वाचस्पत्यम्/प

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/न वाचस्पत्यम्/प
तारानाथ भट्टाचार्य
वाचस्पत्यम्/फ →
पृष्ठ ४१७७

पः पञ्चमवर्गस्य प्रथभोवर्णः स्पशवर्णेषु एकविंशतितमः ।

तस्योच्चारणस्थानभोष्ठः । तस्योच्चारणे आभ्यन्तरप्रयत्नः
ओष्ठेन सह जिह्वाग्रस्य स्पर्शः । बाह्याः प्रयत्नाः विवा-
रश्वासघोषाः अल्पप्राणश्च । अस्मिन् परे विसर्गस्य स्थाने
उपाध्मानीयः वर्णाभिधाने अस्य वाचकशब्दाउक्ता यथा
“पः सुरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा । गुह्य-
कर्त्ता निधिः शेषः कालरात्रिः सुरारिहा । तपनः
पालनः पाता देवदेवो निरञ्जनः । सावित्री पातिनी
पानं वीरतन्त्रो धनुर्द्धरः । दक्षपार्श्वश्च सेनानीर्मरीचिः
पवनः शनिः । उड्डीशं जयिनी कुम्भोऽनलरेखा च
मीहकः । मूलं द्वितीयमिन्द्राणी लोलाक्षी मनआत्मकः”
तदधीशदेवताध्यानं यथा “द्विचित्रवसनां देवीं द्विभुजां
पङ्कजेक्षणाम् । रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषि-
ताम् । मणिरत्नादिकेयूरहारभूषितविग्रहाम् । चतुर्वर्ग
प्रदां नित्यां नित्यानन्दमयीं पराम् । एवं ध्यात्वा
पकारन्तु तन्मन्त्रं दशधा जपेत्” । अस्य स्वरूपं यथा “अतः
परं प्रवक्ष्यामि पकाराक्षरमव्ययम् । चतुवर्गप्रदं वर्णं
शरच्चन्द्रसमप्रभम् । पञ्चदेवमयं वर्णं स्वयं परमकुण्डली ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं तथा । त्रिगुणाव-
स्थितं वर्णमात्मादितत्त्वसंयुतम् । महामोक्षप्रदं वर्णं
हृदि भावय पार्वति!” इयि कामधेनुतन्त्रे ५ पटले ।
अस्य मातृकन्यासे दक्षपार्श्वे न्यास्यता । काव्यादौ अस्य
प्रथमप्रयोगे सुखं फलम् । “सुखभयमरणक्लेशदुःखं
प्रवर्गः” वृ० टी० । पवर्गस्थानां पञ्चानां वर्णानां क्रमेण
फलपञ्चकोक्तेः ।

पु० पत--पा--वा ड । १ पबने २ पर्णे ३ पाने ४ पातने चरित्रे एकाक्षरकोषः ।

पकार पु० प + स्वरूपे कार । पवणं

पक्कण पु० पचति पच--क्विप् कण--अच् कर्म० । शवरालये अमरः ।

पक्तपौड पु० (पाखौडा) इति प्रसिद्धे वृक्षभेदे राजनि० ।

पक्तृ त्रि० पच--तृन् । १ पाककर्त्तरि २ अग्नौ पु० अग्निपु० २ अ०

पक्ति स्त्री पच--भावे क्तिन् । १ पाके २ गौरवे मेदि० ३

परिणामे च ।

पक्तिशूल न० पक्तौ अन्नपरिणामे शूलम् । अन्नादिपाककाले जायमाने शूले रोगभेदे राजनि० ।

पक्त्र न० पच--त्र । नार्हपत्ये गृहस्थधर्मे उज्ज्वलदत्तः ।

पक्त्रिम त्रि० पच--क्त्रि ततो--मप् । पाकनिर्वृत्ते

पक्थ पु० पच--बा० थल् । १ राजभेदे ऋ० ८२३ । १० भा० भाये

थल् २ पाके च । ततोऽस्त्यर्थे इनि पकिथन् ।
पाकयुक्ते ऋ० ६ । २० । १३ भा० ।

पक्व त्रि० पच--क्त तस्य वः । १ परिणते २ दृढ़े ३ विनाशोन्मुखे

४ कृतपाके च अमरः । भावे क्त ५ पाके न०

पक्वकृत् पु० पक्वं करोति कृ--क्विप् ६ त० । १ निम्बवृक्षे

शब्दच० २ पाककर्त्तरि त्रि० ।

पक्वरस पु० पक्वस्य अन्नगुड़ादेः रसः । मद्ये शब्दरत्ना० ।

पक्ववारि न० पक्वस्यान्नादेर्वारि । काञ्जिके(आमानि)शब्दच० ।

पक्वश पुंस्त्री पुक्कश + पृषो० । णन्त्यजातिभेदे हला० ।

पक्वशस्योपमोन्नति पु० पक्वशस्यस्योपमा यत्र तादृशी उन्न-

तिरस्य । राजकदम्बे नैघण्टुप्र० ।

पक्वातीसार पु० सुश्रुतोक्ते आमातिसारभिन्ने षञ्चप्रकारे

अतिसारभेदे अतिसारशब्दे १०६ पृ० दृश्यम् ।

पक्वाधान न० पक्वस्य पाकस्याधानम् ६ त० । नाभेरधोभा-

गस्थे पाकाशये सुश्रुतः पक्वाशयोऽप्यत्र “पक्वाशयस्त्व-
धीनाभेरुर्द्धमामाशयः स्थितः” वैद्यकम् ।

पक्वान्न न० कर्म० । १ कृतपाके अन्ने “आमं शूद्रस्य पक्वान्नं

पक्वमुच्छिष्टमुच्यते” स्मृतिपरिभाषिते शूद्रस्य
२ आमान्ने च ।

पक्ष परिग्रहे अद० चु० उभ० सक० सेट् । पक्षयति ते अपपक्षत् त ।

पक्ष परिग्रहे चु० उभ० सक० सेट् अयं भ्यादिश्च पर०

पक्षति पक्षयति ते अपपक्षत् त अपक्षीत्

पक्ष पु० पक्ष--अच् । १ शुक्लकृष्णप्रतिपदादिपञ्चदश्यन्तपञ्च-

दशतिथ्यात्मके काले २ खगानां पतत्त्रे (पाका) ३ शरस्य
पुङ्खस्थे पत्त्रे । केशात् परः समूहार्थे पक्षप्रत्ययान्तः ।
४ केशसमूहार्थे यथा केशपक्ष इत्यादि ५ पार्श्वे ६ गृहे
न्यायोक्ते ७ सन्दिग्धसाध्यवति पदार्थे पक्षताशब्दे
दृश्यम् यथा पर्वती वह्निमान् । ८ विरोधे ९ सहाये
१० वले ११ सख्यौ १२ चुल्लीरन्ध्रे १३ राजकुञ्जरे १५ खगे
१६ वलये १७ समूहे १८ पिच्छे १९ देहार्द्धे च अमरमे-
दिन्यौ । २० विहगे २१ शुद्धे शब्दरत्ना० । २२ वर्गे २३ देहे
२४ देहाङ्गभेदे वादिप्रतिवादिभ्यां दर्शितविप्रतिपत्तौ
२५ कोटिभेदे च ।

पक्षक पु० पक्ष इव कायति कै--क । १ पार्श्वद्वारे (खिड़की)

अमरः । ३ पार्श्वमात्रे गेदि० । ३ सहाये शब्दर० ।

पक्षग्रहण न० भावप्राधान्ये ६ त० । साहाय्यग्रहणे ।

पक्षचर पु० पक्षे शुक्लादौ चरति चर--ठ । १ चन्द्रे २ पृथक्

चरे ३ गजे च मेदि० ।
पृष्ठ ४१७८

पक्षज पु० पक्षे शुक्ले जायते जन--ड । १ चन्द्रे त्रिका० २ पक्षे

जातमात्रे त्रि० । पक्षजन्माप्यत्र शब्दरत्ना०

पक्षता स्त्री पक्षस्य भावः । न्यायोक्ते अनुमानेच्छाभाव

समानाधिकरणे १ साध्यवत्तानिश्चयामावे यत्र वह्न्यादिकं
साध्यते तत्र धर्मिणि वह्निमत्त्वनिश्चयाभावे एव पक्षत्वं
तत्र तन्निश्चयसत्त्वे तु अनुमानेच्छासत्त्वएव पक्षता नेतर-
थेति न्याये स्थितम् । “सिषाधयिषया शून्या सिद्धिर्यत्र न
विद्यते । स पक्षस्तत्र वृत्तित्वं ज्ञानादनुमितिर्भवेत्” भाषा०

पक्षति स्त्री पक्षस्य मूलम् ति । पक्षारम्भके १ प्रतिपदि तिथौ

खगानां २ पक्षस्य मूले च (डाना) अमरः ।

पक्षद्वार न० पक्षे षर्श्वे द्वारम् । (खिडकौ) पार्श्वस्थे द्वारे अमरः ।

पक्षधर पु० पक्षं धारयति धृ--अच् । १ चन्द्रे जटाध० पक्षं

पञ्चदशतिथ्यात्मककालम् तत्तिथिमानादिकं धारयति अच्
तत्स्मारके २ विद्वद्भेदे स हि चिन्तमण्यालोकं प्रसन्न-
राघवनाटकं च चकार तस्य जयदेवेति नामान्तरम्
पक्षस्थतिथिमानादिधारणाशक्तिमत्त्वात्तस्य तथाप्रसिद्धिः ।

पक्षपात पु० पक्षे अन्याय्यसाहाय्ये पातः अमिनिवेशः ।

१ अन्याय्यसाहाय्ये “पक्षपातः पतङ्गानामिति” विजयर-
क्षितोक्ते खगानां २ ज्वरभेदे च ।

पक्षपातिता स्त्री पक्षपात + अस्त्यर्थे इनि तस्य भावः तल् ।

१ साहाय्यकरणायाभिनिवेशे २ पक्षाभ्यां पतने च “न परं
पथि पक्षपातिनाऽनवलम्बे किमु मादशेऽपि सा” नैषधम् ।

पक्षपालि स्त्री पक्षस्य द्वारभेदस्य पालिरिव (खिड़की)

द्वारभेदे शब्दरत्ना० ।

पक्षभाग पु० पक्ष इव भागः । हस्तिपार्श्वभागे अमरः ।

पक्षमूल न० ६ त० । (पाकारमूल) पक्षस्य १ मूले २ प्रतिपत्तिथौ

च अभरः ।

पक्षवाहन पुंस्त्री पक्षौ वाहनमिवास्य । खगे शब्दच० । स्त्रियां जातित्वात् ङीष् ।

पक्षस् न० पच--असुन् सुट् च । पक्षशब्दार्थे “पक्षसी तु

स्मृतौ पक्षौ” उत्तररत्नम् । यजु० २९ । ५ उदा० दृश्यम् ।

पक्षसन्धि पु० पक्षयोः सन्धिः । पर्वसन्धिकाले

पक्षसुन्दर पु० पक्षे सुन्दरः । लोध्रे हारा० ।

पक्षहोम पु० पक्षव्यापको होमः । पक्षपर्य्यन्तं कर्त्तव्ये होमभेदे ।

पक्षाधात पु० वातरोगभेदे तल्लक्षणादि सुश्रुतोक्तं यथा

“अयोगमः सतिर्यग्गा धमनीरूर्द्ध्वदेहगाः । यदा प्रकु-
पितोऽत्यर्थं मातरिश्वा प्रपद्यते । तदन्यतरपक्षस्य
सन्धिवन्धान् विमोक्षयन् । हन्ति पक्षं तमाहुर्हि पक्षा-
धायं भिषग्वराः । यस्य कृ । स्न्ं शरीरार्द्धमकर्मण्य-
मचेतनम् । ततः पतत्यसून् वापि जहात्यनिलपीडितः ।
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः । साध्यमन्येन
संसृष्टमसाध्यं क्षयहेतुकम् । वायुरूर्द्धं व्रजेत्स्थानात्
कुपितो हृदयं शिरः । शङ्खौ च पीड़यत्यङ्गान्याक्षिपेन्न-
मयेच्च सः” । पक्षवधोऽप्यत्र ।

पक्षान्त पु० पक्षस्यान्तो यत्र काले । १ अमावास्यायां २ पूर्णि-

नायाञ्च तिथौ “पक्षान्ते निष्फला यात्रा मासान्ते मरणं
ध्रुवम्” ज्यो० त० । ६ त० । ३ पक्षस्यावसाने च ।

पक्षादि पु० ६ त० । पक्ष आदिर्यस्य चतुरर्थ्यां

फक्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू०
उक्तो यथा पक्ष त्वक्ष तुष कुण्ड अण्ड कम्बलिका
वलिक चित्र अस्ति पथिन् (पन्थ च) कुम्भ सीरक सरक
सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन्
मकर लोमक शीर्ष निवात पाकसिंहक अङ्कुश सुवर्णक
हंसक हिंसक कुत्स बिल खिल यमल हस्त कलास-
कर्णक” । पाक्षायण इत्यादि ।

पक्षालिका स्त्री कुमारानुचरमातृकाभेदे भा० श० ४७ अ०

पक्षालु पु० पक्ष + अस्त्यर्थे आलुच् । विहगे शब्दच० ।

पक्षावसर पु० पक्षस्यावसरोऽपसरणं यत्र काले । पौर्ण-

मास्याम् अमावांस्यायाञ्च शब्दर० ।

पक्षिणी स्त्री पक्षतुल्यौ दिवसौ यस्या अस्ति इनि ङीप् ।

आगामिवर्त्तमानाहयुक्तायां रात्रौ अमरः । “द्वावह्नावेक
रात्रिश्च पक्षिणीत्यभिधीयते” शुद्धि० त० । तत्र पूर्वदिन
रात्रौ तन्निमित्ते जाते पूर्वदिवसीयदिनमादायैव पक्षिणी
व्यवहारः” शु० त० स्थितम् । “यापयेत् पक्षिणीं रात्रिं
शिष्यर्त्विग्बान्धवेषु च” मनुः । २ विहगजातिस्त्रियां स्त्री

पक्षिन् पु० पक्ष + अस्त्यर्थे इनि । १ खगे तेषामुत्पत्तिर्यथा

“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महावलौ । सम्पा-
तिञ्च जटायुञ्च प्रासोष्ट पक्षिसत्तनौ । सम्पातिर्जनयन्
गृध्रान् काकाः पुत्रा जटायुषः । भार्य्या गरुत्मतश्चापि
भासी क्रौञ्ची शुनी शुकी । धृतराष्ट्री गरुत्मांस्तु शुन्यां
जज्ञे च षट् सुतान् । त्रिशिखञ्च सुनेत्रञ्च सुमुखं
सुनसन्तथा । सुरूपन्तु सुपर्वाणं तेषां पुत्रा अनन्तकाः ।
चतुर्द्दश सहस्राणि क्रूराणां पन्नगाशिनाम् । सप्तद्वीपे-
ष्विमे सन्ति गारुड़ास्ते महाबलाः । भासीपुत्रास्तथा
भासा उलूकाः काककुक्कुठाः । मयूराः कलविङ्काश्च
कपोती चैव तित्तिरी । क्रौञ्च्यां वाध्रीणसा आसन्
कुरराः सारसारकाः । धृतराष्ट्री कलहंसान् धार्त्त-
पृष्ठ ४१७९
राष्ट्रांश्च भामिनी । चक्रवाकांश्च विहगान् सश्येनानौद-
कान् द्विजान् । अन्यानपि द्विजान् जज्ञे पुत्रपौत्रानन-
न्तकान्” अग्निपु० । गुरुभक्षबहुभक्षस्थूलकायपक्षिणां
पूर्वार्द्धस्य श्रेष्ठत्वं यथा “गुरुभक्षा बहुभुजो ये चोपचि-
तमेदसः । एकदेहेऽपि पूर्वार्द्धं भृगाणां पक्षिणां वरम्”
पक्षिणामङ्गभेदानामुत्तरोत्तरं गुरुत्वं यथा “सर्वेषाञ्च
शिरःस्कन्धप्लीहचर्मयकृद्गुदम् । पादपुच्छान्त्रमस्तिष्क
मुष्कक्रोड़ाः समेहनाः । धातवः शोणिताद्याश्च
गुरवः स्युः परस्परम्” । तन्मांसगुणाः । “मत्स्यकूर्म-
खगाण्डानि स्वादुवाजीकराणि च । कटुपाकानि तानि
स्युर्वातश्लेष्महराणि च” राजवल्लभः । तद्भेदमांस
गुणाः सुश्रुतोक्ता यथा
“लावतित्तिरिकपिञ्जलवर्त्तीरबर्त्तिकावर्त्तकनप्तृकावातीक
चकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रक
कुतिंत्तिरिकुररबाहुकयवलकप्रभृतयस्त्र्याहणा विष्किरा
लघवः शीतमधुरा कषाया दोषशमनाश्च । “संग्राही
दीपनश्चैव कषायमधुरो लघुः । लावः कटुविपाकश्च
सन्निपाते च पूजितः । ईषद्गुरूष्णमधुरो वृष्यो मेधाग्नि-
बर्द्धनः । तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ।
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः । रक्तपित्त-
हरः शीतो लथुश्चापि कपिञ्जलः । कफोत्थेषु च
रोतेषु मन्दवाते च शस्यते । वातपित्तहरा वृष्या मेधा-
ग्निबलवर्द्धनाः । लघवः क्रकरा हृद्यास्तथा चैवोपच-
क्रकाः । कषायः स्वादुलवणस्त्वच्यः केश्यो रुचिप्रदः ।
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् । स्निग्धोष्णो-
ऽनिलहा वृष्यः स्वेदस्वरवलावहः । वृंहणः कुक्कुटो
वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः । वातरोगक्षयवमीविषम-
ज्वरनाशनः” । “कपोतपारावतभृङ्गराजपरभृतकोयष्टिक-
कुलिङ्गगृहकुलिङ्गगोक्षोड़कडिडिमाणकशतपत्रकमातृनि-
न्दकभेदाशिशुकसारिकावल्कुलीगिरिशालह्वालदूषकसुगृ-
हीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतुदाः । कषाय-
मधुरा रूक्षाः फलाहारा मरुत्कराः । पित्तश्लेष्म-
हराः शीता बद्धमूत्राल्पवर्चसः । सर्वदोषकरस्तेषां भेदाशी
मलदूषकः । कषायस्वादुलवणो गुरुः काणकपोतकः ।
रक्तपित्तप्रशमनः कषायविशदोऽपि च । विपाके मधुर-
श्चापि गुरुः पारावतः स्मृतः । कुलिङ्गो मधुरःस्निग्धः
कफशुक्रविवर्द्धनः । रक्तपित्तहरो वेश्मकुलिकस्त्वति-
शुक्रलः” ।

पक्षिराज पु० ६ त० टच्समा० । गरुडे पक्षीन्द्रादयोऽप्यत्र ।

पक्षिल पु० पक्ष--बा० इलच् । वात्स्यायने गौतमसूत्रभाष्य-

कारके मुनिभेदे त्रिका० ।

पक्षिशाला स्त्री ६ त० । (चिडियाखाना) १ पक्षिवासस्थाने २ नीडे च त्रिका० ।

पक्षिसिंह पु० पक्षी सिंह इव उपमितस० । गरुडे त्रिका०

पक्षिस्वामिन् पु० ६ त० । गरुडे हेमच० ।

पक्ष्णु त्रि० पच--स्नु । पाकशीले

पक्ष्मकोप पु० सुश्रुतोक्ते नेत्ररोगभेदे “पक्ष्माशयगता

दोषास्तीक्ष्णोग्राणि खराणि च । निर्वर्त्तयन्ति पक्ष्माणि
तैर्जुष्टञ्चाक्षि दूयते । उत्पाटितैः पुनः शान्तिः पक्ष्मभि-
श्चोपजायते । वातातपानलद्वेषी पक्ष्मकोपः स उच्यते”
पक्ष्मप्रकोपोऽप्यत्र पु० ।

पक्ष्मन् न० पक्ष--मनिन् । १ नेत्रावरके लोम्नि २ पद्मादेः केसरे

अमरः ३ सूत्रादेरल्पभाशे ४ खगादेः पक्षे च अमरमाला ।

पक्ष्मल त्रि० पक्ष्मन् + सिध्मा० मत्वर्थे इलच् । पक्ष्मयुक्ते

पङ्क पु० न० पचि--विस्तारे कर्मणि करणे वा घञ् कुत्वम् ।

अर्द्धर्चा० । १ कर्दमे २ पापे च अमरः ।

पङ्ककर्वट पु० पङ्केषु कर्वटः मनोहरः । जलयुक्तपङ्के त्रिका० ।

पङ्ककीर पुंस्त्री पङ्कप्रियः कीरः । (कादाख्ॐचा) पक्षिभेदे

त्रिका० स्त्रियां जातित्वात् ङीष् ।

पङ्कक्रीड़ पु० पङ्केन क्रीड़ति क्रीड़--अच् ३ त० । शूकरे

त्रिका० ल्यु । पङ्कक्रीड़नोऽप्यत्र ।

पङ्कगड़क पु० पङ्के स्थितः गडकः । (पाँकाल) मत्स्यभेदे त्रिका० ।

पङ्कगति पु० पङ्के गतिरस्य । (पाँकाल) मत्स्यभेदे शब्दमा०

पङ्कग्राहृ पुंस्त्री पङ्के स्थितः ग्राहः । मकरे जलजन्तु-

भेदे हारा० ।

पङ्क(ङ्के)ज न० पङ्के जायते जन--ड ७ त० वा अलुक्समा० ।

१ पद्मे २ सारमपक्षिणि च राजनि० पङ्कजनिकर्तृत्व-
विशिष्टे अस्य शब्दस्य योगरूढता कुमुदादीनां पङ्कजात-
त्वेऽपि न तत्र रूढिः किन्तु लक्षकतेत्याकारे स्थितम् ।

पङ्कजन्मन् न० पङ्के जन्म यस्य । १ पद्मे राजनि० २ सारस-

पक्षिणि च ।

पङ्कजिनी स्त्री पङ्कज + पुष्करा० इनि । १ पद्मयुक्तदेशे पद्माकरे २ पद्मसमूहे च हेमच० ।

पङ्कण पु० पक्कण + पृषो० । शवरालये शब्दमाला ।

पङ्कप्रभा स्त्री पङ्कस्येव प्रभा यस्याः । कर्दमतुल्यप्रभान्वित

नरकभेदभूमौ हेमच० ।

पङ्कमण्डूक पुंस्त्री पङ्के मण्डूक इव । शम्बुके (शामुक)

जलशुक्तिभेदे हारा० ।
पृष्ठ ४१८०

पङ्क(ङ्के)रुह न० रुह--क ७ त० वा अलुक् । १ पद्मे अमरः

२ सारसखगे च ।

पङ्कवास पु० पङ्के वासोऽस्य । कर्कटे (काँकड़ा) जलजन्तु-

भेदे राजनि० स्त्रियां जातित्वात् ङीष् ।

पङ्कशुक्ति स्त्री पङ्के स्थिता शुक्तिः (झिनुक) जलशुक्तिभेदे हारा० ।

पङ्कशूरण पु० पङ्के शूरण इव । शालूके राजनि०

पङ्कार पु० पङ्कमृच्छति ऋ--अण् उप० स० । १ शैवले २ सेतौ

च ३ सोपावे ४ जलकुब्जकपुष्पभेदे मेदि० ।

पङ्किल त्रि० पङ्क + अस्त्यर्थे पिच्छा० इलच् । पङ्कयुक्ते

पङ्केशय त्रि० पङ्के शेते शी--अच् ७ त० अलुक्स० । १ पङ्कस्था-

यिनि २ जलौकाभेदे स्त्री “न च सङ्कीर्णचारिण्यो न
च पङ्केशयाश्च ताः” सुश्रु० ।

पङ्क्ति स्त्री पचि--विस्तारे क्तिन् । १ सजातीयपदार्थानां

स्थितिभेदे (शारि पाँति) इति ख्याते पदार्थे “भौगिति
पुङ्क्तिः” वृ० र० उक्तलक्षणे पञ्चाक्षरपादके २ छन्दोभेदे
३ दशाक्षरपादके छन्दोजातिभेदे “गायत्र्युष्णिगनुष्टुप् च
वृहती पङ्क्तिरेव च” वृ० र० । ४ दशसंख्यायाम्
पङ्क्तिरथः (दशरथः) । ५ पृथिव्यां शब्दमा० । ६ गौरवे
७ पाके च मेदि० । पतिताद्येकपङक्तौ भोजनादौ
दोषः “न संवसेच्च पतित्तैर्न चाण्डालैर्न पुक्कशैः । न
मूर्खेर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः । एकशय्या-
सनपङ्क्तिभाण्डपक्कान्नसिश्रणम् । याजनाध्यापने
योनिस्तथैव सहभोजनम् । सहाध्यायस्तु दशमः सह
याजनमेव च । एकादश समुद्दिष्टा दोषाः साङ्कर्य्य
सङ्गिताः । समीपे चाप्यवस्थानात् पापं संक्रमते
नृणाम् । तस्मात् सर्वप्रयत्नेन साङ्कर्य्यं परिवर्जयेत्” ।
पङ्क्तिसाङ्कर्य्यदोषनिवारणोपाया यथा । एकपङ्क्त्यु-
पविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्य्यादा
न तेषां सङ्करो भवेत् । अग्निना भस्मना चैव षङ्भिः
पदृक्तिर्बिभिद्यते” कूर्मपु० १५ अ० ।

पङ्क्तिकण्टक पु० पङ्क्तौ एकपङ्क्तौ वेशनादौ कण्टक इव

परिहार्य्यत्वात् । पङ्क्तिदूषके

पङ्क्तिग्रीव पु० पङ्क्तिसङ्क्यिका ग्रीवा यस्य । रावणे दशग्रीवे शब्दर० ।

पङ्क्तिदूष(क) पु० पङ्क्तिम एकपङ्क्तिं भोजने दूषयति

दूषि--अण् ण्वुल् वा उप० स० । अपाङ्क्तेये अपकृष्ट-
ब्राह्मणे स च अपाङ्क्तेयशब्दे २४३ पृ० उक्तः । अन्ये-
ऽपि केचित् पाद्मे ३५ अ० उक्ता यथा
“अपाङ्क्तेयास्तु ये राजन्! कीर्त्तयिष्यामि तान् शृणु ।
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृती । ग्राम
प्रेष्यो बार्धुषिको गायनः सर्वविक्रयो । अगारदाही
गरदः कृण्डाशी सोमविक्रयी । सामुद्रिको राजदूत-
स्तैलिकः कूटकारकः! पित्रा विवदमानश्च यस्य
चोपपतिर्गृहे । अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः । अव्रता-
नामुपाध्यायः काण्डपृष्ठस्तथैव च । श्वभिश्च यः
परिक्रामेद्यः शुना दष्ट एव च । परिवित्तिस्तु यश्च स्याद्दु-
श्चर्मा गुरुतल्पगः । कुशीलवो देवलको नक्षत्रैर्यश्च
जीवति । ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ।
रक्षांसिभुञ्जते हव्यं यदेषान्तु प्रदीयते । श्राद्धे भुक्त्रा
महाराज! दुश्चर्मा गुरुतल्पगः । श्राद्धं नाशयते तस्य
पितरोऽपि न भुञ्जते । सोमविक्रयिणे दत्तं विष्ठातुल्यं
भवेन्नृप! भिषजे शोणितसमं नष्टं देवलके तथा ।
अप्रतिष्ठं बार्धुषिके निष्फलं परिकीर्त्तितम् । बहुवा-
णिजके दत्तं नेह नामुत्र तद्भवेत् । भस्यनीव हुतं
हव्यं तथा पौनर्भवे द्विजे । ये तु धर्मव्यपेतेषु
चरित्रापगतेषु च । हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्ररि-
णश्यति । ज्ञानपूर्वन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम् । एतान् विद्धि
महाबाहो! अपाङ्क्तेयान् द्विजाधमान् । शूद्राणामुप-
देशन्तु ये कुर्वन्त्यल्पबुद्धयः । षष्टिं काणः शतं खञ्जः
श्वित्री यावत् प्रपश्यति । पङ्क्त्यां समुपविष्टानां
तावद्दूषयते नृप! । यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते
दक्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदा-
सुरम् । असूयया च यद्दत्तं यच्च श्रद्धादिवर्जितम् ।
सर्वं तदसुरेन्द्राय ब्रह्मा भागभकल्पयत् । श्वानञ्च पङ्क्ति-
दूषञ्च नावेक्षेरन् कथञ्चन । तस्मात् परिवृते दद्यात्तिलां-
श्चान्ने विकीरयेत् । तिलैर्विरहितं श्राद्धं कृतं क्रोध-
वशेन च । यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ।
अपाङ्क्त्यान् यावतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।
तावत् फलाद्भंशयति दातारं तस्य वाऽनिशम्” ।

पङ्क्तिपावन पु० पङ्क्तिं श्राद्धे भोजनार्थमुपविष्टानामा-

वलिं पुनाति पू--णिच्--ल्यु । श्राद्धभोजनार्थमुपविष्टानां
विप्राणां पङ्क्तिपवित्रताकारके विद्याविशिष्टादौ
“अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः ।
तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपा-
वनान् । अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रो-
पृष्ठ ४१८१
त्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः त्रिणाचि-
केतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्राह्म्यदेयात्म-
सन्तानो ज्येष्ठसामग एव च । वेदार्थवित् प्रवक्ता च
ब्रह्मचारी सहस्रदः । शतायुश्चैव विज्ञेया ब्राह्मणाः
पङ्क्तिपावनाः” मनुः “इमे हि मनुजश्रेष्ठ! विज्ञेयाः
पङ्क्तिपावनाः । विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव
हि । मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपुरुषः ।
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा । वेदविद्या-
व्रतस्नातो विप्रः पङ्क्तिं पुनात्युत । अथर्वशिरसोऽध्येता
ब्रह्मचारी यतव्रतः । सत्यवादी धर्मशीलः स्वकर्म
निरतश्च यः । ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समस्तेषु भवन्त्यवभृथप्लुताः । अक्रोधना ह्यच-
पलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्वभूतहिता ये च
श्राद्धेष्वेतान्निमन्त्रयेत् । एतेषु दत्तमक्षय्यमेते वै पङ्क्ति
पावनाः । यतयो मोक्षधर्मज्ञा ये वा सुचरितव्रताः ।
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् । ये च
भाष्यविदः केचिद्ये च व्याकरणे रताः । अधीयते
पुराणं ये धर्मशास्त्राणि चाप्युत । अधीत्य च
यथान्यायं विधिवत्तस्य कारिणः । उपसन्नो गुरुकुले सत्यवादी
सहस्रदः । अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च । ततो
हि पावनात् पाङ्क्त्या उच्यन्ते षङ्क्तिपावनाः ।
अनृत्विगनुपाध्यायः स चेदग्र्यासनं व्रजेत् । ऋत्विग्भिरन-
नुज्ञातः पङ्क्त्या हरति दुष्कृतम् । अथ चेद्वेदवित्
सर्वैः पङ्क्तिदोषैर्विवर्जितः । न च स्यात् पतितो राजन्
पङक्तिपावन उच्यते” पाद्मे सर्ग खण्डे ३५ अ० ।

