सामग्री पर जाएँ

वाचस्पत्यम्/फ

विकिस्रोतः तः
← वाचस्पत्यम्/प वाचस्पत्यम्/फ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ब →
पृष्ठ ४५४९

फकारः पञ्चमवर्गस्य द्वितीयवर्णः स्पर्शवर्णेषु द्वाविंशतितमः ।

अस्योच्चारणस्य स्थानमोष्ठौ तस्योच्चारणे आभ्यन्तरः प्रयत्नः
जिह्वाग्रस्य ओष्ठाभ्यां सह स्पर्शः अतएवास्य स्पर्श-
वर्णता । बाह्याः प्रयत्नाः विवारश्वासाघोषाः
महाप्राणश्च । अस्मिन् परे विसर्गस्य स्थाने उपाध्मानीयः ।
तन्त्रे वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा
“फः सुखी दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः ।
जया पादशिखा रौद्री फेत्कारः शाखिनी प्रियः ।
इला विहङ्गमः कण्ठः कुब्जिनी प्रियपावकौ ।
प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी । फुत्कारो
यामिनी झञ्झापवनो मोहवर्द्धनः । निष्फलुवागह-
ङ्कारः प्रयाणो ग्रामणी फलम्” । तदीशदेवताध्यानं
यथा “प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् ।
भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् । एवं ध्यात्वा
फकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम् ।
अस्य ध्येयस्वरूपं यथा “फकारं शृणु चार्वङ्गि! रक्त
विद्युल्लतोपमम् । चतुर्वर्गप्रदं वरणं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्व
संयुक्तं त्रिविन्दुसहितं सदा” कामधेनुतन्त्रम् । मात्रका-
न्यास्येऽस्य वामपार्श्वे न्यासः । काव्यादावस्य प्रथम-
विन्यासफलं पकारशब्दे उक्तं दृश्यम् ।

न० फक्क--ड । १ रूक्षकथने २ निष्फलवाक्ये ३ फुत्कारे च

मेदि० ४ झञ्झावाते ५ बर्द्धके ६ जृम्भाविष्कारे ७
फलभागे च पु० विश्वः ।

फकार पु० फ + स्वरूपे कार । फस्वरूपे वर्णे ।

फक्क असदाचारे मन्दगतौ च भ्वा० पर० अक० सेट् । फक्कति

अफक्कोत् पफक्क ।

फक्किका स्त्री फक्क--धातुनिर्देशे भावे ण्वुल्--टाप्

अतैत्त्वम् । १ असद्व्यवहारे (फाँकि) २ तत्त्वनिर्णयार्थं पूर्वपक्षे
च “फणिभाषितभाष्यफक्किका” इति नैषधम् ।

फगुन पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

फञ्जिका स्त्री भञ्जति रोगान् भन्ज--मर्दने ण्वुल् पृषो० ।

(वामनहाटि) १ वृक्षे अमरः । २ देवताडे २ दूरालभायां
शब्दरत्ना० ।

फञ्जिपत्रिका स्त्री भन्ज--णिनि पृषो० फञ्जि रोगमर्दि-

पत्त्रं यस्याः । आखुकर्ण्यां (उन्दुरकानि) रत्नमा० ।
पृष्ठ ४५५०

फञ्जि(ञ्जी) स्त्री भन्ज--इव पृषो० वा ङीप् । भार्ग्याम्

(वामनहाटि) राजनि० ।

फट पुंस्त्री० स्फुट--विकाशे अच् पृषो । १ सर्पाणां फणायाम्

अमरः स्त्रियां टाप् । सा च २ दन्ते मेदि० ३ कितवे पु०
हेमच० ।

फट् अव्य० स्फुट--क्विप् पृषो० । १ योगे तन्त्रोक्ते २ अस्त्रनामके

मन्त्रभेदे च । ३ अनुकरणशब्दे तस्य नम आदिवद् द्रव्य-
विशेषस्य त्यागार्थताऽपि । शान्तिकुम्भक्षालने, अर्घ्यपात्र-
क्षालने, अर्घ्यजलेन पूजीपकरणाभ्युक्षणे, अन्तरीक्ष-
गविघ्नोत्सारणाय विकिरक्षेपणे, गन्धपुष्पाध्यां करशोधने,
अघमर्षणे पापपुरुषताड़ने, कराङ्गन्यासे, नैवेद्यप्रोक्षणे,
होमाग्नेः क्रव्यादांशत्यागे, होमाग्न्यावाहने, तदग्नि-
प्रोक्षणादौ च इत्याद्येषु कर्मसु अस्य प्रयोगः नाना-
तन्त्रेषु दर्शितः ।

फडिङ्गा स्त्री फडिति इङ्गते इङ्ग--अच् । (फड़िङ) ख्यातायां झिल्लिकायां शब्दच० ।

फण अनायासेनोत्पत्तौ भ्वा० पर० सक० सेट् फणति

अफाणीत्--अफणीत् पफाण । फणा० फेणतुः पफणतुः ।

फण गतौ भ्वा० पर० सक० सेट् । फणति अफाणीत् अफणीत्

मित् वा घटादि० । णिचि फाणयति फणयति फणादि० ।

फण पुंस्त्री० फण--अच् । दर्व्याकारे सङ्कोचविकाशवति सर्प-

मस्तके अमरः ।

फण(णा)कर पु० फणः(णा) कर इव यस्य । सर्पे शब्दरत्ना० ।

फणादि न० “फणाञ्च सप्तानाम्” पा० किति लिठि सेटि

खलि च परे एत्त्वाभ्यासलोपनिमित्ते धातुसप्तके तच्च
धातुपाठे उक्तं यथा “फण राज भ्राज भ्रास भ्राश स्यम
स्वन” सि० कौ० भ्वादौ दृश्यः ।

फण(णा)धर पुंस्त्री० फणं(णां) धरति धृ--अच् । सर्पे

शब्दरत्ना० । स्त्रियां जातित्वात् ङीष् । फण(णा)भृदा-
दयोऽप्यत्र ।

फणाभर पुंस्त्री० फणां बिभर्त्ति भृ--अच् । सर्पे हारा०

स्त्रियां जातित्वात् ङीष् ।

फणिकार पु० देशभेदे स च देशः वृ० सं० १४ अ० दक्षिणस्यामुक्तः ।

फणिकेसर पु० फणिनामकः केसरः । नागकेसरे राजनि० ।

फणिखेल पुंस्त्री० फणिना खेलति खेल--अच् । (भारुइ)

