सामग्री पर जाएँ

वाचस्पत्यम्/ब

विकिस्रोतः तः
← वाचस्पत्यम्/फ वाचस्पत्यम्/ब
तारानाथ भट्टाचार्य
वाचस्पत्यम्/भ →
पृष्ठ ४५५७

बकारः पवर्गस्य तृतीयवर्णः कादिषु त्रयोविंशतितमो

व्यञ्जनवर्णः जिह्वाग्रेण ओष्ठयोः स्पर्शेन उच्चार्य्यत्वात्
स्पर्शवर्णः । अस्योच्चारणस्य स्थानमोष्ठौ । उच्चारणे ओष्ठ-
जिह्वाग्रेण स्पर्शः आभ्यन्तरप्रयत्नः । वाह्यप्रयत्नाः संवा-
रनादघोषाः अल्पप्राणश्च । अस्य वाचकशब्दाः तन्त्रे वर्णा-
भिधानोक्ता यथा “बो वनी भूधरो मार्गो घर्घरी लोचन-
प्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्दिनी ।
पृष्ठवंशोऽभया मत्तः शिखिवाहो युगन्धरः ।
मुखविन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः । क्लेदिनी
तापिनी भूमिः सुगन्धिस्त्रिबलिप्रियः । सुरभिर्मुख-
विष्णुश्च संहारो बसुधाधिपः । षष्ठी पुरं चपेटा च
मोदका गगनं पतिः । पूर्वाषादा मध्यलिङ्गः शगिः कॢप्त
तृतीयकौ” । तस्याधिष्ठातृदेवताध्यानं यथा “नीलवर्णां
त्रिनयनां नीलाम्बरधरां पराम । नागहारोज्ज्वलां देवीं
द्विभुजां पद्मलोचनाम् । एवं ध्यात्वा बकारन्तु तन्मन्त्रं
दशधा जपेत्” वर्णोद्धारतन्त्रम् । अस्य ध्येयस्वरूपं यथा
“वकारं शृणु चार्वङ्गि । चतुर्वर्गप्रदायकम् । शरच्चन्द्र
प्रतीकाशं पञ्चदेवमयं सदा” कामधेनुत० । मातृन्यासे-
ऽस्य पृष्ठवंशे न्थस्यता । काव्यादौ प्रथमप्रयोगे पकार-
शब्दोक्तं फलम् ।

पु० बल--ड । “बः पुमान् १ वरुणे २ सिन्धौ ३ भगे ४ तोये

५ गते तु बा । ६ गन्धने ७ तन्तुसन्ताने पुंस्येव ८ वपने
स्मृतः” मेदि० । ९ कुम्भे शब्दर० ।

बंहिष्ठ त्रि० अतिशयेन बहुः इष्ठन् बंहादेशः । अतिशय-

बहुले अमरः ।

बंहीयस् त्रि० अतिशयेन बहुः ईयसु बंहादेशः । अतिशयबहुले स्त्रियां ङीप् ।

बकुर त्रि० भास्कर + भयङ्कर + वा पृषो० । १ भास्करे २ भयङ्करे

च ऋ० १ । ११७ । २१ भा० ।

बठ वृद्धौ सामर्थ्ये च भ्वा० पर० सक० सेट् । बठति अबठीत्

अवाठीत् । बबाठ बेठतुः ।

बड़वा स्त्री बलं वाति वा--क लस्य डः । १ घोटक्याम्, अमरः ।

२ अश्विनीनक्षत्रे ज्यो० । ३ दास्याञ्च । बड़वाकृतशब्दे उदा०

बड़वाकृ(हृ)त न० बड़वया दास्या कृतः (हृतः) वा ।

दासभेदे “भक्तदासञ्च विज्ञेयस्तथैव बड़वाकृ(हृ)तः” स्मृतिः ।

बडवाग्नि पु० बड़वायाः शिवसृष्टाश्वायामुखस्थोऽग्निः ।

समुद्रस्थिते घोटकीमुखस्थे कालानले । कालिकापु० ३१ अ० ।
तथोत्पत्तिरुक्ताऽस्य । और्वशब्दे १५८१ । ८२ पृ० अन्य-
थोत्पत्तिरुक्ता दृश्या । बड़वानलादयोऽप्यत्र ।

बड़वामुख पु० वड़वाया मुखं स्थानत्वेनास्त्यस्य अर्श

आदित्वादच् । समुद्रस्थे कालानले हेमच० ।

बड़वासुत पु० द्वि० व० ६ त० । अश्विनीकुमारयोः । अश्विनी-

कुमारशब्दे दृश्यम् ।

बण शब्दे भ्वा० पर० सक० सेट् । बणति अबाणीत्--अबणीत् बेणतुः

बण पु० बण--अच् । शब्दे भरतः ।

बणिक्पथ पु० ६ त० अच्समा० । हट्टे ।

बणिग्बन्धु पु० बणिजां बन्धुरिव पोषकत्वात् । नीलीवृक्षे शब्दच०

बणिग्भाव पु० ६ त० । बाणिज्ये आजीवनार्थं क्रयविक्रय-

करणे अमरः ।

बणिग्वह पु० बणिजं बहति वह--अच् । उष्ट्रे शब्दच०

बणिज्(ज) पु० पणायते व्यवहरति पण--इजि इजो बा

यस्य वः । आजीवनार्थं क्रयविक्रयव्यवहारकर्त्तरि
अमरः । २ ज्योतिषोक्ते ववादितः षष्ठे करणे च ४ बाणिज्ये
स्त्री मेदि० । स्वार्थे अण् वाणिज तत्रार्थे अमरः ।

