थत्वसम्भवे तद्विरोधक्रियालक्षणाया अन्या-
य्यत्वात् निषेधवाक्यस्यापि कार्य्यार्थत्वे विधिनिषेधभेद्र
विप्लवापत्तेश्चेति भावः । ननु तदभाववत्तदन्यतद्विरुद्ध-
योरपि नञः शक्तिः किं न स्यात् अब्राह्मणः अधर्म
इति प्रयोगदर्शनादिति चेत् न अनेकार्थत्वस्यान्याय्य-
त्वादित्याह नञश्चेति गवादिशब्दानान्तु अगत्या
नानार्थत्वं स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभा-
वेन लक्षणानवतारात् । अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तं
शक्यसमन्धात् ब्राह्मणादन्यस्मिन् क्षत्रियादौ धर्म-
विरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ् शक्यस्य
सम्बन्धात् प्रकृते च आख्यातयोगात् नञ्प्रसज्यप्रति-
षेध एव न पर्य्युदासलक्षकमिति मन्तव्यम् । यद्धा
नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जन-
त्वात् प्रधानसम्बन्धाच्चाप्रधानानां, किन्तु प्रकृत्यर्थनिष्ठेन
प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धोनञः । इष्टञ्च स्वापेक्षया
बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं
विषयप्रयुक्तं निषिद्धान्नभोगस्यापि इष्टत्वापत्तेः तथाच
न हन्तव्यः हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं
न भवतीत्यर्थः । अत्र हन्तव्यः इति हनने विशेष्टेष्ट-
साधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलबदनिष्ट-
साधनं हननमिति बुद्धिर्भवति हनने तात्कालिकेष्ट
साधनत्वरूपविशेष्यसत्त्वेऽपि विशिष्टाभावबुद्धेर्विशेषणा-
भावपर्य्यवसानात् विशेषणं बलवदनिष्टासाधनत्वमिति
तदभावोबलवदनिष्टसाधनत्वं नञर्थ इति पर्य्यवसन्नम् ।
तद्वुद्धिरौदासीन्यपरिपालिकेत्याह । अभावेति । चोऽप्य-
र्थ्यः पक्षान्तरद्योती प्रकृत्यर्थाभावबुद्धिवत् प्रत्ययार्था-
भाववुद्धिरपीत्यर्थः बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासी-
न्यात् प्रच्युतिरूपा हनादौ प्रवृत्तिः स्याद् इति तत्राह
सा चेति । यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा
नञर्थाभावबुद्धिः हननादाबिष्टसाधनत्वभ्रान्तिमूलं रागे-
न्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः । रागनाशे कृते प्रच्यु-
तिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे
स्वयमेव शाम्यतीत्यर्थः । परपक्षे तु हननविरोधिक्रिया
कार्य्येत्युक्तेऽपि, हननस्येष्टसाधनत्वभ्रान्त्र्यनिरासात्
प्रच्युतिर्दुर्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंह-
रति तस्मादिति । भावार्घाभावेन तद्विषयककृत्य-
भावात् कार्य्याभावस्तच्छब्दार्थः । यद्वेत्युक्तपक्षे निवृ-
त्त्युपलक्षितमौदासीन्यं यत्तद्विशिष्टभावापन्नमेवेति-
व्याख्येयं स्वतः सिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वो-
पपादानार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् ।” तस्य
पृष्ठ ३९५१
वटोर्ब्रतमित्यनुष्ठेयक्रियावाचिना व्रतशब्देन कार्य्यमुप-
क्रम्य “नेक्षेतोद्यन्तमादित्यम्” इति प्रजापतिव्रतमुक्तम्
अत उपक्रमवलात्तत्र नञईक्षणविरोधिसङ्कल्पक्रिया-
लक्षणाऽङ्गीकृता । एवमगौरसुरा अधर्म इत्यादीनाम-
धात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यवि-
रुद्धलक्षकत्वम् । एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभाव-
स्यैव नञर्थता इत्यर्थः” रत्नप्रभा० ।
नञः प्रसज्यप्रतिषेधाद्यर्थाभिधाने नियमविशेषस्मरणपूर्वकं
सा० द० नञर्थो निर्णीतो यथा
“अमुक्ता भवता नाथ! मुहूर्त्तमपि सा पुरा” । अत्रा-
मुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्व-
मेवोथितम् । यदाहुः “अप्राधान्यं विधेर्यत्र प्रति-
षेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र
नञ्” । तथा “नवजलधरः सन्नद्धोऽयं नदृप्तनिशा-
चरः” । अत्रोदाहरणे तत्पुरुषसमासे गुणीभावे नञः
पर्य्युदासतया निषेधस्य विधेयतानवगमः । यदाहुः ।
“प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्य्युदासः
स विज्ञेयो यत्रोत्तरपदेन नञ्” । तेन “जुगोपात्मान-
मत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थानसक्तः
सुखमन्वभूत्” । अत्रात्रस्तादितामनूद्यात्मगोप्रनाद्येव विधे-
यमिति नञः पर्युदासतया गुणभावो युक्तः । नन्वश्रा-
द्वभोजी ब्राह्मणः, असूर्य्यम्पश्या राजदारा इत्यादिवत्
कमुक्तेत्यत्रापि प्रसज्यप्रतिषेधो भविष्यतीति चेन्न
अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः
स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यं न च
तथा, विशेष्यतया प्रधानेन तद्भोजिनार्थेन कर्त्रंशेनैव
नञः सम्बन्धात् । यदाहुः “श्राद्धभोजनशीलो हि
यतः कर्त्ता प्रतीयते । न तद्भोजनमात्रं तु कर्त्तरीने-
र्विधानतः” इति । अमुक्तेत्यत्र तु क्रिययैव सह सम्बन्ध
इति दोष एव” ।
अश्राद्धभोजीत्यादौ असमर्थसमासं वैयाकरणा मन्यन्ते
“सुड़नपुंसकस्य” पा० सूत्रे नपुंसकस्य नेत्यर्थस्य भाष्यादा-
वुक्तत्वात् सामर्थ्याभावेऽपि समास इति हि तेषां राद्वान्तः
लाक्षणिकनञर्थनिर्णयः शब्दशक्तिप्रकाशिकायां यथा
“अतएवाघटः पट इत्यादावन्यस्य, असुरोदैत्य इत्यादौ
विरोधिनः, अनिक्षुः शरः इत्यादौ सदृशस्य, अब्राह्मणो
वार्द्धुषिक इत्यादावपकृष्टस्य, अनुदरमुदरन्तरुण्या इत्यादौ
स्वल्पस्य बोधकेन नञ्निपातेन स्वार्थे प्रतियोगित्वादि
सम्बन्धेनैव घटादेरनुभावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः ।
पटस्याभाव इत्यर्थे प्रसज्यनञा अव्ययीभाव एव
समासः प्रमाणं, तेनापटं वर्त्तते इत्याद्येव तत्र प्रयोग-
स्तत्पुरुषस्योत्तरपदलिङ्गकत्वनियमात् इति वृद्धाः ।
प्रसज्यनञाप्यपट इत्यादिस्तत्पुरुष एव साधुर्नाव्ययी
भावः नञ्तत्पुरुषविधेस्तदपवादकत्वात् अतएव वादि-
नामविवाद इत्यादिकः किरणावल्यादौ पुंसि प्रयोग
इति तु पक्षधरमिश्राः” ।
अत्रायं विशेषः प्रसज्यनञव तत्पुरुषः भावकृदन्त-
पदयोग एव न घटादिपदयोगे वादिनामविवाद इत्याद्यु-
दाहरणेषु भावकृदन्तस्यैवोत्तरपदत्वादिति सम्प्रदायविदः ।
नञर्थे तिङर्थान्वयश्च शब्दश० प्र० दर्शितो यथा
“न च पचत्यपि चैत्रे नायं पूचतीति प्रयोगः स्याद्वर्त्त-
मानायाः पाककृतेरभावस्य समयान्तरावच्छेदेन चैत्रे
सत्त्वादिति वाच्यं तत्र नञर्थ एव लडर्थवर्त्तमानत्वस्या-
न्वयेन वर्त्तमानकालावच्छेद्यस्य पाककृत्यभाववत्त्वस्य चैत्रे
षाधेन तदसम्भवात् गुरुमते न कलञ्जं भक्षयेदित्यादौ,
अस्मन्मतेऽप्यतिरात्रे षोडशिनं न गृह्णाति इत्यादौ
नञ्र्थेऽपि तिङर्थान्वयस्य व्युत्पन्नत्वात् । एतेन भावि
दिने चैत्रो नापाक्षीदतीतदिने चैत्रो न पक्ष्यतीत्यपि
स्याद्भाविदिनादौ चैत्रेऽतीतपाककृत्यादेरभावसत्त्वादि-
त्यपि समाहितं तत्राप्यतीतादिकालस्य नञर्थ एवान्वये-
नातीतादिकालावच्छेद्यत्वविशिष्टस्य पापकृत्यभावस्य
भाव्यादिदिनावच्छेदेन चैत्रादावसत्त्वादेव तादृशाप्रयो-
गात् । अतएव च निष्पन्नान्नं न पक्ष्यतीत्यादौ निष्प-
न्नान्नकर्मकभाविकृतेरप्रसिद्धावपि न क्षतिः भविष्यत्का-
लावच्छेदेन तादृशान्नकर्मकपाककृतेरभावस्य तत्र बोध्य-
त्वादिति युक्तमुत्पश्यामः” । किलशब्दोत्तरत्वेऽस्यानु-
पृष्टार्थता किलशब्दमुपक्रम्य “न ननु इत्येताभ्यां संप्रयु-
ज्यतेऽनुपृष्टे न किलैवं ननुकिलैवमिति” निरुक्तकारोक्तेः