खगे त्रिका० स्त्रियां ङीष् ।

फणिचक्र न० फण्याकारं चक्रम् । विवाहादौ शुभाशुभ-

सूचकनाडीकूटज्ञापनार्थे चक्रभेदे उपयमशब्दे १२५४
पृ० दृश्यम ।

फणिजा स्त्री फणीव जायते जन--ड । (फणिमनसा) वृक्षे

नैघण्टुप्र० ।

फणिजिह्वा स्त्री फणिजिह्वा आकारेऽस्त्यस्य अच् । १ महा शतावर्य्याम् २ महासमङ्गायाञ्च राजनि० ।

फणिज्झक पु० फणिनमुज्झति ण्वुल् पृवो० । १ तुलसीभेदे

२ जम्बीरसामान्ये च अमरः ।

फणितल्पग पु० फणिरूपे तल्पे गच्छति तिष्ठति गम--ड ।

शेषशायिनि विष्णौ शब्दार्थकल्प० ।

फणिन् पु० फणा अस्त्यस्य इनि । दर्वीकरे सर्पभेदे अमरः ।

अहिशब्दे ५८१ पृ० तद्भेदाः दृश्याः । २ सर्पिणीनामकौ-
षधौ स्त्री राजनि० । ३ शेषावतारे पतञ्जलमुनौ पु० स च
पाणिनीयभाष्यकारकः योगमूत्रकारकश्च तयौर्भेद ऐक्यं वा

फणिप्रिय पु० फणिनां प्राणप्रदत्वात् प्रियः । वायौ शब्दर०

सर्पाणां वायुभक्षकत्वेन वायोस्तत्प्रियत्वम् ।

फणिफेन न० फणिनां फेन इव । (आफिङ) अहिफेने रत्न मा०

फणिभुज् पु० फणिनं भुङ्क्ते भुज--क्विप् । पन्नगाशने गरुडे

फणिमुख न० फणिन इव मुखमस्य । स्तेय साधनोपयोगिनि

मृत्तिकाक्षेपणार्थे यन्त्रभेदे दशकुमा० ।

फणिवल्ली स्त्री फणिसदृशी दीर्घा, फणिलोकस्था वा वल्ली ।

नागवल्ल्याम् (पानलता) फणिलतादयोऽप्यत्र हेमच० ।

फणिहन्त्री स्त्री फणिनं--हन्ति हन--तृच् ङीप् । गन्धना-

कुल्याम् राजनि० ।

फणिहृत् स्त्री फणिन हरति अपसारयति हृ--क्विप् । क्षुद्रदुरालभायां राजनि० ।

फणीन्द्र पु० ६ त० । सर्पेश्वरे अनन्ते २ वासुकौ च ।

फणीश्वर पु० ६ त० । १ अनन्ते २ वासुकौ शब्दरत्ना० ।

फणीश्वरचक्र न० नक्षत्रभेदे शनिस्थित्या सप्तद्वीपस्थ शुभा-

शुभसूचके चक्रभेदे चक्रशब्दे २८२० दृश्यम् ।

फण्ड पु० फण--गतौ ड तस्य नेत्त्वम् । जठरे उणादिकोषः ।

फत्कारिन् पु० फदित्यव्यक्तं करोति कृ--णिनि । खगमात्रे

शब्द च० ।

फर न० फल + अच् लस्य रः । फलके मरतः ।

फरुवक न० पूगपात्रे हारा० ।

फर्फर त्रि० स्फुर--अच् पृषो० । अत्यन्तचले “गण्डूषजलमात्रेण शफरी फर्फरायते” उद्भटः ।

फर्फरीक न० स्फुर--ईकन् “फर्फरीकादयश्च” उणा० नि० ।

१ नवपल्लवे उज्ज्वल० । २ चपेटे पु० ३ मृदुत्वे न० मेदि० ।
४ पादुकायां स्त्री संक्षिप्तसारः ।

फर्ब गतौ भ्वा० पर० सक० सेट् । फर्बति अफर्बीत पफर्ब ।

“प्रफर्ब्यं च पीवरी” यजु० १२ । ७१ वेददी० “फर्बतिः
पूरणार्थः” ऋ० १० । १०६ । २ भा० दृश्यम् ।
पृष्ठ ४५५१

फर्बर त्रि० फर्ब--पूरणे अरन् । पूरके ऋ० १० । १०६ । २ भा० ।

फल भेदने म्बा० पर० सक सेट् । फलति अफालीत् पफाल

फेलतुः आदित् आरम्भे भावे क्त वा इट् । फुल्तः
फलितः । फुल्तम् फलितम् अन्यत्र फलितः इत्येव । ञीत्
वर्त्तमाने क्त । फलितः ।

फल निष्पत्तौ भ्वा० पर० अक० सेट् । फलति अफालीत् ।

पफाल फेलतुः । क्त कलितः ।

फल गतौ भ्वा० पर० सक० सेट् । फलति अफालीत् । ज्वला०

कर्त्तरि वा ण । फलः फालः । फलयति फालयति ।

फल न० फल--अच् । १ वृक्षादीनां शस्ये २ लाभे ३ फलके (ढाल)

४ कर्ये ५ उद्देश्ये ६ प्रयोजने अमरः ७ जातीफले ८ त्रिफ-
लायां ९ कक्कोले मेदि० १० बाणाग्रे ११ आर्त्तवे शब्दर० १२ फाले
हेम० १३ दाने धर० । १४ मुष्के च । १५ कुटजवृक्षे पु० शब्दर० ।
१६ धात्वर्थनिष्पाद्ये प्रधानोद्देशे प्रयोजने “स्वरितञित
आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा० । “यस्यार्थस्य प्रसि-
द्ध्यर्थमारभ्यन्ते पचादयः । तत् प्रधानं फलं तेषां न
लाभादि प्रयोजनम्” हरिः । तेन पाकादिजन्यं भोजनं
यागादिजन्यञ्च पुण्यमेव फलम् । न वेतनादिलाभरूपं फलं
तेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थजन्यफभागित्वम् ।
धात्वर्थजन्ये १७ संयोगादौ च “फलव्यापारयोर्घातुराश्रये
तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेष-
णम्” हरिः । धात्वर्थशब्दे दृश्यम् । गौतमोक्ते १८ प्रमे-
यभेदे तल्लक्षणञ्च तत्रोक्तं यथा
“आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुः-
खापवर्गास्तु प्रमेयम” गौ० सू० उद्दिश्य “प्रवृत्तिदोषजनितो-
ऽर्थः फलम्” गौ० सू० । “सुखदुःखसंबेदनं फलम्
सुखविपाकं कर्म दुःखविपाकञ्च तत् पुनर्देहेन्द्रियविषय-
बुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम्
तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्वं भवति
तदेतत् फलमुपात्तमुपात्तं हेयं, त्यक्तं त्यक्तमुपादेयमिति
नास्य हानोपादानयोर्निष्ठा, पर्य्यवसानं वाऽस्ति स खल्वयं
फलस्य हानोपादानस्त्रोतसोद्व्यते लोक इति” वात्स्या० ।
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलम् । मवत्य-
त्यागिनां प्रेत्य न तु सन्त्यासिनां क्वचित्” गीता ।
लवणादिसंयोगे फलस्यान्नसमत्वं यथा “तण्डूलोऽम्बग्नि-
संयोगाछवणेन च पिष्टकम् । फलं त्रितयसंयोगादन्नं
भवति तत्क्षणात्” रामार्चनचन्द्रिकाधृतवचनम्
१९ निष्पन्ने त्रि० ।