बणिज्य न० कणिजो भावः कर्म बा य । बाणिज्ये

आजीवनार्थं क्रयविक्रयादिव्यवहारे भरतः स्त्रीत्वमपि ।
“चतुरेण चतुर्वर्गचिन्तामणिवणिज्ययेति” मुक्ताफलम् ।
ष्यञ् । बाणिज्य तत्रार्थे न० ।

बद स्थैर्य्ये निश्चलभबले भ्वा० पर० सक० सेट् । बदति

अवादीत् अबदीत् । बबाद बेदतुः ।

बद भाषणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वादयति

ते अवीषदत्--त । पक्षे बदतीत्यादि ।

ब(व)दर पु० बदति स्थिरीभवति छिन्नस्यापि पुनः प्ररोहेण

बद + स्थैर्य्ये अरच् । १ कोलिवृक्षे २ देवसर्षपवृक्षे राजनि० ।
तस्य फलम् अण् तस्य लुक् । ३ कोलिफले राजनि० । कर्क-
न्धूशब्दे दृश्यम् । ४ कार्पासफले ५ कोलिफले न० ६ कीलिभेदे
(सेओयाकुल) कार्षासास्थ्नि पु० मेदि० । अन्त्यस्थादित्वम-
स्यान्थैरुक्तम् । ८ बराहक्रान्तायां १ कार्षाषवृक्षे स्त्री अमरः ।

बदर(प)पाचन न० तीर्थभेदे भा० श० ४९ अ० । तत्र इन्द्रीय-

देशेन कुमार्य्या पञ्चवदराणां षचनात्तथात्वम् ।

ब(व)दरफली स्त्री ब(व)दरस्वेव फलनस्याः ङीष् । भूमि-

ब(व)दर्य्याम् राजनि० ।

ब(व)दरबल्ली स्त्री ब(व)दरफलप्रधाना बल्ली धा० त० । भूमि-

ब(व)दरीतिख्याते लताभेदे राजनि० ।

ब(व)दरामलक न० ब(व)दरमिवामलकम् । १ प्राचीनामलके

हारा० । समा० द्व० । २ वदरामलकफलयोः समाहारे न०

ब(व)दरिकाश्रम पु० न० । वदरी + स्वार्थे क तस्याः

समीपे तच्चिह्नितोवाश्रमः । तीर्थविशेषे । ब(व)दरोशैली-
ऽप्यत्र । भा० व० ९२ अ० दृश्यम् । बदरिकावनमप्यत्र
तच्च हिमालयपर्वतैकदेशे श्रीनगराख्यदेशसमीपे
अलकनन्दानदीपश्चिमभागै स्थितम् ।

ब(व)दरी स्त्री ब(व)दर + गौरा० ङीष् । १ कोलिवृक्षे अमरः

२ कार्पास्यां शब्दर० कपिकच्छ्वाम् राजनि० । ततः षील्क०
पाके कुणच् । वदरीकुण तत्पाके न० ।

ब(व)दरीच्छदा स्त्री ब(व)दर्य्या इव च्छदी यस्याः । १ हस्ति-

कीलिवृक्षे २ गङ्गनख्याञ्च राजनि० ।

बवदरीपत्र पु० ब(व)दर्य्या इव पत्रमस्याः । नखीनामगन्ध-

दूव्ये जटा० । स्वार्थे क । तत्रैव ।

बवदरीफला स्त्री ब(व)दर्य्या इव फलमस्याः । नीलशेकालिकायाम् शब्दमा०

बद्ध त्रि० बन्ध--कर्मणि क्त । बन्धनकर्मणि अमरः ।

पृष्ठ ४५५८

बद्धगुद न० बद्धं गुदमत्र । कोष्ठबन्धकारके रोगभेदे “यस्या-

न्त्रमन्नैरुपलेपिभिर्वा बालाश्मर्भिर्वापिहितं यथावत् ।
सञ्चीयते तस्य मलः सदोषात् शनैः शनैः सङ्करवच्च ना
ड्याम् । निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि
चाल्पमल्पम् । हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं
बद्धगुदं वदन्ति” भावप्र० ।

बद्धफल पु० बद्धानि फलान्यस्य । करञ्जवृक्षे राजनि० ।

बद्धमुष्टि त्रि० बद्धः दानायाप्रसारितो मुष्टिर्यस्य । कृषणे ।

बद्धमूल त्रि० बद्धं मूलमस्य । दृढ़म्ले ।

बद्धरसाल पु० नि० क० । राजाम्रभेदे राजान० ।

बद्धशिख त्रि० बद्धा शिखा येन यस्या वा । “सदोपवीतेन

भाव्यं सदा बद्धशिखेन च” प्रा० त० उक्ते १ शिखावन्धन-
युक्ते २ उच्चटायां स्त्री मेदि० ।