पङ्क्तिरथ पु० पङ्क्तिसु दशसु दिक्षु गतो रथो यस्य ।

दशरथे शब्दरत्ना० ।

पङ्क्तिवीज पु० पङ्क्तिभूतानि वीजानि यस्य । वर्वुरवृक्षे राजनि० ।

पङ्गु त्रि० खजि--कु--पनादेशः नुक् च । १ गतिहीने स्त्रियां

ऊङ् । २ मन्दगतौ शनिग्रहे शब्दर० तत्कक्षाया अत्यु-
च्चतया वहुकालेन राशिभागादिकस्य तेन भोगात् तस्य
भन्दगतित्वम् । अश्वहरणकर्मविपाकेण पङ्गुता जायते
इत्युक्तं मनुः ।

पङ्गुत्वहारिणी स्त्री पङ्गुत्वं हरति सेवनात् हृ--णिनि ङीप् । शिमुड़ीक्षुपे राजनि० ।

पङ्गुल पु० सितकाधाभहयभेदे हेम० ।

पच पाके भ्वा० उभ० सक० अनिट् । पचति ते । अपाक्षीत् अपक्त

पपाच पेचे । पक्ता । पक्वम् पचेलिम् पक्तिः पाकः ।
ड्वित् पक्त्रिमः । अनेन विक्लेदनाया उत्पत्त्यनुकूलव्यापारस्य
चेति व्यापारद्वयस्य वचनात् द्विकर्मकत्वम् तण्डुलानोदनं
पचतीत्यस्य तण्डुलान् विक्लेदयन् ओदनं निष्पादयती-
त्यर्थः । दुहा० गौणे कर्मणि लकारादयः । तण्डुला
ओदनं पच्यन्ते दुहादिशब्दे कर्मन्शब्दे च अधिकं दृश्यम् ।
  • परि + परितः पाके परिणामे ।
  • वि + विशेषेण पाके अन्यथाभूतस्य अन्यरूपेण परिणामे ।

पच व्यक्तीकारे भ्वा० आत्म० अनिट् । पचते अपक्त पेचे ।

पच विस्तारे चु० उ० सक० सेट् इदित् । पञ्चयति ते

अपपञ्चत् त ।

पचत पु० पच--अतच् । १ अग्नौ २ सूर्य्ये ३ इन्द्रे च उणादि० ।

पचतभृज्जता स्त्री पचत भृज्जत इत्युच्यते यस्यां क्रियायाम्

मयू० स० । पाकभर्जनार्थं निदेशक्रियायाम् ।

पचत्पुट पु० पचत् पुटमस्य । सूर्यमणिवृक्षे शब्दच० ।

पचत्य त्रि० पचते पाके साधुः यत् । पाके साधौ ऋ० ३५२ ।

२२ भा० ।

पचति पु० पच--धातुस्वरूपे श्तिप् । पचधातुस्वरूपे “कर्मस्थाः पचतेर्भावः” व्याक० का० ।

पचतिकल्पम् न० ईषदूनं पचति तिङन्तात् कल्पप् । ईषदून

पाककर्त्तरि रूपप् । पचतिरूपमप्यत्र ।

पचतितरा(मा)म् अव्य० अतिशयेन पचति तर(म)प्

आमु । अतिशयेन पाककर्त्तरि ।

पचन पु० पच--कर्त्तरि ल्यु । १ अग्नौ शब्दच० २ पाककर्त्तरि

त्रि० भावे ल्युट् । ३ पाके न० । करणे ल्युट् । ४
पाकसाधने त्रि० स्त्रियां ङीप् । “मांस्पचन्या उखायाः” इति
महाभाष्यम् । सा च ५ वनवीजपूरके राजनि० ।

पचपच पु० पचप्रकारः पच--प्रकारे द्वित्वम् पचस्य

पाककर्त्तुर्यमादेरपि पचो वा । महादेवे । भा० शा० २८६ अ० ।
“यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनो मृत्युर्यस्योप-
सेचनम्” श्रुतेः “अत्ता चराचरग्रहणात्” शा० सू० न्यायाच्च
तस्य तथात्वम् ।

पचप्रकुटा स्त्री पच प्रकुट (प्रकर्षेण छिन्धि) इत्युच्यते यस्यां

क्रियायाम् मयू० स० । पाकछेदनार्थनियोगक्रियायाम् ।

पचम्पचा स्त्री पचं पाचकं पचति पच--बा० खस् मुम् ।

दारुहरिद्रायाम् अमरः ।

पचलवणा स्त्री पच लवणमित्युच्यते यस्यां क्रियायाम् मयू०

स० । लवणपाकार्थनिदेशक्रियायाम् ।

पचा स्त्री पच--भावे अ । १ पाके अमरः । अच् । २

पाककत्त्र्यां स्त्रियां स्त्री ।
पृष्ठ ४१८२

पचादि पु० “नन्दिग्रहिपचादिम्यो ल्युणिन्यचः” पा० कर्त्तरि

अच्प्रत्ययनिमित्ते धातुगणे स च गणः पा० ग० उक्तो
यथा “पच वच वप वद चन पत नदट् भषट् प्लवट्
चरट् गरट् चोरट् गाहट् सूरट् देवट् दोषट् रज
मद क्षप सेव मेष कोष मेध नर्त्त व्रण दर्श दन्भ दर्प
जार भर श्वप्रच” । आकृतिगणः ।

पचि पु० पच--इन् । १ अग्नौ उज्ज्वलदत्तः धातुनिर्देशे इक् ।

२ पचधातौ “द्व्यर्थः पचिरिति” महाभाष्यम् ।

पचेलिम त्रि० स्वयमेव पच्यते पच--कर्मकर्त्तरि केलिम ।

१ स्वयं पक्वे नैष० १ । ९४ श्लो० । कर्त्तरि केलिम । २ अग्नौ
३ सूर्र्य्ये च पु० उणादिकोथः ।

पचेलुक त्रि० पच--बा० एलुक । सूदे पाककर्त्तरि त्रिका० ।

पच्छस् अव्य० पादं पादं शस् पद्भावः । पादं पादमिति वीप्-

सार्थक्रियाकर्मणि छा० उ ०५ । २ । २७ । न्युङ्खशब्दे च उदा० ।

पच्य त्रि० पच--कर्मणि यत् । पाकार्हे अकृष्टपच्यः कृष्टपच्यः

इत्यादि ।

पज आवरणे भ्वा० पर० सक० सेट् इदित् । पञ्जति अपञ्जीत् पपञ्ज ।

पज्ज पुंस्त्री पद्भ्यां जायते जन--ड । शूद्रे हेमच० तस्य

“पद्भ्यां शूद्रो अजायत” यजु० ३१ । १६ ब्रह्मणः प्रादात्
जातत्वोक्तेस्तथात्वम् स्त्रियां जातित्वात् ङीष् ।

पज्झटिका स्त्री “प्रतिपद यमकितषोडशमात्रा नवमगुरुत्व

विभूषितगात्रा । पज्झटिकाया एष बिवेकः क्वापि न
मध्यगुरुर्गणएकः” वृ० र० उक्ते मात्रावृत्तभेदे ।

पज्र पु० पजि--वा० रक् पृषो० नलोपः । १ अङ्गिरसि मुनौ “पज्रा

वाअङ्गिरसः” लाट्यायनः । २ पापेन जीर्णे ३ हविर्लक्ष-
णान्नयुक्तेच त्रि० । ऋ० १ । ४९० । ५ भा० । ४ प्रार्जिते प्रकर्षेण
सम्पादिते च त्रि० ऋ० ६ । ५९ । ४ । भा० “पज्रहोषः प्रार्जि-
तघोषरूपःस्तोमः” इति स्थितम् । पज्रस्यायम् शैषिकः
छन् । पज्रीय आङ्गिरसवंश्ये पु० स्त्री ।

पञ्चक त्रि० पञ्चभिः क्रीतः कन् । १ प्रञ्चभिः क्रीते । पञ्चैव

स्वार्थेक । २ पञ्चसंख्यान्विते १ शकुनि पञ्चकाधिकृते शास्त्रे सि०
कौ० । पञ्च अंशो भागो वेतनं मूल्यं वाऽस्य(सोऽंशवस्न भृतयः)
पा० कन् । ३ पञ्चांशयुक्ते ४ पञ्चभृतियुक्ते ५ पञ्चमूल्यान्विते च
त्रि० । पञ्चास्मिन् वृद्ध्यादिरूपेण दीयन्ते “तदस्मिन् वृद्ध्या-
यलाभशुल्कोपदा दीयते” पा० कन् । वृद्ध्यादित्वेन दीय
मानपञ्चसंख्यायुक्ते ६ शतादौ । वृद्धिर्दीयत इत्यादिक्रमेण
प्रत्येकं सम्बन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः
लाभः शुल्कसुपदा वा दीयते । पञ्चकः शतिकः शत्थः
साहस्रः । उत्तमर्णेन मूलातिरिक्तम् ग्राह्यं वृद्धिः ।
ग्रामादिषु स्वामिग्राह्यो भागः आयः विक्रेता मूल्या-
दधिकग्राह्योः लाभः । रक्षानिर्वेशो राजभागः शुल्कः”
सि० कौ० “वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” याज्ञ०
“चतुर्थ्यर्थ उपसंख्यानम्” वार्त्ति० पञ्च वृद्ध्यादिना दीयन्ते
ऽस्मै । ७ वृद्ध्यादिना दीयमानपञ्चसंख्यान्वितद्रव्यसम्प्र-
दाने त्रि० । पञ्चमेन रूपेण ग्रहणम् “तावतिथं
ग्रहणमिति लुग्वा” पा० कन् । पूरणार्थस्य वा लुक् ।
पञ्चमेन रूपेण कस्यचित् ८ ग्रहणे । “तावतिथेन
गृह्णातीति कन् वक्तव्यः नित्यञ्च लुक्” वार्त्ति०
उक्तः कन् पूरणार्थस्य वा लुक् । पञ्चमेन रूपेण ९ ग्रा-
हके त्रि० । पञ्चानामवयवम् कन् अर्द्धचा० पु० न० ।
१० पञ्चसंख्यायाम् “एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकं
तथा” हरिका० । ११ धनिष्ठान्त्यार्द्धादिपञ्चतारके ज्योतिषम् ।
१२ रोगाग्निराजचौरमृत्युसंज्ञके वाणपञ्चके च “भौमा-
करिक्तामाद्यूते चरोनेऽङ्गे विपञ्चके” मुहू० व्याख्याने
पी० धारायां पक्षान्तरे विपञ्चक इत्यस्य बाणपञ्चकार्थक-
त्वस्योक्तेः बाणाश्च उपयमशब्दे १२६९ पृ० दर्शिताः । पञ्च-
भागेनानीतत्वा तेषां तथात्वम् । पञ्चके निषिद्धानि यथा
वसिष्ठः “वस्वपरार्द्धात्पञ्चकधिष्णये कार्यं गेहस्य गोपनं
नैव । दक्षिणादिङ्मुखगमनं दाहं प्रेतस्य काष्ठसंग्रहण-
मिर्तिनारदः “वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं तृणकाष्ठयोः ।
याम्यदिग्गमनं शय्या न कार्थं गृहगोपनम्” इति
श्रीपतिरपि “वासवोत्तरदलादिपञ्चके याम्यदिग्गमन-
गेहगोपनम् । प्रेतदाहतृणकाष्ठसंग्रहं शय्यकाविततनं च
वर्जयेत्” त्रिविक्रमोऽपि “शय्यावितानं प्रेतादिक्रियां
काष्ठतृणार्जनम् । याम्यदिग्गमनं कुर्य्यान्न चन्द्रे कुम्भमीनगे”
इति ननु प्रेतदाहे किं नक्षत्रान्तरे मृतस्य धनिष्ठोत्तरा-
र्द्धादिके दाहो न कार्य इति उत पञ्चकएव मृतस्य
पञ्चके दाहो न कार्य इति आहोस्विद्यस्मिन् कस्मिंश्चि-
न्नक्षत्रे पञ्चकातिरिक्ते पञ्चके बा मृतस्य पञ्चके दाहो
न कार्य इति त्रयः पक्षाः सम्भवन्ति तत्र यदि विज्ञा-
यते नक्षत्रान्तरे मृतस्य पञ्चके दाहो न कार्य इति
तत्र पञ्चके मरणस्य दोषवत्ता न प्राप्नोति तच्चायुक्तं यस्पा-
दुक्तं ब्रह्मपुराणे “कुम्भमीनस्थिते चन्द्रे मरणं यस्य
जायते । न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्”
इति । अथ विज्ञायते पञ्चकएव मृतस्य पञ्चके दाहो न
कार्य इति तदपि न, श्रवणे, धनिष्ठापूर्वार्द्धे च मृतस्य
पृष्ठ ४१८३
षञ्चके दाहनिषेधो न प्राप्नोति किन्तुदाहः कर्तव्य इत्येव
प्राप्नोति । अस्त्वेवमिति चेन्न प्राप्तस्य दाहं त्यजेदिति
दाहस्यैव क्रियाकारकसम्बन्धेन प्राधान्यतो निषेधात्,
किञ्च “त्रिगुणफलदोवृद्धौ नष्टे हृते च मृतेऽपि वेति”
त्रिपुष्करयोगफलवत् पञ्चकमरणनिषेध एव वक्तव्ये
दाहनिषेधस्य पृथगुपादानात् कर्त्तव्यतापत्तिः । तस्माद्यस्मिन्
कस्मिंश्चिन्नक्षत्रे मृतस्य पञ्चके दाहो न कार्य इति तृतीयः
पक्षः साधीयान् । प्राधान्याद्दाहस्यैव निषेध इत्युक्तं प्राक्
अतः पञ्चकात् प्राक् मरणदोषो नास्ति तथा तत्रैव
दाहोऽपि न दोषाय । यदि क्रियाकरणवशात् कालाति-
क्रमे सति पञ्चकप्रवृत्तिस्तदा शान्तिं विधाय दाहः कार्यः
पञ्चके तु द्वयमपि निषिद्धं मरणं दाहश्चेति । उक्तं च
ब्रह्मपुराणे “कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते ।
न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत् । न तस्य
दाहः कर्त्तष्यो विनाशः स्वेषु जन्तुषु । पञ्चकानन्तरं
कार्यं कार्यं दाहादिकं खलु । अथ वा तद्दिने कार्य्यो
दाहस्तु विधिपूर्वकम्” । रेवतीप्रान्ते मृतस्य रेवतीमप-
हाय दाहः कार्य इत्यर्थः धनिष्ठोत्तरार्द्धादिमृतस्य
दाहस्तु सद्यएव पञ्चकस्य बहुकालव्यापित्वात्पर्युषितदाह-
निषेधाच्च । स च दाहः शान्तिविधिपूर्वकः कार्यः । स च
विधिरुक्तो ब्रह्मपुराणे “दाहदेशे शवं नीत्वा स्नापयेच्च
प्रयत्नतः । दर्भाणां प्रतिमाः कार्याः पञ्चोर्णासूत्रवे-
ष्टिताः । यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत् ।
प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः । प्रेतहर्त्ता
पञ्चमश्च नामान्येतानि च क्रमात्” इति । विशेषस्त्वन्त्ये-
ष्टिपद्धत्यादौ द्रष्टव्यः । नन्वत्र “त्रिगुणफलदो वृद्धौ नष्टे
हृते च मृतेऽपि वेति” मरणनिपेधएव वक्तव्यो किं
पुनर्दाहनिषेधेन । उच्यते दोषाधिक्यसूचनार्थं हि
पुनर्दाहनिषेधः अतएव पञ्चके मृतस्य पुत्तलकविधानं कृत्वा
दाहः कार्यः ततः सूतकान्ते पुत्रादिभिः शान्तिकं च
विधेयम् । उक्तं च गरुडपुराणे “ततो दाहः प्रकर्त्तव्य-
स्तैश्च पुत्तलकैः सह । सूतकान्ते तदा पुत्रैः कार्यं
शान्तिकपौष्टिकम् । पञ्चके तु मृतो योऽसौ न गतिं लभते
नरः । तिलांश्चैव हिरण्यं च तमुदिश्य घृतं ददेत्”
इति । अतो नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्तौ
पुतनकविधिरेव भवति ततः सूतकान्ते शान्तिकं च । एवं
पञ्चकान्ते मृतस्याश्विन्यां दाहप्रापौ पुत्तलकविधिर्न किनु
स्तूतकान्ते शान्विकमेव विधेयम्” पी० धा० ।

पञ्चकपाल त्रि० पञ्चसु कपालेषु संस्कृतः अण् तस्य लुक् ।

पञ्चकपालेषु संस्कृते पुरोडाशादौ समा० द्वि० । समाहृत
पञ्चकपालेषु स्त्री ङीप् ।

पञ्चकर्ण त्रि० पञ्च कर्णा अस्य लक्षणत्वेऽपि बिष्टादित्वात्

न पूर्वपददीर्घः । पञ्चकर्णलक्षणयुक्ते ।

पञ्चकर्मन् न० पञ्चानां कर्मर्णा समाहारः “अनो नलीप्रश्च

वा द्विगुः स्त्रियाम्” वार्त्ति० पक्षे नलोपाभावः । पञ्चानां
कर्मणां उत्क्षेपादीनां १ समाहारे । तानि च कर्माणि
कर्मन्शब्दे १७३६ पृ० उक्तानि । २ वैद्यकोक्ते कर्मपञ्चक०
भेदे “वमनं रेचनं नस्यं निरूहश्चानुवासनम् । पञ्चक-
र्मेदमन्यच्च ज्ञेयमुत्क्षेपणादिकम्” । पक्षे नलोपे ङीपि
पञ्चकर्मीत्यप्यत्र स्त्री ।

पञ्चकषाय पु० न० पञ्चविधः कषायः “जम्बुशाल्मलिवाट्यालं वदरं

बकुलं तथा । एतेपां वलकलरसः कषायः परिकीर्त्तितः
इत्युक्ते पञ्चानां १ कषाये वल्कलरसे । कर्मधा० संज्ञात्वात्
न द्विगुः । २ पञ्चसु कषायेषु ब० व० । “जम्बु शाल्मलि
वाट्यालं बदरं वकुलं तथा । कपायाः पञ्च विज्ञेयाः
देव्याः प्रीतिकराः शुभाः” दुर्गोत्सवत० ।

पञ्चकाम पु० व० ब० । कर्म० संज्ञात्वात् न द्विगुः । “पञ्चकामा

इमे देवि! नामानि शृणु पार्वति । काममन्मथकन्दर्प-
मकरध्वजसंज्ञकाः । मीनकेतुर्महेशानि! पञ्चमः
परिकीर्त्तितः” तन्त्रसा० उक्तेषु पञ्चसु कामभेदेषु ।

पञ्चकृत्य पु० पञ्चं विस्तृतं कृत्यं यत्र । पक्तगौडवृक्षे राजनि०

पञ्चकृष्ण पु० पञ्चसु कृष्णः । कीटभेदे कीटशब्दे दृश्यम् ।

पञ्चकोण न० पञ्च कोणा यस्य । पञ्चकोणात्मके १ क्षेत्रभेदे

२ तन्त्रोक्ते यन्त्रभेदे ३ लग्नावधिनवमपञ्चमात्मके स्थाने च

पञ्चकोल न० “पञ्चकोलं कणामूलं कृष्णाचव्याग्निनागरैः”

शब्दच० उक्ते पाचनविशेषे अस्य गुणाः “पञ्चकोलं
रसे पाके कटुकं रुचिकृन्मतम् । तीक्ष्णोष्णं पाचनं श्रेष्ठं
दीपनं कफवातनुत् । गुल्मप्लीहोदरानाहशूलघ्नं पित्त-
कोपनम्” भावप्र० उक्ताः । “पिप्पलीपिप्पलीमूलं चव्यचित्रक
नागरम् । दीपनीयः शृतो वर्गः कफातिलगदापहः”
चक्रदत्तोक्ते २ पाचनभेदे च ।

पञ्चकोष पु० संज्ञात्वात् कर्म० । वेदान्तिकसिद्धे अन्नमयादिषु

पञ्चसु कोषवदाच्छादकेषु देहादिषु । तेषां स्वरूपादिकञ्च
विवेकचूडामणौ दर्शितं यथा “कोषैरन्नमयाद्यैः पञ्चभिरात्मा
न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु
वापीस्थम्” इत्युपक्तमे “देहोऽयमन्नभवनोऽन्नमयस्तु कोप-
पृष्ठ ४१८४
श्चान्नेन जीवति विनश्यति तद्विहीनः । त्वक्चर्मर्मांस-
रुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्य-
शुद्धः” । “कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्
प्राणमयस्तु कोषः” । “ज्ञानेन्द्रियाणि च मनश्च मनोमयः
स्यात् कोषो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेद-
कलनाकलितो बलीयांस्तत्पूर्वकोषमभिपूर्य विजृम्भते यः ।
पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्य-
धारया । जाज्वल्यमानो बहुवासनेन्धनैर्मनोमयाग्निर्दहति
प्रपञ्चम्” । “बुद्धिर्बुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञानमयकोषः स्यात् पुंसः संसारकारणम् । अनुव्रज-
च्चित्प्रतिवि म्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञान-
क्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्”
आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ०
उक्तः ।

पञ्चक्रोशी स्त्री पञ्चानां क्रोशानां समाहारः । काश्याः

दीर्घविस्ताराभ्यां पञ्चसु क्रोशेषु “वाराणस्यां कृतं पापं
प्रञ्चक्रोश्यां विनश्यति । पञ्चक्रोश्यां कृतं पापमन्तर्गेहे
विनश्यति” काशीख० । तदभेदात् पञ्चक्लोशीदीर्घायामायां
२ काश्याञ्च ।

पञ्चक्षारगण न० ६ त० । पञ्चानां क्षाराणां गणः उत्तर०

द्विगुः । लवणपञ्चके “क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षारा-
भिधो गणः । काचसैन्धवसामुद्रविट सौर्वचलैः समैः ।
स्यात् पञ्चलबणं तच्च सर्ज्जोपेतं षडाह्वयम्” राजनि० ।

पञ्चगङ्ग अव्य० पञ्चानां गङ्गानां नदीनां समाहारः “नदी-

भिश्च” पा० अव्ययी० “समाहारे चायमिष्यते” सि० कौ० ।
समाहृतासु पञ्चसु नदीषु भा० द्री० ५४ अ० तत्र पञ्चगङ्गेषु
इत्यत्र सप्तम्या वा न लुक् । २ काशीस्थे पञ्चनदतीर्थे
पञ्चनदशब्दे दृश्यम् ।

पञ्चगण पु० पञ्चानां गणो यत्र । “विदारी गन्धा वृहती

पृश्निपर्ण्णीर्निदिग्धिकाः राजनि० उक्ते विदार्य्यादीनां
पञ्चानां गणे ।

पञ्चगव न० पञ्चानां गवां समाहारः टच्समा० क्लीवता च ।

पञ्चानां गवां समाहारे । पञ्च गावोधनमस्य उत्तरपदद्विगौ
टच् समा० । पञ्चसंख्यान्वितगवधनस्वामिनि त्रि० ।

पञ्चगव्य न० गोर्विकारः यत् पञ्चगुणितं गव्यम् । गोमूत्रादि

पञ्चके तस्य प्रमाणादि हेमा० ब्र० ख० उक्तं यथा
स्कन्दपुराणे विष्णुना “तथा वह्नीन्द्रवाय्वर्कदैवतानि
यथाक्रमम् । विद्ध्येतानि कुशोदञ्च पितृराजाधिदैवतम् ।
प्रोक्तामावे त्वथैतानि कपिलायाः प्रकल्पयेत् । गोमूत्र-
भागस्तस्यार्द्धं शकृत् क्षीरस्य च त्रयम् । द्वयं दध्नो
घृतस्यैकमेकश्च कुशवारिजः । गायत्र्या चैव गोमूत्रं
गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधि
क्राव्णेति वै दधि । तेजोऽमि शुक्रमित्याज्यं देवस्य
त्वकुशोदकम् । एभिस्तु पञ्चभिर्युक्तं पञ्चगव्यं प्रचक्षते ।
एतदेव महापुण्यं ब्रह्मकूर्चमिति स्मृतम्” । व्यासेन
“गोमूत्रं ताम्रवर्णायास्त्वेकमाषकसङ्ख्यया । पुण्यं
वरुणदैवत्यङ्गायत्र्यर्चाभिमन्त्रितम् । गोमयं श्वेतवर्णा-
याश्चतुर्माषकमात्रया । गृह्णीयादग्निदैवत्यङ्गन्धद्वारेति
वै शनैः । क्षीरं काञ्चनवर्णायाः सोमदैवत्यमेव च ।
आप्यायस्वेति मन्त्रेण माषद्वादशसम्प्रितम् । गृह्णीत
वायुदैवत्यं कृष्णवर्णोद्भवं दधि । दशमाषमात्रकन्तु
दधिक्रावण इति स्मरन् । घृतं तु नीलवर्णार्याः पञ्चमाषक-
संख्यया । गृह्णीत सूर्यदैवत्यं तेजोऽसीति जपन्
क्रमात् । शतत्रयं माषमानं चत्वारिंशच्च पञ्च च । कुशो-
दकस्य गृह्णीयाद्देवस्यत्वेति कीर्त्तयन् । ताम्रपात्रे
पलाशे वा पात्रे मिश्रीकृतञ्च तत् । आपोहि ष्ठेति
चाचोड्य प्रणवेन प्रिबेच्च तत् । उदङ्मुखस्त्रिराचम्प ततो
गच्छेत् स्वकं गृहम् । तत्रापि होमे प्राग्वच्च कृत्वा
दद्याच्च दक्षिणाम् । ब्राह्मणस्य यथा शक्त्या शीभनं
तु मनोहरम् । गवां वर्णास्तु शुक्लाद्याः सन्ति देशेषु
यत्र न! तत्र वर्णाविभागेन पञ्च गव्यानि चाहरेत् ।
वर्णालाभान्नदोषोऽस्ति मात्राहीनं विवर्जयेत् । त्याज्यानि
दूषितानां च दधिमूत्रपयांसि च । चेलकेशास्थिभक्ष्या-
णामभक्ष्यैः सम्पृचां तथा । रोगार्त्तानां च यूकार्त्ति
मृताण्डानाममङ्गलम् । (मृताण्डा मृतगर्भाः) निष्फ-
लत्वेन वन्ध्यानां कृत्तानां कृमिभिस्तथा । अमानप्रति-
दत्तानि सन्धिनीप्रभवानि च । शुद्धभाण्डे मनोज्ञे च
मूमावपतितानि च । ग्रहीतव्यानि विबिधं खेदं तासां
न कारयेत्” । ब्रह्मकूर्चव्रतमिदं सर्वपाप प्रणाशनम् ।
सर्वकामप्रदं पुंसां रूपारोग्ययशःप्रदम् । महतामपि
पापानां नाशनं श्रीविवर्द्धनम्” ।

पञ्चगव्यघृत सुश्रुतोक्ते पक्वघृतभेदे “त्रिफलां चित्रकं मुस्तं

हरिद्रे द्वे विषां वचाम् । विड़ङ्गं त्र्यूषं चव्यं च
सुरदारु तथैव च । पञ्चगव्यमिदं पानाद्विषमज्वरनाश-
नम् । पञ्चगव्यमृते गर्भात् पाच्यमन्यद्वृषेण च ।
वतयाथ परं पाच्यं गुडुच्या तद्वदेव तु । जीर्णज्वरे च
शोफे च पाण्डुरोगे च पूजितम्” ।
पृष्ठ ४१८५

पञ्चगु त्रि० पञ्चभिर्गोभिः क्रीतः ठक् तस्य लुक् ह्रस्वः । पञ्चभिर्गोभिः क्रीते ।

पञ्चगुण पु० पञ्चगुणितो गुणः कर्म० । १ शब्दस्पर्शरूपरसगन्ध-

रूपेषु गुणेषु । पञ्च गुणा यस्याः । २ पृथिव्यां स्त्री मेदि०
“यो यो यावतिखस्तेषां स स तावद्गणः स स्मृतः” मनुना
सामान्यत उक्तेः पृथिव्या पञ्चमत्वात् पञ्चगुणत्वम् । ३ त० ।
३ पञ्चभिर्गुणिते ४ पञ्चपकारे च संस्का० रघु० ।

पञ्चगुप्त पुंस्त्री करचरणयोश्चतुष्कं शिरश्चेति पञ्च गुप्तान्यस्य ।

१ कच्छपे त्रिका० स्त्रियां ङीप् । २ चार्वाकदर्शने त्रिका० ।

पञ्चगुप्तिरसा स्त्री पञ्चधा गुप्तौ रसोऽस्याः । स्पृक्कायां

राजनि० ।

पञ्चचामर न० “प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्” वृ० र० उक्ते षोडशाक्षरेपादके छन्दोभेदे ।

पञ्चचितिक पु० पञ्च चितयः प्रस्तारा यस्मिन् । १ अग्निभेदे

“पञ्जकृत्वः सादयति पञ्चचितिकोऽग्निः” शत० ब्रा० ७ । १ ।
१ । ७२ “पञ्चकृत्व इति मध्ये उपधेयेष्टकाचतुष्टयस्यैकस्याः
सादनायान्यासां चत्वारीति पञ्चचितयो भवन्ति” भा० ।

पञ्चचीर पु० पञ्च चीराण्यस्य । मञ्जुघोषे त्रिका० ।

पञ्चचूडा स्त्री अप्सरोभेदे भा० व० १६६ श्लोके

पञ्चजन पु० पञ्चभिः भूतैर्जन्यते जन--घञ्, न वृद्धिः । १ मनुष्ये

अमरः । २ मनुष्यसम्बन्धिनि प्राणादौ ३ मनुष्यतुल्ये देवादौ
४ मनुष्यभेदे ब्राह्मणादौ च शा० सू० भाष्यम् तथाहि
“यस्मिन् पञ्च पञ्च जना अ काशश्च प्रतिष्ठितः” तद्धृतवेदमन्त्रे
“प्रञ्च पञ्च शब्दशब्देन पञ्चविंशतितत्त्वान्युच्यन्ते” इति
सांख्यमतनिराकरणेन पञ्चजनशब्दस्य प्राणादिपरत्वं
समर्थितं दिङ्मात्रमत्रोच्यते
“कथं तर्हि पञ्च पञ्चजना इति, उच्यते, “दिक्सङ्ख्ये
संज्ञायामिति” पा० विशेषस्मरणात् मंज्ञायामेव पञ्चशब्दस्य
जनशब्देन समासः, ततश्च रूढ़त्वाभिप्रायेणैव केचित्
पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण, ते
कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते, पञ्चजना
नाम केचित्, ते च पञ्चेत्यर्थः सप्तर्षयः सप्तेति यथा ।
के पुनस्ते पञ्चजना नामेति तदुच्यते । “प्राणादयो
वाक्यशेषात्” शा० सू० “यस्मिन् पञ्च पञ्चजना इत्यत उत्तर-
स्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः
“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्चोत्रस्य श्रोत्रमन्नस्यान्नं
षनसो ये मनो विदुः” इत्यत्र वाक्यशेषगताः सन्निधानात्
पन्चजना विवक्ष्यन्ते । कथं पुनः प्राणादिषु पञ्चजन-
शब्दप्रयोगः तत्त्वेषु वा कथं जनशब्दप्रयोगः समाने
तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात् प्राणादय एव ग्रही-
तव्या भवन्ति जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो
भवन्ति । जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः, “ते वा
एते पञ्च ब्रह्म पुरुषाः” इति, अत्र “प्राणो ह पिता
प्राणो ह माता” इत्यादि च ब्राह्मणम् । समासबलाच्च
समुदायस्य रूढ़त्वमविरुद्धम् । कथं पुनरसति प्रथम-
प्रयोगे रूढ़िः शक्याश्रयितुं शक्या, उद्भिदादिवदित्याह ।
प्रसिद्धार्यसन्निधानेन ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः
समभिव्याहारात् तद्विषयो नियम्यते यथोद्भिदा यजेतु
यूपं चिनत्ति, वेदिं करोतीति । तथाऽयमपि पञ्चजन-
शब्दः समासान्वाख्यानादवगतसंज्ञाभावः सेज्ञ्याकाङ्क्षी
वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्त्तिष्यते । कैश्चित्तु
देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्च जना
व्याख्याताः । अन्यैश्चत्वारो वर्णा निषादपञ्चमाः
परिगृहीताः” । तत्परिग्रहेऽपीह न कश्चिद्विरोधः ।
आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवं-
परतया प्राणादयो वाक्यशेषादिति जगाद” ।
२ दैत्यभेदे च यस्यास्थ्ना कृष्णस्य पाञ्चजन्यः शङ्घोजातः ।
पाञ्चजन्यशब्दे दृश्यम् । ३ सृञ्जयनृपपुत्रे हरिवं० ३२ अ०
अंशुमतः पितरि मगधनृपस्य ४ पुत्रभेदे १५० अ० ।
५ प्रजापतिभेदे भाग० ६ । ४ । ४६ विश्वावसुदुहितरि भरतस्य
६ पत्न्यां स्त्री ङीप् । भाग० ५ । ७ । १