फलक न० स्वार्थे क । (ढाल) इति ख्याते चर्ममये अस्त्रप्रति-

घातनिवारके १ पदार्थे । २ अस्थिखण्डे जटाध० ३ नागकेशरे
४ काष्ठादिपट्टके च मिता० ।

फलकक्ष पु० यक्षभेदे भा० स० १० अ० ।

फलकण्टक पु० फले कण्टकं यस्य । कण्टकिफलवृक्षे नैषण्टुप्र०

फलकपाणि पु० फलकं पाणौ यस्य । (ढालि) चर्मिणि अम०

फलपुर न० पुरभेदे तस्य नान्तोदात्तता ।

फलकयन्त्र न० सि० शि० उक्ते यन्त्रभेदे यथा

“कर्तव्यं चतुरस्रकं सुफलकं खाङ्का ९० ङ्गुलैर्विस्तृतं
विस्ताराद्द्विगुणा १८० यतं सुगणकेनायाममध्ये तथा ।
आधारः श्लथशृङ्खलादिघटितः कार्य्या च रेखा
ततस्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते । लम्बं
नवत्य ९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य ।
सूत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया
विधेयाः । आधारतोऽधः खगुणा ३० ङ्गुलेषु ज्यालम्बयोगे
सुषिरं च सूक्ष्मम् । इष्टप्रमाणा सुषिरे शलाका क्षे-
प्याऽक्षसंज्ञा खलु सा प्रकल्प्या । षष्ट्यङ्गुलच्यासमतश्च
रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्क्यम् । षष्ट्या घटीनां
मगणांश ३६० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः । अग्रे
सरन्ध्रा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाङ्क्या” मू० ।
“अत्रादौ धातुमयं श्रीपर्ण्यादिदारुमयं वा फलकं
चतुरस्रं श्लक्ष्णं समं कर्तव्यम् । तच्च नवत्यङ्गुलविस्तारं द्वि-
गुण १८० विस्तारदैर्घ्यम् । तत्समीपे दैर्घ्यामध्ये तस्याधारः
शिथिलः शृङ्खलादिः कार्यः । आधारे धृतं यन्त्रं यथा
लम्बमानं स्यात् तथा धृते फलके आधारादधःसूबामव-
लम्बरेखा कार्या । सा च सम्बसंज्ञा । तं लम्बं
नवतिभागं कृत्वा भागे भागे तिर्य्यग्रेस्वा दीर्घा कार्य्या ।
तिर्य्यकत्वं तु लम्बभवाम्मत्स्यात् । सा रेखा ज्यासंज्ञा
ज्ञेया । आधारादधस्त्रिंशदङ्गुलान्तरे या ज्या तस्याः
लम्बस्य च सम्पाते सुषिरम् । तत्रेष्टप्रमाणा शलाका
क्षेप्या साऽक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिंशदङ्गुलेन कर्क-
टकेन वृत्तरेखा कार्या । सा षष्टि ६० घटिकाभिर्भगणां-
सकैः खषडग्निसंख्यैः ३६० प्रत्यंशं दशभिर्दशभिः पानी-
यफलैश्चाङ्क्या । अथ ताम्रादिमयी वंशशजा काष्ठमयी
वा पट्टिका षष्ट्यङ्गुला ६० दीर्घतया तैरेव फलकाङ्गुलैस्तथै-
वाङ्किता कार्य्या । सा पट्टिकार्धाङ्गुलविस्तृता । एकस्मि-
न्नग्रेऽङ्गुलविस्तृता कुठाराकारा कार्या । तत्र विस्तार-
मध्ये छिद्रं कार्यम् । अक्षपोतायाः पट्टिकाया लम्बो-
पृष्ठ ४५५२
परि धृताया एक पार्श्वं यथा लम्बरेखां न जहाति
तथा सरन्ध्रा कार्य्येत्यर्थः” सि० शि० व्याख्या प्रमिताक्षरा ।

फलकर्कशा स्त्री फलेन कर्कशा कठोरा । वनकोल्याम् ।

फलकसक्थ त्रि० फलकमिव सकिथ यस्य मच्समा० ।

फलकतुल्यसक्थियुक्ते स्त्रियां ङीष् । फलकमिव सक्थि ।
कर्म० स० टच् समा० । फलकतुल्यसक्थ्नि न० ।

फलकाम त्रि० फलं कामयते कमि--अण् उप्० स० । विहि-

तकर्मणां फलकामनायुक्ते । तस्य निन्दा मल० त० विष्णु
धर्मोत्तरे उक्ता यथा “धर्मबाणिजका मूढ़ाः फलकामा
नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत” ।
“कामात्मता न प्रशस्ता” मनुना “कर्मण्येवाधिकारस्ते
मा फलेषु कदाचन” गीतया च ।

फलकिन् पु० फलकं तदाकारोऽस्त्यस्य इनि । (फलुइ)

१ मत्स्यभेदे २ फलकान्विते त्रि० मेदि० । फला झञ्जिरिष्ट-
वृक्ष एव स्वार्थे क । फलका ततः चतुरर्थ्यां प्रेक्षा० इनि ।
३ तद्वृक्षसमीपादौ त्रि० स्त्रियां ङीप् ।

फलकीवन न० वनरूपतीर्थभेदे भा० व० ८३ अ० ।

फलकृष्ण पु० फलेन कृष्णः । १ पानीयामलके शब्दच० । फलं

कृष्णमस्य । २ कृष्णफलयुक्ते त्रि० ।

फलकेशर पु० फले केशरा इवास्य । नारिकेलवृक्षे जटाध० ।

फलकोष पु० फलस्य सुष्कस्य कोष इव । सुष्कावरकचर्म-

युते अण्डकोषे तद्वृद्धिहेतुसाह सुश्रुतः “वातपित्तश्लेष्म-
शोणितमेदोमूत्रान्त्रानिमित्ताः सप्त वृद्धयः । तासां मूत्रा-
न्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः अधः
प्रकुपितोऽन्यतमो हि दोषः फलकीषवाहिनीरभिप्रपद्य
धमनीः फलकीषयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते” ।