बध पु० हन--घञ् । बधादेशः । हनने प्राणवियोगसाधने

व्यापारे अमरः । बधपदार्थविशेषं बधिभेदश्च प्रा० वि०
उक्तो यथा
“अथ बधो निरूप्यते । ननु कोऽयं बधः किं बधित्वं कति
विधं च तत्,? उच्यतेप्राणवियोगफलकव्यापारो बधः तन्नि-
ष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितं
बधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं
स्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहको
निमिती चेति यथाह आपस्तम्बः “प्रयोजयिता अनुमन्ता
कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आर
भते तस्मिन् फले विशेषः” । अनुग्राहकमाह याज्ञ-
वल्क्यः “चरेद्व्रतमहत्वापि थातार्थञ्चेत् समागतः” ।
तथा मनुः “बहूनामेककार्थ्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्येको घातकस्तर सर्वे ते घातकाः स्मृताः” । भविष्ये
“यद्येकं बहवी विप्रा घ्नन्ति विप्रमनागसम् । तदैषां
निष्कृतिं बच्मि शृणुष्वेकमना गुहु! । तेषां यस्य प्रहा-
रेण स विप्रो निधनं गतः । सरस्वतीं प्रतिस्रोतः सञ्च-
रेत् पापशुद्धये” । स च द्विविधः । एको बध्यप्रति-
रोघकः अन्यः स्वल्पप्रहर्त्ता । निमित्तिनमाह विष्णुः
“अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः । यमुद्दिश्य
त्यजेत् प्रार्णास्तमाहुर्ब्रह्मथातकम्” । अत्र नरान्तर-
व्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता, यः कर्त्तारं
कारयति स प्रयोजकः सोऽपि द्विविधः । एकः स्वतो-
ऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरः
स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहमति ।
अनुमतिदाता अनुमन्ता । अनुमतिश्च द्विविधा । एका
यद्विरोधाद्धननं न सम्भवति तस्य विरोधिनो मया
निरोधः कर्त्तव्य इति प्रयुक्तिः । अपरा एनं हन्मीति वचने
शक्तस्याप्रतिषेध एव” । हिंसायाः पापाद्यनिष्टजनक-
त्वेऽपि बैवहिसाया इष्टफदृजनकत्वात् नानिष्टजन-
कता “यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
अतस्त्वां घातयिष्यामि तस्पाद्यज्ञे बधोऽबधः” ति० त० ।
उक्तेः मनुनापि “या वेदविहिता सा नियतास्मिंश्चराचरे ।
अहिंसामेव तां बिद्यात् वेदात् धर्मो हि निर्बवौ” उक्तेश्च ।
अबधः अहिंसा च तज्जन्यपापाजनकत्वेन तद्विरो-
धीत्यर्थः । वहूतां रक्षणार्थमेकस्य वधेऽपि पुण्यजनकत्व-
मुक्तम् “एकस्य यत्र निधने प्रवृत्ते इष्टकारिणः । बहूनां
भवति क्षेमं तस्य पुण्यप्रदो बधः । रुक्मस्तेयी सुरापश्च
ब्रह्महा गुरुतल्पगः । आत्मानं घातयेद्यस्तु तस्य पुण्य-
प्रदो बधः” कालिका० २० अ० । ब्रह्महन्तृबधेऽपि न राज्ञो
दोषः प्रा० वि० स्थितः “तथा नाततायिबधे दोषो हन्तुर्र्मवति
कश्चन” स्मृतेः आततायिबधेऽपि नानिष्टफलमिति यथायथं
बोध्यम् ।

बध संयमने चु० उ० सक० सेट् । बाधयति--ते अबीबधत्--त ।

बध निन्दायां बन्धने च भ्वादि० आत्म० सक० सेट् । बीभत्सते

अवीभत्सिष्ट । निन्दनेऽर्थे एव स्वार्थे सन् बन्धने तु न
तेन तत्र बधते अबधिष्ट इत्येव ।

बधक त्रि० बध--क्वुन । १ बधकर्त्तरि सि० कौ० । हिंस्त्रे

३ व्याधौ ४ मृत्यौ च संक्षिप्तसा० ।

बधत्र न० बध--करणे कत्रन् । अस्त्रे उणादि० ।

बधस्यली स्त्री ६ त० । श्मशाने त्रिका० । बधस्थानमप्यत्र न० हारा० ।

बधाङ्गक न० बधः अङ्गमत्र कप् । कारागृहे त्रिका० ।

बधार्ह त्रि० बधमर्हति अर्ह--अण् उ० स० । बधदण्डार्हे ।

बधिर त्रि० बन्ध--किरच् । श्रोत्रेन्द्रियरहिते श्रवणशक्तिशून्थे ।

तस्यानंशिता मनुनोक्ता यथा “अनंशौ क्लीवपतितौ
जात्यन्धबधिरौ तथा” । ततः अरीहणा० चतुरर्थ्यां
वुञ् । बाधिरक तन्निकटदेशादौ त्रि० । ततः दृढ़ा० भावे वा
इमनिच् पक्षे ष्यञ् । बधिरिमन् पु० बाधिर्य्य न०
तद्भावे तन्निदानादि माधवकरेणोक्तं यथा “यदा
शब्दबहं वायुः स्योतसावृत्य तिष्ठति । शुद्धः श्लेष्मा-
न्वितो बापि बाधिर्य्यं तेन जायते” ।

ब(व)धू स्त्री बध्नाति ममतया बन्ध--ड गलोपः, उद्यते

वहक घश्चान्टाऌएशे वा । १ नार्य्व्याम्, २ पृक्कायाञ्च अमरः
३ स्नुषायां, ४ नबोढ़िआयाम्, भार्य्यायां ५ शारिवोषधौ
६ शआम्, च मेदि० ।
पृष्ठ ४५५९