पञ्चजनीन पञ्चसु जनेषु व्यापृतः ख । भण्डे हला० ।

पञ्चजीरकगुड पु० चक्रदत्तोक्ते जीरकादिभिः पक्वे गुड़भेदे

“जीरकं हवुषा धान्यं शताह्वा सुरदारु च । यमानो
त्र्यष्टको हिङ्गुपत्रिका कासमर्दकम् । पिप्पली पिप्पली
मूलमजुमोदाथ वाष्पिका । चित्रकञ्च पलांशानि तथान्यच्च
चतुःपलम् । कशेरुकं नागरञ्च कुष्ठं दीप्यकमेव च ।
गुडस्य च शतं दद्यात् घृतप्रस्थं तथैव च । क्षीरद्विप्रस्थ-
संयुक्तं शनैर्मृद्वग्निना पचेत् । पञ्चजीरक इत्येष
सूतिकानां प्रशस्यते । गर्भार्थिनीनां नारीणां वृंहणीये
समारुते । विंशतिं व्यापदो योनेः कासं श्वासं ज्वरं
क्षयम् । हलीसकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रताम् ।
हन्ति पीनोन्नतकुचाः पद्मपत्रावतेक्षणाः । उपयोगात्
स्त्रियोनिन्यमलक्ष्मीर्मलवर्जिताः” ।

पञ्चज्ञान पु० पञ्चानां पदार्थानां ज्ञानमस्य । १ बुद्धे त्रिका०

२ पाशुपत्रदर्शनाभिज्ञे च मकुलीशशब्दे ४१७५ पृ०
दृश्यम् ।
पृष्ठ ४१८६

पञ्चत् पु० पञ्च परिमाणमस्य वर्गस्य, पञ्चन् + नि० । पञ्चसं-

ख्यायुक्ते वर्गे

पञ्चतक्षन्(क्षी) न० पञ्चानां तक्ष्णां समाहारः अनन्तत्वात्

नलोपे वा ङीप् । पञ्चानां तक्ष्णां समाहारे पक्षे वा
ङीपि स्त्री ।

पञ्चतत्त्व पु० न० पञ्चानां तत्त्वानां समाहारः । पञ्चसु भूतेषु

स्वरोदयः । “मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव
च । पञ्चतत्त्वमिदं प्रोक्तं देवि! निर्वाणहेतवे । मकार
पञ्चकं देवि! देवानामपि दुर्लभम्” “पञ्चतत्त्वविहीनानां
कलौ सिद्धिर्न जायते” तन्त्रसा० । वैष्णवानान्तु “गुरु-
तत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि! । देवतत्त्वं ध्या-
नतत्त्वं पञ्चतत्त्वं प्रकीर्त्तितम्” निर्वाणतन्त्रे ।

पञ्चतन्त्र न० तन्त्रम् । नीतिशास्त्रभेदे ।

पञ्चतन्मात्र न० पञ्चगुणितं तन्मात्रम् । पञ्चगुणिते शब्दस्प-

र्शरूपरसगन्धात्मके १ तन्मात्रे २ सूक्ष्मपञ्चभूतरूपे
आकाशादौ तन्मात्रशब्दे ३२२९ पृ० दृश्यम् ।

पञ्चतप पु० पञ्चभिस्तेजस्विभिः अग्निचतुष्टयसूर्य्यैस्तपति

तप--अच् । पञ्चभिस्तपस्यति तपस्विभेदे “ग्रीष्मे पञ्च
तपास्तथा” भा० अनु० १४२ अ० असुन् । पञ्चतपस् तत्रार्थे
माघः २ । ५१ श्लो० । पञ्चातप शब्दे दृश्यम् ।

पञ्चतय न० पञ्चानामवयवं पञ्च अवयवायस्य वा अवयवे

तयप् । १ पञ्चसंख्यायां २ तदन्विते त्रि० स्त्रीत्वे ङीप् ।
“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” पा० सू० ।

पञ्चता स्त्री पञ्चानां भूतानां भावः तद्भावापत्तिः । आरम्भक

पञ्चभूतानां १ तद्भावावत्तौ उपचारात् २ मृत्यौ च ।

पञ्चतिक्त न० पञ्चगुणितं तिक्तम् । “निम्वामृता वृषपटोल

निदिग्धिकाश्चेति” चक्रदत्तोक्ते पञ्चविधे तिक्तद्रव्यभेदे

पञ्चतीर्थी स्त्री पञ्चानां तीर्थानां समाहारः ङीप् । तीर्थ-

पञ्चके सा च तीर्थभेदे भिन्नभिन्नरूपा तत्र काशीस्था यथा
“ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत् । तारकेशं
ततोऽभ्यर्च्य महाकालेश्वरं ततः । ततः पुनर्दण्डपाणि-
रित्येषा पञ्चतीर्थिका” काशीख० १०० अ० । पुरुषोत्तमस्था
यथा “मार्कण्डयवटे कृष्णे रौहिणेये महोदधौ ।
इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते” गयास्था
यथा उत्तरमानसदक्षिणश्चमानसकनखलधर्मवनफल्गु-
तीर्थात्मिका । तत्र वायुपु० उदिच्यां प्रसिद्धमित्युक्तम्
वह्निपु० “उदिच्यां मूञ्जपृष्ठस्य देवर्षिगणसेवितम् ।
नाम्ला धर्मवनं तीर्थं त्रिषु लोकेषु विश्रुतम्” इत्युक्तं
तेन धर्मवनस्यैव तत्र ग्राह्यता तेनैव पञ्चसंख्यायाः
पूरणात् । नानास्थानस्थिता वराहपु० उक्ता यथा
“पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात् ।
तत् पञ्चतीर्थीस्नानेन समं नास्त्यत्र संशयः ।
एकादश्यां च विश्रान्तौ १ द्वादश्यां शौकरे २ तथा । त्रयो-
दग्यां नैमिषे ३ च प्रयागे ४ च चतुर्दशी । कार्त्तिक्यां पुष्करे ५
चैव कार्त्तिकस्य सितासिते । कालेष्वेषु नरः स्नात्वा
सर्वं पापं व्यपोहति” ।

पञ्चत्व न० पञ्चानां गावः तद्भावापत्तिः । १ पञ्चभूतानामारम्भ-

कसंयोगनाशात् स्वभावप्राप्तौ २ तदुपलक्षिते मरणे अमरः

पञ्चथ त्रि० पञ्चानां पूरणः! “थट् च छन्दसि” पा० वेदे पूरणे

थट् । पञ्चसङ्ख्यापूरणे लोके तु पञ्चम इत्येव

पञ्चदक पु० देशभेदे कोकङ्कणाः पञ्चदका वमना ह्यवरास्तथा”

मार्कपु० ५८ अ० । सोऽभिजनोऽस्य तस्य राजा वा अण् ।
पाञ्चदक पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु
तस्य लुकि । उक्तः प्रयोगः ।

पञ्चदश त्रि० पञ्चदशानां पूरणः डट् । १ पञ्चदशसंख्यापूरणीये

स्त्रियां ङीप् । सा च पञ्चदशपूरणतिथिभेदे २ पौर्णमास्याम्
३ अमावास्यायाम् विद्यारण्यप्रणीते वेदान्तप्रकरणभेदे च ।
एवं पञ्चविंशादयोऽपि पञ्चाधिकविंशतिसंख्यापूरणे त्रि०
स्त्रियां ङीप् । इयांस्तु विशेषः विंशत्यादौ पूरणे
तमप् वा । पञ्चविंशतितमादयोऽपि तत्रार्थे त्रि० ।
“तैर्युतं शतादि “दशादेर्डोयुते शतादौ” सुग्ध० ड ।
तैर्युते शतादौ त्रि० स्त्रियां टाप् इति भेदः ।

पञ्चदशन् त्रि० ब० व । पञ्चाधिका दश । (पनेर) १ पञ्चाधिक-

दशसंख्यायां २ तत्संख्येये च ।

पञ्चदशाह पु० पञ्चदशगुणितमहः टच् समा० । अह्नान्तत्वात्

पुंस्त्वम् । पञ्चदशगुणिते अह्नि । “वैश्ये पञ्चदशाहः
स्यात्” मनुः ।

पञ्चदशाहिक त्रि० पञ्चदशाहः साधनकालतयाऽस्त्यस्य

ठन् । पञ्चदशाहसाध्ये व्रतभेदे “पिण्याकदधिसक्तूनां
प्रामश्च प्रतिवासरम् । एकैकमुपवासः स्यात् सौम्यकृच्छः
प्रकीर्त्तितः । एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ।
तुलापुरुष इत्येषः ज्ञेयः पञ्चदशाहिकः” अत्रिसं० ।

पञ्चदशिन् त्रि० पञ्चदश परिमाणभस्य डिनि । पञ्चदश

परिमाणयुक्ते शत० ब्रा० १३ । २ । ५ । १ उदा० स्त्रियां ङीप् ।
एवं पञ्चविशत्यादि परिमाणमस्य डिनि । पञ्चर्विशिन्-
प्रभृतयः पञ्चविंशत्यादि परिमानयुक्ते त्रि० स्त्रियां ।
पृष्ठ ४१८७

पञ्चदीर्घ त्रि० पञ्चसु अवयवेषु दीर्घः । “वाहूनेत्रद्वयं

कुक्षिर्द्वेतु नासे तथैव च । स्थनयोरन्तरञ्चैव पञ्चदीर्घः
प्रशस्यते” स्मृत्युक्तेषु पञ्चदीर्घत्वप्रशस्तलक्षणयुक्ते पुरुषे

पञ्चदेवता स्त्री संज्ञात्वात् कर्म० । आदित्यं गणनाथं च

देवीं रुद्रं च केशवम् । पञ्चदैवतमित्युक्तं सर्वकर्मसु
पूजयेत्” इत्युक्तेषु पञ्चसु देवेषु । केचिदेषाद्विनायकादि-
त्वमिच्छन्ति स्मार्त्तास्तु आदित्यादित्वं मन्यन्ते इति भेदः ।

पञ्चन् त्रि० पचि--कनिन् । १ पञ्चसंख्यायां २ तत्संख्यायुक्ते च

पञ्चसंख्यायुक्ताश्च कतिचित् पदार्था एकादिशब्दे १४०६
पृ० दर्शिताः । पञ्चकशब्दे दृश्यम् ।

पञ्चनख पुंस्त्री० षञ्च नखा यस्य । १ गजे २ कूर्मे च हेमच० ।

३ व्याघ्रे राजनि० । ४ शशकादिषु च “शशकः शल्लकी
गोधा खड्गी कूर्मश्च पञ्चमः” भक्ष्यपञ्चनखोक्तौ स्मृतिः
“श्वाविधं शल्लकं गोधां खड्गिकूर्मशशांस्तथा । भक्ष्यान्
पञ्चनखेष्वाहुः” मनुः ।

पञ्चनद पु० पञ्च नद्यः सन्त्यत्र अच् । (पञ्चाव) प्रसिद्धे १

देशभेदे । स च देशः अपरस्यां दिशिकूर्मविभागशब्दे २१८८ पृ०
विवृतिः । “वितस्तिश्चन्द्रभागा च विपाशेरावती तथा ।
शतद्रुश्चेति विज्ञेयाः पञ्च नद्यः शुभावहाः” । सोऽभिज
गोऽस्य तस्य राजा वा अण् । पाञ्चनद पित्रादिक्रमेण
तद्वासिनि तन्नृपे च बहुषु अणो लुक् । भा० आ० ७ अ० ।
पञ्चानां नदीनां समाहारः । “नदीभिश्च” अव्य० अच्समा० ।
२ पञ्चनदीसमाहारे तच्च काशीस्थनदीपञ्चकरूपं तीर्थं
“किरणाधूतपापे च तस्मिन् धर्मनदे शुभे । स्रवन्त्यौ
पापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे । ततो भागीरथी
प्राप्ता तेन दैलीपिना सह । भागीरथी समायाता यमुना
च सरस्वती । किरणा धूतपापा च पुण्यतीर्थे सरस्वती ।
गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्त्तिताः । अतः
पञ्चनदं नाम तीर्थं त्रैलीक्यविश्रुतम्” काशीख० ५९ अ० ।

पञ्चनिम्ब न० “पञ्चनिम्बन्तु तत्पुष्पमूलवल्कफलच्छदैरिति”

शब्दच० उक्ते निम्बस्य पुष्पादिपञ्चके ।

पञ्चनी स्त्री पचि--ल्युट् । शारिशृङ्खलायाम् (पाशारछक) शब्दरत्ना० ।

पञ्चपक्षिन् पु० शिवोक्ते पक्षिपञ्चकाधिकारेण प्रश्नादिज्ञा-

नार्थे शाकुनशास्त्रभेदे “अक्षरं पक्षिभूतञ्च दिगदैवत-
दिनानि च । कालं वर्णं बलं मित्रं धातुलिङ्गादिकं
क्रमात् । प्रश्नादिजातिवर्णञ्च देहसङ्कल्पनादिभिः ।
चिन्तितान्यपि सर्वाणि वक्ष्यन्ते वर्णकौ क्रमात् ।
शकुनस्य क्रमागत्या द्यूते युद्धे जयादिषु । आरूढपश्न-
लग्नेभ्यः प्रथमाचरतोऽपि वा । अकारादिस्वराणाञ्च
पञ्चानाञ्च विचारयेत् । अस्य नामाक्षरस्यांदौ स्वरारूढं
समुत्सृजेत् । प्रच्छकस्य वचः श्रुत्वा ग्राह्योवर्णः स्वर-
स्तथा । स्वरेण कल्पयेद्वारं वारात् पक्षी प्रजायते ।
पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः ।
अकाराद्या ओकारान्ताः स्वराः पञ्च प्रकीर्त्तिताः ।
भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः । अकारः
श्येन आख्यात इकारः पिङ्गलस्तथा । उकारं
वायसश्चैव एकारस्ताम्रशेखरः । ओकारो नीलकण्ठश्च
स्वरास्ते पक्षिसंज्ञकाः । अकारः पूर्वदिग्भागे
इकारश्चैव दक्षिणे । उकारः पश्चिमे ज्ञेय एकारश्चोत्तरे
तथा । शेषस्थानेषु सर्वेषु ओकारः परिकीर्त्तितः । प्राक्
श्येनः, पिङ्गलो याम्ये, पश्चिमे काक उच्यते । उत्तरे
ताम्रचूड़श्च, कलापी मध्यगो मतः” इत्यादि अस्य
फलादिकं तत्र दृश्यम् विस्तरभयान्नोक्तम् ।

पञ्चपञ्चिनी स्त्री पञ्च पञ्च ऋचः परिमाणमस्याः डिनि ।

पञ्चदशस्तोमस्य विष्टुतिभेदे “अथ पञ्चदशस्तोमस्य
तिस्रो विष्टुतयः । तत्र प्रथमं पञ्चपञ्चिन्याख्यां
विष्टुतिं दर्शयति” भा० । “पञ्चभ्यो हिङ्करोति स
तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स
एकया स तिसृभिस्म एकया, पञ्चभ्यो हिङ्करोति
स एकया स एकया स तिसृभिः, पञ्चपञ्चिनी पञ्चपञ्च-
दशस्य विष्टुतिः” ताण्ड्य० ब्रा० ४ । १ । “चतुर्ष्वेषु स्तोत्रे-
ष्वेकैकं तृचात्मकं सूक्तं तस्मिन् तृचे पञ्चदशसंख्या ऋचः
सम्पादनीयाः । तच्च सम्पादनम् आवृत्तिमन्तरेण न
सम्भवतीत्यावृत्तिप्रकार इहोपदिश्यते त्रिभिः पर्य्यायैः
स्तोत्रभावर्त्तनीयम् । अग्न आयाहीत्येषा सूक्ते प्रथमा
ऋक् “तन्त्वा समिद्भिरिति” द्वितीया “स नः पृथ्विति”
तृतीया तासु प्रथमामृचं प्रथमे पर्य्याये त्रिरावर्त्तयेत्
इतरे द्वे सकृत् सकृत् । द्वितीये पर्य्याये मध्यमां त्रिर-
भ्यसेत्, तृतीये पर्य्याये अन्तिमांत्रिरभ्यस्येत् । एवं सत्ये-
कैकस्य आवृत्तिः पञ्चधा सम्पद्यते । एषा पञ्चपञ्चिनी
एकैकस्मिन् पर्य्याये पञ्चर्चा भवन्तीति । पञ्चपञ्चिन्येतत्-
संज्ञा पञ्चदशस्तोमस्येषा विष्टुतिः” ।

पञ्चपत्र पु० पञ्च पञ्च पत्राण्यस्य । (छान्दला) वृक्षभेदे राजनि०

पञ्चपदी स्त्री पञ्च पादा अस्याः अन्त्यलोपे ङीपि पद्भावः ।

१ ऋग्भेदे आश्व० गृ० १ । ७ । १९ उदा० । कुशद्वीपस्थे
२ नदीभेदे भाग० ५ । ३० । २९ उदा० ।
पृष्ठ ४१८८

पञ्चपर्णिका स्त्री पञ्च पञ्च पर्णाण्यस्याः कप् कापि

अतैत्त्वम् । गोक्षुरक्षुपे राजनि० ।

पञ्चपर्वन् न० संज्ञात्वात् कर्म० । “चतुर्दश्यष्टमी चैव

अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र! रबिसं-
क्रान्तिरेव च” परिभाषितेषु अष्टम्यादिषु

पञ्चपल्लव न० पञ्चानां पल्लवानां समाहारः पात्रा० । वृक्ष

विशेषपञ्चकपल्लवे तच्च गन्धकर्भणि “आम्रजम्बूकपित्थानां
वीजपूरकविल्वयोः । गन्धकर्मणि सर्वत्र पत्राणि पञ्च-
पल्लवम्” शब्दचन्द्रिकोक्तम् । वैदिककर्मणि स्थाप्यघटे
देयन्तु “अश्वत्थाडुम्बरप्लक्षचूतन्यग्रोधपल्लवाः । पञ्चपल्लव-
मित्युक्तं सर्वकर्मणि शोभनम्” ब्रह्मपु० उक्तं ग्राह्यम् ।
तान्त्रिककर्मणि तु “पनसाम्रं तथाश्वत्थं वटं बकुलमेव
च । पञ्चपल्लवमुक्तं च मुनिभिस्तन्त्रबेदिभिः” । तेषां
फलविशेषस्तत्र दृश्यः । कर्म० । पञ्चभङ्गादयोऽप्यत्र ब० व० ।

पञ्चपात्र न० पञ्चानां पात्राणां समाहारः पात्रा० न ङीप् ।

१ समाहृतेषु पञ्चसु पात्रेषु । पञ्च पात्राणि दानोद्देश्यानि
यत्र । वैश्वदेवपित्रादित्रयरूपपञ्चदैवते २ श्राद्धे तच्च
अमावास्याप्रेतपक्षमृतोद्देश्यकश्राद्धं सपिण्डीकरणञ्च
एतेषु मातामहपक्षाभावात् पञ्चदैवतत्वम् । तथान्वष्टका-
श्राद्धमपि तत्र पित्रादिस्थाने मात्रादित्रिकोद्देश्यत्वात्
तथात्वम् ।

पञ्चपाद् त्रि० पञ्च पादा अस्य अन्तलोपः समा० । १ पञ्च

पादयुक्ते स्त्रियां ङीषि पद्भावः । पञ्चसङ्ख्यकर्मरूपः
पादोऽस्य । २ संवत्सरे संवत्सरस्य पञ्चर्तुस्वरूपत्वात्
हेमन्तशिशिरयोरेकत्वाभिप्रायेण ऋतूवां पञ्चत्वम् । ऋ०
१ । १६४ । १२ भा० दृश्यम् ।

पञ्चपादी स्त्री पञ्चानां पादानां समाहारः ङीप् ।

पादपञ्चके पादश्चेह ग्रन्थावयवभेदः संज्ञायां कन् । पञ्च-
पादिका शारोरकभाष्यव्याख्याने ग्रन्थभेदे

पञ्चपितृ पु० संज्ञात्वात् कर्म० । “जनकश्चोपनेता च यश्च

कन्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः
स्मृताः” प्रा० वि० धृतवचनोक्ते जनकादिपञ्चके

पञ्चपित्त न० पञ्चगुणितं पित्तं शा० त० । “वराहच्छागमहिष

मत्स्यमायूरपित्तकम् । पञ्चपित्तमिदं प्रोक्तं सर्वेष्वेव
हि कर्मसु” वैद्यकोक्ते वराहादिपञ्चकपित्ते ।

पञ्चप्रदीप न० पञ्च प्रदीपाः यत्र । नीराजनाङ्गे दीप्रभेदे

“हरेः पस्नप्रदीपेन बहुशो भक्तितत्परः” पद्मपु० ।

पञ्चपुष्प न० पञ्चगुणितं पुष्पम् । “चन्पकाम्बशमोपद्मकर-

वीरं च पञ्चकम्” देवीपु० १०७ अ० उक्ते पुष्पपञ्चके ।

पञ्चप्रस्थ न० पञ्च विषयाः शब्दादयः प्रस्थाः सानव इव यस्य ।

संसारवने “स एकदा महेष्वासो रथं पञ्चाश्वमाशुतम् ।
द्वीशं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् । एकरश्मये-
कदमनमेकनीडं द्विकूवरम् । पञ्चप्रहरणं सप्तवरूथं पञ्च-
विक्रमम् । हैमोपस्करमारुह्य स्वर्गवर्माक्षयेषुधिः ।
एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम्” भाग० ४ । २६ । ४ ।
“महानिष्वासो धनुः कर्तृत्वभोक्तृत्वाद्यभिनिवेशोयस्य
सः । रथमारुह्य पञ्चप्रस्थं वनमगादिति तृतीयेनान्वयः ।
रथम् इदानीमेव विवृतं स्वप्नदेहं जाग्रद्देहस्य शतसम्बत्-
तरोपभोग्यपुरत्वेनोक्तत्वात् । पञ्चज्ञानेन्द्रियाण्यश्वा-
यस्य । आशुगं शीव्रगतिम् । द्वे अहन्ताममते ईशे
दण्डिके यस्य । द्वे पुण्यपापे चक्रे यस्य । एकं प्रधानं
मक्षी यस्य त्रयोगुणावेणबोध्वजा यस्य पञ्च प्राणा वन्धु-
राणि बन्धनानि यस्य । एकं मनो रश्मिः प्रग्रहो यस्य
एका बुद्धिर्दमनः सूतो यस्य कर्मधारयः । एकं हृदयं
नीड़ं रथिनौपवेशस्थानं यस्मिन् । द्वौ शोकमोहौ
कूवरौ युगबन्धनस्थाने यस्य । पञ्च शव्दादयो
विषयाः प्रह्रियन्ते प्रक्षिप्यन्ते यस्मिन् अस्य व्याख्यानं
भविष्यति पञ्चेन्द्रियार्थप्रक्षेप इति । सप्त धातवोवरूथा
रथरक्षार्थं चर्माद्यावरणानि यस्य पञ्च कर्भेन्द्रियाणि
विक्रमा गतिप्रकारा यस्य । हैमोपस्करं सौवर्णाभरणं
स्वर्गवर्मा वर्मं च कवचं रजोगुणावृतं अक्षयेषुधिर्निषङ्गम्
अनन्तवासनाहङ्काणेपाधिः । एकादशो मनोरूपः
चमूनाथः सेनापतिर्यस्य । वासनामयस्य मनसृः प्रग्रहत्व
सङ्कल्पविकल्पात्मकस्य वृहद्वनत्वेन वक्ष्यमाणस्य
चमूनाथत्वमिति भावः । पञ्च शब्दादयो विषयाः प्रस्थाः
सानवो यस्मिन् तद्वनं भजनीयं देशमगात्” श्रीध० ।

पञ्चप्राण पु० कर्म० । देहस्थे प्राणनादिवृत्तियुते वायुपञ्चके

पञ्चवृत्तिशब्दे दृश्यम् ।

पञ्चप्रासाद पु० पञ्चचूडायुक्तः प्रासादः शा० त० । (पञ्चरत्न)

इति ख्याते देवगृहभेदे “पक्वेष्टकाचितं रम्यं पञ्च
प्रासादसंयुतम् । कारयित्वा हरौ चाथ धूतपाषो दिवं
व्रजेत्” अग्निपु० ।

पञ्चबन्ध पु० पञ्च पञ्चमः बन्धो भागो यत्र । पञ्चमांशयुतेद-

मादौ “आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्च-
बन्धोदमस्तत्र राज्ञे तेनाविभाविते” मिता० धृतवचनम् ।

पञ्चबला स्त्री पञ्चगुणिता बला । बलानागबलामहाबला-

ऽतिबला राजवलारूपबलापञ्चके नघण्टुप्रकाशिकायाम् ।
पृष्ठ ४१८९

पञ्चबाण पु० पञ्च बाणा अस्य । १ कन्दर्पे तस्य बाणपञ्चकं

च कालिकापुराणशब्दे २०१३ पृ० दर्शितम् संज्ञात्वात् कर्म० ।
२ कामस्य बाणेषु पञ्चविभागेनानीतेषु विवाहादौ वर्जनीयेषु
पञ्चसु ३ रोगादिषु उपयमशब्दे १२६९ पृ० दृश्यम् ।

पञ्चबाहु पु० पञ्च वाहवोऽस्य । महादेवे हरिवं० २७७ अ० ।

पञ्चब्रह्म न० उपनिषद्भेदे

पञ्चभद्र पुंस्त्री पञ्चस्वङ्गभेदेषु भद्रः पुष्पितत्वात् । “पञ्चभ-

द्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः” हेम० उक्ते १ हयभेदे
स्त्रियां जातित्वात् ङीष् “छिन्नोद्भवापर्पटवारिवाहभू-
निम्बशुण्ठीजनितः कषायः । समीरपित्तज्वरजर्जराणां
करोति भद्रं खलु पञ्चभद्रम्” शार्ङ्गधरोक्ते २ पाचनभेदे न०

पञ्चभूत न० ब० व० संज्ञत्वात् कर्म० । आकाशवायुतेजोजलभूमि-

रूपभूतेषु । “भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे”
शार० ति० । अश्य पुंस्त्वमपि “शब्दाद्व्योम स्पर्शतस्तेन
वायुस्ताभ्यां रूपाद्वह्निरेतैः रसाच्च । अम्भांस्येतैर्गन्धतो
भूर्धराद्या भूताः पञ्च स्युर्मुणोनाः क्रमेण” तेषां च
द्रव्यविशेषशब्दे ३७८१ पृ० सुश्रुतोक्तं गुणादि दृश्यम्
तेषामस्थ्यादिविशेषकार्यकारिता ब्रह्मज्ञानतन्त्रे प्रथमपटले
उक्ता यथा “अस्थिमांसं नखञ्चैवं नाडी त्वक् चेति पञ्चमी ।
पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्यज्ञानेन भाषितम् । मलं मूत्रं
तथा शुक्रं श्लेष्मा शोणितमेव च । तोयं पञ्चगुणं
प्रोक्तं ब्रह्मज्ञानेन भाषितम् । ह्रासो निद्रा क्षुधा चैव
भ्रान्तिरालस्यमेव च । तेज० पञ्चगुणं प्रोक्तं ब्रह्म-
ज्ञानेन भाषितम् । धारणं चालनं क्षेपः सङ्कोचः प्रसर-
स्तथा । वायुः पञ्चगुणः प्रोक्तो ब्रह्मज्ञानेन भाषितम् ।
क्रामः क्रोधस्तथा लोभस्त्वपा मोहश्च पञ्चमः ।
नभःपञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम्” । भूत
नक्षत्राणि यथा “धनिष्ठा रेवती ज्येष्ठानुराधा श्रवणा-
तथा । अभिजिच्चोत्तराषाढ़ा पृथ्वीतत्त्वमुदाहतम् ।
पूर्वाषाढ़ा तथाऽश्लेषा मूलार्द्रा चैव रोहिणी । पर
भाद्रपदा तोयम् आपस्तत्वन्त्वभीष्टदम् । भरणी कृत्तिका
पुष्या मघा पूर्वा च फाल्गुनी । पूर्वभाद्रपदा स्वाती
तेजस्तत्त्वमिति प्रिये! । विशाखोत्तरफल्गुन्यौ हस्ता
चित्रा पुनर्वसुः । अश्विनी मृगशीर्षा च वायुस्तत्त्वमु-
दाहृतम्” सूक्ष्मस्वरोदयः ।

पञ्चभृङ्ग न० देवदालीशमीभृङ्गानिर्घुण्डीतमालात्मके वृक्षप्रञ्चके नैघण्टुप्र० ।

पञ्चम त्रि० पञ्चानां पूरणः डदि मट् । पञ्चानां पूरणे स्त्रियां

ङीप् । २ दक्षे ३ रुचिरे त्रि० हेमच० ४ मैथुगे नः तन्त्रौ-
कण्ठोत्थितस्वरमध्ये ५ स्वरभेदे अमरः । “वायुः
तमुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्था-
नप्राप्त्या पञ्चम उच्यते” । तन्निरुक्तिः । “प्राणोऽपानः
समानश्च उदानो व्यान एव च । एतेषां समवायेन
जायते पञ्चमः स्वरः” तत्कारणम् । ६ रागभेदे मेदि० स
च सोमेश्वरमते तृतीयो रागः अत्र गान्धारस्वेरस्तीब्रः
ऋषभपञ्चमौ लुप्तौ षड्जः गृहाशः । भरतमते भैरवरा-
गस्याष्टमः पुत्रः । अस्योच्चारणं पिकध्वनिवत् । उच्चार-
णस्थानं गल उरः शिरश्च ।

पञ्चमकार न० पञ्च मकारा यत्र । मकारादिपदवेद्यमद्यादिप-

ञ्चके “मद्यं मांसं तथा मत्स्यी मुद्रा मैथुनमेव च । पञ्चत-
त्त्वमिदं देवि! निर्वाणमुक्तिहेतवे । मकारपञ्चकं देवि!
देवानामपि दुर्लभम्” गुप्रसाधनतन्त्रे ७ पटले । तत्र
मद्यादिकं प्रसिद्धम् । मुद्रा तु “पृथुकास्तण्डुला भृष्टा
गोधूमचणकादयः । तेषां नाम भवेद्देवि! मुद्रा मुक्ति-
प्रदायिनी” । तत्र परिगाषिता