नट णट धातुवत् सर्वं विशेषस्तु णटधातौ ३१९ पृ० दृश्यः ।

नट अवस्कन्दने (नटकृत्ये) णिचि नाटयति अनुकरोती-
त्यर्थः “नवनगवनलेखाश्याममध्याभिराभिः स्फटिकक-
टकभूमीर्नाटयत्येष शैलः” माघः ।

नट भ्रंशे त्विषि चु० उभ० अक० सेट् । नाटयति ते अनीननटत् त न णत्वम् ।

नट पुंस्त्री नम--उणा० डट--नट--अच् वा । १ शैलूषे स्त्रियां

गौरा० ङीष् । “नटी विदूषको वापि पारिपार्श्विक
एव वा” सा० द० । २ नलीनामगन्धद्रव्ये स्त्री ङीष् ।
पृष्ठ ३९५२
३ वेश्यायां च शब्दर० । ४ दृश्यकाव्यार्थाभिनयकर्त्तरि
नर्त्तके त्रि० “प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्”
सा० का० “यथा नटस्तां तां भूमिकां विधाय रामो वा
अजातशबुर्वा वत्सराजो वा भवति एवं तत्तत्स्थूल-
शरीरग्रहणात् देवो वा मनुष्यो पशुर्वा वनस्पतिर्वा
भवति सूक्ष्मशरीरम्” तत्त्वकौ० । ५ शोनाकवृक्षे पु०
अमरः । “शौचिक्यां शौण्डिकाज्जातो नटो द्रविड
एव च” पराशरपद्धत्युक्ते ६ वर्णसङ्करजातिभेदे पुंस्त्री
स्त्रियां जातित्वात् ङीष् । “नटी कपिलिनी वेश्या
कुलटा नापिताङ्गना” तन्त्रसा० । “झल्लो मल्लश्च राजन्यात्
व्रात्यात् निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड
एव च” मनूक्ते व्रात्यक्षत्रियजाते ७ व्रात्यक्षत्रियभेदे
पुंस्त्री० । ८ अशोकवृक्षे पु० मेदि० । ९ किष्कुपर्वणि नलाख्ये
तृणेपु० जटा० । दीपकरागस्य १० रागिणीभेदे स्त्री ।

नटकमेलक न० हास्यरसप्रधाने दृश्यकाव्यभेदे तच्च सङ्की-

र्णाख्यम् “वृत्तं बहूनां भ्राष्टानां सङ्कीर्णं केचिदूचिरे ।
तत्पुनर्भवति द्व्यङ्कमथ वैकाङ्कनिर्मितम्” तल्लक्षणम् ।
“तच्च नटकमेलकादि” सा० द० ।

नटचर्य्या स्त्री ६ त० । नटस्य कृत्ये वाक्यार्थाभिनये

अभिनेयपदार्थानुकारे “नामानि रूपाणि मनोवचोभिः
संतन्वतो नटचर्यामिवास्य” भाग० १ । ३ । ३८

नटन न० नट--भावे ल्युट् । अङ्गविक्षेपरूपे नृत्ये अमरः ।

नटनारायण पु० रागभेदे सङ्गीतशास्त्रम् ।

नटभूषण पु० नटान् भूषयति भूषि--ल्यु । हरिताले रत्नमा० ।

नटमण्डन पु० नटं मण्डयति मण्डि--ल्यु । हरिताले अमरः

नटसज्ञक न० नटस्य नंज्ञा सम्यक् ज्ञानं यस्मात् कप्

“केऽणः” पा० ह्रस्वः । १ गोदन्ताख्यहरिताले त्रिका० ।
नटेतिशब्दः संज्ञा यस्य कप् । २ नटे ।