ब(व)धूटी स्त्री अल्पा ब(व)धूः अल्पार्थे टि वा ङीप् । अल्प-

वयस्कायां नार्य्याम् “गोपबधूटीक्दुकूलचौराय” भाषाप० ।

ब(व)धूत्सव पु० ब(व)ध्वा उत्सव आर्त्तवम् रजः स इव प्रसवः

पत्रादिर्यस्य । रक्ताम्लाने राजनि० ।

बधोद्यत त्रि० बधाय उद्यतः । मारणार्थमुद्युक्ते आततायिनि

अमरः । आततायिन्शब्दे ६४७ पृ० दृश्यम् ।

बध्य त्रि० बधमर्हति बध + यत् । १ बधार्हे अमरः । बन्ध--कर्मणि

क्यप् । २ कारारोद्धव्ये । आधारे क्यप् । ३ बन्धनन्थाने च

बध्यपाल पु० बध्यं कारागारं पालयति पालि--अण् उप०

स० । कारागृहरक्षके । विष्णु० पु० २ अंशे ६ अ० ।

बध्यभूमि स्त्री हन--भावे यत् बधादेशः बध्यस्य भूमिः ।

श्मशाने बधस्थाने बध्यस्थानादयोऽप्यत्र

बध्योग पु० ऋषिभेदे ततो विदा० गोत्रापत्ये अञ् । बाध्योग तद्गोत्रापत्ये पुंस्त्री०

बध्र न० बन्ध--ष्ट्रन् नलोपः । १ सीसके, २ चर्ममयरज्ज्वां स्त्री

ङीप् । पृषो० नस्य रः । बर्ध्रीत्यप्यत्र स्त्री अमरः ।

बन याचने तना० आत्म० द्विक० सेट् । बनुते अबनिष्ठ । बेने

उदित् क्त्वा वेट् बनित्वा बान्त्वा । घान्तः ।

बन्ध बन्धने क्य्रा० पर० सक० अनिट् । बध्नाति अभान्त् सीत् बबन्ध बध्यते ।

  • उद् + उत्तोल्य बन्धने “उद्वन्धनभृता ये च” स्मृतिः ।
  • अनु + नियतपूर्ववर्त्तित्वे अनुगमने च । “तेषु किं भवतः
स्नेहमनुबध्नाति मानसम्” देवीमा० ।
  • नि + नियमेन बन्धने निबन्धशब्दे दृश्यम् ।
  • निर् + आग्रहे निर्बन्धशब्दे दृश्यम् ।
  • प्र + ग्रन्यने काल्पनिककथने च प्रबन्धशब्दे दृश्यम् ।
  • प्रति + निरोधे “प्रतिबध्नाति हि श्रेयः” रघुः । व्याप्तौ च प्रति-
बन्धशब्दे दृश्यम् ।
  • सम् + सम्यक्बन्धे संसर्गे च ।

बन्ध संयमगे चुराः० उभ० सक० सेट् । बन्धयति ते अबबन्धत् त

बन्ध पु० बन्ध--घञ् । १ संयमने त्रिगडादिना गतिरोधने २

गृहादिवेष्टनसूत्रे च । गृहशब्दे २६३५ प्र्० दृश्यम् । करणे
कर्मणि वा घञ् । ३ देहे ४ ऋणशोधनविश्वासाय स्थापिते द्रव्ये
आधौ च । आधिशब्दे ७११ पृ० दृश्यम् । करणे घञ् ।
५ गतिरोधसाधने शब्दर० । रतिबन्धभेदाश्च रतिमञ्जर्य्युक्ता
यथा “पद्मासनो नागपदो लतावेष्टोऽर्द्धसंपृटः कुलिशं
सुन्दरश्चैव तथा केसर एव च । हिल्लीलो नरसिंहोऽपि
विपरीतस्तधाऽपरः । क्षुब्धो बै धेनुकश्चैव समुत्कण्ठ
स्ततः परम् । सिंहासनो रतिनागो बिद्याधरस्तु षोड़शः”
तत्तच्छब्दे तेषां लक्षणानि दृश्यानि । स्मरदीपिकोक्ता
अन्येऽपि बन्धाः सन्ति यथा
“कामप्रदो विपरीतो नागरो रतिपाशकः । केयूरः प्रिय-
तोषश्च ततः समपदस्तथा । ततश्चैकपदो ज्ञेयः सम्पुट-
श्चार्द्धसम्पुटः । ततः स्तनहरश्चैव ततोऽनुरतिसुन्दरः ।
ऊरुपीडामरुचक्रौ ततश्चोरुक्रमः स्मृतः । वेष्टको हसकी-
लस्तु ततो लीलासनस्तथा । अष्टादश क्रमाद्बन्धाः स्त्रीणां-
बहूत्सवप्रदाः । पुंसां मुखकराश्चैव कथितास्तु क्रमा-
त्ततः” । प्रवाहरूपेण सततं देहाद्देहान्तरगतिरूपे
६ ससारे च ।

बन्धक न० बन्धे स्थापितं धनम् कन् । ऋणशोधार्थम् विश्वास-

हेतुतया आधीकृते १ पदार्थे शब्दर० । स्वार्थे क । २ विनिमये
पु० मेदि० । ३ रतहिण्डके नानार्थमाला । ४ पुंश्चल्यां
स्त्री अमरः । ५ हस्तिन्यां मेदि० उभयत्र गौरा० ङीष् ।
६ पञ्चपुरुषगामिन्यं स्त्रियाम् भा० आ० १२३ अ० ।

बन्धन न० बन्ध--भावे ल्युट् । १ निगड़ादिन २ संयमने अमरः

३ बवे मेदि० । करणे ल्युट् । ३ तद्धेतौ रज्ज्वो । हेमच०

बन्धनवेश्मन् न० ६ त० । कारागारे हारा० । नन्धनागारादयो

ऽप्यत्र । बन्धनालयोऽपि तत्रार्थे अमरः ।

बन्धनस्तम्भ पु० ६ त० । हस्तिसंबनकाष्ठे आलाने अमरः ।

बन्धित्र पु० बन्ध इत्र । १ कामदेवे उणादि० । २ चर्मव्यजने संक्षि०

बन्धु पु० बन्धाति मनः स्नेहादिना बन्ध--उ । १ ज्ञातौ मातुल-

पुत्रादौ अमरः । “२ बन्धुभ्यः पितृमातृतः” इति स्मृतिः
बान्धवे ३ मित्रे ४ पितरि ५ नातरि ६ भ्रातरि
७ बन्धुजीववृक्षे च स्वार्थे अण् । बान्धव तत्रार्थे
बन्धवश्च त्रिविधाः पारिभाषिका आत्मबन्धुशथ्दे षितृ-
बन्धुशब्दे उक्ता मातृबन्धुशब्दे वक्ष्ममाणाश्च दृश्याः ।
अतएव “तत्सुतो गोत्रजो बन्धुरिति” बाज्ञ० तएव
ग्राह्या इति मिता० । दायभागमते तु मातामहादयोऽपि
बन्धवः अतएव “तत्सुतो गोत्रजो बन्धुरिति” याज्ञ० व्या०
तेन बन्धुपदेन असगोत्राणां मातामहादीनां ग्रहण-
मित्युक्तम् । अतो मतभेदेन धनग्रहणे व्यषस्थाभेदः ।