पञ्चमहिष न० पञ्चगव्यवत् महिषस्य मूत्रादिपञ्चके । पञ्चनव्य

शब्ददर्शितकल्पेन तस्य पाकविधिः “एतेनैव तु कल्पेन
घृतं पञ्चाविकं पचेतः । पञ्चाजं पञ्चमहिषं चतुरुष्ट्र-
मथापि वा” सुश्रुतः । पञ्चाजपञ्चाविकशब्दावपि क्रमेण
अजाविसम्बन्धिमूत्रादिपञ्चके ।

पञ्चमहापातक न० पञ्चप्रकारं महापातकम् शा० त० । ब्रह्म-

हत्यादिमहापातलपञ्चके “ब्रह्महत्या सुरापानं स्तेयं
गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि
तैः सह” मनुः । स्तेयमत्र ब्राह्मणस्वामिकसुवर्णहरणं
यथाह विष्णुः “ब्रह्महत्या सुरापानं ब्राह्मणसुवर्ण-
हरणं गुरुदाराभिगमनं संयोगश्च तैः सहेति महापात-
कानि” । सुवर्णश्च कर्षमितस्वर्णम् ।

पञ्चमहायज्ञ पु० पञ्चगुणितो महायज्ञः कर्म० वा । गृहस्थैः

प्रतिदिनं कर्त्तव्ये दैवपैत्रादियज्ञपञ्चके । “पञ्चसूना
गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च तस्य
पापस्य शान्तये । पञ्चयज्ञबिधानञ्च मृही नित्यं न
हापयेत् । पञ्चयज्ञविधानेन तत् पापं तस्य नश्यति ।
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च । ब्रह्मयज्ञो
नृयज्ञश्च पञ्चयज्ञाः प्रकीर्त्तिताः । होमो दैवोवलिर्भौतः
पित्र्यः पिण्डक्रिया स्मृतः । स्वाध्यायो ब्रह्मयज्ञश्च
नृयज्ञोऽतिथिपूजनम्” शङ्खसं० । पञ्चमहासत्रादयोऽप्यत्र
पृष्ठ ४१९०
“देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् । महासत्राणि
जानीयात् एते चेह महामखाः । अध्यापनं ब्रह्मयज्ञः
पितृयज्ञस्तु तर्पणम् । होमो दैवो वलिर्भोतो नृयज्ञो-
ऽतिथिपूजनम् । श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो
वलिरथापि वा । यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः
स उच्यते । स चार्वाक् तर्पणात् कार्य्यः पश्चाद्वा प्रातरा
हुतेः । वैश्वदेवावसाने वा नान्यत्रर्त्तुनिमित्तकात् ।
अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये । अदैवं नास्ति
चेदन्यो भोक्ता भोज्यमथापि वा । अप्युद्धृत्य यथाशक्त्या
किञ्चिदन्नं यथाविधि । पितृभ्योऽथ मनुष्येभ्यो दद्या-
दहरहर्द्विजे । पितृभ्य इदमित्युक्त्वा स्वधाकारमुदी-
रयेत् । हन्तकारं मनुष्येभ्यस्तदूर्द्धं निनयेदपः” कात्या० स०

पञ्चमार पु० १ वलदेवपुत्रे शब्दर० कर्भ० । २ पञ्चविधकामे च ।

पञ्चमाषिक त्रि० पञ्च माषाः प्रमाणमस्य ठक् न पूर्बपदवृद्धिः ।

स्वर्णमाषपञ्चकमिते दण्डाद्ये मनुः ८ । २९८

पञ्चमास्य पुंस्त्री० पञ्चमः स्वरभेदः आस्ये अस्य । १ कोकिले

शब्दर० स्त्रियां जातित्वेऽपि योपधत्वात् टाप् । पञ्चमं
कोकिलो वदेत्” पञ्चसु मासेषु भवः यत् । २ पञ्चमासभवे त्रि०

पञ्चमी स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी--वन्धे

पिक्व् । पञ्चपाण्डवपतिकायां १ द्रौपद्र्याम् २ शारिशृङ्ख-
लायाञ्च (पाशारछक) पञ्चन् + पूरणे मट् । पञ्चानां पूरण्यां
स्त्री ङीप् । अस्य बहु० समासे समासवाच्यत्वे अच्
समा० । कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमा
रात्रयः । मुख्यत्वाभावे कप् । कल्याणी पञ्चमी यत्र
पक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वा-
भावात् न समासवाच्यत्वम् । चन्द्रमण्डलस्य प्रवेश-
निर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभाव-
युक्तायां चन्द्रस्य ४ पञ्चम्यां कलायां ५ तदुपलक्षित
तिथौ च स्त्री । विहितकर्भविषयविशेषे तस्याः
कथं ग्राह्यतेति कालमा० निर्णीतं यथा
“युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या । ननु “प्रायः
प्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौ-
रपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्च-
म्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाः
प्रतिषिद्धत्वात् । “चतुर्थीसंयुता कार्या पञ्चमी षरया
न तु । दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते”
इति । नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वं
शङ्कनीयम् । निर्णीतासु निर्णेष्यमाणासु च तिथिषु
यत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य
सर्वस्य तद्विषयोपपत्तेः । न च तेनैव शास्त्रेण तदुपवा-
ससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम् । सामान्य-
विशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात् । तस्य
सामान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठी
युक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेन
बाधो युज्यते । एतादृश बाधमभिलक्ष्यैव प्रायः व्रात-
रुपोष्येति प्रायःशब्दः प्रयुक्तः । प्रतिपन्न्यायेन पौर्वा-
ह्णिकी इति वचनबलात् । पञ्चम्यामपि दानव्रतयोः
परदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्म-
णीत्युच्यते । न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्र
प्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्क-
नीयम् । विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात् ।
न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचना-
पादितकर्मकालत्वस्य सद्भावात् । ईदृशमेव विपयमभि-
लक्ष्य साकल्यवचनस्य प्रवृत्तत्वात् । स्वाभाविकतिथि-
व्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात् । तस्मा-
द्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते ।
नन्वेवमपि पित्र्ये निषेधो निरर्थकः । पित्र्यस्य स्वत
एव परविद्धायामप्राप्तत्वात् । मैवं दृष्टान्ततयापि च
तदुपन्यासोपपत्तेः । यथा पित्र्यकर्मणि उत्तरविद्धा न
ग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः
सहोपन्यासः । ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य
पञ्चम्याः पूर्वविद्धत्वमभिधीयते । आपस्तम्बादयस्तु तद्विप-
र्य्ययेण युग्मान्युदाजह्नुः । “प्रतिपत् सद्वितीया स्याद्
द्वितीया प्रतिपद्युता । चतुर्थीसहिता या च सा तृतीया
फलप्रदा । पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!”
इति । अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः
परविद्धत्वं प्राप्नोति । बाढम् अतएवात्र शुक्लकृष्णशास्त्रेण
व्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथा
ऽसिते इत्युक्तम् । न च सा व्यवस्था वचनेन निषेद्धुमश-
क्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इति
ग्यायात् । तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या ।
स्कन्दपुराणेऽपि “पञ्चमी च तथा कार्य्या चतुर्थ्या संयुता
विभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तर
विद्धाविषयौ विधिनिषेधौ खर्य्येते । “पञ्चमी
घ चतुर्थ्या तु कार्या षष्ट्या न मयुता” इति । यत्तु ब्रह्मषैवर्त्ते-
ऽभिहितम् “पञ्चमी च प्रकर्त्तिव्या मष्ट्या युक्ता सु नारद!
पृष्ठ ४१९१
इति तद्वचनं स्कन्दोपवासविषयतया सङ्कोचनीयम् ।
बाक्यशेषे तथाभिधानात् “स्कन्दोपवासे स्वीकार्यां पञ्चमी
परसंयुता” इति वाक्यशेषः । न चासञ्जातविरोधिनो
वाक्योपक्रमस्य सञ्जातविरोधिना वाक्यशेषेण कथं
सङ्कोच इति शङ्कनीयम् । असन्दिग्धोपक्रमस्य प्राबल्ये-
ऽपि सन्दिग्धोपक्रमस्य वाक्यशेषेण निर्णेतव्यत्वात् ।
अतएव जैमिनिनापि सूत्रितम् । “सन्दिग्धे तु वाक्यस्य
शेषादिति” । अतः स्कन्दोपवासे पञ्चमी परविद्धा ।
अन्यत्र पूर्वविद्धेति स्थितम्” ।

पञ्चमुख त्रि० षञ्च मुखान्यस्य । १ पञ्चवदनयुक्ते स्त्रियां स्वाङ्ग-

त्वात् ङीष् । २ महादेवे पु० तन्मुखनामादि देवीपु० उक्तं
यथा “शिवस्तत्रस्थितः साक्षात् सर्वपापहरः शुभः ।
स तु पञ्चमुखः ख्यातो लोकसर्वार्थसाधकः । पञ्च-
ब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः । पश्चिमे तु
मुखे सद्यो, वामदेवस्तथोत्तरे । पूर्वे तत् रुषं विद्याद-
घोरं चापि दक्षिणे । ईशानः पञ्चमो मध्ये सर्वेषामु-
परिस्थितः । एते पञ्चमुखा बत्स पापध्ना ग्रहनाशनाः ।
सद्योजातो भवेच्छुक्लो वामदेवस्तु पीतकः । रक्तस्तत्पु-
रुषो ज्ञेयोऽघोरः कृष्णः सएव च । ईशानः पश्चिमस्तेषां
सर्ववर्णसमन्वितः । कामदः कामरूपी स्यात् ज्ञानाधारः
शिवात्मकः” । ३ पञ्चवक्त्रे रुद्राक्षभेदे च “पञ्चवक्त्रः स्वयं
रुद्रः कालाग्निर्नामनामतः । अगम्यागमनाच्चैव
अभक्ष्यस्य च भक्षणात् । मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्य
धारणात्” तिथि० त० स्कान्दे । ३ जवाभेदे स्त्री ङीष् ।
४ वासकवृक्षे च राजनि० । पचि--विस्तारे अच् तादृशं
मुखमस्य । ५ सिंहे पुंस्त्री० स्त्रियां ङीष् । पञ्चवक्त्राद-
योपि तेष्यर्थेषु ।

पञ्चमुद्रा स्त्री पञ्चगुणिता सुद्रा । १ आवाहन्यादिमुद्रा-

पञ्चके तत्स्वरूपनामादि पूजाप्रदीपे उक्तं यथा
“सम्यक् प्रपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः ।
आवाहनी १ समाख्याता मुद्रा देशिकसत्तमैः । अधोमुखी
त्वियं चेत् स्यात् स्थापनी २ मुद्रिका भवेत् । उच्छ्रिता-
ङ्गुष्ठमुष्ट्योस्तु संयोगात् संन्निधापनी ३ । अन्तःप्रवे-
शिताङ्गुष्ठा सैव सम्बोधनी ४ मता । उत्तानमुष्टियुगला
सम्मुमुखीकरणी ५ मता” । तन्त्रोक्ते देवभेदपूजाङ्गे
२ योन्यादिमुद्रापञ्चके च तन्त्रसारः ।

पञ्चमुष्टिक पु० चक्रदत्तीक्ते यवादिमुष्टिपञ्चककषायभेदे “यव

कोल कुलत्थानां सद्गमूलकशुण्ठयोः । एकैकमुष्ठिमुद्धृत्य
पचेदष्टगुणे जले । पञ्चमुष्टिक इत्येष वातपित्तकफा-
पहः । शस्यते गुल्मशूले च श्वामे कासे क्षये ज्वरे” ।

पञ्चमूत्र न० पञ्चप्रकारं मूत्रम् । गवाजामेषीमहिषी गर्द-

भीनां पञ्चानां मूत्रे राजनि० ।

पञ्चमूल न० पञ्चगुणितं मूलम् शा० त० । १ वैद्यकोक्ते विल्वादि-

पञ्चकमूलेतच्च त्रिविधं लघुमहत्तृणाख्यभेदात् तत्र महत्
“श्रीफलः सर्वतीभद्रा पाटला गणिकारिका । स्येनाकः
पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् । पञ्चमूलं महत् तिक्तं
कषायं कफवातनुत् । मधुरं श्वासकासघ्नसुष्णं लघ्वग्नि-
दीपनम्” अथ लघुपञ्चमूलस्य लक्षणङ्गुणाश्च “शाल-
पर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका । गोक्षुरं पञ्च-
भिश्चैतैः कनिष्ठं पञ्चमूलकम् । पञ्चमूलं लघु स्वादु बल्यं
पित्तानिलापहम् । नात्युष्णं वृंहणं ग्राहि ज्वर-
श्वासाश्मरीप्रणुत्” भावप्र० “विल्वाग्निमन्थश्योनाक
काश्मर्य्यः पाटला तथा । ज्ञेयं वृहत् पञ्चमूलं पञ्चमूल-
मिति स्मृतम्” मतान्तरम् । “शरेक्षुदर्भकाशानां नलस्य
मूलमेव च । सौश्रुतं चारकं चैव तृणाख्यं पञ्चमूलकम्”
शब्दच० । पञ्चमूलीत्यपि स्वल्पपञ्चमूलभेदे “शालपर्णी
पृश्निपर्णी वृहती कण्टकारिका । तथा गीक्षुरकञ्चैव
पञ्चमूली कनीयसी” शब्दच० । पञ्चानां मूलानां
समाहारः ङीप् । २ मूलपञ्चके

पञ्चमूल्यादि न० चक्रदत्तोक्ते पाचनभेदे यथा

“पञ्चमूली बला विल्वगुडुचीमुस्तनागरैः । षाठा
भूनिम्बह्रीवेण्कुटजत्वक्फलैः शृतम् । हन्ति सर्वा-
नतीसारान् ज्वरदोषं वमिन्तथा । सशूलोपद्रवं श्वासं
कासं हन्यात् सुटारुणम्” ।

पञ्चयाम पु० पञ्च यामा यत्र । १ दिवमे “त्रियामां रजनीं

प्राह्णस्त्यक्त्राद्यन्तचतुष्टये । नाङीनां तदुभे सन्ध्ये
टिवसाद्यन्तसंज्ञिते” उक्तेः अहोरात्रस्य अष्टप्रहरात्मकत्वेन
तन्मध्ये रात्रेस्त्रियामत्वात् परिशिष्टयामपञ्चकस्य
दिवसत्वम् । २ तदभिमानिदेवभेदे “विभावसोरसूतोषा
व्युष्टं रोचिषमातपम् । पञ्चयामोथ भूतानि येन
जाग्रति कर्मसु” भाग० ६ । ६ । १५

पञ्चयुग न० पञ्चभिः पञ्चभिः युगम् । इदादिभिः पञ्चभिः

पञ्चभिः वर्षैः द्वादशवर्षात्मकषष्टिसंवत्सरे “संवत्सराः
पञ्चयुगं चाहोरात्रश्चतुर्विधः” भा० स० १२ श्लो० “दैवपैत्र-
मानुषब्राह्मभेदात् अहोरात्रश्चतुर्विध इत्यर्थः” नीलक० ।

पञ्चरक्षक पु० पञ्च रक्षका इव कण्टकादयोऽस्य । १ पक्तपौड-

वृक्षे राजनि० । २ इन्द्रियपञ्चकरूपरक्षकयुक्ते च ।
पृष्ठ ४१९२

पञ्चरत्न न० पञ्चगुणितं रत्नम् । पञ्चविधे १ रत्नभेदे तच्च

नानाविधम् “नीलकं वज्रभं चेति पद्मरागश्च मौक्ति-
कम् । प्रबालं चेति विज्ञेयं पञ्चरत्नं मनीषिभिः” विधा-
नपा० “सूवर्णं रजतं मुक्ता राजावर्त्तं प्रवांलकम् ।
रत्नपञ्चकमाख्यातम्” हेमा० ब्र० “कनकं हीरकं नीलं
पद्मरागश्च मौक्तिकम् । पञ्चरत्नमिदं प्रोक्तमृषिभिः
पूर्वदर्शिभिः । अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्”
हेमा० दा० । पञ्च रत्नानीव उपदेशकत्वात् यत्र । २ नीतिगर्भ
कवितापञ्चके “नागः पोतस्तथा वैद्यं क्षान्तिः शक्यो
यथाक्रमम् । पञ्चरत्नमिदं प्रोक्तं विदुषापि सुदुर्लभम्”
काव्यसं० । नाग इत्यादिना एकैकपद्यस्य आद्यपदेन सूचित
कवितापञ्चकं च ग्राह्यम् । तानि च पद्यानि प्रागेव
काव्यसंग्रहे दृश्यानि । ३ पञ्चचूडदेवगृहभेदे न० ।

पञ्चरश्मि पु० पञ्च पञ्चवर्णा रश्मवोऽस्य । पिङ्गलादिपञ्चवर्ण-

रश्मिके सूर्य्ये तस्य तथात्वम् निर्णीतं छा० उ० यथा
“अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्न-
स्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा
आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ।
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं
चैवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छतीमुं
चामुं चामुष्मादादित्यात् प्रतायन्ते ता आसु नाड़ोषु
सृप्ता आभ्यो नाड़ीभ्यः प्रतायन्ते तेऽमुष्मिन्नादिथे
सृप्ताः” उप० “अथ या एता बक्ष्यमाणा हृदयस्य पुण्ड!
काकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्योनाड्योहृदय-
मसिपिण्डात् सर्वतोविनिःसृता आदित्यमण्डलादिव-
रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः
सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्त्तन्त
इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च
रसस्य पूर्णा इति सर्वत्राध्याहार्य्यम् । सौरेण तेजसा
पित्ताल्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन सम्पर्कात्
विङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव वातभूय-
स्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लम् । कफेन
समतायां पित्तम् शोणितबाहुल्येन लोहितम् ।
वैद्यकाद्वा वर्णविकारा अन्वेष्टव्याः । कथं भवन्तीति
श्रुतिस्त्वाहादित्यसम्बन्धादेव तत्तेजसो नाड़ीष्वनुगतस्यैते
वर्णविशेषा इति । कथमसौ वा आदित्यः पिङ्गलो
वर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एष
लोहित आदित्य एव । तस्याध्यात्मं नाड़ीभिः कथं
सम्बन्ध इत्यत्र दृष्टान्तमाह तत्तत्र यथा लोके महान्
विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ ग्रामौ
गच्छतीमं च सन्निहितमनुं च विप्रकृष्टं दूरस्थमेबं यथा
लोके दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्टः ।
एवमेवैता आदित्याः महापथा यथा गच्छन्ति तथोभयत्रादि-
त्यस्य रश्मयः उभौ लोकावमुं चादित्यमण्डलमिमं च
पुरुषं गच्छन्त्युभयत्र प्रविष्टाः यथा महापथः ।
कथममुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति । ता
अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाड़ीषु सृप्ता
गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते
प्रवृत्ताः सन्तानभूताः सत्यस्तेऽमुष्मिन् रश्मीनामुभयलि-
ङ्गत्वात्ते इत्युच्यन्ते” भा० । “रसेनान्नस्येति शेषः तदाकारा
इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषु षष्ठी पूर्ववत् ।
श्रुतावितिशब्दोऽध्याहारद्योतनार्थः । कथं पुनरन्न-
रसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिध्यतीत्या-
शङ्ख्याह सौरेणेति वातपित्ताख्यं सौरं तेजः । तेन
पाकोऽशितस्य च जायते । तेनाभिनिर्वृत्तेनाल्पेन कफेन
सम्पर्कात् तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलम् ।
तेन सम्पर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।
तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन
प्रभूतेन वातेन सम्बन्धात्तद्मूयस्त्वाद्भवति नीलं तेन च
सम्पर्कादन्नरसस्य नाडीनां च जायते नैल्यनित्याह
तदेवेति । प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्त
पाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयल्वाद्भवति
शुक्लं तेन च सम्पर्कादन्नरसस्य नाड़ीनां च शौक्ल्यं
भवतीत्याह तदेव चेति । उक्तपाकाभिनिर्वृत्तेन
कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्
सम्बन्धि पीतं जायते । तत्सम्बन्धच्चान्नरसस्य च नाड़ी-
नां च पीतत्वं भवतीत्याह कफेनेति । यदा तु यथोक्त-
पाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य
नाड़ीनां च लौहित्यं मवतीत्याह शोणितेति । पक्षा-
न्तरमाह वैद्यकाद्वेति । अन्वेषणप्रकारमाह
कथमिति । नाभेरूर्द्ध्वं हृदयादधस्तादामाशयमाचक्षते ।
तेजः सौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तर-
सहकारिवशाद्वर्णविशेषे कारणमाशयगतं पीतं रञ्जकं
रसरञ्जनादित्यादिवचनादित्यर्थः । कथं तर्हि पिङ्गल-
स्येत्याद्या श्रुतिरित्याशङ्ख्याह श्रुतिस्त्विति । उक्तमर्थ-
पृष्ठ ४१९३
माकाङ्क्षाद्वारा स्फोरियति कथमित्यादिना आदित्यस्य
पिङ्गलादयो वर्णविशेषाः शास्त्रप्रमाण्यादेव प्रत्येतव्याः ।
आदित्यस्य तेजसो नाड़ोष्वनुगतस्य पैङल्यादयो वर्ण-
विशेषाभवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन
स्पुटयति तस्येत्यादिना” आनन्दगिरिः ।

पञ्चरसा स्त्री पञ्चो विस्तीर्णोरसोऽस्याम् । आमलक्यां

हारा० ।

पञ्चरात्र न० पञ्चानां रात्रीणां समाहारः अच्समा० । रात्रा-

न्तत्वेऽपि संख्यापूर्वकत्वेन क्लीवता । १ रात्रिपञ्चके पञ्च
रात्राणि ज्ञानानि यत्र । नारदादिप्रणीते ज्ञानोपदेशके
२ ग्रन्थभेदे तन्निरुक्त्यादिकं ब्रह्मपु० जन्मखण्डे १३२ अ०
उक्तं यथा “रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।
तेनेदं रञ्चरात्रं च प्रवदन्ति मनीषिणः । प्रथमं सात्विकं
ज्ञानं द्वितीयन्तु तदेव च । नैर्गुण्यं च तृतीयं च ज्ञानं च
सर्वतत्परम् । चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति । ज्ञानं पञ्च-
विधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः” तच्च सप्तविधं यथा
“पञ्चरात्रं सप्तविधं ज्ञानिनां श्चानदं परम् । ब्राह्मं
शैवं च कौसारं वाशिष्ठं कापिलं परम् । गौतमीयं
नारदीयमिदं सप्तविधं स्मृतम्” इति नारदपञ्चरात्रे
प्रथमरात्रम् । “पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्य
पूर्वकम् । वाशिष्ठं नारदीयं च कापिलं गौतमीयकम् ।
परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम्” ।

पञ्चरात्रिक पु० पञ्चरात्रमुपासनासाधनतयास्त्यस्य ठन् ।

विष्णौ भा० शा० १४ अ० ।

पञ्चराशिक पु० पञ्च राशयो यत्र कप् । लीलावत्युक्ते पञ्च-

राश्यधिकारेण गणितभेदे यथा “पञ्चसप्तनवराशिकादिके-
ऽन्योन्यपक्षनयनं फलच्छिदाम् । संविधाय वहुराशिजे
बधे स्वल्पराशिबधभाजिते फलम् ।
उदाहरणम् । मासे शतस्य यदि पञ्च कलान्तरं स्याद्वर्षे
गते भवति किं वद षोडशानाम् । कालं तथा कथय
मूलकलान्तराभ्यां मूलं धनं गणक! कालफले विदित्वा ।
न्यासः १ १२ अन्योऽन्यपक्षनयने कृते १ १२
१०० १६ (फलस्य छेदोऽन्यपक्षे १०० १६
५ ० न नेय इति वोध्यम्) ० ५
बहूनां राशीनां बधः । ९६० ।
अल्पराशिवधः १०० अनेन भक्ते लन्धम् । ९ ।
शेषम् (६०१००) र्विशत्यापवर्त्त्य (३५) जातं कुलान्तरम् ९ (३५)
छेदघ्नरूपेष्विति कृते जातम् (४८५)

पञ्चलक्षण न० पञ्च सर्गादीनि लक्षणान्यस्य । १ पुराणे

अमरः । पुराणशब्दे दृश्यम् पञ्चानां लक्षणानां
समाहारः ङीप् । अनुमानचिन्तामण्युक्ते व्याप्तिलक्षणपञ्चके
साध्याभावदवृत्तित्वमित्यादिकं व्याप्तिलक्षणपञ्चकं तत्रोक्त-
मिति तस्य ग्रन्थस्य तथात्वम् ।

पञ्चलवण न० पञ्चगुणितं लवणम् । “काचकं सैन्धवं चैव

सामुद्र विडमेव च । सौवर्चलं तथा पञ्चलवणं
परिकीर्त्तितम्” राजनि० उक्ते लवणपञ्चके ।

पञ्चलाङ्गलक न० महादानभेदे तत्स्वरूपं मत्स्यपु० यथा

“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । पञ्चलाङ्ग-
लकं नाम महापातकनाशनम् । पुण्यां तिथिं
समासाद्य युगादिग्रहणादिकम् । भूसिदानं ततो दद्यात्
पञ्चलाङ्गलकान्वितम् । कर्वटं खेटकं वापि ग्रामं वा
शस्यशालिनम् । निवर्त्तनशतं वापि तदर्द्धं वापि
शक्तितः । सारदारुमयान् कृत्वा हलान् पञ्च
विचक्षणः । सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान् ।
कुर्य्यात् पञ्चषलादूर्ड्घनासहस्रपलायधि । दृषान् लक्ष-
खसंयुक्तान् दश चैव घुरन्धरान् । सुवर्णशृङ्गा-
भरणान् मुक्तालाङ्गूलभूषणान् । रूश्रपादाग्रतिलकान्
रक्तकौषेयभूषणान् । स्रग्दागचन्दबयुतान् शालाया-
मधिवासयेत्” इतःषरं तत्राध्याये २८३ अ० दृश्यम् ।

पञ्चलोकपाल पु० संज्ञात्वात् कर्म० । ग्रहयज्ञाद्यङ्गे विना-

यकादिदेवपञ्चके “विनायकं तथा दुर्गां वायुमाकाशमेव
च । अश्चिनौ क्रमतः पञ्चलोकपालान् प्रपूजयेत्”
विधानपा० ।

पञ्चलोह न० पञ्चं विस्तीर्णं लोहम् । सौराष्ट्रदेशजे लोहे

हेम० । पञ्चगुणितं लोहं संज्ञायां कन् । पञ्चलौहक
सवर्णरजतताम्ररङ्गनागरूपे धातुपञ्चके राजनि० ।

पञ्चवक्त्र पु० पञ्च वक्त्राण्यस्य । १ महादेवे २ रुद्राक्षभेदे च

पञ्चमुखशब्दे दृश्यम् । पञ्चवदनादयोऽप्यत्र

पञ्चवट पु० पञ्चो विस्तीर्णो वटः वेष्टनम् । वालयज्ञोपवीतके त्रिका० ।

पृष्ठ ४१९४

पञ्चवटी स्त्री पञ्चानां वटानां वटप्रभृतीनां समाहार

ङीप् । वटादिवृक्षपञ्चके “अश्वत्थं विल्ववृक्षं च वटं”
धात्रीमशोककम् । वटीपञ्चकमित्युक्तं स्थापयेत् पञ्चदिक्षु
च । अश्वत्थं स्थापयेत् प्राचि विल्वसुत्तरभागतः । वटं
पश्चिमभागे तु धात्रीं दक्षिणतस्तथा । अशोकं वह्निदिक्
स्थाप्यं तपस्यार्थं सुरेश्वरि! मध्ये वेदीं चतुर्हस्तां
चतुरस्रां मनोहराम् । प्रतिष्ठां कारयेत्तस्याः पञ्चवर्षोत्तरं
शिवे! । अनन्तफलदात्री सा तपस्याफलदायिनी । इयं
पञ्चवटी प्रोक्ता वृहत्पञ्चवटीं शृणु । विल्ववृक्षं मध्य-
भागे चतुर्दिक्षु चतुष्टयम् । वटवृक्षं चतुष्कोणे वेदसंख्यं
प्ररोपयेत् । अशोकं वर्तुलाकारं पञ्चविंशतिसम्मितम् ।
दिग्विदिक्ष्वामलर्की च एकैकं परमेश्वरि! । अश्वत्थञ्च
चतुर्दिक्षु वृहत्पञ्चवटी भवेत् । यः करोति
महेशानि! साक्षादिन्द्रसमो भवेत् । इहलोके महासिद्धिः
परे च परमा गतिः” हेमा० व्र० स्कन्दपु० वचनानि ।
२ दक्षिणदिव्स्थे तीर्थभेदे “ततो पञ्चवटीं गत्वा ब्रह्म
चारी जितेन्द्रियः । पुण्येन महता युक्तः सतां लोके
महीयते । यत्र योगेश्वरः स्थाणुः स्वयमेब वृषध्वजः ।
तमर्चमित्वा देवेशं गमनादेव सिध्यति” भा० व० ३८ अ० ।
रामा० अर० सर्गे दृश्यम् ।