नटसूत्र न० नटस्य तत्कृत्यस्य ज्ञापकं सूत्रम् शा० त० ।

शिलालिना रचिते नटकृत्यज्ञापके ग्रन्यभेदे “पाराशर्य्य-
शिलालिभ्यां भिक्षुनटसूत्रयोः” पा० ।

नटान्तिका स्त्री नटस्य नटकृत्यस्यान्वोयस्याः कप् कापि

अत इत्त्वम् । लज्जायां मेदि० । लज्जायां सत्यां नटकृ-
त्यस्यासम्भवात् तन्नाशएव च तत्सम्भवात् तस्यास्तथात्वम् ।

नटेश्वर पु० ६ त० । शिवे हेमच० तस्य नृत्यप्रियत्वात्

तत्क्रियायां तस्य निपुणत्वाच्च तथात्वम् ।

नट्या स्त्री नटानां समूहः पाशा० य । नटसमूहे ।

नड भ्रंशे चुरा० उभ० अक० सेट् । नाडयति ते अनीनडत् त ।

अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति ।

नड(ल) पु० नल--बन्धे अच् वा डस्य लः । १ गोत्रप्रवर्त्तक-

र्षिभेदे पु० तस्य गोत्रापत्यम् नडादि० फक् । नाडायन
तद्गोत्रापत्ये पुंस्त्री० । २ नलतृणे च ।

नडक न० नल बन्धे अच् संज्ञायां कन् । अंसयोर्मध्ये वत्त-

माने नलाकारे अस्थिभेदे “हृदयं जिह्वा क्रौडं सव्य
सक्थि पूर्वनडकम्” “दक्षिणसक्थि पूर्वनडकम्” कात्या०
श्रौ० ६ । ७ । ३ । ४ ।

नडकीय त्रि० नडाः लन्त्यत्र “नडादीनां कुक्च” पा० छ कुक् च । बहुलनडयुक्ते ।

नडप्राय पु० नडः प्रायेण यत्र । नडबहुले देशे अमरः ।

नडभक्त न० नडस्य विषयो देशः ऐषुका० भक्तल् । नडविषये

नड(ल)मीन पु० नड(ल) स्थितो मीनः । नलमध्यस्थिते

(चिङिडी) मत्स्ये अमरः ।

नडश त्रि० नड + अस्त्यर्थे तृणा० श । नडयुक्ते

नडागिरि पु० नडप्रधानो गिरिः किंशुका० संज्ञायां पूर्वस्य

दीर्घः । नडप्रधाने गिरिभेदे असंज्ञायां तु नडगिरिरित्येव

नडादि पु० “नडादिभ्यः फक्” पा० गोत्रे फक्प्रत्ययनि-

मित्ते पा० ग० उक्ते १ शब्दसमूहे स च गणः
नड चर वक मुञ्ज इतिक इतिश उपक एक लमक शलङ्क
शलङ्कञ्च सप्तल वाजप्य तिक अग्निशर्मन् वृष(गणे)
ताण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर
किङ्कल कातर कातल काश्यप काश्य काव्य अज अमुष्य
कृष्णरणौ (व्राह्मण वाशिष्ठे) अमित्र लिगु चित्र कुमार
क्रोष्टु क्रोष्टञ्च लोह दुर्ग स्तम्भ शिंशपा अग्र तृण
शकट सुमनस् सुमत मिमत ऋच् जलब्धर अध्वर
युगन्धर हंसक दण्डिन् हस्तिन् पिण्ड पञ्चाल चमसिन्
सुकृत्य स्थिरक ब्राह्मण चटक वदर अश्वल खरप लङ्क
इन्ध अस्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोत्त
दण्डप” । नाडायनः चारायणः इत्यादि ।
“नडादीनां कुकच्” पा० उक्ते छप्रत्ययकुगागमनिमित्ते
२ शब्दगणे च । स च गणः पा० ग० सू० उक्तो यथा
नडप्लक्ष विल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण
क्रुञ्चा (ह्रस्वत्वञ्च) तक्षन्” नडकीयः ।

नडिनी स्त्री नडाः गन्त्यस्यां “पुष्कारिभ्यो देशे” पा० इनि

नडयुक्तनद्याम् देशश्चात्र “देशो नदीमूधरकन्दरादिः”
इत्युक्तः तेन भूधरे नडिन् पु० देशभिन्ने तु नड्वान्
भूमिभागः इत्यादि ।

नडिल त्रि० नड्स्याद्वरदेशादि काश्या० इल । लडससीपस्थादौ ।

पृष्ठ ३९५३

नड्या स्त्री नडानां समूहः पाशा० य । नडसमूहे अमरः ।

तत्र गणे नटेत्यत्र नडेति पाठान्तरम् ।

नड्वत् त्रि० नडाः सन्ति प्रायेणात्र “कुमुदनडवेतसेभ्यो ड्वतुप्”

पा० ड्वतुप् । बहुलनडयुक्ते

नड्वल त्रि० नडाः प्रायेण सन्त्यत्र “नडशादाड् ड्वलच्” पा०

ड्वलच् । बहुलनडयुते देशे “यो नड्वलानीव बलानि
गजः परेषाम्” रघुः । वैराजस्य मनोः २ पत्नीभेदे स्त्री
“मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां
भरतश्रेष्ठ! वैराजस्य प्रजापतेः” हरिवं० २ अ० । नड्वलः
स्थानत्वेन अभिमतत्वेनास्त्यस्या अच् । ३ नड्बलस्थे
४ तदभिमानिनि च देवताभेदे स्त्री “नड्बलाभ्यः शौष्क-
लम् पाराय मार्गारम्” यजु० ३० । १६ पुरुषमेधीयपशूक्तौ