फलकोषक पु० फलं मुष्क एव कोषोऽत्र कप् । मुष्के अण्डकोषे

त्रिका० ।

फलग्रहि पु० ग्रह--इन् ६ त० । उचितकालफलधरे वृक्षे भरतः

फलग्राहिन् पु० फलं गृह्णाति ग्रह--णिनि । १ वृक्षे धरणिः

वृक्षाणां २ फलग्राहके त्रि० स्त्रियां ङीप् ।

फलघृत न० फलजनकं घृतम् शा० त० । शुक्रादिवृद्धिकारके

चक्रदत्तोक्ते धृतभेदे “मञ्चिष्ठा मधुकं कुष्ठं त्रिफला
शर्करा बला । मेदा पयस्या काकोली मूलञ्चैवाश्वगन्ध-
जम् । अजमोदा हरिद्रे द्वे हिङ्गकं कटुरोहिणी ।
उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम् । एतेषां
कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेदे । शतावरीरसक्षीरं
घृताद्देयं चतुर्गुणम् । सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु
वृषायते । पुत्रान् जनयते नारी मेधाढ्यान् प्रियदर्श-
मान् । या चैवास्थिरगर्भा स्यात् या वा जनयते मृतम् ।
अल्पायुषं वा जनयेत् या च कन्यां प्रसूयते । योनि-
दोषे रजोदोषे परिस्रावे च शस्यते । प्रजावर्द्धनसायुष्यं
सर्वग्रहनिवारणम् । नाम्ना फलघृतं ह्येतत् अश्विभ्यां
परिकीर्त्तितम् । अनुक्तलक्षणे मूलं क्षिपन्त्यत्र चिकित्-
सकाः । जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते । आरण्य-
गोमयेनापि वह्निज्वाला प्रदीयते” ।

फलचमस पु० १ दधिमिश्रितवटत्वक्चूर्णे तदधिकृत्यप्रवृत्ते २ न्याय-

भेदे च “फलचमसमस्मैभक्ष्यं ददातीति” श्रुत्या ऋत्विग्-
भक्ष्यत्वेन फलचमसविधानात् ऋत्विन्भक्ष्यस्य च यज्ञशेष-
द्रव्यत्वेन तत्सिद्धेः यज्ञेऽपि फलचमसलाभः ।
फलचमसश्च दधिमिश्रितवटत्वक्चूर्णमिति” मल० त० रघु० ।

फलचोरक पु० फलं चोर इव यस्य कप् । चोरनामगन्धद्रव्ये

राजनि० ।

फलत्रय न० ६ त० । १ वयस्थामलकीहरीतकीरूपेषु २ द्राक्षापरूषकाश्मीररूपेषु च त्रिषु फलेषु ।

फलत्रिक न० ६ त० । त्रिफलायाम् शुण्टीपिप्पलीमरिचरूपा-

याम् अमरः ।

फलद पु० फलं ददाति दा--क । १ वृक्षमात्रे २ फलदातरि त्रि० ।

फलपञ्चाम्ल न० अम्लपञ्चफले तच्छब्दे ३३३ पृ० दृश्यम् ।

फलपाक पु० फलेषु पाको यस्य । १ करमर्दके भरतः २ पानी-

यमलके शब्दत्त० । ६ त० । ३ फलस्य पाके च ।

फलपाकान्त स्त्री फलपाकेनान्तो नाशोऽस्याः । कदलीधा-

न्याद्योषधौ अमरः ।

फलपाकिन् पु० फलपाकोऽस्त्यस्प इनि । गर्दभाण्डे वृक्षे रत्नमा० ।

फलपुच्छ पु० फलं पुच्छ इवास्य । वरण्डालौ त्रिका० ।

फलपुष्पा स्त्री फलानि पुष्पाणीव यस्याः । पिण्डखर्जूर्य्याम्

राजनि० ।

फलपूर(क) पु० फलेन पूरः पूर्णः । वीजपूरे स्वार्थे क । तत्रैवार्थे अमरः ।

फलप्रिया स्त्री फलेन प्रीणाति प्री--क । प्रियङ्गौ राजनि० ।

फलबन्ध्य पु० फले बन्ध्यः । अबकेशिनि फलशून्यवृक्षे हेमच० ।

फलभूमि स्त्री फलभोगार्थं कर्मफलभोगार्थं भूमिः । कर्म

भूमिव्यतिरिक्ते भूदेशे “भारवान्यैरावतानि विदेहाञ्च
कुरून् विना । वर्षाणि कर्मभूम्यः स्युशेषाणि फलभूमयः”
हेमच० ।

फलभोग पु० ६ त० । फलानां कर्मफलानां मुखदुःखादीनां भोगे अनुभवे

फलमुख्या स्त्री फलेन मुख्या श्रेष्ठा । अजमोदायाम राजनि०

फलमुहरिका स्त्री मुदं गिरति गृ--इन् फलं पुद्गरि

यस्याः कप् । पिण्डखर्जूर्य्याम् (पिण्डीखेजुर) शब्दमा०
पृष्ठ ४५५३

फलयोग पु० ६ त० । फलसम्बन्धे नाटकाङ्गकार्यस्य अवस्था

“सावस्था फलयोगः स्याद् यः समग्रफलागमः सा० द०
लक्षिते २ अवस्थाभेदे च ।

फललक्षणा स्त्री फलहेतुका लक्षणा । प्रयोजनहेतुकायां

लक्षणायाम् “व्यङ्ग्यस्य गूढ़ागूढ़त्वाद्विधा स्युः
फललक्षणाः” सा० द० ।

फलवत् त्रि० फल + अस्तर्थे मतुप् षस्य वः । १ फलयुते पुरुषे

२ तत्साधने यागादौ च “फलवत्सन्निधावफलं तद्रङ्गमिति
न्यायः । ३ फलयुते वृक्षे पु० अमरः ।

फलवर्तुल पु० फलं वर्तुलं यस्य । १ कालिङ्गेवृक्षे । २ तत्फले न० राजनि० ।

फलवृक्षक पु० फलप्रधानो वृक्षः संज्ञायां कन् । पनसवृक्षे

राजनि० ।

फलशाक न० “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।

शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्” भावप्र० उक्ते
षड्विधशाकमध्ये फलरूपशाके तच्च कुष्माण्डादि तत्रोक्तम्