पञ्चवर्ग पु० पञ्च वर्गा प्रहारा यत्र । १ पञ्चप्रहरणान्विते

यागभेदे “सर्वे पञ्चवर्गाः पशुकामस्य” कात्या० श्रौ० ९ ।
४ । १८ “पशुकामस्य यजमानस्य सर्वे त्रयोऽप्यभिषवाः
पञ्चवर्गाः पञ्चप्रहाराः भवन्ति” कर्कः । पञ्चानां चाराणां
वर्गः । २ चारपञ्चके पु० “कृत्स्नं चाष्टबिधं कर्म पञ्चवर्गञ्च
तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च”
मनुटीकायां कुल्लू० उक्तं यथा “कापटिकोदास्थित
गृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं
पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत् । तत्र परमर्म्मज्ञः
प्रगल्भश्छात्रः कपटव्यवहारित्वात् कापटिकस्तं वृत्त्य-
र्थिनमर्थमानाभ्यामुषगृह्य रहसि राजा ब्रूयात् यस्य
दुर्वृच पश्यसि तत्तदानीमेव मयि वक्तव्यमिति । प्रव्रज्या-
रूढपतितौदास्थितः तं लोकेषु विदितदोषं प्रज्ञाशौच
युक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि राजा पूर्ववत् ब्रूयात् ।
बहुत्पत्तिकमठे स्थापयेत् प्रचरशस्योपत्तिकं भूम्यन्तरञ्च
तद्वृत्त्यर्यमुपलल्पयेत् स चान्येषामपि प्रव्रजितानां
राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् । कर्षकः
क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि
पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत् । बाणिजकः
क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तं पूर्ववटुक्त्वा घनमानाभ्या
मात्मीकृत्य बाणिज्यं कारयेत् । मुण्डो जटिलो वा
वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे यसन्
बहुमुण्डजटिलान्तरकपटशिष्यगण वृतो गुप्तराजोपक-
ल्पितवृत्तिः तपस्यां कूर्य्यात् मासद्विमासान्तरितं प्रकाशं
वदरादिमुष्टिमश्नीयात् रहसि च राजोपकल्पितं
यथेष्टमाहारं कल्पयेत् शिष्याश्चास्यातीतानागतज्ञानादिकं
ख्याषयेयुः तेन बहुलोकवेष्टनमासाद्य सर्वेषां विश्वस-
नीयत्वात् सर्वे कार्यमकार्यं च पृच्छन्ति अन्यस्य च कुक्रि-
यादिकं कथयन्त्येवंरूपं पञ्चवर्गं यथावच्चिन्तयेत् । एवं
प्रकल्प्य तेनैव पञ्चवर्गद्वारेण प्रतिराजस्यात्मीयानाञ्चामा-
त्यादीनाम् अनुरागविरागौ ज्ञात्वा तदनुरूपं चिन्त-
येत्” कुल्लू० । पञ्चानां वर्गाणां समाहारः ङीष् । नील०
ता० उक्ते ३ क्षेत्रहोरादिपञ्चके स्त्री पञ्चवर्गीवलानयने
च रीतिः नील० ता० दृश्या यथा
“सूर्य्यादितुङ्गर्क्षमजोक्षनक्रकन्धाकुलीरान्त्यतुलानि वै
स्युः । दिग्भिर्गुणैरष्टयमैः शरैकैर्भूतैर्भसङ्ख्यैर्नस्यसग्मि-
तैश्च” । अथोच्चबलनवांशानाह “तत्सप्तमं नीचमनेन
हीनोग्रहोऽधिकश्चेद्रसभाद्विशोध्यः चक्रात्
तदंशाङ्कलवो बलम् स्यात् क्रियैणतौलीन्दुभतो नवांशाः” अथ
हद्देशानाह “मेषेऽङ्गतर्काष्टशरेषुभागा जीवास्फुजिज्-
ज्ञारशनैश्चराणाम् । वृषेऽष्टषण्णागशरानलांशाः शुक्र-
ज्ञजीवार्किकुजेषु हद्दाः । युग्मे षड़ङ्गेषुनगाङ्गभागाः
सौम्यास्फुजिज्जीवकुजार्किहद्दाः । कर्केऽद्रितर्काङ्गनगा-
ब्बिभागाः कुजास्कुजिज्ज्ञेज्यशनैश्चराणाम् । सिंहेऽङ्क-
भूताद्रिरसाङ्गभागाः देबेज्यशुक्रार्किबुधारहद्दाः । स्त्रियां
नगाशान्धिनगाक्षिभागाः सौम्योशनोजीवकुजार्किना-
थाः । तुले रसाष्टाद्रिनगद्विमागाः कोणज्ञजीवास्कु-
जिदारनाथाः । कीटे नगाब्ध्यष्टशराङ्गभागाः भौम्या-
स्फुजिज्ज्ञेज्यशनैश्चराणाम् । चापे रवीष्वम्बुधिपञ्चवेदा
जीवास्फुजिज्ज्ञारशनैश्चराणाम् । मृगे नशाद्यूष्टयुगश्रु-
तीनां सौम्येज्यशुक्रार्किकुजेशहद्दाः । कुम्भे नगाङ्गाद्रि-
शरेषुभागा शुक्रज्ञजीवारशनैश्चराणाम् । मीनेऽर्कवेदा-
नलनन्दपक्षाः सितेज्यसौम्यारशनैश्चराणाम् । त्रिंशत्स्वभे
विंशर्तिरुच्चभे स्वेहद्देऽक्षचन्द्रादशकं दृकाणे । मुशल्लहे
(नवांशे)पञ्च लवाः प्रदिष्टाविंशोपकावैदलवैः प्रकल्प्याः ।
स्वस्वाधिकारोक्तबलं सुहृद्भे पादोनमर्द्धंसमभेऽऽरिभेऽङ्घ्रिः
एवं समानीय बलं तदैक्ये वेदोद्धृते हीनबलः शरोनः” ।
पृष्ठ ४१९५

पञ्चवर्ण न० पञ्च वर्णा अस्य । पञ्चवर्णान्विततण्डुलचूर्णे

“रजांसि पञ्चवर्णानि मण्डलार्थं हि कारयेत् । शालि-
तण्डुलचूर्णन शुक्लं वा यवसम्भवम् । रक्तं कुसुम्भसि-
न्दूरगैरिकादिसमुद्भवम् । हरितालोद्भवं पीतं रजनी
सम्भवं क्वचित् । कृष्णं दग्धपुलाकैस्तु कृष्णैर्द्रव्यैरथापि
वा । हरितं विल्वपत्रोत्थं पीतकृष्णविमिश्रितम्” ।
हेमा० व्र० । २ अकारोकारभकारनादविन्दुयुक्ते प्रणवे च

पञ्चवल्कल न० ५ त० । “न्यग्रोधोडुम्बराश्वत्थप्लक्षवेतसवल्-

कलैः । सर्वैरेकत्रसंयुक्तैः पञ्चवल्कलमुच्यते” शब्दच०
१ उक्ते “न्यग्रोधोडुम्बराश्वत्थप्लक्षपिप्पलशाल्मली । क्षी-
रिवृक्षाश्च पञ्चैषां वलकलं पञ्चवल्कलम्” इत्युपक्रमे
“पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चकं मतम् ।
त्वक्पञ्चकं हिमं ग्राहि ब्रणशोथविसर्पजित्” राजनि०
२ उक्ते च वृक्षपञ्चकवल्कले ।

पञ्चवातीय न० राजसूयाङ्गे फाल्गुनशुक्लप्रतिपदि कर्त्तव्ये

पञ्चाग्निसाध्यहोमककर्मभेदे “पञ्चवातीयम् आहवनीयं
प्रतिदिशं व्यूह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्निनेत्रेभ्य
इति प्रतिमन्त्रम्” कात्या० श्रौ० १५१२० “होममन्त्राणां
लिङ्गेन व्यवस्था (फाल्गुनशुक्ल प्रतिपद्यव) पञ्चवातीय
संज्ञकं वक्ष्यमाणकर्म भवति आहवनीयं प्रतिदिशं व्यूह्य
खरमध्यस्थं हस्तप्रेरितमेव खरमध्य एव प्राच्यादिदिक्षु
स्थापयित्वा मध्ये चावशिष्य पञ्चस्वग्निषु जुहोति” कर्कः
“उत्तराः समस्य ये देवा इति प्रतिमन्त्रम्” २१ सू०
मुहोतीति शेषः समस्य चाग्नीनिति प्रतिदिशं व्यूढ-
माहवनीयमेकत्र कृत्वा उत्तराः पञ्चाहुतीर्जुहोति” कर्कः
“त्रियुक्ताऽश्वरथो दक्षिणा” २२ सू० “त्रिभिरश्वैर्युक्तोरथो
दक्षिणा” कर्कः । तस्य नामनिरुक्तिः शत० ब्रा० ५२ । ४
दर्शिता यथा “तस्य प्रष्टिवाहनोऽश्वरथो दक्षिणा ।
“त्रयोऽश्वा द्वौसव्येष्टृसारघी ते पञ्च पाणा योवै प्राणः
स वातस्तद्यदेतस्य कर्मण एषा दक्षिणा तस्मात् पञ्चवा-
तीयं नाम्” । तस्य व्याधितरोगनिवृत्तिहेतुत्वमपि तत्र
दर्शितं यथा “स हैतेनापि भिषज्येत्” । “अयं वै
प्राणो योऽयं पवते यो वै प्राणः स आयुः सोऽयमेक
इवैव पवते सोऽयं पुरुषेऽन्तःप्रविष्टो दशधा विहितो
दश वा एता आहुतीर्जुहोति तदस्मिन् दश प्राणान्
कृत्स्नमेव सर्वमायुर्दधाति समदिहादि गतासुरिव भवत्या
हैवैनेन हरति” ।

पञ्चविधप्रकृति स्त्री कर्म० । अमात्यराष्ट्रेष्ठुर्गार्थदण्डाख्यासु

पञ्चसु राज्याङ्गप्रकृतिषु मनुः ७ अध्याये १५७ श्लोके ।

पञ्चवीज न० पञ्चं विस्तीर्णं मध्ये वीजमस्य । १ त्रपुषे (शशा)

२ कर्कट्यां ३ दाडिमे च नैघण्टु प्र० ।

पञ्चवृत्ति स्त्री पञ्चगुणिता वृत्तिः शा० त०, कर्म०, ब० व० वा ।

पात० उक्तासु पञ्चसु मनोवृत्तिषु “वृत्तयः पञ्चतय्यः क्लिष्टा-
ऽक्लिष्टाः” सू० । “प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः”
सू० प्राणनापाननसमाननोदाननव्याननरूषवृत्तिपञ्चकयुक्ते
देहस्थे बायौ २ प्राणे च ।

पञ्चशर पु० पञ्च शरा अस्य । १ कन्दर्षे अमरः । तच्छराश्च

कालिकापुराणशब्दे २० १३ पृ० दर्शिताः । पञ्चगुणिताः शराः
शा० त० । कामस्य २ शरेषु १२६९ पृ० उपयमशब्ददर्शिते
३ रोगादिवाणपञ्चके च ।

पञ्चशस्य न० समा० द्वि० । “धान्यमुद्गास्तिला माषाः यवाः

सिद्धार्थकोऽथ वा । पञ्चशस्यमिति प्रोक्तम्” इत्युक्तेषु
धान्यादिषु । दुर्गोत्सवपद्धतिः ।

पञ्चशाख पु० पञ्च शाखाकारा अङ्गुलयो यत्र । १ हस्ते

अमरः । २ गजे पु० स्त्री स्त्रियां जातित्वात् ङीष् ।
समाद्वि० । पञ्चानां शाखानां ३ समाहारे न० ।

पञ्चशारदीय पु० यज्ञभेदे कात्या० श्रौ० २३४ । ३ दृश्यः ।

पञ्चशिख पु० मुनिभेदे तस्योत्पत्त्यादिकं वामनपु० ५० अ०

उक्तं यथा “धर्मस्याहिंसा भार्य्या या तस्यां पुत्र
चतुष्टयम् । सम्प्राप्तं मुनिशार्दूल । योगशास्त्रविचार-
कम् । ज्येष्ठः सनत्कुमारोऽभद्धितीयश्च सनातनः ।
तृतीयः सनको नाम चतुर्थश्च सनन्दनः । सांख्यवेत्तार
मपरं कपिलं वोढुमासुरिम्! दृष्ट्वा पञ्चशिखं श्रेवं
योगयुक्तं तपोनिधिम् । ज्ञानयोगं न ते दद्युर्ज्यायां
सोऽपि कनीयसाम्” । भा० शा० २१८ अ० तस्य नामनिरु-
क्तिरन्यथोत्पत्तिश्चोक्ता यथा “तत्र पञ्चशिखो नाम
कापिलेयो महामुनिः । परिधावन् महीं कृत्स्नां जगाम
मिथिलामथ । सर्वसन्न्यासधर्माणां तत्त्वज्ञानविनिश्चये ।
सु पर्य्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयम् । ऋपीणामाहु-
रेकं यं कामादवसितं नृषु । शाश्वतं सुखमत्यन्तमन्वि-
च्छन्तं सुदुर्लभम् । यमाहुः कपिलं सांख्याः परमर्षिं
प्रजापतिम् । स मन्ये तेन रूपेण विस्मापयति हि
स्वयम् । आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् । यत्र
चासीनमागम्य कापिलं मण्डलं महत् । पञ्चस्रीतसि
निष्णातः पञ्चरात्रविशारदः । पञ्चज्ञः पञ्चकृत् पञ्चगुणः
पृष्ठ ४१९६
पञ्चशिखः स्मृतः । पुरुषावस्थमव्यक्तं परमार्थं न्यवे-
दयत् । इष्टसत्रेण सम्पृष्टो भूयश्च तपसासुरिः ।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं वुबुघे देवदर्शनः । यत्तदेकाक्षरं
ब्रह्म नानारूपं प्रदृश्यते । आसुरिर्मण्डले तस्मिन्
प्रतिपेदे तदव्ययम् । तस्य पञ्चशिखः शिष्यो मनुष्यो
वयसा भृतः । ब्राह्मणी कपिला नाम काचिदासीत्
कुटुम्बिनी । तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति
स्तनौ । ततः स कापिलेयत्वं लेभे बुद्धिञ्च नैष्ठिकीम् ।
एतन्मे भगवानाह कापिलेयस्य सम्भवम् । तस्य तत्का-
पिलेयत्वं सर्ववित्त्वमनुत्तमम्” ।

पञ्चशीर्ष पु० पञ्च शीर्षाण्यस्य । सर्पभेदे ।

पञ्चशुक्ल पु० पञ्चसु कृष्णः । कीटभेदे सुश्रुतः कीटशब्दे दृश्यम् ।

पञ्चशूरण पु० पञ्च शूरणा यत्र । “अत्यम्लकाण्डीरमाला-

कन्दद्विशूरणैः । कॢप्तो भवति योगोऽयं पञ्चशूरणसं-
ज्ञकः” राज० उक्ते मिलिते अत्यम्लादौ ।

पञ्चशैरीषक न० पञ्चगुणितं शैरीषकम् शा० त० । शिरीष-

वृक्षस्य पुष्पमूलफलपत्रवल्कलेषु राजनि० ।

पञ्चशैल पु० मेरोर्दक्षिणस्थे पर्वतभेदे “पञ्चशैलोऽथ कैलासो

हिमवांश्चाचलोत्तमः । इत्येते दक्षिणे पार्श्वे मेरोः
प्रोक्ता महाचलाः” मार्कण्डपु० ५५ अ० ।

पञ्चष त्रि० ब० पञ्च वा षट् वा वार्थे ब० स० ड समा० । पञ्च

वा षट् वा परिमाणं येषां तेषु पदार्थेषु ।

पञ्चसिद्धान्ती स्त्री समा० द्वि० । ब्रह्मसूर्य्यसोमाद्युक्तेषु पञ्चसु

ज्योतिषसिद्धान्तेषु ।

पञ्चसिद्धीषधिक पु० पञ्च सिद्धौषधयो यत्र कप् । “तैल-

कन्दं सुधाकन्दक्रोडकन्दरुदन्तिकाः । सर्पनेत्रयुताः
पञ्चसिद्धौषधिकसंज्ञकः” राजनि० उक्ते तैलकन्दादि-
सिद्धौषधिपञ्चकयोगभेदे ।

पञ्चसुगन्धिक “कर्पूरकक्कोललवङ्गपुष्पगुवाकजातीफलपञ्च-

केन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं
स्यात्” इत्युक्तेषु मिलितसुगन्धिकर्पूरादिद्रव्येषु राजनि० ।

पञ्चसूना स्त्री पञ्च सूनाः प्राणिबधस्थानानि । “पञ्च सूना

गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च
बध्यते यास्तु वाहयन्” मनुनोक्तेषु पञ्चसु कीटबधस्थाने

पञ्चस्रोतस् त० पञ्च स्रोर्तासि यत्र । तीर्थभेदे भा० शा०

२१८ अ० दृश्यम् । २ योगभेदे पञ्चशिखशब्दे दृश्यम् ।

पञ्चस्वरा स्त्री पञ्च स्वराः प्रतिपाद्यतया यत्र । प्रजापतिदास

दैवज्ञजते ज्योतिषग्रन्थभेदे ।

पञ्चस्वरीदय पु० ज्योतिषग्रन्थभेदे गरुडपु० मूलं दृश्यम् ।

पञ्चहारक न० हेमचन्द्रोक्ते हारभेदे ।

पञ्चहोत्र पु० वैवस्वतमनोः पुत्रभेदे हरिवं० ७ अ० ।

पञ्चह्रद पु० पञ्च ह्रदा--अत्र । तीर्थभेदे स्कन्द पु० ।

पञ्चांश पु० वृत्तौ सङ्ख्यावचनस्य पूरणार्थत्वस्वीकारेण पञ्चशब्दः

पञ्चमार्थे कर्म० । त्रिंशदंशात्मकराशेः पञ्चमेऽंशे तदंश-
पानयनरीतिः नीलकण्ठताजके उक्ता यथा “ओजर्क्षे पञ्च-
मांशेशा कुजार्कीज्यज्ञभार्गवाः । समभे व्यत्ययाद् ज्ञेयाः”

पञ्चाक्षर त्रि० पञ्च अक्षराणि यत्र । १ मन्त्रभेदे २ प्रतिष्ठाख्य

छन्दोभेदे च । “गुरु पञ्चाक्षरेण” यजु० ९ । ३२ “पञ्चाक्ष-
रेण छन्दसा” वेददी० । ३ प्रणवे च पञ्चवर्णशब्दे दृश्यम् ।

पञ्चाग्नि पु० संज्ञात्वात् कर्म० । १ अन्वाहार्य्य पचनगार्हप-

त्याहवनीयसभ्यावसथ्यात्मकेषु पञ्चस्वग्निषु” “पवनः
पावनस्त्रेता यस्य पञ्चाग्नयो गृहे” इति हारीतः
तत्र पवनः आवसथ्योऽग्निः पावनः सभ्योऽग्निः” कुल्लू० ।
ते यस्य व० । २ तदग्निभिर्विहिततत्तत्कार्यकारके च ।
“कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः” याज्ञ०
व्याख्यायां सभ्यावसथ्यौ त्रेता अग्नयश्च यस्य सन्ति स
पञ्चाग्निः पञ्चाग्निविद्याध्यावी वा” मिता० छान्दो० उ०
उक्तेषु च स्वर्गपर्जन्यपृथिवीपुरुषयोषात्मकेषु अग्निवदा-
हुत्याधारेषु ३ पदार्थेषु “पञ्चाग्नयो ये च त्रिणाचिकेताः”
श्रुतिः चतुर्दिक्षु च ऊर्द्धे च स्थितेषु पञ्चसु ४ तेजस्विषु ।

पञ्चाङ्ग पुंस्त्री० पञ्चाङ्गानि यस्य । १ कमठे शब्दमाला । पञ्च-

भद्राख्ये २ अश्वभेदे शब्दमा० “बाहुभ्यां चैव जानुभ्यां
शिरसा वक्षसा दृशा” । पञ्चाङ्गोऽयं प्रणामः स्यात्” इति
तन्त्रसारोक्ते ३ प्रणामभेदे “त्वक्पत्रकुसुमं मूलं
फलमेकस्य शाखिनः । एकत्र मिलितं चैतत् पञ्चाङ्गमिति
संज्ञितम्” राजनि० उक्तेषु ४ एकवृक्षत्वगादिषु पञ्चसु
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् । पञ्चाङ्गो-
पासनं लोके पुरश्चरणमिष्यते” तन्त्रसारोक्ते ५ महापुर-
श्चरणे न० । “तिथिर्वारश्च नक्षत्रं योगः करणमेव च ।
पञ्चाङ्गमेतदुद्दिष्टम्” ज्यो० उक्तेषु ६ तिथ्यादिषु । “सागमो
दीर्घकालश्च निश्छिद्रोऽन्थरवोज्झितः । प्रत्यर्थिसन्नि-
धानञ्च पञ्चाङ्गो भोग इष्यते” कात्या० उक्ते आगमादि-
पञ्चकयुक्ते ७ भोगे च ।

पञ्चाङ्गगुप्त पुंस्त्री पञ्चाङ्गानि गुप्तान्थस्य । कच्छपे त्रिका० ।

करपादचतुष्कशिरोरूपावयवपञ्चकस्य स्वेच्छया गोपनात्
तस्य तषात्वम् । स्त्रियां जातित्वात् ङीष् ।
पृष्ठ ४१९७

पञ्चाङ्गशुद्धि स्त्री पञ्चाङ्गस्य शुद्धिः । तिथिवारादीनां शुद्धौ

दोषराहित्ये विहिततिथ्यादौ “पञ्चाङ्गशुद्धिदिवसे
सोदये शशितारयोः । गुरुशुकोदये शुद्धे लग्ने
द्वादशशोधिते । चन्द्रतारानुकूल्ये च शस्यते सर्व
कर्मणि” ।

पञ्चाङ्गी स्त्री करिणां कटिबन्धनदामनि हेमच० ।

पञ्चाङ्गुल पु० पञ्च अङ्गुलय इव पत्रेष्वस्य दारुणि अच्समा० ।

एरण्डवृक्षे अमरः । २ पञ्चाङ्गल्याकारयुक्ते दर्वीभेदे च
अदारुणि तु न अच् । पञ्चाङ्गुलि इत्येव ।

पञ्चाज न० गञ्चगव्यवत् विग्रहः । अजायाः पूरीषादिपञ्चके तद्वदेव

तद्घृतपाकविधिः सुश्रुतोक्तः पञ्चमहिषशब्दे दर्शितः ।

पञ्चातप त्रि० पञ्चभिरग्न्यादिभिरातप्यते आ + तप--अच् ६ त० ।

अग्निचतुष्टयसूर्य्यरूपैः पञ्चभिस्तपस्यति । तत्स्थापन-
प्रकारस्तु “यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् ।
वह्निसंस्थापनं ग्रीष्मे तीब्रांशुस्तत्र पञ्चमः । हस्तान्तरे
चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना । तन्मध्यस्था सूर्य्यविम्बं
वीक्षन्ती बहुलांशुका” कालिकापु० ४२ अ० । “ग्रीष्मे पञ्चा-
ग्निमध्यस्थो वर्षासु स्थण्डिलेशयः” स्मृतिः ।

पञ्चात्मक त्रि० पञ्च आकाशादय आत्मा स्वरूपं वा यस्य ।

आकाशादिपञ्चभूतस्वरूपे “पञ्चात्मकं देहमिदं” मार्कण्डपु०
२५ अ० । पञ्चीकृतमूतजातत्वाद्देहस्य तथात्वं पाञ्चभौतिक-
शब्दे दृश्यम् ।

पञ्चानन पुंस्त्री पञ्चं विस्तीर्णमाननमस्य । १ सिंहे स्त्रियां

ङीष् । २ सिंहराशौ पु० पञ्च आननान्यस्य । ३ पञ्चमुखे
शिवे च । “विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि! ।
सद्यो जातं वामदेवमघोरञ्च ततःपरम् । तत्पुरुषं तथेशानं
पञ्चवक्त्रं प्रकीर्त्तितम् । सद्योजातं च वै शुक्लं शुद्धस्फटिक
सन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ।
कृष्णवर्णमधोरं च समं भीमविवर्द्धनम् । रक्तं
तत्पुरुषं देवि! दिव्यमूर्त्तिमनोहरम् । श्यामलं च तथे
शानं सर्वदेवं शिवात्मकम् । चिन्तयेत् पश्चिमे चाद्यं
द्वितीयं च तथोत्तरे । अघोरं दक्षिणे देवं पूर्वे
तत्पुरुषं तथा । ईशानं मध्यतो ज्ञेयं चिन्तयेत् भक्ति
तत्परः” निर्वाणतन्त्रे ६ पटले । ४ रुद्राक्षभेदे ।

पञ्चाप्सरस् शातकर्णिमुनेस्तपस्याभङ्गार्थमिन्द्रप्रेषित पञ्चा-

प्सरोभिस्तपस्याभङ्गे कृते यत्र सरोवरे तासां सर्वदा-
स्तितिरासीत् तादृशे सरोभेदे रघु० १३ सर्गे दृश्यम् ।

पञ्चाब्जमण्डलम् न० सर्वतोभद्रमण्डलान्तर्गते पञ्चपद्मा-

त्मके मण्डलभेदे “पञ्चाब्जमण्डलं प्रोक्तमेतत् खस्तिक
वर्जितम्” राघवभट्टधृतवचनम् ।

पञ्चामरा स्त्री संज्ञात्वात् कर्म० । अमरलतापञ्चके

“एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् । अन्या
तु विजया देवी सिद्धिरूपा सरस्त्रती । अन्था तु विल्य-
पत्राख्या शिवसन्तोषकारिणी । अन्या तु योगसिद्ध्यर्थे
निर्गुण्डी चामरा लता । अन्यातु कालतुलसी श्री-
विष्णोः प्रियतोषिणी । एताः पञ्चामरा ज्ञेया योगसा-
धनकर्मणि” इति रुद्रजामलोत्तरखण्डे ३६ पटले ।

पञ्चामृत न० समा० द्वि० । “दुग्धं च शर्करा चैव घृतं दधि

तथा मधु । पञ्चामृतमिदं प्रोक्त” मित्युक्तेषु पञ्चसु दुग्धादिषु।

पञ्चामृतयोग पु० “गुडुची गोक्षुरश्चैव मूशली मुण्डिका

तथा । शतावरीति पञ्चानां योगः पञ्चामृताभिधः”
राजनि० उक्तेषु युक्तगुडुच्यादिषु ।

पञ्चाम्नाय पु० संज्ञात्वात् कर्म० । शिवेन पञ्चभिर्वक्तैरुक्तेषु

आम्नयतुल्यशास्त्रेषु यथोक्तं “पूर्वाम्नायः पूर्वमुखः प्रश्चिमः
पश्चिमामुखः । दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरःपरः ।
निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम् । ऊर्द्ध्वाम्लाय
परिज्ञानं नाल्पस्य तपसः फलम्” इति “पूर्या-
म्नायः शब्दरूपो दक्षिणः कर्णरूपकः । पश्चिमः प्रश्न-
रूपः स्यादुत्तरं चोत्तरस्तथा । ऊर्द्ध्वाम्नायस्तत्त्वबोधः
केवलानुभवात्मकः” इति भैरवतन्त्रम् “शिवपञ्चमुखेभ्यश्च
पञ्चाम्नायाः समुद्गताः” इत्यादि कुलार्णवतन्त्रम् ।

पञ्चाम्र न० “अश्वत्थमेकं पिचुमर्दमेकं न्यग्रोधमेकं दशपुष्प-

जातीः । द्वे द्वे तथा दडिममातुलङ्गे पञ्चाम्रवापी
नरकं न याति” इति वराहपु० १ उक्ते “अश्वत्थ एकः
पिचुमर्द एको द्वौ चम्पकौ त्रीणि च केसराणि ।
सप्वाथ ताला नव नारिकेलाः । पञ्चाम्रवापी नरकं न
याति” तिथि० त० २ उक्ते च अश्वर्थादौ । वस्तुतः पञ्चाना-
माम्राणां वापीत्युत्तरपदद्विगुः तात्पर्यवशात् अश्वत्थादीनां
वापीत्यध्याहारेणान्वयः इति बोध्यम् ।

पञ्चाम्ल न० अम्लपञ्चके “कोलदाड़िमवृक्षाम्लैरम्लवेतससं-

युतैः । चतुरम्लञ्च पञ्चाम्लं मातुलाङ्गसमन्वितम्”
शब्दच उक्ते अम्लपञ्चके

पञ्चायतनी स्त्री पञ्चानामुपास्यदेवरूपाणामायतनानां

समाहारः । गणेशादिपञ्चदेवरूपोपास्याना समाहारे । पञ्च-
देवोपासकस्य यस्मिन् दिने यस्य पूज्यता तस्य तद्दिने मध्ये
पृष्ठ ४१९८
स्थापनमन्येषां च दिग्भेदेषु स्थापनमुक्तं तन्त्रसा० यामले
“भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत् ।
आग्नेय्यां पार्वतीनाथं नैरृत्यां गणनायकम् । वायव्यां
तमनं चैव पूजाक्रमौदाहृतः । यदा तु मध्ये
गोविन्दमैशान्यां शङ्करं यजेत् । आग्नेय्यां गणनाथञ्च
नैरृत्यां तपनन्तथा । वायव्यामम्बिकां चैव भोगमोक्षैक-
भूमिकाम् । शङ्करं च यदा मध्ये ऐशान्यामच्युतं
यजेत् । आग्नेय्यां तपनं चैव नैरृत्यां गणनायकम् ।
वायव्यां पार्वतीं चैव स्वर्गमोक्षप्रदायिनीम् । आदित्यं
च यदा मध्ये ऐशान्यां शङ्करं यजेत् । आग्नेय्यां
गणनाथं च नैरृत्यां केशवं यजेत् । वायव्यामम्बिकां देर्वो
स्वर्गसाधनभूमिकाम् । गणनार्थ यदा मध्ये ऐशान्यां
क्तेशवं यजेत् । आम्नेय्यामीश्वरं चैव नैरृत्यां तपनन्तथा ।
वायव्यां पार्वतीं चैव पूजयेन्मोक्षदायिनीम् । स्वस्थान
वर्जिता देवा दुःखशीकभयप्रदाः” ।

पञ्चारी स्त्री पञ्च पञ्च संख्यामृच्छति ऋ--अण् उप० स० ।

गौरा० ङीष् । शारीफलके (पाशारछक) शब्दमाला ।
तस्य पञ्चषञ्चकोष्ठात्मकत्वात्तथात्वम् ।

पञ्चार्चिस् पु० पञ्च अर्चीषि यस्य । बुधग्रहे त्रिका० ।

पञ्चाल पु० प० व० । पचि--कालन् । १ देशभेदे उणादिकोषः ।

विष्णु पु० ४ अ० १९ अध्याये अस्यान्या निरुक्तिर्दर्शिता यथा
“हर्य्यश्वान्मुद्गलसृञ्जयवृहदिषुयबीनरककाम्पिल्ब संज्ञाः ।
पञ्चानामेतेषां विषयाणां रक्षणायालमेते
मत्पुत्रा इति पित्राभिहिता इति पञ्चालाः” । पृषो० दीर्घत्वे
पाञ्चालोऽप्यत्र उज्व० । “गच्छताद्यैव पाञ्चालान् द्रुप-
दस्य निवेशने” भा० आ० १८४० । सोऽभिजनोऽस्य तस्य
राजा वा अण् । पाञ्चाल तद्देशवासिनि तन्नृप्रे च ।
वहुषु अणो लुक् । पञ्चाला इत्येव । पञ्चालनृपस्य
भारते द्रुपद इति ख्यातः । तस्यापत्यं स्त्रो पाञ्चाली
द्रौपद्याम् २ महादेवे शा० प० २८६ अ० । ३ बाभ्रव्यगोत्रे
षरमेश्वरात् क्रमप्राप्तरि ४ ऋषिभेदे भा० शा० ३४४ अ० ।

पञ्चालिका स्त्री पञ्चाय प्रपञ्चाय अलति अल--ण्वुल्

कापि अतद्त्त्वम् । वस्त्रादिकृतपुत्तलिकायाम् अमरः ।

पञ्चाली स्त्री पञ्चाय अलति अच् गौरा० ङीष् । १ बस्त्रादि-

कृतपुत्ततिकायाम् (पाँचाली) ख्याते ३ गीतिभेदे च मेदि० ।
पञ्चारी + रस्य लः । ३ शारिशृङ्खलायाम् (पाशारछक)
त्रिका० ।

पञ्चावट वरस्कटे बालोपवीते हारा० ।

पञ्चावत्तिन् त्रि० पञ्चधा अवत्तं खण्डनमस्त्यत्र । पञ्चधा

खण्डिते चर्वादौ आश्व० श्रौ० ११०१९

पञ्चावयव पु० पञ्च प्रतिज्ञादयोऽवयवायस्य । प्रतिज्ञाहेतू-

दाहरणोपनयनिगमनात्मकावयवपञ्चकयुक्ते न्यायवाक्ये

पञ्चावस्थ पु० पञ्चसु भूतेषु स्वकारणेषु अवस्था यस्य । शवे

प्रेतदेहे त्रिका० तस्य देहारम्भकभूतानां स्वस्वकारणे
लयोन्मुखत्वात् तथात्वम् ।

पञ्चावी स्त्री पञ्च अवयः षण्मासात्मककाला घयोऽस्याः

ङीप् । स्वार्द्धवर्षद्वयपयस्कायां स्त्रीगव्यां यजु० १८३६ ।

पञ्चाशत् स्त्री पञ्च दशतः परिमाणमस्याः नि० । (पञ्चाश)

१ संख्याभेदे २ तत्सङ्ख्यान्विते च ततः पूरणे डट् । पञ्चाश
तत्सङ्ख्यापूरणे त्रि० स्त्रियां ङीप् । तमप् पञ्चाशत्तम तदर्थे ।
सऽधिकं यत्र शतादौ ड । पञ्चाश पञ्चाशदधिके शते
सहस्रे च डिनि । पञ्चाशिन् तत्परिमाणयुक्ते । स्त्रियां
ङीप् । स्वार्थे क टाष् । पञ्चाशिका चौरपञ्चाशिका
षट्पञ्चाशिका इत्यादि ।