नत त्रि० नम--कर्त्तरि क्त । १ नम्रीभूते २ कुटिले च मेदि० ।

“नतभ्रुवो नव्यजनापनेयः” उद्भदः । सि० शि० प्रमिता०
उक्ते येन कालेन मध्याह्नान्नतोरविस्तादृशे २
कालभेदे उन्नतशब्दे १८८ । ८९ पृ० दृश्यम् “पूर्वं नतं स्याद्दि-
नरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम् । दिवानिशो-
रिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात्” नी० ता०
उक्ते ३ इष्टघटीहीने दिवारात्रार्द्धकाले इष्टघटीतो वा
हीने ४ तथाभूते काले च छायया दिनज्ञानार्थे ५ धनुः-
कलाभेदे च सच सू० सि० रङ्गनाथाभ्यां दर्शितो यथा
“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका ।
स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे । उत्तराश्चो-
त्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः । दिग्भेदे
मिश्रिताः सोम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू० सि० “अभीष्ट-
दिने माध्याह्निकी छाया भुजसंज्ञा ज्ञेया । तेन
भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ता
फलस्य धनुःकला नता नतसंज्ञास्ताः नतकला दक्षिणे
भुजे मध्याह्नच्छायारूपभुजे प्राच्यापरसूत्रमध्याद्दक्षिण-
दिक्स्थे सति उत्तरदिक्वा, उत्तरे भुजे दक्षिणाः ।
चो विषयव्यवस्थार्थकः । ता नतकलाः सूर्यक्रान्तिनत-
कलाः प्रागुक्ताः, दिग्भेदस्वदिशोर्भिन्नत्वे मिश्रिताः
संयुक्ताः साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः । द्वाद-
शाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छाया
भुज्स्तथा खस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्यो-
तरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतां-
शज्या मध्याह्नोन्नतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुज
इति मध्याह्नच्छायाकर्णे मध्याह्नच्छाया भुजस्तदा
त्रिज्याकर्क्षे को बुज इत्यनुपातेन नतज्य तद्धनुरत्र
कलात्मकत्वान्नतकलास्ता ग्रहसम्बद्धा इति छायादिग्-
विपरीतदिक्काः । अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे
योगेन नतांशा इति दक्षिणा नतकला दक्षिणक्रान्ति
कलाभिर्हीना अक्षांशा भवन्ति । क्रान्त्यंशाक्षांशयोर्भि-
न्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणास्तदा क्रान्त्यू-
नाक्षांशस्य नतत्वादुत्तरक्रान्तियुता अक्षांशाः यदि
तूत्तरास्तदाक्षोनक्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इति
सम्यगुपपन्नम्” रङ्ग । अधिकं नतिशब्दे दृश्यम् ।

नतद्रुम पु० नित्यक० । लताशाले रत्नमा० ।

नतनासिक त्रि० नता नासिकाऽस्य । (खाँदा) नतनासायुक्ते अमरः ।

नतराम् अव्य० न + आसु तरप् । १ अतिशयनञर्थे प्रतियो-

ग्यसमानाधिकरणे अभावे २ नितरामित्यर्थे च “तस्मा-
द्वेतयोः सतोर्नतरां चन्द्रमा भाति” शत० ब्रा० ११ । ८ । ३ । १