फलशाडव पु० दाड़िमवृक्षे राजनि० ।

फलशालिन् त्रि० फलेन शालते श्लाघते शाल--णिनि ।

फलयुक्ते स्त्रियां ङीप् ।

फलशैशिर पु० शिशिरं प्राप्तमस्य अण् फलं शैशिरं यस्य । वदरवृक्षे राजनि० ।

फलश्रुति स्त्री श्रु--करणादौ क्तिन् ६ त० । १ वैदिककर्मणां

फलप्रतिपादनार्थशब्दे २ फलश्रवणे च “फलश्रुतिरियं नॄणां
न श्रेयो रोचनं परम् । श्रेयो विवक्षया प्रोक्तं यथा
भैषज्यरोचनम्” । अपिच “वेदोक्तमेव कुर्वाणी निःष-
ङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था
फलश्रुतिः” भाग० ११ स्क० मल० त० धृतवचनम् ।

फलश्रेष्ठ पु० फलेन श्रेष्ठः प्रशस्यतरः । आम्रवृक्षे शब्दच० ।

फलश पु० फल + तृणा० श । १ फलयुक्ते २ पनसे भरतः फलस

इति पाठान्तरं तत्रार्थे ।

फलस्थापन न० फलयोरौडम्बरफलयोः स्थापनमत्र ।

सीमन्तोन्नयनसंस्कारे “फलस्थापनात् मातापितृजं
पापुमानमपोहति” हारीतः “फलस्थापनात् फलस्थाप-
नाङ्गकसीमन्तोन्नयनात्” सं० त० रघु० । तत्र पश्चात्
पतिरवस्थाय युगमन्तमौडुम्बरं शलाटु ग्रन्थमावध्नाति” गोभि-
लेन औडुम्बरफलयुगस्थापनस्य विधानात् तथात्वम् ।

फलस्नेह पु० फले स्नेहो यस्य । अङ्कोटवृक्षे राजनि० ।

फलहारिन् त्रि० फलं हरति ह्व--णिनि । फलहारके ।

फलहारी त्री० फलं हारो हरणं यस्यै गौरा० ङीष् ।

कालीभेदे तत्पूजादिनञ्च “ज्येष्ठे मासि अमायां वै
मध्यरात्रे महेश्वरि! । पूजयेत् कालिकां देवीं नाना-
द्रव्योपहारकैः । तत्रैवासितपक्षे तु पञ्चदश्यां निशा-
र्द्धके । पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम्”
मायातन्त्र १७ पटले ।

फलाढ्या स्त्री फलेनाढ्या सम्पन्ना ३ त० । १ काष्ठकदल्याम् । राजनि० । २ फलयुक्ते त्रि०

फलादन पुंस्त्री० फलमदनमस्य । १ शुकखगे हेमच० स्त्रियां

जातित्वात् ङीष् । फलाशन तत्रार्थे त्रिका० । २
फलभक्षके त्रि० स्त्रियां टाप् ।

फलाध्यक्ष पु० फलमध्यक्षमिव यस्य । १ राजादने अमरः ।

२ फलदाना--ध्यक्षे ईश्वरे च । फलसाक्षीत्यादयोऽपीश्वरे ।

फलान्त पु० फलेनान्तोऽस्य । १ वंशे शब्दमा० । ६ त० । २

फलस्यान्ते च ।

फलाफलिका स्त्री फलसहितमफलं शा० त० तदस्त्यस्य ठन् टाप्

कापि अत इत्त्वम् । फलसहिताफलयुतायां स्त्रियां ।

फलाबन्ध्य पु० फलेनाबन्ध्यः । फलयोग्ये वृक्षे हेमच० ।

फलाम्ल न० फलमम्लं यस्य । १ वृक्षाम्ले २ अम्लवेतसे पु०

राजनि० ।

फलाम्लपञ्चक न० अम्लपञ्चके तच्छब्दे दृश्यम् ।

फलि पु० फल--इन् । (फलुइ) मत्स्यभेदे रायमु० ।

फलिका स्त्री फल + अस्त्यर्थे ठन् टाप् । निष्पाव्याम् राजनि०

फलिग पु० फलिनं गच्छति गम--ड । मेघे निघण्टुप्र० ।

फलित त्रि० फल--निष्पत्तौ क्त फलं जातमस्य तार० इतच्

वा । १ निष्पन्ने २ जातफले वृक्षे पु० धरणिः । ३ शैलेये
न० राजनि० ।

फलिन् त्रि० फल + अस्त्यर्थे इनि । १ फलयुते स्त्रियां ङीप्

२ वृक्षे पु० अमरः ३ प्रियङ्गौ स्त्री ङीप् अमरः ।

फलिन पु० फल + अस्त्यर्थे इनच् । १ फलयुक्ते २ तादृशे वृक्षे पु० अमरः ।

फली स्त्री फलमस्त्यस्याः अच् गौ० ङीष् । प्रियङ्गुवृक्षे अमरः

फलीकार पु० फल + च्वि--कृ कर्मणि घञ् । फलेच्छायं भाग०

४ । ९ । ३६ श्रीधरः । भावे घञ् । २ वितुषीकरणे अफलस्य
३ फलसम्पादने

फलीय त्रि० फल + उत्करा० चतुरर्थ्यां छ । १ फलयुक्ते २ फलसन्निकृष्टादौ च ।

फलेग्रहि पु० फले फलं (कर्मण आधारत्वविवक्षा) गृह्णाति

धारयति स्वीकरोति वा इनि अलुक् स० । १ योग्यकाले
फलचारके वृक्षे यथाकालं फलस्वीकारिणि च । “फले-
ग्रहीन् हंसि वनस्पतीनाम्” भट्टिः । लुकि तु फलग्राहि
तच्छब्दे दृश्यम् । पृषो० फलेग्राहिरप्यत्र शब्दरत्ना० ।
पृष्ठ ४५५४

फलेन्द्र पु० फलेन इन्द्र ऐश्वर्य्यान्वितः । राजजम्बुवृक्षे ।

“फलेन्द्रा कथितानन्द्रा राजजम्बूर्महाफला” भावप्र० ।

फलेपुष्पा स्त्री फले फलमुखे पुष्पमस्याः । द्रोणपुष्पीवृक्षे भावप्र०

फलेरुहा स्त्री फले तन्निमित्तं रोहति रुह--क । पाटलिवृक्षे

अमरः ।

फलोत्तमा स्त्री फलेन उत्तमा । १ द्राक्षाभेदे राजनि० । ३ त्रि-

फलायां नैघण्टुप्र० ।

फलोत्पत्ति पु० फनाय उत्पत्तिरस्य । १ आम्रवृक्षे शब्दच० । ६ त० । २ फलस्योत्पत्तौ स्त्रीं ।