बन्धुक पु० बन्धे--उक । बन्धुजीववृक्षे शब्दरत्ना० ।

बन्धुजीव(क) पु० बन्धुरिव जीवयति हीवि--अण् ण्वुल् वा ।

बन्धुजीववृक्षे । (बांधुआलि) वृक्षे अमरः ।

बन्धुता स्त्री बन्धु + संधे भावे तत् वा । १ बन्धुसमूहे, २ तद्भावे च अमरः

पृष्ठ ४५६०

बन्धुदत्त न० ३ त० । १ स्त्रीधनभेदे “बन्धुदत्तं तथा शुल्क

मन्वाधेथकमेव च । अप्रजाथामतीताया बान्धवास्तद-
वाप्नुयुः” याज्ञ० । “बान्धवा भ्रातरः बन्धुदत्तप्रदेन कन्था-
दशायां यत् पितृभ्यां दत्तं तदुच्यते” दायभागः । तन्मते
कन्थादशायां बन्धुभ्यां पितृभ्यां दत्ते २ स्त्रीधने च ।

बन्धुर न० बन्ध--उरच् । १ मुकुटे शब्दर० २ स्त्रीचिह्ने ३

तिलकल्के ४ बन्धुजीववृक्षे ५ बधिरे ६ हंसे च मेदि० ७ बिड़ङ्गे
हेमच० । ८ ऋषभौषधौ राजनि० ९ वके द्विहङ्गे च पु०
शब्दर० । १० रम्ये ११ नम्रे १२ वेश्यायां स्त्री १३ सक्तुषु पु०
ब० व मेदि० । १४ उन्नतानते च त्रि० अमरः पाठान्तरम् ।

बन्धुल् पु० बन्ध--उलच् । १ असतीपुत्रे अमरः २ बन्धुके शब्दर०

३ सुन्दरे ४ रम्ये ५ नम्रे च त्रि० अजयपालः ।

बन्धूक पु० बन्ध--ऊक । (बन्धुली) वृक्षे अमरः “बन्धूकपुष्पसङ्का-

शम्” रबिप्रणाममन्त्रः । रक्तपीतादिपुष्पे मध्याह्ने प्रकाश-
वति पुष्पवृक्षे २ पीतशालके मेदि० । “असितपीतलोहितपुष्प
विशेषाच्चतुर्विधो बन्धूकः । ज्वरहारी बिषहारी ग्रहपि
शाचशमनः प्रसादनः सबितुः स्यात्” राजनि० । “बन्धूकः
कफकृद्ग्राही रक्तषित्तहरो लघुः” माबप्र० । (बन्दुक)
इति ख्याते ३ खधूपे न० हेमच० ।

बन्धूर पु० बन्धू--ऊरच् । १ छिद्रे उणा० । २ रम्ब्ये ३ नम्रे च त्रि०

रभसः ४ उन्नतानते क्वचिदुन्नते क्वचिच्च नते त्रि० अमरः ।

बन्धूलि पु० बन्ध--ऊलि । बन्धु जीववृक्षे शब्दर० ।

बन्ध्य त्रि० बन्ध--यत् । कालप्राप्तावषि १ फलशून्ये वृक्षे

अमरः । २ निष्फले राजनि० “अबन्ध्यकोपस्य निहन्तु-
रापटाम्” किरा० । ३ बन्धनीये च त्रि० । ४ अपुत्रायां
स्त्रीजातौ स्त्री शबदच० । ५ बालाख्ये बन्धद्रव्ये स्त्री
मेदि० । प्रा० वि० बन्ध्यायाः वृषलीत्वमुक्तं यथा “बन्ध्या
च वृषली ज्ञेया वृषली च रजस्वला । अथ वा वृषली
ज्ञेया कुमारी यां रजस्वला” ६ योनिरोगभेदे स्त्री
भावप्र० । ४५४७ पृ० पित्तलशब्दे परिशिष्टे दृश्यम् ।

बन्ध्यफल पु० फले बन्ध्यः पूर्वनि० । फलहीने वृक्षे अमरः ।

बन्ध्याकर्कटी स्त्री बन्ध्याया उपकारिणी पुत्रप्रदत्वात्

कर्कटी । तिक्तकर्कष्ट्याम् अस्याः पुत्रदावित्वेन बन्ध्यो
पकारित्वम् । स्वार्थे क अत इत्त्वम् । बन्ध्याकर्कटिका
तत्रैव भाबप्र० “बन्ध्याकर्कटिका तिक्ता कटूष्णा च
कफापहा । स्याषरादिविषघ्नी च रसायनकरी परा” तन्नामसु
तत्र पुत्रदेति कीर्त्तनात् तस्य बन्ध्योपकारित्वं बोध्यम् ।

बन्ध्यातनय पु० बन्ध्याय स्तनय इब । अलीके पदार्थे बन्ध्या

सुतादयोऽप्यत्र ।

बभ्र गतो भ्वा० पर० सक० सेट् । बभ्रति अबभ्रीत् बबभ्र ।

बभ्रु पु० भृ--कु--द्वित्वम् बभ्र--उ वा । १ शिवे २ विष्णौ ३ नकुले

४ वह्नौ, ५ विशाले देशभेदे ६ तद्देशवासिनि ब० व० मेदि० ।
७ मुनिभेदे च ८ पिङ्गलवर्णे पु० । ९ तद्वति त्रि० अमरः ।
स्त्रियाम् ऊङ् । १० खलषौ बहुकरे पु० हेमच० । ११ सिता-
वरकशाये राजनि० । गर्गा० अपत्ये यञ् । बाभ्रध्य तन्मु-
नेरपत्ये पुंस्त्री० । स्त्रियां ङीप् यलोषः बाभ्रवी ।