नताङ्गी स्त्री नतमङ्गमस्या ङीष् । नार्य्यां राजनि० ।

नति स्त्री नम--भावे क्तिन् । नमने खापकर्षबोधकव्यापा-

रभेदे करशिरःसंयोगादौ । नमस्कारभेदाश्च कालीपु० यथा
“त्रिकोण १ मथ षट्कोण २ मर्द्धचन्द्रं ३ प्रदक्षिणम् ४ ।
दण्ड ५ नष्टाङ्ग ६ मुग्रञ्च ७ सप्तधा नतिलक्षणम् । ऐशानी वाथ
कौवेरी दिक् कामाग्याप्रपूजने । प्रशस्ता स्थण्डिलादौ
च सर्वमूर्त्तेस्तु सर्वतः । त्रिकोणादिव्यवस्थाञ्च यदि
पूर्वमुखो भवेत् । पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां
निर्दिशेत् तदा । यदोत्तरामुखः कुर्य्यात् साधको देवपूज-
नम् । तदा याम्यात्तु वायव्यां गत्वा कुर्य्यात्तु संस्थि-
तिम् । दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ।
ततोऽपि दक्षिणं गत्वा नमस्कारस्त्रिकोणवत् । त्रि-
कोणो यो नमस्कारस्त्रिपुराप्रीतिदायकः १ । दक्षिणाद्वा-
यवीं गत्वा तां त्यक्त्वाग्नौ प्रविश्य च । अग्नितो राक्षसीं
गत्वा ततश्चाप्युत्तरां दिशम् । उत्तराच्च तथाग्नेयीं
भ्रमणं द्वित्रिकोण (६) वत् । षट्कोणो यो नमस्कारः
प्रीतिदः शिवदुर्गयोः २ । दक्षिणाद्वायवीं गत्वा तस्या-
व्यावृत्य दक्षिणाम् । गत्वा योऽसौ नमस्वारः सोऽर्द्ध-
चन्द्रः प्रकीर्त्तितः ३ । सुकृत् प्रदक्षिणं कृत्वा वर्तुला-
कृति साधकः । नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति
द्विजैः ४ । त्यक्त्वा स्वमासनस्थानं पश्चाद् गत्वा
नमस्कृतिः । प्रदक्षिणं विना या तु निपत्य भुवि दण्डवत् ।
दण्ड इत्युच्यते दैवैः सर्वदेवौघमोददः ५ । पूर्ववद् दण्ड-
वद् भूमौ निपत्य हृदयेन तु । चिवुकेन मुखेनाथ
पृष्ठ ३९५४
भासया हनुकेन च । ब्रह्मरन्ध्रेण कर्णाभ्यां यद्
भूमिस्पर्शनं क्रमात् । तदष्टाङ्ग इति प्रोक्तो नमस्कारो
भवीषिभिः ६ । प्रदक्षिणत्रयं कृत्वा साधको वर्तुला-
कृति । ब्रह्मरन्घ्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ ।
स उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः ७ । नदानां
सागरो यादृग् द्विपदां ब्राह्महो यथा । नदीनां
जाह्नवी यादृग् देवानामिव चक्रधृक् । नमस्कारेषु सर्बेषु
तथैवोग्रः प्रशस्यते । त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु
भक्तितः । चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः ।
नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा । सर्वेषामपि
देवानामन्येषामपि भैरव! । योऽसावुग्रो नमस्कारः
प्रीतिदः सततं हरेः । महाभायाप्रीतिकरः स
नमस्करणोत्तमः” । नतिविशेषस्तु यामले “त्रिकोणाकारा
सर्वत्र नतिः शक्तेः समीरिता । दक्षिणाद्वायवीं गत्वा-
दिशं तस्माच्च शाम्भवीम् । ततश्च दक्षिणं गत्वा
नमस्कारस्त्रिकोणवत् । अर्द्धचन्द्रं महेशस्य पृष्ठतश्च
समीरितम् । शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रं क्रमेण तु ।
सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् । (सोमसूत्रं
जलनिःसरणस्थानम्) “प्रसार्य्य दक्षिणं हस्तं स्वयं
नम्रशिराः पुनः । दर्शयेद्दक्षिणं पार्श्वं मनसापि
च दक्षिणः । त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षि-
णम् । एकहस्तप्रमाणश्च एकशोपि प्रदक्षिणम्” ।
“गन्धर्वतन्त्रे देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः ।
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः । नमस्कारेण
लभते चतुर्वर्गं महोदयम् । सर्वत्र सर्वसिद्ध्यर्थं नतिरेका
प्रवर्त्तते । नत्या विजयते लोकान् नत्या धर्मः प्रवर्त्तते ।
नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः । चतुर्वर्गं
लभेद्भक्तो नचिरादेव साधकः । नमस्कारो महायज्ञः
प्रीतिदः सर्वतः सदा । नमस्कुरु महादेवीं प्रदक्षिणञ्च
भक्तितः” । योगिनीतन्त्रे पूर्वखण्डेऽष्टभपटले “प्रद-
क्षिणत्रयं कुर्य्यात् पद्माकारं नमेत्ततः । दक्षिणादुत्तरं
गत्वा देवस्य च महेश्वरि!” प्रदक्षिणत्रयम् आदि
मध्यावसाने ज्ञेयम् । तथाच कुमारीपूजामधिकृत्य
रुद्रजामले उत्तरखण्डे षष्ठपटले “प्रदक्षिणत्रयं कुर्य्या-
दादौ मध्ये तथान्ततः । पश्चात्तु दक्षिणां कुर्य्यात् रजतैः
स्वर्णमौक्तिकैः” । “कृताञ्जलिं ततो बद्ध्वा भ्रामयित्वा
नमेत्ततः । प्रत्येकभ्रमणे देवि! दण्डवत् प्रणिपातयेत् ।
योनो नमेद्भ्रमित्वा तु अपराधो भवेत्तदा । अबद्ध्वा
ञ्जलिना यस्तु नमस्कारं करोति सः । मोहान्धकार
नरके पच्यते मात्र संशयः । पातान्तरे न प्रणमेन्मूर्ध्ना
न च क्षितिं स्पृशेत् । शपन्ति देवतास्तस्य विफलं तत्
प्रकीर्त्तितम् । प्रणामे देवदेवस्य यावत्यो मृत्तिकाः प्रिये! ।
शरीरे वा महेशानि! तस्य पुण्यफलं शृणु । यावन्तो-
रेणवस्तस्य यावत् कालञ्च तिष्ठति । तावद्वर्षसहस्राणि
ब्रह्मलोके महीयते” । योगिनी० गन्धर्वतन्त्रे “कायिको वाग्-
भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्काराश्च विज्ञेया
उत्तमाधममध्यमाः । कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति
सर्वदा । नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः ।
जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् । क्रिय-
ते यो नमस्कारः प्रोच्यते कायिकस्तु सः । पुटीकृत्य करौ
शीर्षे सर्वधर्मार्थसाधनम् । प्रसार्य्य दक्षिणं हस्तं स्वयं
नम्रशिराः पुनः । दर्शयन् दक्षिणं पार्श्वं भक्तिश्रद्धा
समन्वितः । सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः ।
स तु प्रदक्षिणो ज्ञेयः सर्वदेवैकतुष्टिदः । अष्टोत्तरशतं
यस्तु देव्याः कुर्य्यात् प्रदक्षिणम् । स सर्वकाममासाद्य
धश्चान्मोक्षमवाप्नुयात् । त्रिकोणमथ षट्कोणमर्द्धचन्द्रं
प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम् ।
दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम् । गत्वा
योऽसौ नमस्कारः सोऽर्द्धचन्द्रो मम प्रियः । नमस्का-
रेषु जानीयादासां प्राकृतमद्रिजे! । त्यक्त्वा स्वमासन-
स्थानं पश्चाद्गत्वा नमस्कृतौ । निपत्य दण्डवद्भूमौ दण्ड
इत्युच्यते बुधैः । तथैव दण्डवद्भूमौ निपत्य हृदयेन च ।
चिवुकेन मुखेनाथ नासया हनुकेन च । चक्षुषा
चाथकर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि । तदष्टाङ्गमिति प्रोक्तं
यद्भूमिं स्पृशते क्रमात्” । मेरुतन्त्रे “हस्ताभ्यां
चरणाभ्याञ्च जानुभ्यां वक्षसा तथा । मूर्ध्ना दृष्ट्या तथा
वाचा चित्तेनाष्टाङ्ग ईरितः । हस्तजानुशिरोवाक्य-
धीभिः पञ्चाङ्ग ईरितः” । गन्धर्वतन्त्रे ब्रह्मरन्ध्रेण
संस्पर्शः क्षितेर्यः स्यात् नमस्कृतौ । स उग्र इति विज्ञेयो
विष्णोस्तुष्टिप्रदायकः । या स्वयं गद्यपद्याभ्यां
घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः
स्मृतः । पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः ।
स मध्यमो नमस्कारो भवेदाचारतः सदा । परेषां
गद्यपद्याभ्यां नमस्कारो यदा भवेत् । स वाचिकोऽधमो
ज्ञेयो नमस्कारेषु सर्वतः । इष्टमध्यानिष्टगतैर्मनोभि-
स्त्रिविधं भवेत् । नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ।
पृष्ठ ३९५५
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः” । अन्यत्र
विस्तरः २ ऊर्द्ध्वस्थितस्याधःपतनानुकूलक्रियाभेदे (नोओया)
३ चन्द्रार्ककक्षयोर्याम्योत्तरयोरन्तरे यथोक्तं सि० शि०
प्रमिता० “यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् ।
यद् याम्योत्तरभावे नतिसंज्ञं तदुच्यते” सि० शि०
“अथ याम्योत्तरायां तु मित्तौ पूर्वोक्तमालिखेत् । ये
कक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले । त्रिभोनलग्न
दृग्ज्या या स दृक्क्षेपो द्वयोरपि । तच्चापांशैर्नतौ विन्दू
कृत्वा वित्रिभसंज्ञकौ । तल्लम्बनकलाः प्राग्वज्ज्ञेयास्ता
नतिलिप्तिकाः । कक्षयोरन्तरं यत् स्याद् वित्रिभे सर्वतो-
ऽपि तत् । याम्योत्तरं नतिः सात्रं दृक्क्षेपात् साध्यते
ततः” सि० शि० । “तयोर्वृत्तयोः स्वार्धात् स्वस्वदृक्क्षेप
चापांशैर्नतौ बिन्दू कार्य्यौ । तौ च वित्रिभसंज्ञौ ।
ततः प्राग्वद् । मध्याद् भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलि-
प्तिका ज्ञेयास्ता नतिलिप्तिकाः । नतिर्नाम चन्द्रार्ककक्षयो-
र्याम्योत्तरमन्तरम् तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपि
तावदेव भवति । अतो दृक्क्षेपात् साधिता नतिः” प्रमिता०