पञ्चाशीति स्त्री पञ्चाधिका अशीतिः । शा० त० । (पँचाशी) १ सङ्ख्याभेदे २ तत्संख्यके च ।

पञ्चास्य पुंस्त्री० पञ्चं विस्तीर्णमास्यं यस्य । १ सिंहे स्त्रियां

जातित्वेऽपि योपधत्वात् टाप् । २ सिंहराशौ च पञ्च
आस्यान्यस्य । ३ पञ्चानने शिवे ४ पञ्चवक्त्रे रुद्राक्षे च ।

पञ्चिन् त्रि० पञ्च परिमाणमस्य डिनि । पञ्च परिमाणयुक्ते

ऐत० ब्रा० ३ । ३१८

पञ्चीकरण न० अपञ्च पञ्चात्मकानि क्रियन्ते अनेन पञ्चन् +

च्वि--कृ--भावे ल्युट् । अपञ्चात्मकस्य पञ्चात्मकतासम्पा-
दने व्यापसूभेदे । पञ्चीकरणन्तु आकाशादिषु पञ्चस्वेकैकं
द्विधा समं विभज्य तेषु दशसु भागेषु मध्ये प्राथमि-
कान् पञ्च भागान् प्रत्येकं चतुर्द्धा समं विभज्य तेषां
चतुर्णां भागानां स्वस्वद्वितीयार्द्धभागं परित्यज्य भागा-
न्तरेषु संयोजनम् तदुक्तं “द्विधा विधाय चैकैकं चतुर्द्धा
प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते”
वेदान्तसारः ।

पञ्चीकृत त्रि० पञ्चीकृ--कर्मणि क्त । पञ्चात्मकताकरणेन

उत्पादिते “अपञ्चीकृतभूतोत्थं सूक्ष्मङ्गं भोगसाधनम्”
वेदान्तपरिभाषा ।

पञ्चेध्मीय पु० पञ्चभिरिध्मभिः निर्वृत्तः छ । पञ्चेध्मसाध्ये

होमभेदे तैत्ति० ९३ । ७ “रात्रौ निशायां पञ्चेध्मीयेन च”
आपन्तम्बः ।
पृष्ठ ४१९९

पञ्चेन्द्र त्रि० पञ्च इन्द्राण्यो देवता अस्य अण् तस्य “द्विगो-

र्लुगनपत्ये” पा० लुकि “लुक् तद्धिततलुकि” पा० उपसर्जन
स्त्रीप्रत्ययस्य लुक् । इन्द्राणीपञ्चकदेवताके हविरादौ ।

पञ्चेन्द्रिय न० संज्ञात्वात् कर्म० । इन्द्रियपञ्चके इन्द्रियशब्दे

दृश्यम् । तच्च ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं च ।

पञ्चेषु पु० संज्ञात्वात् कर्म० । कामस्य १ बाणपञ्चके कालिकापु०

२०१३ दृश्यम् । उपयमशब्दे १२६९ पृ० उक्ते विवाहादौ
वर्ज्ये २ चौरादिपञ्चके । पञ्च इषवोऽस्य । ३ कामदेवे
हला० ।

पञ्चोपचार पु० संज्ञात्वात् कर्म० । गन्धादिनैवेद्यान्तेषु

पञ्चसु १ पूजाङ्गेषु उपचारशब्दे १२०४ पृ० दृश्यम् । पञ्च
उपचारा यत्र । २ पञ्चोपचाराङ्गे पूजनादौ त्रि० ।

पञ्चोपविष न० संज्ञात्वात् कर्म० । “स्नुह्यर्ककरवीराणि

लाङ्गली विषमुष्टिका । एत न्युपविषाण्याहुः पञ्च पाण्डित्य
शालिनः” राजनि० उक्तेषु पञ्चसु स्नुह्यादिषु उपविषेषु ।

पञ्चोष्मन् पु० संज्ञात्वात् कर्म० । “भौमाप्याग्नेयवायव्याः

पञ्चोष्माणः सनाभसाः । तत्तदाहारवः स्वान् स्वान्
पार्थिवादीन् पचन्त्यमी” सारकौ० उक्ते आहारपाचके
देहस्थाग्निपञ्चके ।

पञ्चोदन पु० पञ्चधा विभक्तः ओदनः । पञ्चाङ्गुलिभिः पञ्चथा

विभक्ते ओदने । “पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर
पञ्चधैतमेनम्” अथ० ७ । १४ । ७ तस्य विनियोगश्च
तदुत्तरत्र मन्त्रेषु द्रष्टव्यः ।

प(पि)ञ्जर पु० न० पजि (पिजि) वा अरन् । १ शरीरास्थिवृन्दे

कङ्काले २ विहङ्गमादिबन्धनस्थाने न० अमरः । ३ कलियुगे
४ गवां नीराजनाविधौ च सारकौमुदी । ततः चतु
रय्यों सङ्काशा० ण्य । पाञ्जर्य्य तत्सन्निकृष्टदेशादौ त्रि० ।

पञ्जराखेट पु० पञ्चरमिवाखेटः । मत्स्यधारणयन्त्रभेदे

(पोलो) त्रिका० ।

पञ्जल पु० पजि--अलच् । कोलकन्दे राजनि० ।

पञ्जि(ञ्जी) स्त्री पजि--इन् वा ङीप् । १ सूत्रसाधननालि-

कायां (पाँइज) ।

पञ्जिका स्त्री पंञ्जि + स्वार्थे क । पाणिनीयसूत्रवृत्तिभेदे

तिथिवारादिपञ्चाङ्गवाधिकायां २ पत्रिकायाञ्च शव्दमाला
(पाँजि) “वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम् ।
“तिथिर्भवति तङ्गाभा थोनः सागरसङ्गमः । करणं
सर्वतीर्थानि श्रुता चेत् “दिनपञ्जिका” ज्योति० । तत्सू-
चकत्वात् तस्यास्तथात्वम् “टीका निरन्तरव्याख्या
पञ्जिका पदनक्तिका” हेमच० उक्तलक्षणे ३ व्याख्यानभेदे
च ४ आयव्ययसूचनार्थपत्रे च ५ अग्रमन्धान्थां त्रिका० ।

पञ्जिकारक त्रि० पञ्जिमायव्ययसूचकपत्रं करोति कृ--ण्वुल् ।

कायस्थे जटाधरः कृ--ट । पञ्जीकरोऽप्यत्र त्रिका० ।

पट गतौ भ्वा० पर० सक० सेट् । पटति । अपाटीत् अपटीत् ।

पपाट पेटतुः । उद् + णिच् । उन्मूलने उत्पाटयति ।

पट दीप्तौ चु० उभ० अक० सेट् । पाटयति ते अपीपटत् त ।

अव--छेदने सक० । अवपाटयति छिनत्तीत्यर्थः ।

पट वेष्टने अद० चु० उभ० सक० सेट् । पटयति ते अपपटत् त

पट पु० पट वेष्टने करणे घञर्थे क । १ वस्त्रे अमरः स्त्रीत्वमपि

अपटीक्षेपेणेत्युदाहरणदर्शनात् । २ चित्रपटे मेदि०
चित्रलेखनपटस्वरूपादि देवीपु० उक्तं यथा “पटस्य लक्षणं
वक्ष्ये यथा सिध्यन्ति साधकाः । ग्रन्थिकेशविहीने तु
अजीर्णे समतन्तुके । अस्फुटिते चाच्छिद्रे स्थलेनैव
समालिखेत् । योगिनीरूपिणी कार्य्या जयाद्यै”
परिवारिता । वृद्धेनच भवेद्वृद्धोव्याधिते व्याधितो
भवेत् । कुरूपेण कुरुपस्तु सूक्ष्मेण सूक्ष्मतामियात् ।
लेखकस्य तु यद्रूपं चित्रे भवति तादृशम्” ।
षटस्यांशभेदच्छेदनादिषु फलं तद्धारणनक्षत्रादिफलं च
वृ० सं० ७१ अ० उक्तं यथा
“वस्त्रस्य कोणेष वसन्ति देवा नराश्च पार्श्वान्वद-
शान्तमध्ये । शेषास्त्रेयश्चात्र निशाचरांशास्तथैव शय्या-
सनपादुकासु । लिप्ते मसीगोमयकदमाद्यैश्छिन्ने
प्रदग्घे स्कुटिते च विद्यात् । पुष्टं नवेऽल्पाल्पतरं च
भुक्ते पापं शुभं वाऽधिकमुत्तरीये । रुग्राक्षसाशेष्वथ वासि
मृत्युः पुञ्जन्म तेजश्च मनुष्यभागे । भागेऽमरणामथ
भोगवृद्धिः प्राल्पेषु सर्वत्र वटन्त्यनिष्टम् । कङ्कप्लवोलू-
ककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः । छेदाकृतिर्दैघत-
भागगापि पुंसां भयं मृत्युसर्म करोति । छत्रध्वजस्व-
स्तिकवर्द्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः । छेदाकृति
र्नैरृतभागगापि पुंसां विधत्ते नचिरेण लक्ष्मीम् ।
प्रभूतवस्त्रदाऽश्विनी भरण्यथापहारिणी । प्रदह्यतेऽग्नि-
दैवते ३ प्रजेश्वरे ४ ऽर्थसिद्धयः । मृगे तु मूषकाद्भयं व्यसु-
त्वमेव शाङ्करे ६ । पुनर्वसौ शुभागमस्तदग्रभे ८ धनैर्यु-
तिः । भुजङ्गमे ९ विलुप्यते मघासु मृत्युमादिशेत् ।
भगाह्वये ११ नृपाद्भयं धनागमाय चोत्तरा १२ । करेण १३
कर्मसिद्धयः शुभागमस्तु चित्रया । शुभं च भोज्यमा-
निले १५ द्विदैवते १६ जनप्रियः । सुहृवातिश्च मित्रभे १७
पुरन्दरे १८ ऽम्बरक्षयः । जलप्लुतिश्च नैरृते १९ रुजो
जलाधिदैवते २० । मिष्टमन्नमथ विश्वदैवते २१ वैष्णवे २२
भवति नेत्रशेमिता । चान्यलब्धिमपि वातवे २३ विदु-
पृष्ठ ४२००
र्वारुणे २४ विषकृतं महद्भयम् । भाद्रपदासु भयं
सलिलोत्थं तत्परत्र २६ च भवेत्सुतलब्धिः । रत्नयुतिं कथयन्ति
च पौष्णे २७ योऽभिनवाम्बरमिच्छति भोक्तुम् ।
विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावपि लब्धम् । तेषु
गुणैः रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात् ।
भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते । विवाहे
राजसम्माने ब्राह्मणानां च सम्मते” । ३ पियालवृक्षे पु०
मेदि० ४ पुरस्कृते त्रि० विश्वः । ५ छदिषि (चाल) भरतः

पट् न० पटवेष्टने--क्विप् । पादबन्धने षड्वीशशब्दे दृश्यम् ।

पटक न० पट--बा० वुन् । शिविते शब्दमाला ।

पटकार त्रि० पटं करोति कृ--अण् । तन्तुवाये

पटकुटी स्त्री पटनिर्मिता कुटी शा० त० । पटमये गृहे (ताँवु)

हेमच० । पटगृहादयोऽप्यत्र

पटच्चर न० पट्यते आवेष्ट्यते पट--अति, भूतपूर्वं पटत् पटत् +

चरट् । १ जीर्णवस्त्रे । पटदिव वेष्टित इव चरति चर--
अच् । २ चौरे पु० अमरः ।

पटत् अव्य० । १ अव्यक्तानुकरणशब्दभेदे ततः डाचि टिलोपे द्वित्वे

पटपटाकरोति । इति शब्दसत्त्वे तु न डाच् पटदिति
करोतीत्येव । २ पटे पटच्चरशब्दे दृश्यम् ।

पटत्क पु० पटदिव वेष्टित इव कायति कै--क । चौरे तस्य

कन्धा त० नपुंसकता चिहणा० अस्य आद्युदात्तता ।

पटमण्डप पु० पटनिर्मितो मण्डपः (ताँवु) ख्याते वस्त्रगृहे

पटमय न० पट + प्राचुर्य्ये मयट् । १ प्रचुरपटनिर्मिते गृहे

(ताँवु) २ शाट्यां त्रिका० ।

पटर त्रि० पट--बा० अरन् पटं राति रा--क वा । १ गति

शीले २ वस्त्रदायके च ततः गौरा० स्त्रियां ङीष् ।

पटरक पु० पटर + संज्ञायां कन् । गुन्द्रवृक्षे राजनि०

पटल न० पट--वेष्टने कलच् । १ छदिषि (चाल) अमरः २ नेत्र-

रोगभेदे च ३ पिटके ४ परिच्छदे ५ तिलके ६ समूहे च
मेदि० । ७ दृष्टेरावरके (चक्षेरपाता) । नेत्ररोगभेदश्च
अक्षिपटलशब्दे ४३ पृ० उक्तः “तेजो जलाश्रितं बाह्यं
तेष्वन्यत् पिशिताश्रितम् । मेदस्तृतीयं पटलमाश्रितं
त्वस्थि चापरम् । पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमि-
ष्यते” । ८ तन्त्रांशभेदे च । छदिषि अस्य स्त्रीत्वमपि
गौरा० ङीष् । हेमच० ९ वृक्षे (वृन्ते) च शब्दरत्ना० ।

पटलप्रान्त पु० ६ त० । गृहच्छदिषोऽन्तभागे (छाँचि) इति

प्रसिद्धे नीध्रे अमरः ।

पटवाप पु० पट उप्यतेऽत्र वप--आधारे घञ् । वस्त्रमयगृहे

त्रिका० ।

पटवास पु० पटनिर्मितः वासः । १ वस्त्रमयगृहे (ताँवु) २

शाट्याञ्च शब्दरत्ना० । पटं वासयति सुरभीकरोति वासि--
अण् उप० स० । ३ वस्त्रसुरभीकारके द्रव्यभेदे । तद्विधानं
वृ० सं० १२० अ० यथा “त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन
संयुतैश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रवन्धेन” ।
स्वार्थे क वासि--ण्षुल् वा । पटवासकोऽप्यत्र अमरः ।

पटषेश्मन् न० पटनिर्मितं वेश्म । पटमण्डपे (ताँवु)

पटह पु० षु० अर्द्धर्चा० । पटेन हन्यते हन--ड, पट इत्येवं

शब्दं जहाति वा हा--वा ड । १ डक्कायाद्ये अमरः
२ समारम्भे पु० पट--बा० अह । ३ हिंसने शब्दरत्ना०

पटाक पुंस्त्री० पट--आक । १ खगे उज्ज्वलद० स्त्रियां

जातित्वात् ङीष् । २ पताकायां स्त्री शब्दर० ।

पटालुका स्त्री पट इवालति अल--बा० उक । जलौकायां त्रिका० ।

पटि(टी) स्त्री पट--इन् वा ङीप् । १ पटभेदे २ कुम्भिकावृक्षे

च ३ वागुलौ मेदि० स्वार्थे क । पटिका तत्रार्थे यवयि-
कायां (पर्दा) त्रिका० ।

पटिमन् पु० पटोर्भावः पृथ्वा० इमनिच् डिद्वद्भावः । पटुत्वे दशत्वे ।

पटिष्ठ त्रि० अतिशयेन पटुः इष्टन् । अतिशयेन पटौ ईयसुन्

पटीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

पटीर न० पट--ईरन् । १ चालन्याम् २ मूलके ३ केदारे मेदि०

५ वंशसारे ६ खदिरे ७ उदरे ८ कन्दर्पे ९ अन्दने च “परि-
पीतपटीररसैरलसः” सा० द० टी० १० उच्चे ११ रमणीये च्य
त्रि० शब्दरत्ना० ।

पटु न० पट--उन् । १ छत्रायां २ लबणे च मेदि० ३ पांशुलबणे

रत्नमा० । ४ पटोले पु० अमरः ५ पटोलपत्रे न० विश्वः ।
६ काण्डीरलतायां ७ कारवेल्ले ८ चोरके पु० राजनि० ।
९ दक्षे १० नीरोगे ११ चतुरे त्रि० मेदि० । १२ तीक्ष्णे १२ स्फुटे
त्रि० हेमच० १४ निष्ठुरे त्रि० जटा० । १५ धूर्त्ते त्रिका० ।
गुणवचनत्वात् स्त्रियां ङीप् । ततः भावे अण् पादव
न० त्व पटुत्व तल् पटुता स्त्री दक्षतायाम् ।

पटुक पु० पटु--संज्ञायां कन् । पटोले शब्दरत्ना० ।

पटुकल्प त्रि० ईषदूनः पटुः पटु + कल्पप् । ईषदूने पटौ

पटुजातीय त्रि० पटुप्रकारः पटु + प्रकारे जातीयर् ।

पटुप्रकारे ।

पटुतृणक न० पटु लबणं तदिव तृणसस्य कप् । लबणाढ्य-

तृणयुक्ते तृणद्रुमभेदे राजनि० ।

पटुत्रिका स्त्री पटु पत्रमस्याः कप् अतैत्त्वम् । क्षुद्र-

चञ्चुक्षुपे राजनि० ।

पटुपर्णी स्त्री पटूनि पर्णान्यस्याः जातित्वात् ङीष् । स्वर्ण-

क्षीरिणीवृक्षे अमरः कप् कापि अतैत्त्वम् । पटुपर्णि-
काप्यत्र क्षीरिणीवृक्षे
पृष्ठ ४२०१

पटुरूप त्रि० प्रशस्तः पटुः पटु + पाशस्त्ये ख्यप् । अतिशयदक्षे राजनि० ।

पटुश पु० राक्षसभेदे मा० व० २८४ अ० ।

पटुस पु० राजभेदे हरिवं० ११७ अ० ।

पटोटज न० पट इव उटात् मूलात् जायते जन--ड ।

छत्राके शब्दरत्ना० तस्य मूलतएव वस्त्रतुल्यत्वात्तथात्वम् ।

पटोल पु० पट--ओलच् । स्वनामख्याते १ लताभेदे ३ वस्त्रभेदे

न० मेदि० । तल्लताया मूलादिगुणाः “पटोलस्य भवेन्मूलं
विरेचनकरं सुखात् । नालं श्लेष्महरं, पत्रं पित्तहारि
फलं पुनः । दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका
भावप्र० उक्ताः । “पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु ।
स्निग्धं वृष्यं तथोष्णञ्च ज्वरकासकृमिप्रणुत् । पटोलं
कफपित्तासृग्ज्वरकुष्ठव्रणापहम् । विसर्पनयनव्याधित्रि-
दोषगरनाशनम् । पटोलफलकञ्चेति किञ्चिद्गुणान्तरा
वुभौ” राजवल्लभः ।

पटोलक पु० पटोलमिव कायति कै--क । शुक्तौ शब्दमाला

तस्याः पटोलफलाकारत्वात् तथात्वम् ।

पटोलादि पु० चक्रदत्तोक्ते कषायभेदे “पटोलं चन्दनं

मूर्वा तिक्ता पाठामृतागणः । पित्तश्लेष्मारुधिच्छर्दि
ज्वरकण्डूविन्नापहः” ।

पटोलाद्यघृत पु० चक्रदत्तोक्ते घृतभेदे यथा “पटोलं

कटुकां दार्वीं निम्बं वासां फलत्रिकम् । दुरालभां पर्प-
टकं त्रायन्तीञ्च पलोन्मिताम् । प्रस्थमामलकानाञ्च क्वाथ-
येल्लल्वनेऽम्भसि । पादशेषे रसे तस्मिन् घृतप्रस्थं
विपाचयेत् । कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः ।
सपिप्पलीकैस्तत्सिद्धं चक्षुषोः शुक्लयोर्हितम् । घ्राण-
कर्णाक्षिवर्त्मत्वग्सुखरोगव्रणापहम् । कामलाज्वर-
वीसर्पगण्डमालाहरं परम्” ।

पटोली स्त्री अपकृष्टः पटोलः ङीष् (झिङ्गा) ख्यातायां

सतायाम् स्वार्थे क । तत्रैवार्थे मेदि० पटोलशब्दे
तद्गुणादि दृश्यम् ।

पट्ट न० पट--क्त नेट् ट वा तस्य नेत्त्वम् । १ नगरे २ चतुष्पथे

३ भूम्यादिकरग्रहणलेख्यपत्रे (पाट्टा) ४ पीठे ५ फलके
(ढल) ६ राजसिंहासने ७ उत्तरीयवस्त्रे ८ कौषेये (रेशम)
९ पेषणपाषाणे पु० मेदि० १० व्रणादीनां प्रतिकारार्थ-
तन्धनवस्त्रे (पटी) स्वार्थे क । पट्टक तत्रार्थे सिंहासन-
रूपपट्टलक्षणं वृ० सं० ४९ अ० उक्तं यथा
“विस्तरशो निर्दिष्टं पट्टानां लक्षणं यदाचार्येः । तत्स-
ङ्क्षेपः क्रियते मयात्र सकलार्थसम्पन्नः । पट्टः शुभदो
राज्ञां मध्येऽष्टावङ्गलानि विस्तीर्णः । सप्त नरेन्द्रम-
हिष्याः षड् युवराजस्य निर्दिष्टः । चतुरङ्गुलविस्तारः
पट्टः सैनापतेर्भबति मध्ये । द्वे च प्रसादपट्टः पञ्चैते
कीर्त्तिताः पट्टाः । सर्वे द्विगुणायामा मध्यादर्धेन पार्श्व-
विस्तीर्णाः । सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो
वृद्ध्यै । पञ्चशिखी भूमिपतेस्त्रिशिखो युवराजपार्थिवम-
हिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टी विना शिखया ।
क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । वृद्धि-
जयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत् । जीवित-
राज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । मध्ये
स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ।
अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः । शस्तनि-
मित्तः पट्टो नृपराष्ट्रविवृद्धये भवति” । अस्य पुंस्त्वमपि

पट्टज न० पट्टात् जायते जन--ड । (रेशमी) कौषेयवस्त्रेजटा०

पट्टदेवी स्त्री पट्टे सिंहासने स्थिता तदर्हा बा देवी । (पाट-

राणी) सिंहासनयोग्यायां कृताभिषेकायां राजपत्न्यां
राजनि० पट्टराज्ञीत्यप्यत्र ।

पट्ट(त्त)न न० पट(त)न्ति जना यत्र पट--पत, वा तनन् नेट् । प्रधाननगरे ।

पट्टरङ्ग न० पट्टं रज्यतेऽनेन रन्ज--करणे घञ् । (वकम्)

इति ख्याते पदार्थे ल्युट् । पट्टरञ्जनमप्यत्र राजनि० ।

पट्टशाक पु० कर्म० । (नालिता) १ शाकभेदे (पाटशाक) इति

ख्याते २ शाकभेदे च “पट्टशाकस्तु नाडीको नाडीशाकश्च
सः स्मृतः । नाडीको रक्तपित्तघ्नो विष्टम्भी वातकोपनः”
भावप्र० तद्गुणा उक्ताः ।

पट्टार पु० पट्टमृच्छति ऋ--अण् उप० स० । देशभेदे ततो

धूमा० भवेऽर्थे वुन् । पट्टारक तद्देशभवे त्रि० ।

पट्टार्हा स्त्री पट्टे राजसिंहासने अर्हा वासार्हा । पट्टदेव्यां

राजनि० ।

पट्टिका स्त्री क्षुद्रं पट्टं पट्टी ह्रस्वार्थे कन् कापि अतैत्त्वम्

पट्टीव कायति कै--क वा । लोघ्रभेदे वाचस्पतिः ।

पट्टिकाख्य पु० पट्टिकामाख्याति स्वरूपेण आ + ख्या--अच् ।

रक्तलोध्रे (पाटियालालोध) अमरः ।

पट्टिकालोध्र पु० कर्म० । रक्तलोध्रे भावप्र०

पट्टिल पु० पट्ट + अस्त्यर्थे इलच् । पूतिकरजे जटा० ।

पृष्ठ ४२०२

पट्टिश(स) पु० अस्त्रभेदे अमरः । तल्लक्षणं हेमा०परि-

उशनमोक्तं यथा
उक्तं नालसूर्यकं पट्टिसविधिर्वक्ष्यते । वत्स! निबोध
त्रिहस्तः सार्द्धत्रिहस्तश्चतुर्हस्तश्चेति श्रेष्ठमध्यमाधमानां
दण्डस्त्रिविधः । कर्तृयोग्यमुखो ग्राह्यानाहो
भवेत् । दण्डश्चाष्टाविंशतिपलो निकृष्टो मध्यमश्चतुस्त्रिंश-
त्पलः श्रेष्ठश्चत्वारिंशत्पलः । यथा कुन्तप्रमाणेनोपयोग
स्तथास्यापि द्रष्टव्यः । तथा सूर्यचन्द्रसदृशाकारं
षोडशाङ्गुलविस्तारं तीक्ष्णधारान्वितं द्वात्रिंशत्पलं पत्रं
भवति । तस्यारा वडङ्गुलाः । कोशः सप्ताङ्गुलः तस्य
पञ्चपलं तस्यानुयोगतः संप्रश्लिष्यकीलाभ्यामेव कोशो
भवेत् तदारया दृढसमन्वितया । अग्रकल्पः सुदृढ़ः सतैदृ-
श्यमत्स्यादारामूलमानाद्द्व्यगुलोन्नतः दण्डः कार्यः ।
एकाङ्गुलास्या स्यादारा षडङ्गुलानाहा दण्डमूले चार्पिता
सफलास्यासमुच्छ्रयात् । फलविस्तारोमध्ये भयेत् । समश्च
भवेत् पाशधारणस्त्रिपलगौरवो द्व्यङ्गुलश्च कोशो
मूलपार्श्वो दृढारास्यात् । धाराया वितानार्थं मुनेरपि
बलार्थं च मूलं रक्षेच्च सुदृढ़ार्थमाराबलेन युक्तं कोश
मध्ये सुविद्धजारायां यथा दृष्टं कुण्डलाग्रं यथायोगं ग्र
नागपाशधारकं मुनिदेशादुपरि वन्धाधानमुखसमन्वितं
भवेत् । आरागतं सम्यक्पञ्चाङ्गुलायतं सुमृष्टं दृड़ापाङ्गं
च स्यात् । तथैव चाष्टपलसमन्वितं छेदाङ्गकल्पकरणमूल
कल्पं विद्यात् भवति चात्र श्लोकाः । प्राधान्यं पट्टिसानां
स्याच्छेद्ययोगविधानतः । मध्यमं चैव लक्ष्येषु नीचं
चैवाधमेषु च । मिश्रयोगेन मिश्रं म्याद्दण्डश्चोक्तायतः-
स्मृतः । विज्ञायैव यथेष्टानि शस्त्राणीह प्रयोजयेत्”

पट्टीश(म) पर्ट्टी श्यति स्यति वा शो--तनूकरणे षो--अन्त-

कर्मणि वा क । पट्टिशास्त्रे हरिवं० १८ ४ अ० उदा० ।

पट्टोलिका स्त्री पट्टालिका + पृषो० । (पाट्टा) ख्याते भूमि-

करग्रहणव्यवस्थापके पत्रभेदे त्रिका० ।

पठ लिखिताक्षरवाचने भ्वा० पर० सक० सेट् । पठति अपाठीत्

अपठीत् पपाठ पेठतः । पठितव्यं पाठ्यं पाठः पठनम्

पठमञ्जरी स्त्री श्रीरागस्य चतुर्थरागिण्याम् । “वियो-

गिनी कान्तवितीर्णपुष्पां स्रजं वहन्तीं वपुषाऽतिमुग्धा ।
आश्वास्यमाना प्रियया च सख्या विधूसराङ्गी पठमञ्ज-
रीयम्” सङ्गी० दा० तदभिमानिनी स्वरूपमुक्तम् ।

पठसमञ्जरी स्त्री रागिणीभेदे हला० ।

पठि स्त्री पठ--इन् । १ पठने पाठे धातुनिर्देशे इक् । २ पठधातौ पु० ।

पड गतौ भ्वा० आ० सक० सेट् इदित् । पण्डते अपण्डिष्ट

पपण्डे पण्डा । पण्डितः ।

पड संहती (राशीकरणे) चु० उभ० सक० सेट् । पण्डयति ते

अपिपण्डत्--त । इदित् पण्ड्यते ।

पड्गृभि पु० असुरभेदे ऋ० १० । ४९ । ५ भाष्ये तथार्थ ता दृश्या

पड्वीश न० १ पादवन्धने २ तद्योम्यदामनि च ऋ० ११६२ । १४

भा० दृश्यम् ।

पण व्यवहारे (क्रयविक्रयादौ)स्तुतौ च भ्वा० आ० सक० सेट् ।

देवने अक० अर्चने निषण्टुः । स्मार्थे आय वा स्तुतौ पर०
पणायति ते पणते व्यवहारे तु षणायति इत्येक ।
आर्द्धधातुके अस्मात् वा आय । अपणायीत् अपणा-
यिष्ट अपणिष्ट । क्रयविक्रयार्थे च अस्य कर्मणि
शेषत्वेन विवक्षिते षष्ठो तस्याश्च न समासः शतस्य
षणायते “व्यवहृपणोः समर्थयोः” पा० द्यूते० क्रयवि-
क्रयव्यवहारे चानयोस्तुल्यात्रर्थता शतस्य पणनम् ।
स्तुतौ तु समासः बाह्मणपणम्” सि० कौ० प्रत्ययान्त-
त्वात् भावे अ पणाया ।

पण पु० पण--कर्मणि “नित्यं पणः परिमाणे” पा० अप् ।

१ कर्षमितताम्रे “ताम्रिकः कार्षिकः पणः” याज्ञ०
“अशीतिभिर्वराटकैः पण इत्यभिधीयते” भविष्यत्पु०
उक्तेवु २ अशीतिवणटकेषु “वराटकानां दशकद्वयं० यत्
सा काकिणी त्यश्च पणश्चतस्रः” लीला० । भावे अप्
३ निर्वेशे ४ भृवौ ५ द्यूते ग्लहे (वाजि) ६ मूल्ये ७ धने
च ८ कार्षापणे ९ क्रय्यशालायाम् १० व्यवहारे मेदि०
कर्त्तरि अच् । ११ क्रयविक्रयादिकारके त्रि० १२
शौण्डिके पु० जटा० आधारे अप् । १२ गृहे शब्दमाला
१४ विष्णौ पु० “प्राणदः प्रणवः पणः” विष्णुस०
“पणतिर्व्यवहारार्थः तत्कुर्वन् पणः “सर्वाणि रूपाणि
विचिन्त्य धीरोनामानि कृत्वाभिवदन् य आस्ते” इति
श्रुतेः पुण्यानि कर्माणि सगृह्याधिकारिभ्यस्तत्फलं प्रय-
च्छन् लक्षणया वा पणः” भा० ।

पणग्रन्थि पु० पणस्य क्रयविक्रयादेर्ग्रन्थिः सम्बन्धोऽत्र । हट्टे हारा० ।

पणन न० पण--भावे ल्युट् । १ विक्रये शब्दरत्ना० । २ क्रयादौ

पणफर न० “पणफरं द्वितीयाष्ट पञ्चमैकादशं स्मृतम्” ज्यो० त०

उक्ते लग्नात् द्वितीयपञ्चमाष्टमैकादशस्थाने

पणबन्ध पु० ६ त० । ग्लहे (हुड) राजनि० नियमविशेष

बन्धने । यदि भवानिदं कुर्य्यात् तर्हि इदमहं भवते
दास्यामीतिसमयकरणं पणबन्धः” मनोरमा