बभ्रुधातु पु० कर्म० । १ स्वर्णे २ गैरिके च राजनि० ।

बम्ब नतौ भ्वा० पर० सक० सेट् । बम्बति अबम्बीत् बबम्ब ।

बम्भारि त्रि० भृ--इन् द्वित्वं अभ्यासे मुम् । सर्वस्य भर्त्तरि

“बम्भारिरवस्युरसि” ताण्ड्यब्रा० ।

बर न० बॄ--अच् १ कुङ्कुमे । २ आर्द्रके ३ त्वचे ४ बालके गन्ध-

द्रव्ये राजनि० । कर्मणि अच् । ३ जामातरि देवादिभ्यः
६ आशास्ये ७ षिड्गे जारे च पु० । भावे अप् । ८ बरणे
९ त्रिफलाथआं मेदि० । १० मुडूच्यां, ११ मेदायां १२ व्राह्म्याम्
१३ बिड़ङ्गे १४ पाठायां १५ हरिद्रायाञ्च स्त्री टाप्
राजनि० । १६ शताबर्य्यां स्त्री मेदि० गौरा० ङीष् ।

बरम अव्य० बॄ--बा० अमु । ईषदिष्टे अयमन्त्यस्थवादिरित्येके ।

बर्जह न० नयादीनां दुग्धस्योत्चत्तिस्थाने ऋ० १ । ९२ । ४ भा०

बर्ब गतौ भ्वा० पर० सक० सेट् । बर्बति अबर्बीत् बबर्ब ।

बर्बट पु० बर्ब--अटन् । १ राजमाषे (बरबटी) त्रिका० । गौरा०

ङीष् । २ तत्रैव व्राहौ ३ षेश्यायाञ्च स्त्री मेदि० ।

बर्बणा स्त्री बर्ब--ल्यु । नीलमक्षिकायाम् अमरः ।

बर्बुर न० न० बर्ब--उरच् । उदके निघाण्टुः ।

बर्ह दाने बधे स्तृतौ बाचि च भ्वा० आ० सक० सेट् । बर्हते

अबर्हिष्ट “विगर्हितं धर्मधनैर्निबर्हणम्” नैष० ।

बर्ह न० बर्ह--अच् । १ मयूरपिच्छे अमरः । २ पत्रे ३ परीवारे

हेमच० मयूरपिच्छे पु स्त्वमपि । “कं हरेदेष बर्हः” इति
विक्रनो० प्रयोगात् “यथा बर्हाणि चित्राणि बिभर्त्ति
भुजगाशनः” क्लीवे प्रयोगः ।

बर्हकेतु पु० बर्हं केतुश्चिह्नं यस्य । नवममनोः पुत्रभेदे मार्क० पु० ९४ अ०

बर्हबत् पु० बर्ह + अस्त्यर्थे मतुप् मस्य वः । ययूरपिच्छबुक्ते

ततः बिमुक्तादि० अण् । बार्हवत तत्सम्बन्धिनि त्रि० ।

बर्हम् न० बर्ह--स्तुतौ असुन् । आस्तरणे ऋ० १ । ११४ । १० ।

बर्हि न० बर्ह--इन् । कुशे ।

बर्हिण पु० बर्ह + इन । मयूरे अमरः ।

बर्हिन् पु० बर्ह + अस्त्यर्थे इनि । मयूरे अमरः ।

बर्हिवाहन पु० बर्हौ गयूरो बाहनमस्य । आत्तिकेये ।

पृष्ठ ४५६१

बर्हिपुष्प पु० बर्हि वर्हयक्तमिव पुष्पमस्य । मयूरपिच्छवृक्षे

बर्हिकुसुमादयोऽप्यत्र ।

बर्हिर्मुख पु० बर्हिर्वह्निर्मुखमस्य । देवे अमरः ।

बर्हिःशुष्मन् पु० बर्हिः कुशः बलसस्य । बह्वौ अमरः ।

बर्हिषद् पु० ब० व० बर्हिषि सीदति सद--क्विप् पत्वम् । पितृ-

गणभेदे पितृशब्दे दृश्यम् ।

बर्हिष्केश पु० बहिः केश इव यस्य । बह्नौ ।

बर्हिष्मत् त्रि० बहिंरस्त्यस्थ सतुप् । कुशयुक्ते स्त्रियां ङीप् ।

बर्हिष्य त्रि० बर्हिषि दत्तम् यत् । कुशे दत्ते पिण्डादौ ।

बर्हिष्ठ त्रि० बर्हिषि कुशे तिष्ठति स्था--क ७ त० वा विसर्ग-

लोपः षत्वम् । कुशस्थिते ।

बर्हिस् न० बर्ह--कर्मणि इसि । कुशे १ यज्ञिये कुशे “निहोता

सत्सि बर्हिषि” सामार्चिकम् १११ “उपमूललूतं बर्हिः
पितॄणां पर्बसु लूनं देवासाम्” कौ० त० । प्राचीनबर्हिस्शब्दे
दृश्यम २ दीप्तौ ३ अग्नौ च “बर्हिपि रजतं न देयम्” श्रुतिः ।