नद अर्चायाम् निघण्टुः स्तुतौ निरु० । भ्वा० पर० सक० सेट् ।

नदति अन(ना)दीत् ननाद । णद शब्द इत्यस्य णोपदेश-
त्वात् सति निमित्ते णत्वं नास्येति भेदः । प्रणिनदति

नद सन्तोषे भ्वा० पर० सक० सेट् इदित् । नन्दति अनन्दीत्

ट्टित् । नन्दथुः “यस्यासौ तस्य नन्दथुः” भट्टिः । अणोप-
देशत्वात् न णत्वम् प्रनिन्दति ।

नद पु० नदति शब्दायते पचा० अच् । भिद्ये शोणसिन्धु-

भैरवदामोदरब्रह्मपुत्रादौ जलप्रवाहभेदे २ समुद्रे च । नदश्च
अकृत्रिखाताच्छिन्नजलप्रवाहः पुंस्त्वान्वितः । “अष्टषष्टिस्तु
तीर्थानि नदाश्च तत्र कोटयः” पद्मपु० । नद--स्तुतौ
कर्मणि अच् । ३ ऋषौ पु० “ऋषिर्नदो भवति नदतेः स्तुति-
कर्मणः” निरु० ।

नदथु पु० नद--अव्यक्तशब्दे वा० अथुच् । वृषभकूजिते ।

“निनदमिव नदथुमिवाग्नेर्ज्वलन उप शृणोति” छा० उ०
“नदथुमिव वृषभकूजितमिव” भा० ।

नदनु पु० नद--अनु । १ मेघे उणादिकोषः । २ सिंहे शब्दार्थचि०

भावे अनु । ३ शब्दे “तुविम्रक्षो नदनुमाँ ऋजीषी” ऋ०
६१८ । २ “नदनुमान् शब्दवान्” भा०