पणव पुंस्त्री० पणं स्तुतिं वाति वा--क । पटहे द्विरूपकोषः

पणस पु० पण--कर्मणि असच् । क्रेयद्रव्ये उणादिकोषः

पृष्ठ ४२०३

पण(न)स्य अर्चने निघ० भ्वा० पर० सेट् । पण(न)स्यति

अपण(न)स्यीत् ।

पणाङ्गना स्त्री पण--कर्मणि अप् कर्म० । पण्याङ्गनायां

वेश्यायां हेमच० पणस्त्रीप्रभृतयोऽप्यत्र स्त्री ।

पणाया स्त्री पण--आय--भावे अ । १ क्रयविक्रयव्यवहृतौ

२ स्तुतौ ३ द्यूते च जटाध० ।

पणायित त्रि० पण--खार्थे आय--क्त । १ स्तुते आयाभाव-

पक्षे पणितमप्यत्र अमरः २ क्रीते ३ विक्रीते ४ व्यवहृते च

पणादि न० ६ त० । वराटके कपर्दके त्रिका० ।

पणि स्त्री पण--आधारे इन् । १ विषणौ पण्यवीथिकायाम्

उज्ज्वलदत्तः । धातुनिर्देशे इक् । २ पणधातौ पु०

पणिन् त्रि० व्यवहारो द्यूतं स्तुतिर्वा पणः अस्त्यर्थे इनि ।

१ क्रयादिव्यवहारयुक्ते २ स्तुतियुक्ते च ३ ऋषिभेदे पु० ।
तस्यापत्यम् अण् “गाथिविदथीत्यादि” पा० न टिकोपः ।
पाणिन तस्यापत्ये यूनि ततः इञ् पाणिनिः ।

पण्ड पु० न० । पण--ड तस्य नेत्त्वम् । १ क्लीवे २ निष्फले त्रि

विश्वः ३ वेदोज्ज्वलायां बुद्धौ स्त्री भागुरिः तस्याः स्तुत्य-
त्वात् तथात्वम् ।

पण्डक पु० सावर्णिमनोः पुत्रमेदे हरिवं० ७ अ० ।

पण्डापूर्व न० पण्डं फलासाधनमपूर्वम् । वस्तुतः कलसाधना-

योग्ये फलानुपहिते १ धर्माधर्मात्मकेऽदृष्टे यथा सन्ध्या-
यन्दनादेरभावे दुरदृष्टं जायते सन्ध्यादेर्वन्दने तु तस्यानु-
त्पत्त्या फलानुपहितं दुरदृष्टं नश्यतीति तत्पण्डापूर्वमिति
प्रीमांसामतसिद्धम् २ फलानापादके अदृष्टभेदे । गुरुभिः
कार्यत्वेनापूर्वे एव विधेः शक्तिः स्वीकृता न कलञ्जं
भक्षवेदित्यादिनिषेधे कलञ्जभक्षणाभावविषयकं कार्य्य
मित्यन्वयवोधश्च स्वीकृतः । तच्चापूर्वं न किञ्चित्
फलजनकमिति स्थितम् । न्यायनये तु पण्डापूर्वं नाङ्गीक्रि-
यते सिध्यर्थस्तु इष्टसाधनताज्ञानाघीनकृतिसाध्यत्वमेव
इत्यञ्च विश्वजिता यजेत इत्यादौ यत्र फलं न श्रूयते
तत्रापि स्वर्गः फलं कल्प्यते यथोक्तं सि० मुक्ता० “नन्वह-
रहः सन्ध्यामुमासीतेत्यादौ इष्टानुत्पत्तेः प्रवृत्तिः कथम्
न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावी वा
फलमिति वाच्यम् तथा सति काम्यत्वे नित्यत्वहान्या-
पत्तेः कामनाभावेऽकरणपत्तेश्च इत्थञ्च फलश्रुति-
स्तत्रार्थवादमात्रमिति चेन्न ग्रहणश्राद्धादौ नित्यत्व-
काम्यत्वयोरप्यविरोधात् । न च कामनाभावेऽकरणा-
पत्तिः त्रिकालस्तवपाठादाविव कामनासडावस्यैव
कल्पनात् । ननु बेदबोधकार्थ्यताज्ञानात् प्रवृत्तिः सम्भ-
वतीति चेन्न इष्टसाधनताज्ञानं विना तादृशकार्य्यताज्ञान-
सहस्रेणापि प्रवृत्तेरसम्भवात् । यदपि पण्डापूर्वं
फलमिति तदपि न कामनाभावेऽकरणापत्तेस्तौल्यात् ।
कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात्
कल्प्यतामन्यथा प्रवृत्त्यनुपपत्तेः । तेन “क्षयं केचिदु-
पात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये
प्रत्यवायस्य मन्वते” । एवम् “सन्ध्यामुपासते ये तु सततं
शंसितव्रताः । विधूतपापास्ते यान्ति व्रह्मलोकमनाम-
यम्” एवम् “दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमा-
वहन्” इत्यादिकमेव फलमस्तु । न च पितृप्रीतिः कथं
फलं व्यधिकरणत्वादिति वाच्यम् । गयाश्राद्धादाविव
उद्देश्यत्वसम्बन्धेनैव फलजनकत्वस्य क्वचित् कल्पनात् ।
अतएवोक्तं “शास्त्रदर्शितफलमनुष्ठातरीत्युत्सर्नः” इति ।
पितॄणां मुक्तत्वे तु स्वस्य स्वर्गफलं यावन्नित्यनैमित्तिका-
नुष्ठानस्य सामान्यतः स्वर्गफलकल्षनात् । पण्डापूर्वार्थ-
प्रवृत्तिश्च न सम्भवति । म हि तत्सुखदुःखाभाववत् स्वतः
पुरुषार्थः, न वा तत्साधनम् । प्रत्यवायानुत्पत्तौ कथं
प्रवृत्तिरिति चेत् । इत्थम् यथा हि नित्यकृते प्रत्यवाया-
भावस्तिष्ठति तदभावे तदभावः । एवं प्रत्यवायाभावस्य
सत्त्वे दुःसामावसत्त्वं तदभावे तदभाव इति
योगक्षेमसाधारणणरणतया दुःखप्रागभावं प्रत्यपि सुवचत्वात्” ।

पण्डित पु० पण्डा वेदोज्ज्वला बुद्धिर्जातास्य तार० इतच् ।

शास्त्रतापय्यज्ञे १ बिदुषि । तस्य बुद्धेरुज्ज्वलत्वञ्च कार्य-
भेदादनुमातव्यं तदेव तस्य लक्षणं यथा
“पठका पाटकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे
व्यमनिनी मूर्स्वा यः क्रियावान् स पण्डितः” मा० व०
“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि-
श्चैव श्वपाके च पण्डिताः समदर्शिनः” गीता २ सिह्लके
पु० मेदि० ।

पण्डितक पु० १ धृतराष्ट्रपुत्रभेदे भा० आ० ६ अ० । पण्डित + स्वार्थे क । २ पण्डितशब्दार्थे च ।

पण्डितिमन् पु० पण्डिततस्य भावः दृढा० इमनिच् । पाण्डित्ये

पण्ड्रक पु० वातरोनयुते पङ्गौ “विधर्माणश्च पूर्वाह्णे

सन्ध्याकाले च पण्ड्रकाः” मार्क० ३१ अ० । सायंकाले स्त्रीनमने
पुत्रस्य पण्ड्रकता भवतीत्थुक्तम् ।

पण्य त्रि० पण--कर्मणि यत् । १ व्यवहर्त्तव्ये २ विक्रेये ब

अमरः० “स्तुत्यर्हेतु न यत् । किन्तु ण्यदेव पाण्यम्”
सि० कौ० । कम्बलेन समासेऽस्य आद्युदात्तता ।
पृष्ठ ४२०४

पण्ययोषित् स्त्री कर्म० । बेश्यायाम् त्रिका०

पण्यविक्नयशाला स्त्री ६ त० । (हाटचाला) हट्टशालायां हला० ।

पण्यवीथि स्त्री ६ त० । १ विक्रेयद्रव्यविक्रयशालायां (हाट-

चाला) २ हट्टे च । स्वार्थे क । षण्यवीथिका तत्रार्थे
अमरः ।

पण्यशाला स्त्री ६ त० । (हाटचाला) हट्टशालायाम् हेमच० ।

पण्या स्त्री पिण्या + पृषो० । पिण्यायां द्विरूपकोषः ।

पण्याङ्गना स्त्री वेश्यायाम् हेमच० पण्यस्त्रादयोऽप्यत्र ।

पण्याजिर न० पण्यस्याजिरमिव । पण्यस्याङ्गनतुल्यस्थाने

हट्टे ।

पण्याजीव त्रि० पण्यमाजीवति आ + जीव--अण् उप० स० । क्रयविक्रयोपजीबके बणिग्जने अमरः ।

पण्याजीवक न० पण्याजीवेन बणिजा कायति कै--क,

आ + जीव--ण्वुल् ६ त० वा । १ हट्टे २ वणिजि च त्रिका० ।

पण्यान्ध स्त्री पण्यमन्धयति अच् । तृणभेदे राजनि०

पत गतौ अद० चु० उम० सक०, ऐश्ये अक० सेट् ।

पतयति--ते अपपतत्--त ।

पत ऐश्ये दि० आ० अक० सेट् । पत्यते अपतिष्ट । पेते

पत गतौ भ्वा० पर० सक०, ऐश्ये अक० ज्वला० सेट् ।

पतअपप्तत् । पपात पेततुः । ज्बला० पतः पातः । पतितः
पतयति पातयति । सनि पित्सति पापत्वते । अधःस्य-
न्दने अक० अधःसंयोगानुकूले सफ० नरकं पतित इत्यादि

पत न० पत--अच् । १ पुष्टे जटाधरः । २ पतनकर्त्तरि त्रि०

पतग पुंस्त्री० पतन् उत्प्लवन् सन् गच्छति गम--ड

नि० । खगे अमरः स्त्रियां जातित्वात् ङीष् ।

पतङ्ग पुंस्त्री पतन् उत्प्लवन् गच्छति ड नि० । १ खगे

अमरः स्त्रियां जातित्वात् ङीष् । २ सूर्य्ये पु० ३ शलभे
(फड़िङ्ग) कीटभेदे ४ शालिभेदे पु० मेदि० ५ जलमधूकवृक्षे
राजनि० । ६ पारदे न० मेदि० ७ चन्दनभेदे न० शब्दच० ।
प्लक्षद्वीपस्थे क्षत्रियस्थानीये ८ वर्णभेदे पु० “हंसपतङ्गोर्द्धा-
यनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः” भाग० ५ । २ । ०७ श्लो० ।
उत्प्लवनेन १० पतने च पतङ्गरशब्दे दृश्यम् ।

पतङ्गम पुंस्त्री० पतन् उत्प्लवन् सन् गच्छति गम--खच्

नि० । णगे स्त्रियां जातित्वात् ङीष् ।

पतङ्गर पु० पतङ्गं पतनेनोत्प्लवनेन गमनम् पतङ्गं ततः

अस्त्यर्थे र । उत्प्लवनेन गतियुक्ते ऋ० ६ । ४ । २ भा० ।

पतङ्गा पु० अश्वे निणण्टुः ।

पतङ्गिका स्त्री पतङ्ग + सज्ञायां कन् कापि सतैत्त्वम् । सधुमक्षिकाभेदे अमरः ।

पतङ्गिन् पु० पतङ्ग--उत्प्लवनेन गमननमस्त्यस्य इति । खगे

स्त्रियां नान्तत्वात् ङीप् । हरिवं० २० अ० उदाहरणम् ।

पतञ्चिका स्त्री धनुर्ज्यायां शब्दच० ।

पतञ्चल पु० गोत्रप्रवर्त्तकर्षिभेदे स च काप्यः । “ते पतञ्च-

लस्य काप्यस्य” शत० ब्रा० १४ । ६ । ३ पतञ्जल इति तत्र
पाठान्तरम् । बहुत्वे उपका० द्वन्द्वे अद्वन्द्वे पतञ्जला इत्येव ।