फलेच्छुक पु० १ यक्षभेदे भा० स० १० अ० । २ फलकामे त्रि० ।

फलोदय पु० ६ त० । १ फलोत्पत्तौ २ लाभे ३ स्वर्गे ४ हर्षे च शब्दर०

फल्क पु० फल--क नेत्त्वम् । विशोधिताङ्गे उज्ज्वलद० ।

फल्गु त्रि० फल--उ गुक् च । १ रम्ये मेदि० २ असारे अमरः ।

३ निरर्थके त्रिका० ४ मिथ्यावाक्ये शब्दर० ५ गयातीर्थस्थनद्यां
स्त्री । मेदि० (फागु) इति ख्याते धूलिरूपे ६ पदार्थे
७ वलन्तसमये, जटा० । ८ काकोडुम्बरिकायाम् अमरः ।
फल्गुतीर्थमाहात्म्यं यथा “फलगुतीर्थं ब्रजेत् तस्मात्
सर्वतीर्थात्तमोत्तमम् । मुक्तिर्भवति पितृणां कर्तृणां
श्राद्धतः सदा । ब्रह्मणा प्रार्थितो विष्णुः फल्गुको
ह्यभवत् पुरा । दक्षिणाग्निहुतं न्यू नं तद्रजः फल्गु-
तीर्थकम् । तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि ।
तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह । गङ्गा-
पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः । स्वयं हि
द्रवरूपेण तस्माद्गङ्गधिकं विदुः । अश्वमेधमहम्राणां
सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गु-
तीर्थे यदाप्नुयात्” वायुपु० गयामा० ।

फल्गुदा स्त्री फल्गुनद्यां “तत्र देशे गया नाम पुण्यदेशोऽस्ति

पावनः । नदी च फल्गुदा नाम पितॄणां स्वर्गदायिनी”
वृहद्धर्म पु० ।

फल्गुन पु० फलगुचूर्णभेदो नीयतेऽस्मिन् नी--ड । १ फाल्गुने मासि २ अर्जुने च भरतः ।

फल्गुनी स्त्री फल--उनन् गुक् च गौरा० ङीष् । १ काकोडुम्बु-

रिकायाम् राजनि० । अश्विन्यवधिके एकादशे द्वादशे च
२ नक्षत्रे च ब० व० भरतः ।

फल्गुलुका बायुकाणस्थे देशभेदे वृ० सं० १४ अ० ।

फल्गुवाटिका स्त्री फल्गूनां वाटीव इवार्थे कन् । काको-

डम्बरिकायाम् राजनि० ।

फल्गुवृन्ताक पु० फल्गुना रम्येण वृन्तेन आकायति आ +

कै--क । श्योनाकभेदे । राजनि० ।

फल्गूत्सव पु० फल्गुनिमित्तक उत्सवः । फाल्गुणचौर्ण-

मास्यादिषु कर्त्तव्ये (आवीर) फल्गुद्रव्यकरणे उत्सवे
“गोविन्दानुगृहीतन्तु यात्रङ्गं तत्प्रकीर्त्तितम् । फल्गूत्सवं
प्रकुर्वीत पञ्चाहानि त्र्यहाणि वा” दोलयात्रापद्धतिः ।

फल्य न० फलाय हितं यत् । पुष्पे शब्दच० ।

फल्लकिन् पु० फलक + पृषो० तदाकारोऽस्त्यस्य इनि । (फलुइ)

मत्स्यभेदे शब्दार्थकल्प० ।

फल्लफल पु० शूर्पवाते जटाधरः ।

फा पु० फल--बा० डा । १ निष्फलभाषणे शब्दर० । २ सन्तापे

३ वृद्धौ ४ वर्द्धके च विश्वः ।

फाटकी स्त्री स्फुट ण्वुल् पृषो० गौरा० ङीष् । (फट्किरी) उपधातुभेदे राजनि० ।

फाणि स्त्री स्फाय--नि पृषो० । १ गुडविकारे, २ करम्भे (दधि-

मिंश्रितसक्तौ) च उणादिकोषः ।

फाणित न० फण--णिच्--क्त । गुडविकारभेदे (फेणी) अमरः

“इक्षो रमसस्तु य पक्वः किञ्चिद्गाढो बहुद्रवः । स
एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया” भावप्र० । “फाणितं
गुर्वभिशन्दि वृंहणं कफशुककृन् । वातपित्तश्रमहरं
मूत्रवस्तिविशोधनम्” तद्गुणास्तत्रीक्ताः ।

फाण्ट न० फण--क्त नि० । १ अनायासेन कृते अमरः । “क्षिप्त्वोष्ण-

तोये मृदितः फाण्ट इत्यभिधीयते” इत्युक्ते २ क्वाथभेदे पु० ।
“क्षुण्णद्रव्यफले मम्यक् जलमुष्णं विनिःक्षिपेत् । पात्रे-
चतुःपलमितं ततस्तु स्रावयेज्जलम् । सोऽयं चूर्णद्रवः
फाण्टः भिषग्भिरभिधीयते” वैद्यक० ।

फाल न० फलाय शस्याय हितम् अण्, फल्यते विदार्य्यते

भूमिरनेन वा घञ् । १ स्वनामख्याते लाङ्गलमुखस्थे
लौहभेदे अमरः । फालमस्त्यस्य अच् । २ बलदेवे ३ महादेवे
च प० । फलस्य विकारः अण् । ४ कार्पासवस्त्रे मेदि० ।
५ तप्तफालकरणपरीक्षाभेदे न० । फलेषु मवः अण् ।
६ जम्बीरवीजे पु० कुलचन्द्र । फालदिव्यप्रकारश्च विव्यत० उक्तो
यथा “वृहस्पतिः “आयसं द्वादशपलथटितं
फालमुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् । अग्नि-
वर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् । न दग्धश्चे-
च्छुद्धिमियादन्यथा स तु हीयते” चौरोऽत्र गोचौरः
“गोचौरस्य प्रदातव्य तप्तफालावलेहनम्” इति स्मृते-
रिति मैथिलाः । अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरम् ।
“आयसं लेलिहानस्य जिह्वयापि समादिशेत्” इति
पितामहोक्तेः प्राड्विवाकशोध्याभ्यामग्न्यभिमन्त्रणं
कार्य्यम् । अत्र प्रयोगः लौकिकचत्वारिंशत्तोलकमितं
लौहघटितमष्टयवमध्यात्मकाङ्गुलाघदीर्घम् तथाविध-
पृष्ठ ४५५५
चतुरङ्गुलप्रस्तारं फालमग्नौ तापयेत् । तत्र प्राड्-
विबाकोधर्मावाहनादिहवनान्तं कर्म कृत्वा दक्षिणां दत्त्वा
समन्त्रकं प्रतिज्ञापत्रं शोध्यशिरसि निधाय ओम्
“त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु ह्वयसे । त्वं मुखं
सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् । जठरख्यो हि मूतानां
ततो वेत्सि शुमाशुभम् । पापं पुनासि वै यस्मात् तस्मात्
पावक उच्यसे । पापेषु दर्शयान्तानमर्चिष्मान् भव
पायक! । अथ वा शुद्वभावेषु शीतो भव हुताशन! । त्वमेव
सर्वभूतानामन्तशरसि साक्षिवत् । त्वमेव देव! जानीषे
न विदुर्यानि मानवाः । व्यवहारातिशस्तीऽयं मानुषः
शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि” ।
इत्येतैः फालस्यमग्निमभिमन्त्रयेत् । शोध्यस्तु “त्वमग्ने
सर्वभूतान्तानामन्तश्चरसि पावक! । साक्षिवत् पुण्यपापेभ्यो
ब्रूहि सत्यं कवे! मम” इत्यनेनाभिमन्त्र्याग्निवणं फालं
जिह्वया सकृत् लिह्यात् । नदन्धश्चेत् शुद्धः” ।