नदर त्रि० नदस्यादूरदेशादि अश्वा० र । १ नदसन्निकृष्टदेशादौ

नास्ति दरो भयं यस्य । २ भयशून्ये त्रि० ।

नदराज पु० ६ त० टच् समा० । समुद्रे “प्रथमं प्रबुद्धनदराज-

सुतावदनेन्दुनेव तुहिनद्युतिना” माघः । नदपत्यादयोऽप्यत्र

नदाल त्रि० नद बा० आल । भाग्ययुक्ते । अस्य भगालवाचि-

त्वात् तत्पुरुषे प्रकृतिस्वरः तेन कुम्भीनदालमित्यत्र
मध्योदात्तताऽस्य सि० कौ०

नदी स्त्री नद--अच् पचादिगणे नदट् इति निर्देशात् टित्त्वेन

ङीप् । अष्टसहस्रधनुरन्यूनदेशव्यापिजलायामकृत्रिमायां
जलप्रवाहरूपायां गङ्गाप्रभृतौ । “धनुः सहस्राण्यष्टौ च
नतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ते
परिकीर्त्तिताः” छन्दोगप० उक्तपरिमाणवतीष्वेव
नदीशब्दो रूढः । द्वीपभेदे नदीभेदास्तत्तद्द्वीपशब्दे
दृश्याः । जम्बूद्वीपस्था नदीभेदाश्च विस्तरेण जम्बू-
द्वीपशब्दे ३०४६ पृ० भा० भी० पर्वोक्ता दर्शिताः । कासा-
ञ्चिन्नदीनामुत्पत्तिस्थानादिकं मत्स्यपुराणोक्तं प्रदर्श्यते ।
“प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम् ।
सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति । चन्द्रप्रभो नाम
गिरिः स शुभ्री रत्नसन्निभः । तत्समीपे सरो दिव्य-
मच्छोदं नाम विश्रुतम् । तस्मात् प्रभवते दिव्या नदी
ह्यच्छोदिका शुभा । तस्यास्तीरे वनं दिव्यं महच्चैत्र०
रथं शुभम्” । “कैलासाद्दक्षिणप्राच्यां शिवं सर्वौषधिं
गिरिम् । मनःशिलामयं दिव्यं शवलं पर्वतं प्रति ।
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् । तस्य
पादे महद्दिव्यं लोहितं सुमहत्सरः । तस्मात् प्रभबते
पुण्यो लौहित्यश्च नदो महान् । दिव्यारण्यं विशो-
कञ्च तस्य तीरे महद्वनम्” । “कैलासात् पश्चिमोदीच्यां
ककुद्मानौषधीगिरिः । ककुद्मति च रुद्रस्य उत्पत्तिश्च
ककुद्मिनः । तदञ्जनं त्रैककुदं शैलन्त्रिककुदं प्रति ।
सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः । तस्य पादे
महद्दिव्यं मानसं सिद्धसेवितम् । तस्मात् प्रभवते पुण्या
सरयूर्लोकपावनी । तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम
विश्रुतम्” “कैलासात् पश्चिमायां तु दिव्यः सर्वौषधि-
र्गिरिः । अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः ।
भवस्य दयितः श्रीमान् पर्वतो हेमसन्निभः । शातकौम्भ-
मयैर्दिव्यैः शिलाजालैः समाचितः । शतसंख्यैस्तापनीयैः
शृङ्गैर्दिवमिवोल्लिखन् । शृङ्गवान् सुमहादिव्यो दुर्गः
शैलो महाचितः । तस्मिन् गिरौ निवसति गिरिशो
धूम्रलोचतः । तस्य पादात् प्रभवति शैलोदं नाम
तत्सरः । तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा ।
सा चक्षुःसीतयोर्मध्ये प्रविष्टा पश्चिमोदधिम् । अस्त्यु-
पृष्ठ ३९५६
त्तरेण कैलासाच्छिवः सर्वौषधिर्गिरिः । गौरन्तु पर्वत-
श्रेष्टं हरितालमयं प्रति । हिरण्यशृङ्गः सुमहान्
दिव्यौषधिमयो गिरिः । तस्य पादे महद्दिव्यं सरः
काञ्चनबालुकम् । रम्यं विन्दुसरो नाम यत्र राजा
भगीरथः । गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः”
“दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा । अन्त-
रिक्षं दिवं चैव भावयित्वा भुवङ्गता । भवोत्तमाङ्गे
पतिता संरुद्धा योगमायया । तस्या ये विन्दवः केचित्
रुद्धायाः पतिता भुवि । कृतन्तु तैर्बहुसरस्ततो विन्दु-
सरः स्मृतः” । “त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्य-
थैव तु । स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ।
नलिनी ह्लादिनी चैव पाबनी चैव प्राच्यगा । सीता
चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः । सप्तमी त्वनुगा
तासां दक्षिणेन भगीरथम् । तस्मात् भागीरथी सा
वै प्रविष्टा दक्षिणोदधिम् । सप्त चैताः प्लावयन्ति
वर्षन्तु हिमसाह्वयम् । प्रसूताः सप्त नद्यस्तु शुभा
विन्दुसरोद्भवाः । तान् देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च
सर्वशः । सशैलान् कुकुरान् रौध्रान् वर्बरान् यवनान्
खसान् । पुलिकांश्च कुलत्थांश्च अङ्गलोक्याम्बरांश्च यान् ।
कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम् । अथ
वीरमरूंश्चैव कालिकांश्चैव शूलिकान् । तुषारान् वर्व-
रानङ्गाननुष्णान् पारदान् शकान् । एतान् जनपदां-
श्चक्षुः प्लावयित्वोदधिङ्गता । दरदोर्जगुड़ांश्चैव गान्धा-
रानौरसान् कुहून् । शिवपौरानिन्द्रमरून् वसतीन्
समतेजसा । सैन्धवानुर्वसान् बर्बान् कुपथान् भीमरोमकान् ।
शुनामुखांश्चोर्द्धमरून् सिन्धुदेशान्निषेवते । गन्धर्वान्
किन्नरान् यक्षान् रक्षोविद्याधरोरगान् । कलापग्राम-
कांश्चैव तथा किंपुरुषान्नरान् । किरातांश्च पुलिन्दांश्च
कुरून् वै भारतानपि । पाञ्चालान् कौशिकान्
मत्स्यात् मागधाङ्गांस्तथैव च । ब्रह्मोत्तरांश्च वङ्गांश्च ताम्र-
लिप्तांस्तथैव च । एतान् जनपदानार्यान् गङ्गा
भावयते शुभा । ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणो-
दधिम् । ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ ।
प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः । धीवरानृषि-
कांश्चैव तथा भीलमुखानपि । केकरानेकर्णांश्च किराता-
नपि चैव हि । कालिन्दगतिकांश्चैय कुशिकान् स्वर्ग-
भीमकान् । सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः ।
ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ । कुप-
थान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि । तथा
खरपथान् देशान् वेत्रशङ्कुपथानपि । मध्येनोज्जानकम-
रून् कुथप्रावरणान् ययौ । इन्द्रद्वीपसमीपे तु प्रविष्टा
लबणोदधिम् । ततस्तु पावनी प्रायात् प्राचीमाशाञ्ज-
येन तु । तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान् ।
पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम् । वर्ण-
प्रावरणान् प्राप्य गता साश्वमुखानपि । सिक्त्वा पर्वत-
मेरुं सा गत्वा विद्याधरानपि । शैलिमण्डलकोष्ठन्तु
सा प्रविष्टा महत्सरः । तासां नद्युपनगद्योऽन्याः
शतशोऽथ सहस्रशः । उपगच्छन्ति ता नद्यो यतो वर्षति
वासवः” “हेमकूटस्य पृष्ठे तु सर्पाणां तत् सरः स्मृ-
तम् । सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या ।
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ । सरो विष्णुपदं
नाम निषधे पर्वतोत्तमे । यस्मादग्रे प्रभवति गन्धर्बानु-
कूले च ते । मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो
महान् । जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं
स्मृतम् । पयोदस्तु ह्रदो नीलः स शुभः पुण्डरीकवान् ।
पुण्डरीकात् पयोदाच्च तस्माद्द्वे संप्रसूयतः । सरसस्तु
सरस्त्वेतत् स्मृतमुत्तरमानसम् । मृग्या च मृगकान्ता
च तस्माद्द्वे सम्प्रसूयतः । ह्रदाः कुरुषु विख्याताः
पद्ममीनकुलाकुलाः । नाम्ना ते वै जया नाम द्वादशी
दधिसन्निभा । तेभ्यः शान्ता च माध्वी च द्वे नद्यौ
सम्प्रसूयतः । किंपुरुषाद्यानि यान्यष्टौ तेषु देवी
न वर्षति । उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ।
वलाहकश्च ऋषभो वक्रो मैनाक एव च । विनिविष्टाः
प्रतिदिशं निमग्ना लवणाम्बुधिम्”
भारतबर्षे नदीभेदाः वराहपु० उक्ता यथा “गङ्गा
सिन्धुः सरस्वती शतद्रुः वितस्ता विपाशा चन्द्रभागा
सरयूः यमुना इरावती देविका कुहूः गोमती धूतपापा
बाहुदा दृषद्वती कौशिकी निःक्षीरा गण्डकी चक्षुष्मती
लोहिता च इत्येता हिमवत्पादनिर्गताः ।
वेदस्मृती वेदवती सिन्धुः अपर्णा चन्द्रना सदाचरा रोहि-
पारा चर्मन्वती विदिशा वेदवती वयन्ती च इत्येताः
पारिपात्रोद्भवाः! शोणा ज्योतीरथा नर्मदा सुरसा
मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला
करतोया पिशाचिका चित्रोत्पला विशला वञ्जुला बालुका-
वाहिनी शुक्तिमती विरजा पङ्किनीरिणी च इत्येतां
ऋक्षपर्वतप्रसूताः । मणिजाला शुभा तापी पयोष्णी
पृष्ठ ३९५७
शीघ्रोदा रेवा विपाशा वैतरणी वेदीपाला कुमुद्वती तोया
दुर्गा अन्त्यगिरा च एता विन्ध्यपादोद्भवाः । गोदा-
वरी भीमरथी कृष्णा वेण्वा वञ्जुला तुङ्गभद्रा मुप्र-
योगा व्रह्मकावेरी शतमाला ताम्रपर्णी पुष्यावती उत्प-
लावती च इत्येता मलयभबाः । त्रियामा ऋषिकुल्या
वङ्क्षुरा त्रिविदा लोकमूलिनी वंशवरा महेन्द्रतनया ऋषि
काऽनुमती मन्दगामिनी पलाशिनी च इत्येताः शुक्तिमत्-
प्रभवाः । एताः प्राधान्येन कुलाचलनद्यः । शेषाः
क्षुद्रनद्यः” वराहपुराणे मूलं दृश्यम् ।
“कैलासपादसम्भूतं पुण्यं शीतजलं शुभम् । मन्दोदकं
नाम सरः पयस्तु दधिसन्निभम् । तस्मात् प्रभवते दिव्या
नदी मन्दाकिनी शुभा । दिव्यञ्च चन्दनन्तत्र तस्यास्तीरे
महद्वनम्” कालिकापु० ।
तत्रैव स्थानान्तरे प्रधानसप्तनदीप्रादुर्भावकथा यथा
“एवं विबाह्य विधिवत् सौवर्णे मानसाचले । अरुन्धतीं
वशिष्ठस्तु मोदमाप तया सह । तत्र यत् पतितं
तोयं मानसाचल कन्दरे । विवाहावभृथार्थाय शान्त्यर्थं
बहुधा कृतम् । व्रह्मविष्णुमहादेवपाणिभिः समुदी-
रितम् । तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ।
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् । तत्तोयं
पतितं सिप्रे देवभोग्ये सरोवरे । तेन सिप्रा १ नदी
जाता विष्णुना प्रेरिता क्षितिम् । महाकोशीप्रपाते च
यद्वारि पतितन्तु तैः । कोशिकी २ नाम सा जाता विश्वामि-
त्रावतारिता । उमाक्षेत्रेयत् पतितं तोयं तेन महानदी ।
कावेरी ३ नाम सा जाता तदा कौवेरसंसृतत् । महाकाले
करःश्रेष्ठे पतितं तज्जलं गिरेः । हिमाद्रेः पार्श्वभागे
तु दक्षिणे शम्भुसन्निधौ । गोमद्भिर्नाम तैर्जाता नदी
गोमत्युदीरिता ४ । मैनाको नाम यः पुत्रः शैलराजस्य
च प्रियः । यस्तु तस्मिन् समुतपन्नो मेनकोदरतः पुरा ।
यत्तत्र पतितं तीयं तस्माज्जाता महानदी । देवि-
काख्या ५ महादेवप्रेरिता सागरं प्रति । तत्तोयं
सङ्गतं हंसेरितं बण्डवसन्निधौ । तेनाभूत् सरयू-
र्नाम्ना नदी पुण्यतमा शुभा । यान्यम्भांसि महा
पार्श्वे खाण्डवारण्यसन्निधौ । हिमवत्कन्दरे याम्ये
इरावद्व्यूहमध्यतः । इरावती ७ नाम नदी तैस्तु
जाता सरिद्वरा । एताः सर्वाः स्नानपानात् स्मरणै-
र्जाह्नवी यथा । फलं ददति मर्त्यानां दक्षिणोदधिगाः
लदा । धर्माग्रकाममोक्षाणां वीजभूताः सदा च ताः ।
महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः । एवं नद्यः
सप्त जाताः सदा पुण्यतमोदकाः । अरुन्धत्या वशिष्ठस्य
विवाहे देवसन्निधौ” इति
नद्यादीनां रूपद्वयं यथा “नद्यश्च पर्वताः सर्वे द्विरूपाश्च
खभावतः । तोयं नदीनां रूपन्तु शरीरमपरन्तथा ।
स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः । शुक्तीना-
मथ कम्बूनां तथैवान्तर्गता तनुः । बहिरस्थिस्वरूपन्तु
सर्वदैव प्रवर्तते । एवं जलं स्थावरत्वं नदी पर्वतयोस्तथा ।
अन्तर्वसति कायस्तु सततं नोपलभ्यते । आप्याय्यते स्थाव-
रेण शरीरं पर्वतस्य तु । तथा नदीनां कायस्तु तोये-
नाप्याय्यते सदा । नदीनां कामरूपित्वं पर्वतानां तथैव
च । जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः ।
तोयहानौ नदीदुःखं जायते सततं द्विजाः! । विशीर्णे
स्थावरे दुःखं जायते गिरिकायगम्” कालिकापु० २२ अ०
नदीभेदे जलगुणा राजनिघण्टौ उक्ता यथा
“सर्वा गुर्वी प्राङ्मुखी वाहिनी स्याल्लध्वी पश्चाद्वाहिनी
निश्चयेन । देशे देशे तद्गुणा सा विशेषान्नैषाधत्ते गौरवं
लाघवञ्च । प्रायो मृदुवहा गुर्व्यो लघ्य्वः शीघ्रवहाः
स्मृताः । नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः ।
हिमवतप्रभवा याश्च जलं तास्वमृतीपमम् । विन्ध्यात्
प्राची प्राच्यवाची प्रतोची या चोदीची स्यान्नदी सा
क्रमेण । वातारोधं श्लेष्मपित्तार्त्तिकोपं पित्तोद्रेकं
पथ्यपाकञ्च धत्ते । पारिपात्रभवा याश्च विन्ध्याख्यप्रभ-
वाश्च याः । शिरोहृद्रोगकुष्ठानां ता हेतुः ह्लीपदस्य च” ।
“वनस्पतीनां सरसां नदीनाम्” मट्टिः ।