बल जीबने, धान्यावरोधे च भ्वा० पर० सक० सेट् । बलवि ।

अबालीत् बेलतुः । ज्ववादि० कर्त्तरि ण । बलः बालः ।

बल दाने बधे निरूपणे च भ्वा० उभ० सक० सेट् । बलति--ते

अबालीत् अबलिष्ट । बेलतुः बेले ।

बल जीवने चु० उभ० अक० सेट् । मित् घटा० । बलयति--ते अबीबलत् त ।

बल निरूपणे चु० आत्म० सक० सेट् । बालयते अबीबलत ।

बल न० बल--अच् । १ सैन्ये २ देहजे सामर्थ्ये ३ स्थौल्ये

४ गन्धरसे ५ रूपे मेदि० ६ शुक्रे हेमच० ७८ देहे जटा०
८ पल्लवे शब्दर० ९ रक्ते च शब्दच० । १० बलवुक्ते त्रि०
मेदि० ११ काके १२ बलदेवे अमरः । १३ वरुणवृक्षे शब्दच० ।
१४ दैत्यभेदे पु० मेदि० । तत्र पारिभापिकबलानि
ब्रह्मवैपु० ३५ अ० उक्तानि यथा
“क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ।
भिक्षाबलं भिक्षुकाणां शूद्राणां बिप्रसेवनम् । हरौ
भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः । हिंसा बलं
स्वलानाञ्च तपस्या च तपस्विनाम् । बलं वेशश्च
वेश्यानां योषितां यौवनं बलम् । बलं प्रतापो भूपानां
बालानां रुदितं बलम् । सतां सत्यं बलं, मिथ्या
बलमेवासतां सदा । अमुगानामनुगमः स्वल्पस्वानाञ्च
सञ्चयः । विद्या बलं पण्डितानां बाणिज्यं बणिजां
बलम् । शश्वत्सुकर्मशीलानां गाम्भीर्य्यं साहसं
बलम् । धनं बलं च धनिनां शुचीनां शौचमेव च ।
बलं विवेकः शान्तानां गुणिनां बलगेकता । गुणो
बलं च सुणिनां चौराणां चौर्य्यमेव च । विप्रलम्भश्च
कापट्यमधर्ममृणिनां बलम् । हिंसा च हिस्र-
जन्तूनां सतीनां प्रतिसेवनम् । वरशापौ सुराणाञ्च
शिष्याणां गुरुसेवनम् । बलं धर्मो गृहस्थानां भृत्यानां
राजसेवनम् । बलं स्तवः स्तावकानां ब्रह्म च ब्रह्म-
चारिणाम् । यतीनाञ्च सदाचारो न्यासः सन्न्यासिनां
बलम् । पापं बलं पातकिनां सुभक्तानां हरिर्बलम् ।
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् । फलं
बलञ्च वृक्षाणां जलधीनां जलं बलम् । जल बलञ्च
शस्यानां मत्स्यानाञ्च जलं बलम् । शान्तिर्बलञ्च भूपानां
विप्राणाञ्च विशेषतः” । “विद्याभिजनमित्राणि बुद्धिसत्त्व
धनानि च । तपःसहायबीर्य्याणि दैवञ्च दशमं बलम्”
भा० शा० ।
बैद्यके सद्योबलकरपदार्था संगृह्य दर्शिता यथा
“सद्यो बलकरं ज्ञेयं बालाभ्यङ्गः सुभोजनम् । सद्यो
बलकरं ज्ञेयं सर्पिश्च मांसमप्युत” । “धातूनां यत्
परं तेजस्ततखल्वोजस्तदेव बलमित्यु चते” वैद्य० वायु-
दत्ते १५ स्कन्दानुचरभेदे पु० । “बलञ्चातिबलञ्चैव
सहाबक्त्रौ सहाबलौ” भा० श० २५ । ३६ श्लो० । असुरभेदश्च
इन्द्रेण हतः इन्द्रपर्य्याये बलारातिशब्ददर्शनात्” देवीपु०
४७ अ० तु स विष्णुना हत “तदा दत्ता तनुस्तेन दानवेन
महत्मना । विष्णुनापि स्वचक्रेण शिरस्यभिहतो
बलः । प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा । तस्या-
वयवसंजाता बज्राद्या रत्नजातयः । लोचने सुर तेजांसि
पद्मरागाणि चाभवन् । विशुद्धपात्रदानेन कायो रत्ना-
करोऽभवत्” ।

बलक्ष पु० बलं क्षायत्यस्मात् क्षै--क । १ शुक्लवर्णे ।

२ तद्वति त्रि० । अमरः । अन्त्यस्थवादिरयमिति स्वामी ।

बलज न० बलात् जायते जन--ड । १ क्षेत्रे २ पुरद्वार ३ शस्ये

४ युद्धे च । ५ बलजाते त्रि० मेदि० । ६ बरयोषायां ७ यूथि-
काया च स्त्री मेदि० ।

बलद पु० बलं ददाति दा--क । “पौष्टिके बलदः स्मृतः”

१ पौष्टिककर्माङ्गे वह्निमेदे । २ अश्वगन्धायां स्त्री ।
राजनि० ३ वलदातरि त्रि० । ४ जीवके पु० राजनि० ।

बलदीनता स्त्री ३ त० । ग्लानौ हेमच० ।

बलदेव पु० बलेन दीव्यात दिव--अच बलोद्रिक्तो देवो वा

शाक० त० । १ बलरामे “बलदेवो बलोद्रेकात्” ब्रह्मवै०
ज० ख० ४३ अ० । २ त्रायमाणौषधौ स्त्री अमरः ।
३ वायौ पु० मेदि० ।
पृष्ठ ४५६२