फाल्गुन पु० फल्गुनीयुक्ता पौर्णमासी अण् सा यत्र मासे

जेवे वर्षे अर्द्धमासे वा अण् । चैत्रावधिके द्वादशे
१ स्वनामख्याते मासभेदे २ तादृशे पक्षे ३ जैवे बर्षभेदे
च कार्त्तिकशब्दे १९४९ पृ० दृश्यम् । “अन्त्योपान्त्यौ
त्रिभौ ज्ञेयौ फाल्गुश्च त्रिभोमत” इत्युक्तेः पौर्णमास्यां
फाल्गुनीरूपनक्षत्रत्रययोगात् तथात्वम् । स च मासः
त्रिविधः मुख्यगौणचान्द्रसौरभेदात् तत्र कुम्भस्थरम्यरष्य
शुक्लप्रतिपदादिदर्शान्तो मुखचान्द्रः । तथाभूतकृष्णप्रतिपदा-
दिषौर्णमाण्डन्तो गौणः, कुम्भस्थरविकः सौरः, इति । अयञ्च
शब्दः दन्त्यनान्ते मेदिनिकोषे पठितः । फाल्गुने गगने
फेने णत्वमिच्छन्ति वर्वराः” कारिकायाम् अणत्वमिति-
कल्पनं मेदिनिविरोघान् प्रामादिकमेव । ४ तत्पौर्ण-
मास्यां स्त्री ङीप् । ५ अर्जुनाख्ये पाण्डवे तन्नामकत्वे
कारणम् भा० वि० ४४ अ० उक्तं यथा “उत्तराभ्या कल्गु-
नीभ्यां नक्षत्राभ्यामहं दिवा । जातो हिमवतः पृष्ठे
तेन मां फाल्गुनं विदुः” । ६ अर्जुनवृक्षे पु० मेदि० ।

फाल्गुनानुज पु० फाल्गुनादनुजायते अनु + जन--ड । १ चैत्रे

माणि २ वसन्तकाले हारा० । ३ नकुलसहदेवयोः द्वि० व० ।

फाल्गुनिक पु० फाल्गुनीनक्षत्रयुक्ता पौर्णमासी अस्मिन्

मासे ठक् । चैत्रावधिके द्वादशे मासे ।

फि पु० फल--वा० ड़ि । १ निष्फालवाक्ये २ पापे च एकान० को० ३ कोपे शब्दर०

फिङ्गक पु० कलिङ्ग + पृषो० । (पिङा) पणिमेदे शब्दमा० ।

फिरङ्क पु० स्वनामख्याते म्लेच्छदेशे १ रोगविशेषे २ मावप्र०

तत्र फिरङ्गस्य निरुक्तिमाह । “फिरङ्गसंज्ञके देशे
बाहुल्येनैष यद्भवेत् । तस्मात् फिरङ्ग इत्युक्तो
व्याधिर्व्याधिविशारदैः” । तस्य विप्रकृष्टं निटानमाह
गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् । फिरङ्गि-
णोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः । व्याधिराग-
न्तुजो ह्येष दोषाणामनुसंक्रमः । भवेत्ता लक्षयेत्तेषां
लक्षणैर्भिषजां वरः” । फिरङ्गिण्याः प्रसङ्गत इति
विशेषार्थम् । रूपमाह “फिरङ्गस्त्रिविवो ज्ञेयो बाह्या-
भ्यान्तरतस्तथा । वहिरन्तर्भवश्चापि तेषां लिङ्गानि च
ध्र्वम् । तत्र बाह्यः फिरङ्गः स्याद्बिस्फोटसदृशोऽल्परुक् ।
स्फुटितो व्रणवद्वेद्यः सुखमाध्योऽपि स स्मृतः । सन्धे-
श्चाभ्यन्तरः स स्यादुभथोर्लक्षणैर्युतः । कष्टदोऽतिचिर-
स्थायी कष्टसाध्यतमश्च सः” । उपद्रवानाह “कार्श्यं
बलक्षयो नासाभङ्गो वह्नेश्च मन्दता । अस्थिशोषो-
ऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी । साध्यत्वादिकमाह
वहिर्भवो भवेत् साध्यो नूतमो निरुपद्रवः । आभ्य-
न्तरस्तु कष्टेन साध्यः स्यादयमामषः । बहिरन्तर्भवो
जीर्णः क्षीणस्योपद्रवैर्युतः । बोध्यो व्याणिरसाध्योऽय-
मित्यूचुर्मुनयः पुरा” । ततोऽस्त्यर्थे इनि । फिरङ्गिन्
तद्देशस्थजने तद्रोगयुते च त्रि० स्त्रियां ङीप् ।

फु पु० फल--डु । मन्त्रोच्चारणपूर्वके १ फुत्कारे २ तुच्छवाक्ये च विश्वः ।

फुक पु० णगे शब्दच० ।

फुट त्रि० स्फुट--क पृषो० । १ विदीर्णे २ प्रस्फुटिते च । ३ सर्पफणायां पु० हेमच० ।

फु(फू)त् अव्य० कल--डुति पृषोऽवा दीर्घः । कनुकरणशब्दे ।

फुत्कर पु० फुदित्यष्यक्तं शब्दं करोति कृ--ट । वह्नौ शब्दच०

फुत्कार पु० कृ--भावे घञ् फुदित्यव्यशब्दस्य कारः । फुदिव्य-

व्यक्तशब्दकरणे । फुत्कारयुक्ते वह्नौ आहुतिनिषेधो
यथा “अल्पे कक्षे सस्फुलिङ्गे वामावर्त्ते भयामके ।
षार्द्रकाष्ठैः समुत्पन्ने फुत्कारवति पावके । कृष्णार्चिषि
सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुहुयाद्-
यस्तु तस्य नाशो भवेद् ध्रुवम्” ति० त० ।