नदीकदम्ब पु० नद्या इव कदम्बो जलसमूहोऽत्र । १ महा

श्रावणिकायां राजनि० ६ त० । २ नदीसमूहे न० ।

नदीकान्त पु० ६ त० । १ समुद्रे नदी कान्ता यस्य । २ हिज्ज-

लवृक्षे तस्य तत्समीपजातत्वेन तत्प्रियत्वात् तथात्वम् ।
३ सिन्धुवारे च मेदि० ४ जम्बूवृक्षे ५ काकजङ्घावृक्षे च स्त्री
मेदि० ६ लतायां स्त्री हेमच० ।

नदीकूलप्रिय पु० नदीकूलं प्रियमस्य । जलवेतसे जटाध० ।

नदीज पु० नद्याः तत्समीपे जायते जन--ड ७ त० । १ अर्ज्जु-

नवृक्षे रत्नसा० । २ यावनालशरे ३ हिज्जलवृक्षे राजनि० ।
४ स्रोतोऽञ्जने न० हेमच० । ५ नदीजातमात्रे त्रि० ६ भीञ्जे
पु० “नदीज! लङ्केशवनारिकेतुः” भा० वि० ३९ अ० ।
“विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ” माघः ।
७ अग्निमन्यवृक्षे स्त्री राजनि० ८ निष्पावभेदे पु० राजनि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/न&oldid=85312" इत्यस्माद् प्रतिप्राप्तम्