पतञ्जलि पु० पतन् अञ्जलिर्नमस्यतया यस्मिन् । १ योगसूत्र-

कारके ऋषिभेदे गोनर्द्दतीरे तपस्यतः कस्यचिदृषेरञ्ज-
लितः पतिते पाणिनिसूत्रस्य २ भाष्यकारे तस्य
तथोत्पत्त्रिकथा शकन्ध्वा० वार्त्ति० शेखरादौ दृश्या । अय
च योगशास्त्रकारकात् भिन्न इति सरलायामस्माभिः ।
समर्थितम् । अनयोरभेद इति पाश्चात्त्यवैयाकरणाः ।
भेदाभेदयोर्युक्तत्वायुक्तत्वे च सुधीर्विर्भाव्ये । यीगमतञ्च
सर्वदर्शनसंग्रहे प्रदर्शितं यथा “सांख्यप्रवचनापरनामधेयं
मनुवर्त्तमानानां मतसुपन्यस्यते । तच्च योगशास्त्रं
पतञ्जलिप्रणीतं पादचतुष्टयात्मकम् । तत्र प्रथमे पादे “अथ
योगानुशासनमिति” योगशास्त्रारम्भप्रतिज्ञां विधाव
“योगश्चित्तवृत्तिनिरोधः” इत्यादिना योगलक्षणमभि-
धाय समाधिं सप्रपञ्चं निरदिक्षत् भगवान् पतञ्जलिः ।
द्वितीये “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः”
इत्यादिना व्युत्यितचित्तस्य क्रियायोमं यमादीनि पञ्च
बहिरङ्गानि साधनानि । तृतीये “देशबन्धसित्तस्य
धारणा” इत्यादिना धारणाध्याबसमाधित्रयमन्तरङ्गं
संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातञ्च । चतुर्थे
“जन्मौषध्रिमन्त्रतपःसमाधिजाःसिद्धयः” इत्यादिना सिद्धि-
पञ्चकप्रपञ्चनपुरःसरं परं प्रयोजनं कैवल्यम् । प्रधाना-
दीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव सम्भतानि
षड्विंशस्तु परमेश्वरः क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषः
स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदाय-
प्रवर्त्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राह-
कश्च । ननु पुष्करपलाशवन्निर्लेपस्य तस्य (पुरुषस्य) तापः
कथमुपपद्यते येन परमेश्वरोग्याऽनुग्राहकतया कक्षीक्रियते
इति चेदुच्यते तापकस्य रजसः सत्वमेव तप्यं बुद्ध्यात्मना
परिणमते इति सत्वे परितप्यमाने तमोवशेन तदभेदाव-
गाही पुरुषोऽपि तप्यत इत्युच्यते । तदुक्तमाचार्य्यैः
“सत्वं तप्यं बुद्धिभावेग वृत्तं भावास्ते वा राजसास्ताप-
कास्ते । तप्पाभेदग्राहिणी तामसी या वृत्तिस्तस्यां
तप्य इत्युक्त आत्मेति” । तद्भाष्ये व्यासेनाप्युक्तम्
“अपरिणामिनी हि मोक्तृशक्तिरप्रतिसंक्रमा च पूरि-
पृष्ठ ४२०५
णामिन्यर्थे प्रतिसंक्रान्ते च तद्वृत्तिमनुमवतीति” ।
भोक्तृशक्तिरिति चिच्छक्तिरुच्यते सा चात्मेव परिणा-
मिन्यर्थे बुद्धिसत्वे प्रतिसंक्रान्ते च प्रतिविम्बिते तद्वृ-
त्तिमनुभवतीति बुद्धौ प्रतिविम्बिता सा चिच्छक्तिर्बुद्धि-
च्छायापत्त्या बुद्धिवृत्त्यनुकारवतीति” भावः । तथा शुद्धो-
ऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यंन्नतदात्मापि
तदात्मक इव प्रतिभासत इति । इत्थं तप्यमानस्य
पुरुषस्यादरनैरन्तर्य्यदोर्धकालानुबन्धियमनियमाद्यष्टाङ्ग-
योगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्वपुरुषान्य-
ताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशाः
समूलकाषं कषिता मवन्ति कुशलाकुशखाश्च कर्म्माशयाः
समूलथातं हता भवन्ति । ततश्च पुरुषस्य निर्लेपस्य
कैवण्येनावस्थानं कैवल्यमिति सिद्धम् । तत्र “अथ योगानु-
शासससिति” प्रथमसूत्रेण प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्र-
योजनसम्बन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते ।
अत्राथशब्दोऽधिकारार्थः स्वीक्रियते (इतःपरं तस्यार-
म्मार्थकता महता प्रबन्धेन समर्षिता तत्र दृश्या)
तदमाषि व्यासभाष्ये “अथेत्ययमधिकारार्थः प्रयुज्यते”
इति योगसूत्रविवरणे च तद्व्यात्वख्यौ
वाचस्मतिः “तस्मादयमथशवदोऽधिकारद्योतको मङ्गलार्थ-
श्चेति सिद्धमिति” । बदित्थमसुस्याथशब्दस्याधिकारार्थ-
स्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्णनात्
समस्तशास्त्रतात्पर्य्यव्याख्यानेन शास्त्रस्य सुखतोबोधप्रवृत्ति-
रास्तामित्युपपन्नम् । मनु “हिरण्यगर्भो योगस्य वक्ता
नान्यः पुरातनः” इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथं
योगस्य शासितेति चेदद्धा अतएव तत्र तत्र पुराणादौ
विशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमा-
नेन भगवता कृपासिन्धुना फणिपतिना सारं सञ्जिघृ-
णुणा अनुशासनमारब्धं न तु साक्षाच्छासनम् ।
यदायमथशब्दोऽधिकारार्थः तदैवं वाक्यार्थः सम्पद्यते
योगानुशासनं शास्त्रगधिकृतं वेदितव्यमिति । तत्र शास्त्रे
व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः
तद्व्युत्पादनमवान्तरफलं व्युत्पादितस्य योगस्य कैवल्यं
परमप्रयोजनम् । शास्त्रयोगयोः प्रतिपाद्यप्रतिपादकभाव-
सक्षणः सम्बन्धः, योगस्य कैवल्यस्य च साध्यसाधनभाव-
सक्षणः सम्बन्धः स च श्रुत्यादिप्रसिद्ध इति प्रागेवावा-
दिषम् । मोक्षमपेक्षमाणाः श्रवणाधिकारिण इत्यर्थ-
सिद्धस् । न चाथाती बह्मजिज्ञासेत्यादाविवाधिकारिणो-
ऽर्थतः सिद्धिराशङ्कनीया तत्राथशब्देनानन्तर्य्याभिधाने
प्रण्णाडिकया अधिकारिसमर्पणसिद्धावार्थिकत्वशङ्गानुद-
यात् । अतएवोक्तं “न श्रुतिप्राप्ते प्रकरणादोनाम-
वकाशः” इति । अस्यार्थः यत्र हि श्रुत्या अर्थो न लभ्यते
तत्रैव प्रकरणादयोऽर्थं समर्पयन्ति नेतरत्र । यत्र तु
शब्दादेवार्थस्योपलम्भः तत्र नेतरस्य सम्भवः शीघ्रबोधिन्या
श्रुत्या बोधितेऽर्थे तद्विरुद्धार्थं प्रकरणादि समर्पयति
अयिरुद्धं वा । न प्रथमः विरुद्धार्थबोधकस्य तस्य बाधि-
तत्वात् । न चरमः वैयर्थ्यात्तदाह “श्रुतिलिङ्गवाक्यप्रकरण-
स्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति”
“वाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्य-
मानां तु बाध्यत्वं बाधकत्वमपेक्षया” इति च तस्माद्विषया-
दिसत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं शास्त्रमा-
रम्भणीयमिति स्थितम् । ननु व्युत्पाद्यमानतया योग
एवात्र प्रस्तुतो न शास्त्रमिति चेत् सत्यं प्रतिपाद्यतया
योगः प्राधान्येन प्रस्तुतः स च तद्विषयेण शास्त्रेण
प्रतिपाद्यत इति तत्प्रतिपादने करणं शास्त्रं करणगो-
चरश्च कर्तृव्यापारो न कर्मगोचरतामाचरति । यथा
छेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमननिपातनादि कर्म
करणभूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरं तथा च वक्तुः
पतञ्जलेः प्रवचनव्यापारापेक्षया योगविपयस्याधिकृतता
करणस्य शास्त्रस्य, अभिघानव्यापारापेक्षया तु योगस्यैवेति
विभागः । ततश्व यागशास्त्रस्यारम्भः सम्भावनां भजते
अत्र चामुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते ।
ननु युजिर्योग इति संयोगार्थतया परिपठितात् युजे
र्निष्पन्नो योगशब्दः संयोगवचनएव स्यान्न तु निरोध-
वचनः । अतएवोक्तं याज्ञवल्क्येन “संयोगो योग
इत्युक्तो जीबात्मपरमात्मनोः” इति तदेतद्वार्त्तं
जीवपरयोः संयोगे कारणस्यान्यतरकर्मादेरसम्भवादजसं-
योगस्य कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च । मीमां-
सकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य साध्य-
त्वाभावेन शास्त्रवैफल्यापत्तेश्च धातूनामनेकार्थत्वेन युजेः
समाध्यर्थत्वोपपत्तेश्च । तदुक्तम् “निपाताश्चोपसर्गाश्च
धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे
पाठस्तेषां निदर्शनमिति” अतएव केचन युजिं समाघावपि
पठन्ति (युज समाधाविति) । नापि याज्ञवल्क्यवचनव्या-
कोपः तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात् ।
“समाधिः समतावस्था जीवात्मपरमात्मनोः । ब्रह्मण्येव
पृष्ठ ४२०६
स्थितिर्या सा समाधिः प्रत्यगात्मनः” इति तेनैवोक्त-
त्वाच्च । तदुक्तं भगवता व्यासेन “योगः समाधिरिति” ।
यद्येवमष्टाङ्गयोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्ज-
लिना यमनियमासनप्राणायामपत्याहारध्यानधारणा-
समाधयोऽष्टाङ्गानि योगस्येति । न चाङ्ग्येवाङ्गतां
गन्तुसुत्सहते उपकार्य्योपकारकभावस्य दर्शपूर्णमासप्रया-
जादौ भिन्नायतनत्वेनात्यन्तभेदादतः समाधिरपि न
योगशब्दार्थो युज्यत इति चेत्तन्न युज्यते व्युत्पत्तिमा-
त्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव
समाधिरिति निरूपितच रमाङ्गवाचकेन समाधिशब्देनाङ्गिनो
योगस्याभेदविवक्षया व्यपदेशोपपत्तेः । न च व्युत्पत्ति-
बलादेव सर्वत्र शब्दः प्रवर्त्तते तथात्वे गच्छतीति गौ
रिति व्युत्पत्तेः तिष्ठन् गौर्न स्यात् नच्छतो देवदत्तस्यौ
स्यात् प्रवृत्तिनिमित्तञ्च प्रागुक्तमेव चित्तवृत्तिनिरोध इति
तदुक्तम् “योगश्चित्तवृत्तिनिरोधः” इति । ननु वृत्तीनां
निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनात्माश्रयतया तन्नि-
रोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् प्रागभाव-
प्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् ततश्च “उपय-
न्नपयन् धर्म्मो विकरोति हि धर्मिणमिति” न्यायेनात्मनः
कौटस्थ्यं विहन्येतेति चेत्तदपि न घटते निरोध्यानां
प्रमाणविपर्य्ययविकल्पनिद्रास्मृतिस्वरूपाणां वृत्तीनामन्तः-
करणाद्यपरपर्य्यायचित्तवर्मत्वाङ्गीकारात् कूटस्वनित्या
चिच्छक्तिरपरिणामिनी विज्ञानधर्म्माश्रयो भवितुं नार्ह-
त्येव । न च चितिशक्तेरपरिणामित्वमसिद्धमिति मन्तव्यं
चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् न यदेवं न
तदेवं यथा चित्तादि इत्याद्यनुमानसम्भवात् तथा यद्यसौ
पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वा-
त्तासां चित्तवृत्तीनां सदाज्ञातृत्वं नोपपद्येत चिद्रूपस्य
सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्गनिर्मलं सत्वं
तस्यापि सदैव स्थितत्वात् येन येनार्थेनोपरक्तं भवति तस्य
दृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य
निःसङ्गत्वं सम्भवति । ततश्च सिद्धं तस्य सद्वा ज्ञातृत्वमिति
न काचित् परिणामित्वाशङ्कावतरति । चित्तं पुनर्येन
विषयेणोपरक्तं भवति स विषयो ज्ञातः यदुपरक्तं न
भवति तदज्ञातमिति वस्तुतोऽयस्कान्तमणिकल्पस्य ज्ञाना-
ज्ञानकारणभूतोपरागानुपरागधर्मित्वादयःसधर्मकं चित्तं
परिणामि इत्युच्यते । ननु चित्तस्येन्द्रियाणां चाहङ्कारि-
काणां सर्वगतत्वात् सर्वविषयैरस्ति सदा सम्बन्धः तथाच
सर्वेषां सर्वदा सर्वत्व ज्ञानं प्रसज्येत सर्वगतत्वेऽपि चित्तं
यत्र शरीरे वृत्तिमत् तेन शरीरेण सह सम्बन्धो येषां
विषयाणां तेष्वेवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गा-
भावादतएवायस्कान्तमणिकल्पा विषयाः अयःसधर्मकं
चित्तमिन्द्रियप्रणालिकयाभिसम्बध्योपरञ्जयन्ति । तस्मा-
च्चित्तस्य धर्मा वृत्तयो नात्मनः तथाच श्रुतिः “कानः
सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा घृतिरधृतिरित्येतत्-
सर्वं मन एवेति” । चिच्छक्तेरपरिणामित्वं पञ्चशिखा-
चार्य्यैराख्यायि “अपरिणामिनी भोक्तृशक्तिरिति”
पतञ्जलिनापि “सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरि-
णामित्वादिति” । चित्तपरिणामित्वेऽनुमानमुच्यते चित्तं
परिणामि ज्ञाताज्ञातविषयत्वात् श्रोत्रादिवदिति ।
परिणामश्च त्रिविधः प्रसिद्धः धर्मलक्षणावस्थाभेदात् धर्मिण
श्चित्तस्य नीलाद्यालोचनं धर्मपरिणामः यथा कनकस्य
कटकमुकुटकेयूरादि । धर्मस्य वर्त्तमानत्वादिर्लक्षणपरिणामः
नीलाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणामः कनका-
देस्तु नवपुराणत्वादिरवस्थापरिणामः । एवमन्यत्रापि
यथासम्भवं परिणामत्रितयमूहनीयं तथाच प्रमाणादि-
वृत्तीनां चित्तधर्मत्वात् तन्निरोधोऽपि तदाश्रय एवेति न
किञ्चिदनुपपन्नम् । ननु वृत्तिनिरोधो योग इत्यङ्गीकारे
सुषुप्त्यादौ विक्षिप्तमूढ़ादिचित्तवृत्तीनां निरोधसम्भवाद्यो-
गत्वप्रसङ्गः न चैतद्युज्यते क्षिप्ताद्यवस्थासु क्लेशप्रहाणादे-
रसम्भवान्निःश्रेयसपरिपन्थित्वाच्च । तथा हि क्षिप्तं
तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तमुच्यते ।
तमःसमुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढ़मिति गीयते । क्षिप्ता-
द्विशिष्टं चित्तं विक्षिप्तमिति गीयते विशेषो नाम चञ्चलं
हि मनः कृष्ण! प्रमाथि वलवद्दृढमिति” न्यायेनास्थि-
रस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्य्यसम्भवेन
स्थैर्य्यम् । अस्थिरत्वञ्च स्वाभाविकं ष्याध्याद्यनुशयजनितं
वा तदाह “व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रा-
न्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽ-
न्तरायाः” इति । तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादि-
र्व्याधिः, चित्तस्याकर्मण्यत्वं स्त्यानं, विरुद्धकोटिद्वयावगाहि
ज्ञानं संशयः समाधिसाधनानाममावनं प्रमादः, शरीर-
वाक्चित्तगुरुत्वादप्रवृत्तिरालस्यं, विषयाभिलाषोऽविरतिः,
अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनं कुतश्चिन्निमित्तात् समाधि-
भूमेरलाभोऽलब्धभूमिकत्वं, लब्धायामपि तस्यां चित्तस्या-
प्रतिष्ठा अनवस्थितत्वमित्यर्थः । तत्पान्न वृत्तिनिरोधो
पृष्ठ ४२०७
योगपक्षनिक्षेपमर्हति इति चेन्मैवं वोचः हेयमूतक्षिप्ता-
द्यवस्थात्रये वृत्तिनिरोधस्य हेयत्वसम्भवेऽप्युपादेययोरेका-
ग्रनिरुद्धावस्थयोर्वृत्तिनिरोवस्य योगत्वसम्भवात् । एकतानं
चित्तमेकाग्रसुच्यते निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं
चित्तं निरुद्धमिति मन्यते । स च समाधिर्द्विविधः
सम्प्रज्ञातासम्प्रज्ञातभेदात् तत्रैकाग्रचेतसि यः प्रमाणा-
दिवृत्तीनां बाह्यविषयाणां निरोधः स सम्प्रज्ञातसमाघिः
सम्यक् प्रज्ञायतेऽस्मिन् प्रकृतेर्विविक्ततया चित्तमिति
व्युत्पत्तेः । स चतुर्विधः सवितर्कादिभेदात् समाधि-
र्नाम भावना सा च भाव्यस्य विषयान्तरपरिहारेण
चेतसि पुनः पुनर्निवेशनं, भाव्यञ्च द्विविघम् ईश्वरस्त-
त्त्वानि च । ताम्यपि द्विविधानि जड़ाजड़भेदात् जड़ानि
प्रकृतिमहदङ्कारादीनि चतुविंशतिः अजड़ः पुरुषः । तत्र
यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरा-
नुसन्धानेन शब्दार्थोल्लेख्यसम्भेदेन च भावना प्रवर्त्तते स
समाधिः सवितर्कः । यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं
विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्त्तते तद
सविचारः । यदा रजस्तमीलेशानुमिद्धं चित्तं भाव्यते तदा
सुखप्रकाशमयस्य सत्वस्योद्रेकात् सानन्दः । यदा
रजस्तमोलेशानभिभूतं शुद्धं सत्थमालम्बनीकृत्य या प्रवर्त्तते
भावना तदा तस्यां सत्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकाच्च
सत्वमात्रावशेषत्वेन सास्मितः सकाधिः । वितर्कविचारा-
नन्दास्मितारूपानुगमात् सम्प्रज्ञातः इति । सर्ववृत्तिनि-
रोधे त्वसम्रज्ञातः समाथिः । ननु सर्ववृत्तिनिरोधोयोग
इत्युक्ते सम्प्रज्ञाते व्याप्तिर्न स्यात् तत्र सत्वप्रधानायाः
सत्यपुरुषान्यतास्थातिलक्षणाया वृत्तेरनिरोधादिति चेत्त-
देतद्वार्त्तं क्लेशकर्मविपाकाशयपरिपन्विचित्तवृत्तिनिरोध
योग इत्यङ्गीकारात् । क्लेशाः पुनः पञ्चधा प्रसिञ्चा
अविद्यास्मितारागद्वेषाभिनिवेशाः । नन्वविद्येत्यत्र किमा-
श्रीयते पूर्वपदार्थप्राधान्यम् अमक्षिकं वर्त्तत इतिवत्
उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् अन्यपदार्थ-
प्राधान्यं वा अमक्षिको देश इतिवत् तत्र न पूर्वः, पूर्व-
पदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधोपपत्तौ क्लेशा-
दिकारलत्वानुपपत्तेः अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावा-
पत्तेय । न द्वितीयः, कस्यचिदभावेन विशिष्टाया विद्यायाः
क्लेशादिपरिपन्वित्वेन तद्वीजत्वानुपपत्तेः । न तृतीयः
“नब्जोऽस्त्यर्थानां बहूव्रीहिर्वा चोत्तरपदलोपः” इति
वृत्तिकारवचनासुसारेण अविद्यमाना विद्या यस्याः सा
अविद्या बुडिरिति समाधिसिद्धौ तस्या अविद्यायाः क्ले-
शादिवीजत्वानुपपत्तेः विवेकख्यातिपूर्वकसर्ववृत्तिसम्पन्ना-
यास्तस्यास्तथात्वाप्रसङ्गाच्च उक्तञ्च अस्मितादीनां क्लेशाना-
मविद्यानिदानत्वम् । “अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्रतनु-
विच्छिन्नोदाराणामिति” । तत्र प्रसुप्तत्वं प्रबोधसहकार्य-
भाबेनानभिव्यक्तिः, तनुत्वं प्रतिपक्षभावनया शिथिलीक-
रणं, विच्छिन्नत्वं बलवता क्लेशेनाभिमवः, उदारत्वं
सहकारिसन्निधिवशात् कार्यकारित्वम् । तदुक्तं वाचस्पति-
मिश्रेण व्यासभाष्यव्याख्यायाम् “प्रसुप्तास्तत्त्वलीनानां
तनुदग्धाश्च योगिमाम् । विच्छिन्नोदाररूपाश्च क्लेशा
विषयसङ्गिनाम्” इति द्वन्द्ववत् स्वतन्त्रपदार्थद्वयामवगमादु-
भयषदार्थप्रधानत्वं नाशङ्कितम् । तस्मात् पक्षत्रयेऽपि
क्लेशादिनिदानत्वमविद्यायाः प्रसिद्धं हीयेतेति चेत्
तदपि न शोभनं विभाति पर्युदासशक्तिमाश्रित्याविद्या-
शब्देन विद्याविरुद्धस्य विपर्य्ययज्ञानस्याभिधानमिति
वृद्धैरङ्गीकारात् । तदाह “नामधात्वर्थयीने तु नैव नञ्
प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनाविति ।
वृद्धप्रयोगमस्या हि शब्दार्थाः सर्व एव नः तेन यत्र
प्रयुक्तो यो न तस्मादपनीयते” इति वाचस्पतिमिश्रैर-
प्युक्तं “लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः
लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयो-
पमर्दकस्य तद्विद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे
प्रवृत्तिरिति” । एतदेवाभिप्रेत्योक्तम् “अनित्याशुचिदुः-
खानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येति” । अतस्मिं-
स्तद्बद्धिर्विपर्य्ययः इत्युक्तं भवति तद्यथा अनित्ये
घदादौ नित्यत्वामिमानः, अशुचौ कायादौ शुचित्वप्रत्ययः ।
“स्थानाद्वीजादवष्टम्भान्निष्यन्दान्निधनादपि । कायमा-
धेयशौश्रत्वात् पण्डिता ह्यशुचिं विदुः” इति “परिणाम-
तापसंस्कारैर्गुणवृत्तिनिरोधाच्च दुःखमेव सर्वं वियेकिन
इति” न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपः
अनात्मनि देहाबात्मबुद्धिः । तदुक्तम् “अनात्मनि च
देहादावात्मबुद्धिस्तु देहिनाम् । अबिद्या तत्कृती बन्ध-
स्तन्नाशे मोक्ष उच्यते” इति एवमियमविद्या चतुष्प्रकारा
भवति । तन्वेतेष्वविद्याविशेषेषु किञ्चिदनुगतं सामान्य-
लक्षणं वर्णनीयम् अन्यथा विशेषस्यासिद्धेः । तथाचोक्तं
भट्टाचार्य्यैः “सामान्यलक्षणं त्यक्त्वा विशेषस्यैव
मृजणम् । न शक्यं केवलं वक्तुमतोऽप्यस्य--न वाच्यता” इति
तदपि न वाच्यमतस्विंस्तदुरिति सामान्यलक्षणाभि-
पृष्ठ ४२०८
धानेन दत्तोत्तरत्वात् । सत्वपुरुषयोरहमस्मीत्येकताभि-
मानोऽस्मिता तदप्युक्तं “दृक्दर्शनशक्त्योरेकात्मत्वाभिमा-
नोऽस्मितेति” । सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः
सुखसाधनेषु तृष्णारूपो गर्द्धो रागः । दुःखज्ञस्य तदनुस्मृतिपु-
रःसरन्तत्साधनेषु निन्दा द्वेषः तदुक्तं “सुखानुशयी रागः
दुःखानुशयो द्वेषः” इति । किमत्रानुशयिशब्दे ताच्छी-
ल्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः नाद्यः “सुप्य-
जातौ णिनिस्ताच्छील्ये इत्यत्र सुषीति वर्त्तमाने पुनःसृव्-
ग्रहणस्य उषसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनु-
त्पत्तेः यथा कथञ्चिदङ्गीकारेऽपि “अचोञ्णितीति” वृद्धि-
प्रसक्तावतिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात् । न
द्वितीयः “एकाक्षरात् कृतोजातेः सप्तम्याञ्च न तौ (इनि-
ठनौ) स्मृताविति” तत्प्रतिषेधादत चानुशयशब्दस्याजन्तत्वेन
कृदन्तत्वात् । तस्मादनुशयिशब्दो दुरुपपाद इति चेत्
नैतद्भद्रं भावानवबोधात् प्रायिकाभिप्रायमिदं वचनम् ।
अतएवोक्तं वृत्तिकारेण “इतिकरणो विवक्षार्थः सर्व-
त्राभिसम्वध्यते” इति तेन कचिद्भवति कार्य्यी कार्य्यि-
कस्तण्डुली तण्डुलिक इति तथा च कृदन्तात् जातेश्च
प्रतिषेधस्य प्रायिकत्वम् अनुशयशब्दस्य कृदन्ततया इनेरु-
पपत्तिरिति सिद्धम् । पूर्वजन्मानुभूतमरणदुःखानुभववास-
नाबलात् सर्वस्य प्राणभृन्मात्रस्याकृमेरा च विदुषः सञ्जाय-
मानः शरीरविषयादेर्मम वियोगी मा भ्दिति प्रत्यहं
निमित्तं विना प्रवर्त्तमानोभयरूपोऽभिनिवेशः पञ्चमः
क्लेशः मा च भूवं हि भूयासमिति प्रार्थनायाः प्रत्या-
त्ममनुभवसिद्धत्वात् तदाह “स्वरसवाही विदुषोऽपि तथा
रूढोऽभिनिवेशः” इति । ते चाविद्यादयः पञ्च सांसारि-
कविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः
प्रसिद्धाः । कर्माणि विहितप्रतिषिद्धरूपाणि ज्योति-
ष्टोमब्रह्महत्यादीनि विपाकाः कर्मफलानि जात्यायु-
र्भोगाः, आफलविपाकाच्चित्तभूमौ शेरते इत्याशयाः धर्मा-
धर्मसंस्काराः । तत्परिपन्थिचित्तवृत्तिनिरोधी योगः ।
निरोधो, नाभावमात्रमभिमतं तस्य तुच्छत्वेन भावरूपसं-
स्कारजननक्षमत्वासम्भवात् किन्तु तदाश्रयो मधुमतीमधु-
प्रतीकाविशोकासंस्कारशेषताव्यपदेश्यः घ्नित्तस्यावस्थावि-
शेषः निरुध्यन्तेऽस्मिन् प्रमाणाद्याश्चित्तवृत्तय इति व्यु-
त्पत्तेरुपपत्तेः । अभ्यासवैरान्याभ्यां वृत्तिनिरोधः । तत्र
स्थितौ भूयान् यत्रोऽभ्यासः । प्रकाशप्रवृत्तिरूपवृत्तिर-
हितस्य चित्तस्य स्वरूपनिष्ठः परिणामविशेषः स्थितिः ।
तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशन-
मभ्यासः । चर्मणि द्वीपिनं हन्तीतिबन्निमित्तार्थेयं सप्त-
मीत्युक्तं भवति “दृष्टानुश्रविकविषयवितृष्णस्य
वशीकारसंज्ञा वैराग्यम्” । ऐहिकपारत्रिकविषयादौ
दोषदर्शनान्निरभिलाषस्य ममैते विषया वश्याः नाहमेतेषां
वश्य इति विमर्शो वैराग्यमित्युक्तं भवति । समाधि-
प्ररिपन्थिक्लेशतनूकरणार्थं समाधिलाभार्थं च प्रथमं
क्रियायोगविधानपरेण योगिना मवितव्यं क्रियायोगस-
म्वादने अभ्यासवैराग्ययोः सम्भवात् तदुक्तं भगवता
“आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य
तस्यैव शमः कारणमुच्यते” इति । क्रियायोगश्चोपदिष्टः
पतञ्जलिना “तपःस्वाध्यायेश्वरप्रणिधानागि क्रियायोगः”
इति । तपःस्वरूपं निरूपितं याज्ञवल्क्येन “विषि-
नोक्तेन मार्गेण कृच्छ्चान्द्रायणादिभिः । शरीरशोषणं
पाहुस्तपसां तप उत्तमम्” इति । प्रणवगायित्रीमन्त्र-
प्रभृतोनामध्ययनं स्वाध्याय इति । तत्र मन्त्रा द्विविधाः
वैदिकास्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगी-
ताश्च । तत्र प्रगीताः सामानि अप्रगीतार द्विविधाः
छन्दोबद्धास्तद्बिलक्षणाश्च । तत्र प्रथमा ऋचोद्वितीया
यजूंषि तदुक्तं जैमिनिना “तेषामृग् यत्रार्थवशेन पाद
व्यवस्था गीतिषु सामाख्या शेषे यजुःशब्द” इति । तन्त्रेषु
कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णितास्ते तान्ति-
काः । ते पुनर्मन्त्रास्त्रिविधाः स्त्रीपुञ्चपुंसकभेदात्तदाह
“स्त्रोपुंनसकत्वेन त्रिविधा मन्त्रजातयः । स्त्रीमन्त्रा
वह्निजायान्ताः नमोऽन्ताः स्युर्नपुंसकाः । शेषाः पुमांस-
स्ते शस्ताः सिद्धा वश्यादिकर्मणि” इति । स्नापनादि-
संस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्ध्हिहेतुत्वात्
सिद्धत्वम् । स च संस्कारो दशविधः मथितः शारदा-
तिलके “मन्त्राणां दश कथ्यन्ते संख्यारा सिद्धिदायिनः ।
निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः । जननं
जीवनञ्चैव ताड़नं बोधनं तथा । अभिषेकोऽथ
बिमलीकरणाप्यायने पुनः । तर्पणं दीपनं गुप्तिर्दशैता मन्त्र-
संस्क्रियाः । मन्त्राणां मातृकावर्णादुद्धारो जननं
स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ।
मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते । मन्त्रवर्णान्
समालिख्य ताड़येच्चन्दनाम्भसा । प्रत्येकं वायुवीजेन
ताड़नं तदुदाहृतम् । वितिख्य षन्त्रवर्णांस्तु प्रसूनैः
करवीरजैः । मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम् ।
पृष्ठ ४२०९
स्यतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्क्यया । अश्वत्थप-
ल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये । संचिन्त्य मनसा मन्त्रं ज्यो-
तिर्मन्त्रेण निर्दहेत् । मन्त्रे मलत्रयं मन्त्री विमलीक-
रणं हि तत् । तारव्योमाग्निमनुयुक् ज्योतिर्मन्त्र
उदाहृतः । कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ।
वारिवीजेन विधिवदेतदाप्यायनं मतम् । मन्त्रेण वारिणा
मन्त्रे तर्पणं तर्पणं स्मृतम् । तारमायारमायोगो
मनोर्दीपनमुच्यते । जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाश-
जम् । संस्कारा दश मन्त्राणां सर्वतन्त्रेषु गोपिताः ।
यत्कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते । रुद्धकीलि-
तविच्छिन्नसुप्तशप्तादयोऽपि च । मन्त्रदोषाः प्रणश्यन्ति
संस्कारैरेभिरुत्तमैः” इति । तदलमकाण्डताण्डवकल्पेन
मन्त्रशास्त्ररहस्योद्घोषणेन । ईश्वरप्रणिधानं नामाभिसंहि-
तानामनभिसंहितानाञ्च सर्वासां क्रियाणां परमेश्वरे
परमगुरौ फलानपेक्षया समर्पणम् । अत्रेदमुक्तम् “काम-
तोऽकामतो वापि यत्ककरोमि शुभाशुभम् । तत्सर्वं
त्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति । क्रिया-
फलसन्न्यासोऽपि भक्तिविशेषापरपर्य्यायं प्रणिधानमेव
फलानभिसन्धानेन कर्मकरणात् तथा च गीयते
गीतासु भगवता “कर्मण्येवाधिकारस्ते मा फलेषु
कदाचन । मा कर्म फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि” इति
फलाभिसन्धेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभा-
रतीश्रीचरणैः “अपि प्रयत्र सम्पन्नं कामेनोपहतं
तपः । न तुष्टये महेशस्य श्वलीढमिव पायसम्” इति
णा च तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया
योगसाधनत्वाद्योग इति । शुद्धसारोपलक्षणावृत्त्याश्रयणेन
निरूप्यते यथायुर्घृतमिति । शुद्धसारोपलक्षणा नाम
लक्षणाप्रमेदः । मुख्यार्थबाधतद्योगाभ्यामर्थान्तरप्रतिपा-
दनं लक्षणा सा द्विविधा रूढिमूला प्रयोजनमूला च
तदुक्तं काव्यप्रकाशे “मुख्यार्थबाधे तद्योगे रूढितोऽथ
प्रयोजनात् । अन्योऽर्थी लक्ष्यते यत् सा लक्षणाऽऽरो-
पिता क्रिया” इति । यच्छब्देन लक्ष्यत इत्याख्याते
गुयीभूतं प्रतिपादनमात्रं परामृश्यते । सा लक्षणेति
प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः ।
तदुक्तं कैयटैः “निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमा-
यादयन्ति सर्वनामानि पर्य्यायेण तत्तल्लिङ्गमुपाददते” इति
तत्र कर्मणि कुशस इत्यादि रूढिलक्षणाया उदाहरणं
कुशान् लातीति व्युत्पत्या दर्भादानकर्त्तरि यौगिकं
कुशलपदं विवेचकत्वसारूप्यात् प्रवीणे प्रवर्त्तमानम्
अनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानबत् प्रयो-
जनमनपेक्ष्य प्रवर्त्तते । तदाह “निरूढा लक्षणाः
काश्चित् सामर्थ्यादभिधानवत्” इति । तस्मात् रूढिलक्ष-
णायाः प्रयोजनापेक्षा नास्ति । यद्यपि प्रयुक्तः शब्दः
प्रथमं मुख्यार्थं प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यते
इति अर्थधर्मो लक्षणा तथापि तत्प्रतिपादके शब्दे
समारोपितः सन् शब्दव्यापार इति व्यपदिश्यते” इति ।
स च योगी यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः । तत्र
यमा अहिंसादयः । तदाह पतञ्जलिः “अहिंसासत्या-
स्तेयब्रह्मचर्य्यापरिग्रहा यमाः” इति । नियमाः शौचा-
दयः । तदप्याह “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधा-
नानि नियमाः” इति । एते च यमनियमा विष्णुपुराणे
दर्शिताः “ब्रह्मचर्य्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत यागी निष्कामो योग्यतां स्वं मनो नयन् ।
स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत
ब्रह्मणि परं परस्मिन् प्रवणं मनः । एते यमाः
सनियमाः पञ्च पञ्च प्रकीर्त्तिताः । विशिष्टफलदाः कामे
निष्कामाणां विमुक्तिदाः” इति । स्थिरसुखमासनं
पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसीपाश्र-
यपर्य्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदाद्दशविधम्
“पादाङ्गुष्ठौ निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु । ऊर्वो-
रुपरि विप्रेन्द्र! कृत्वा पादतले उभे । पद्मासनं भवेदे-
तत् सर्वेषामभिपूजितम्” इत्यादिना याज्ञवल्क्यः पद्मा-
सनादिस्वरूपं निरूपितवान् तत्सर्वं ततएवावगन्तव्यम् ।
तस्मिन्नासनस्थैर्य्ये सति प्राणायामः प्रतिष्ठितो भवति ।
स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः तत्र श्वासो नाम
बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कौष्ठ्यस्य
बहिर्निःसारणम् । तयोरुभयोरपि सञ्चरणाभावः प्राणा-
यामः । ननु नेदं प्राणायामसामान्यलक्षणं तद्विशेषेषु
रेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेन्नैष
दोषः सर्वत्रापि श्वासप्रश्वासगतिविच्छेदसम्भवात् तथा हि
कौष्ठ्यस्य वायोर्बहिर्निःसरणं रेचकः प्राणायामः प्रश्वा-
सत्वेन प्रागुक्तः । बाह्यवायोरन्तर्धारणं पूरकः यः
श्वासरूपः । अन्तस्तम्भवृत्तिः कुम्भकः यस्मिन् जलमिव
कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र
श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति शङ्काव-
काशः । तदुक्तं “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः
पृष्ठ ४२१०
प्राणायामः” इति । स च वायुः सूर्य्योदयमारभ्य सार्द्ध-
घटिकाद्वयं धटीयन्त्रस्थितषटभ्रमणम्यायेन एकैकस्यां
नाड्यां भवति एवं सत्यहर्निशं श्वासप्रश्वासयोः षट्शता-
घिकैकविंशतिसहस्नाणि जायन्ते । अतएवोक्तं मन्त्र-
समर्पणरहस्यबेदिभिरजपामन्त्रसमर्पणे “षट्शतानि
गणेशाय षट्सहश्रं स्वयम्भुवे । विष्णवे षट्सहस्रञ्च
षट्सहस्रं पिनाकिने । स हस्रमेकं गुरवे सहस्नं
परमात्मने । सहस्रमात्मने चैवमर्पयानि कृतं जपम्” इति
तथा नाडीसञ्चरणदशायां वायोः सञ्चरणे पृथिव्यादीनि
तत्त्वानि वर्णविशेषवशात् पुरुषार्थाभिलाषुकैः पुरुषैरव-
गन्तव्यानि । तदुक्तपमियुक्तैः “सार्द्धं घटीद्वयं नाडी
रेकैकार्कोदयात् वहेत् । अरथट्टधटीभ्रान्तिन्यायो नाड्योः
पुनः पुनः । शतानि तस्य जायन्ते निश्वासोच्छ्वासयोर्नव ।
स्वस्वषट्कुद्विकैः २१६०० सङ्ख्याहोरात्रे सकले पुनः ।
षट्त्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेला
मरुतो नाड्यन्तरे सञ्चरत्रो भवेत् । प्रत्येकं पञ्च तत्त्वानि
लाड्योश्च बहमानयोः । वहन्त्यहर्निशं तानि ज्ञातव्या-
बियतात्मभिः । ऊर्द्ध्वं वह्निरघस्तोयं तिरश्चीनः
समीरणः । भूमिरर्द्धपुटे व्योम सर्वगं प्रवहेत् पुनः ।
वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात् ।
वहन्त्योरुभयोर्नाढ्योर्ज्ञातव्योऽयं यथाक्रमम् । पृथ्व्याः
पलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः । अग्नेस्त्रिंशत्
पुनर्वायोर्विंशतिर्नभसी दश । प्रवाहकालसंख्येयं हेतु-
र्विह्वलयोरथ । पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः ।
त्रिगुणोद्विगुणो वायुर्वियदेकगुणं भवेत् । गुणं प्रति
दश पणान्युर्व्यां पञ्चाशदित्यतः । एकैकहानिस्तोयादे-
स्तथा पञ्चगुणाः क्षितेः । तत्त्वाभ्यां भूजलाभ्यां स्यात्
शान्तिकार्य्ये फलोन्नतिः । दीप्तास्थिरादिके कृत्ये तेजो-
वाष्वम्बरेषु च । पृथ्व्यप्तेजोमरुद्व्योमतत्त्वानां चिह्न-
सुच्यते । आद्ये स्थैर्य्यं स्वचित्तस्य, शैत्ये कामोद्भवो
भव्रेत् । तृतीये कोपसन्तापौ चतुर्थे अञ्चलात्मता । पञ्चमे
शून्यतैव स्यादथ वा धर्मवासना । श्रुत्योरङ्गुष्ठकौ मध्या-
ङ्गुल्यौ नासापुटद्वये । स्मृक्वणोः प्रान्त्यकोपान्त्याङ्गुली
शेषे दृगन्तयोः । न्यस्यान्तर्भूपृथिव्यादितत्त्वज्ञानं भवेत्
क्रमात् । पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपाधि स्वम्”
इत्यादिना । यथावद्वायुतत्त्वमवगस्थ तन्नियमने विधीय-
माने विवेकज्ञानावरणकर्मक्षयो भवति । “तपो न परं
प्लाणायामादिति” । “दह्यन्ते ध्मायमानानां धातूनां हि
यथा मलाः । पाणायामैस्तु दह्यन्ते तद्वदिन्द्रियपन्नगाः”
इति च । तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः
संयमप्रत्याहारः कर्त्तव्यः चक्षुरादीनामिन्द्रियाणां प्रति-
नियतरञ्जनीयकोपनीयसोहनीयप्रवणत्वप्रहाणेनाविकृत-
स्वरूपप्रवणचित्तानुकारः प्रत्याहारः इन्द्रियाणि
विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति व्युत्पत्तेः । ननु तदा
चित्तमभिनिविशते नेन्द्रियाणि तेषां बाह्यविषयत्वेन
तत्र सामार्थ्याभावादतः कथं चित्तानुकारः? अद्धा
अतएव वस्तुतस्तस्यासम्भवमभिसन्धाय सादृश्यार्थमिव
शब्दञ्चकार सूत्रकारः “स्वविषयासम्प्रयोगे चिचस्वरू-
पानुकार इवेन्द्रियाणां प्रत्याहारः” इति । सादृश्यञ्च
चित्तानुकारनिमित्तं विषयासम्प्रयोगः यदा चित्तं
निरुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्ष-
णीयं यथा मधुकरराजं मधुमक्षिका अनुवर्त्तन्ते
तथेन्द्रियाणि चित्तमिति । तदुक्तं विष्णुपुराणे “शब्दा-
दिष्वनुरक्तानि निगृह्याक्षाणि योगविंत् । कुर्य्याच्चित्तानु-
कारीणि प्रत्याहारपरायणः” इति । “वश्यता परमा तेन
ज्ञायतेऽतिचलात्मनः । इन्द्रियाणामवश्यैस्तैर्योगी
योगस्य साधकः” इति । नाभिचक्रहृदयपुण्डरीकनाड्य-
ग्रादावाध्यात्मिके हिरण्यगर्भप्रजापतिप्रभृतिके बाह्ये
वा देशे चित्तस्य विपयान्तरपरिहारेण स्थिरीकरणं
धारणा । तदाह “देशबन्धाश्चित्तस्य धारणेति” । पौरा-
णिकाश्च “प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
वशीकृत्य ततः कुर्य्याच्चित्तस्थानं शुभाश्रयम्” इति ।
तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्र-
हाणेन प्रवाहीध्यानं तदुक्तं “तत्र प्रत्ययैकतानता
भ्यानमिति” । अग्यैरप्युक्तं “तदूपप्रत्ययैकाग्र्या सन्तति-
श्रान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते
तथा” इति । प्रसङ्गाच्चरममङ्गं प्रागेव प्रत्यपीपदाम ।
तदनेन योगाङ्गानुष्ठानेनादरनैरन्तर्य्यदीर्घकालसेवितेन
समाघिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसमा-
धिलाभो भवति । अथ किमेवमकस्मादस्मानतिविकटाभि-
रत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते
भवान्, न हि वयं भवन्तं भीषयामहे किन्तु मधुमत्यादिप-
दार्यव्युत्पादनेन तोषयामः ततश्चाकुतोभयेन भवता श्रूय-
तामवधानेन । तत्र मधुमती नामाभ्यासवैराग्यादिवशाद-
पास्तरजस्तमीलेशसुखप्रकाशमयसत्वभावनयाऽनवद्यवैशार-
द्यविद्योतनरूपा श्रतम्भरप्रज्ञाख्या समाधिसिद्धिः । तदुक्तं
पृष्ठ ४२११
“ऋतम्भरा तत्र प्रज्ञेति” । ऋतं सत्यं बिमर्त्ति कदाचिदपि
न विपर्य्ययेणाच्छाद्यते तत्र स्थितौ दाद्ये सति द्वितीयस्य
योगिनः सा प्रज्ञा भवतीत्यर्थः । चत्वारः खलु योगिनः
प्रसिद्धाः प्रथमकल्पिको मधुमूमिकः प्रज्ञाज्योतिरतिक्रान्त-
भावनीयश्चेति । तत्राभ्यासे प्रवृत्तिमात्रज्योतिः प्रथमः
न त्वनेन प्रचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृत-
मित्युक्तं मवति । ऋतम्भरप्रज्ञो द्वितीयः, भूतेन्द्रियजयी
तृतीयः परवैराग्यसम्पन्नश्चतुर्थः । मनोजवित्वादयो
मधुप्रतीकसिद्धयः । तदुक्तं “मनोजवित्वं विकरणाभावः
प्रधानजयश्चेति” । मनोजवित्वं नाम कायस्य मनोवदुत्तमो
गतिलाभः विकरणाभावः कायनिरपेक्षाणामिन्द्रियाणा-
मभिमतदेशकालविषयापेक्षवृत्तिलाभः, प्रधानजयः प्रकृ-
तिविकारेषु सर्वेषु वशित्वम् । एताश्च सिद्धयः
करणपञ्चकस्वरूपजयात् तृतीयस्य योगिनः प्रादुर्भवन्ति यथा
मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः
स्वदन्त इति मधुप्रतीकाः । सर्वभावाद्यधिष्ठातृत्वादिरूपा-
विशोका सिद्धिः । तदाह “सत्वपुरुषाम्यताख्याति-
मात्रप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं चेति” । सर्वेषां
व्ययसायाव्यषसायात्मकानां गुणपरिणामरूपाणां भावानां
स्वामिवदाक्रमणं सर्षमावाधिष्ठातृत्वं तेषामेव शान्तोदिता-
व्यवदेश्यथर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम् ।
तदुक्तं “विशोका वा ज्योतिष्मतीति” । सर्ववृत्तिप्रत्यस्तमये
परं वैराग्बमाश्रितस्य जात्यादिवीजानां क्लेशानां निरी-
वसमर्थो निर्वीजः समाधिः असम्प्रज्ञातपदवेदनीयः संस्का-
रशेषताव्यपदेश्यः चित्तस्यावस्थाविशेषः । तदुक्तं “विरामः
प्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यऽ इति । एवञ्च सर्वतो
बिरज्रमानस्व तस्य पुरूषधौरेयस्म क्वेशवीजानि च निर्द-
ग्धशासिवीजकल्पानि प्रसवसामर्थ्यविधुराणि मनसा
सार्द्धं प्रत्यस्तं गच्छन्ति । तदेतेषु प्रलीनेषु निरुषप्लववि-
वेकख्यातिपरिपाकवशात् लार्यकारणात्मकानां प्रधाने-
कमः चितिशक्तिस्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वामिश्चम्यन्धवि-
चुरा कैवल्यं लभते इति । सिद्धिद्वयी च मुक्तिरुक्ता
पतञ्जलिना “पुरुषार्थशून्यानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा
वा चितिशक्तिरिति” । न चासिन् सत्यपि कस्मान्न
जायते जन्तुरिति वदितव्यं कारणाभावात् कार्य्याभाव
इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात् । अपरथा
कारणाभावेऽपि कार्यसम्भवे जणिवेधादयोऽन्धदिभ्यो
भवेयुः । तथा चानुपपन्नार्थतायामामाणको लौकिक
उपपन्नार्थो मवेत् । तथा च श्रूयते “अन्धो
मणिमविध्यत्तमनङ्गुलिरथावयत् (ग्रथितवान्) । अग्रीवस्त्रं
प्रत्यमुञ्चत् (पिनद्धवान्) तमजिह्वोऽप्यभ्यपूजयत्” (स्तुत-
वातिति) यावत् । एवञ्च चिकित्साथास्त्रवद्योनशास्त्रं
चतुर्व्यूहं यथा चिकित्साशास्त्रं रोगो रोगहेतुरारोग्यं
भेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षो-
पाय इति । तत्र दुःखमयः संसारो हेयः, वधान-
पुरुषयोः संयोनो हेयभोनहेतुः, तस्यात्यन्तिकी निवृ-
त्तिर्हानं तदुपायः सम्यन्दर्शनम् । एवमन्यदपि शास्त्रं
यथासम्भवं चतुर्व्यूहमूहनीयमिति सर्वग्रवदातम्” ।

पतत् त्रि० पत--शतृ बा० अति वा । १ पतनकर्त्तरि २ पक्षिणि

पु० अमरः ।

पतत्र न० पत--करणे अत्रन् । वाहने उज्ज्वलदत्तः ।

पतत्रि पु० पत--अत्रिन् । खगे उज्ज्वक० पतत्त्री पतत्त्रयः ।

पतत्त्र पु० पतन्तं त्रायते त्रै--क । पक्षिणां पक्षे (पाका)

अमरः ।

पतत्त्रिकेतन पु० पतत्त्री केतनं यस्य । गरुड़ध्वजे विष्णौ हरिवं० ३८४२ श्लो० ।

पतत्त्रिन् पु० पतत्त्र + अस्त्यर्थे इनि । खगे अमरः ।

पतद्ग्रह पु० पतत् मुखादिभ्यः स्वत् ब्जलादि गृह्णाति

ग्रह--अच् । (पिकदानी) पात्रमेदे अजरः । अण् उप० स० ।
पतद्ग्राह तत्रार्थे हेमच० ।

पतद्भीरु पु० पतन् पक्षी भीरुर्यस्मात् । श्येने स्वननेदे शब्दरत्ना-

पतन न० पत--भावे ल्युट् । १ अधःसंयोगानुकूलस्पन्दने

३ पातित्ये च “द्विजातिकर्मभ्योहानिः पतनम् । परत्र
चासिद्धिस्तमेके नरकम्” गौतमः । पतितशब्दे दृष्यम्
“विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ० ।

पतनीय त्रि० पत--अनीयर् पतनमर्हति छ वा । १ पात्ये

२ पतनार्हे च त्रि० । बा० करणे अनीयर् । २ पातके न०

पतम पु० पतत्यस्मात् कर्मक्षये पत--अम । चन्दे अणादि-

वृत्तिः क्षीणपुण्यानां चन्द्रलोकदेव पतनं शास्त्रे
श्रूयते इति तस्य तथात्वम् ।

पतयालु त्रि० पति--आलु--तत्पर्युदासेन न णिलोपः । पतनशीले ।

पतयिष्णु पति--बा० इष्णुच् न णिलोपः । पतनशीले

ऋ० १ । १६३ । ११ । उदा० ।

पतर त्रि० पत--वा० अरन् । गन्तरि ऋ० ३ । २ । ४ । उदा०

पतरु त्रि० अत--बा० अरु । पतमशीले ऋ० १ । १८ । ७ उदा०

पतस त्रि० पत--असच् । १ कगे २ चन्द्रे ३ पतङ्गे च उणादि०

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/प&oldid=85313" इत्यस्माद् प्रतिप्राप्तम्