फुप्फुम पु० सुश्रुतोक्ते हृदयस्य वामपार्श्वस्थिते (फुलका) इति

ख्याते कोष्ठभेदे “स्थानान्यामाग्निपकानां मूत्रस्य रुचिरष्य
च । हृदण्डुकः फुप्फुसश्च कोष्ठ इत्यमिघीयते” व्याचाख्पा
चेदम् “आसस्य स्थानमामाशयः नाभेरुर्द्ध्वम् । अग्नेः स्थानं
पच्यमानाशयः नाभिमध्यम् । पकस्य स्थानं पकाशयः
नाभेरधः । मूत्रस्य स्थानं वस्तिः) रुषिरस्य स्थानं
यकृत्प्लीदानौ । तद् द्वदयम् । इक्षुरसपाकमलवद् यः
पृष्ठ ४५५६
शोणितमलस्तज्जः उण्डुकः स चान्त्रदेशे व्यवस्थितः
पुरीषाधानम् । फुप्फुसः हृदयस्य वाभपार्श्वे स्थितः ।
(फुलका) इति ख्यातः” इति विजयरक्षितः ।

फुल्त(ल्ल) त्रि० फल--आरम्भे भावे क्त वा तयोर्नेट् अत

इत्त्वम् । १ फलनारम्बयुते २ फलने च । पक्षे फलित इति ।
अन्यत्र फलित इत्येव । भावे क्तिन् फुल्तिं फलने स्त्री ।

फुल्ल विकाशे भ्वा० पर० अक० सेट् । फिल्लति अफुल्लीत् पुफुल्ल ।

फुल्ल त्रि० फुल्ल--विकाशे अच् । विकशिते पुष्पे अमरः ।

फुल्लकाल पु० फुल्लं फलति फल--अण् । शूर्पवाते त्रिका० ।

फुल्लटामन् न० ६ त० । १ फुल्लानां दामनि “मोगौ नौ तौ गौ

शरहयतुरगैः फुल्लदाम प्रसिद्धम्” वृ० र० उक्ते ऊनविंश-
त्यक्षरपादके छन्दोभेदे ।

फुल्ललोचन त्रि० फुल्लं बिकसितं लोचनमस्य । १ विकसितनेत्रे

स्त्रियां स्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप् । २ मृगभेदे
पुंस्त्री० शब्दच० स्त्रियां जातित्वात् ङीष् ।

फुल्लरीक पु० फल--फर्फरीकादि० नि० १ देशभेदे २ सर्पे च संक्षिप्तसा० ।

फेण(न) पु० स्फाय--न पृषो० मतान्तरे णत्वम् । दुग्धजलादे-

रुपर्य्युपरिस्थे बुद्बुदाकारे पदार्थे (फेना) अस्य णान्तत्व-
मपि “हंसश्रेण्यो नदीतीरे निनदैः संप्रतीयिरे । यथा
सारस्वता मन्त्रा अन्तरे फेणसङ्गता” इत्युक्तौ पक्षे अन्त-
रेफेण अन्तःस्थरकारेण संयुता इत्यर्थः । २ हिमे च
३ गुड़विकारभेदे स्त्री ङीप् । “वटो वेशवारात् लवङ्गेन
फेणी शमं पर्पटः शिग्रुवीजेन याति” जीर्णमञ्जरी ।
“बानीरं गगनं फेनमूनञ्च दन्त्यनान्वितम् । आहुः फाल्गुन-
मिच्छन्ति केचिन्मूर्ध्वमुणान्वितम्” भरतधृतवाक्यम् ।

फेण(न)क स्वार्थे क संज्ञायां कन् वा । १ फेनशब्दार्थे

२ पिष्टकभेदे त्रिका० ।

फे(ण)नका स्त्री फे(ण)न इव कायति कै--क ।

जलपक्वतण्डुलचूर्णे (काइ) शब्दच० ।

फेण(न)दुग्धा स्त्री फेणः(नः) इव दुग्धं निर्यासोऽस्य ।

(दुधफेणा) क्षुपभेदे राजनि० ।

फेण(न)वाहिन् पु० (फेण(न)मिव वहति श्वेतताम ।

वह--णिनि । वस्त्रे शब्दमाला ।

फेणा(ना) स्त्री फेण(न) अस्त्यर्थे अच् । सातलाक्षुपे राजनि० ।

फेणा(ना)ग्र न० ६ त० । बुद्बुदे । हारा० ।

फे(णि)निका स्त्री (णाजा) इति ख्याते पक्वान्नभेदे कृतान्न-

धब्दे २१८३ । ३४ पृ० दृश्यम् ।

फेणि(नि)ल त्रि० फे०--(ण) + अत्यर्थे इलच् । फेन(ण)वि-

शिष्टे । २ कीदिकले ३ मदनवृक्षफले च न० मेदि० । ४ वदरवृक्षे
राजनि० ५ अरिष्टवृक्षे च पु० अमरः ।

फेत्कारिणी स्त्री तन्त्रभेदे ।

फेत्कारीय पु० तन्त्रभेदे ।

फेर पुंस्त्री० फे इत्यव्यक्तं रौति रु--वा० ड । शृगाले शब्दर० स्त्रियां ज्वातित्वात् ङीष् ।

फेरण्ड पुंस्त्री० फे इत्यव्यक्तं रण्डति रण्ड--अच् । शृगाले

हेमच० स्त्रियां जातित्वात् ङीष् ।

फेरव पुंस्त्री फे इत्यव्यक्तो रवोऽप्य । १ शृगाले अमरः ।

२ राक्षमे मेदि० । स्त्रियां ङीष् ३ धूर्त्ते त्रि० शब्दर० ।

फेरु पु० फे इत्यव्यक्तं रौति रु--डु । १ शृगाले अमरः ।

फेल गतौ भ्वा० पर० सक० सेट् । फेलति अफेलत् पिफेल ।

ऋदित् चङि न ह्रस्वः । अपिफेलत् त ।

फेल(ला) न० स्त्री० फेल--अच् वा टाप् । १ भुक्तसमुञ्झिते

उच्छिष्टे शब्दरत्ना० ब० । अमरे स्त्री ।

फेलि स्त्री फेल--इन् । उच्छिष्टे भुक्तावशिष्टे व्यदाध०

स्वार्थे क फेलिका तत्रार्थे
इति श्रीतारानाथतर्कवाचसातिभट्टाचार्य्य-
सङ्कलिते वाचस्पत्ये फकारादिशब्द-
सङ्कलनम् ।
फाण्टशब्दपरिशिष्टम्--“तद्वै नवनीतं भवति घृतं
देवानां फाण्टं मनुष्याणाम्” शत०ब्रा० “नवनीतभावात्
प्रागवस्थापन्नं द्रव्य फाण्टमित्युच्यते” भाष्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/फ&oldid=313032" इत्यस्माद् प्रतिप्राप्तम्