बलप्रसू स्त्री ६ त० । रोहिण्यां वसुदेवभार्य्याभेदे स्त्री

शल्दच० तज्जनन्यादयोऽप्यत्र ।

बलभद्र पु० बल + अर्श आद्यच बलो बलवानपि भद्रः सौम्यः ।

१ बलदेवे, अमरः । २ गवये राजनि० । ३ अनग्न्ते पु०
४ बलयुते त्रि० हेमच० । ५ लोध्रे शब्दच० । बर्लषु
भद्रा । ६ त्रायमाणौषधौ ६ घृतकुमार्य्यां च स्त्री मेदि० ।
स्वार्थे क । बलभद्रिका तत्रार्थे स्त्री अमरः ।

बलराम पु० बलेन रमते रम--संज्ञायां कर्त्तरि घञ् बलोप-

पदको वा रामःशा० त० । कृष्णाग्रजे रोहिणीनन्दने
संकर्षणे रामस्य दाशरथिपरशुरामबलरामभेदेन त्रित्वात् अस्य
बलोपदकत्वात्तथात्वम् ।

बलल पु० बलं लाति ला--क बल--कलच् वा । बलरामे भरतः ।

बलवत् अष्य० बल + अतिशये मतुप् मस्य वः । १ अतिशये

अमरः । “बलदपि शिक्षितानाम्” शकुन्तला । २
बलबिशिष्टे मोसले त्रि० अमरः स्त्रियां ङीप् ।

बलवर्द्धिनी स्त्री० बलं वर्द्धयति वृध--णिनि । जीबकौषधौ जटाधरः ।

बलविन्यास पु० बलानां सैन्यानां बिशेषेण दुर्भेद्यतायै न्यासः

स्थापनम् । व्यूहे सेनासन्निवेशविशेषे अमरः ।

बलशालिन् त्रि० बलेन शालते शाल--णिनि । बलविशिष्टे

स्त्रियां ङीप् ।

बलसूदन पु० बलं तन्नामकमसुरं सूदयति सूद--ल्यु । इन्द्रे हला० । बलनिसूदनोऽप्यत्र ।

बलस्थिति स्त्री स्था--आधारे क्तिन् ६ त० । शिबिरे त्रिका० ।

बलहन् पु० बलनामासुरं बलं वा हन्ति हन--क्विप् ।

बलारातौ १ इन्द्रे २ श्लेष्मधातौ शब्दर० । ३ बलरामे हरिवं०
१११ अ० ।

बला स्त्री० बलं कार्य्यत्वेनास्त्यस्याः । (बालियड़ा) १ क्षुपभेदे,

अमरः । “बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् ।
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ।
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं
हरति दुष्टगेतन्न संशयः” भावप्र० । विश्वामित्रेण
रामाय दत्ते २ अस्त्रविद्याभेदे अतिबलशब्दे दृश्यम् ।

बलाका स्त्री० बल--संवरणे आक । १ वकपङ्क्तौ २ वके

विषकण्ठिकायां ३ वकभेदे ४ कामुक्यां च शाश्वतः ।

बलाकाश्व पु० अजकनृपपुत्रे नृपभेदे हरिवं० ७ अ० ।

बलाकिन् त्रि० बलाका + व्रीह्याः इनि । १ बनाकायुक्ते स्त्रियां

ङीप् २ धृतराष्ट्रपुत्रभेदे पु० भा० आ० ६७ अ० ।

बलाङ्गक पु० बलयुक्तमङ्गमत्र कप् । बसन्तकाले हेमच० ।

बलाञ्चिता स्त्री ३ त० । बलरामवीणायां शब्दरत्ना० ।

बलाट पु० बलाय तद्दानय अटति गच्छति उदरम् अट्--अच् ।

सुद्गे (सुग) हेमच० ।

बलात् अव्य० बलं सामर्थ्यं कारणत्वेनातति अत--क्विप् ।

हठादित्यर्थे । पञ्चग्मन्तबलशब्देनास्य न गतार्थता बलात्
कार इत्यादिसिद्धये तस्यावश्यमङ्गीकार्य्यत्वात् ।

बलात्कार पु० बलात् + कृ--घञ् । बलपूर्वककरणे, हडात्करणे च ।

बलात्मिका स्त्री० बलमेवात्मा स्वरूपं कारणत्वात् यस्याः

क्वप् अत इत्त्वम् । (हातिशुड़ा) हस्तिसूण्डीवृक्षे शब्दर०

बलादि पु० चतुर्थ्यां यः प्रत्ययनिभित्ते १ शब्दगणे स च

गणः पा० ग० उक्तो यथा “बल चुल नल दल वट लकुल
उरल पुल मूल उल डुल वन कूल” । अस्त्यर्थे वा
१ मतुप्रत्ययं निमित्ते २ शब्दगणे च स च गणः पा० ग० सूत्रे
उक्तो यथा “बल उत्साह उद्भास उद्वास उद्दास शिखा
कुल चूड़ा सुल कूल आयाम व्यायाम उपयाम आरोह
अवरोह परिणाह युद्ध” ।

बलाद्या स्त्री० बलाय आद्या । (वेलियाड़ा) क्षुप्रभेदे राजनि

बलाध्यक्ष पु० ६ त० । सेनापतौ मनु० ७ । १८९ ।

बलानुज पु० अनुजायते अनु + जन--ड ६ त० । श्रीकृष्णे ।

बलाबलाधिकरण न० बलञ्च अब नञ्च ते अधिक्रियेते अस्मि

अधि + कृ--आधारे ल्युट् । आकाङ्क्षानाकाङ्क्षारूपबलाबल-
योर्निश्चायके जैमिन्युक्ते न्यायभेदे यथा “सा वैश्वदेव्यामिक्षा
भवति वाजिभ्यो वाजिनम्” इत्यत्र वैश्वदेवयागस्यामिक्षान्वि-
तत्वेनन वाजिनाकाङ्क्षेति न तत्र तच्चान्वयः वेदान्तप० ।

बलामोटा स्त्री० बलमामोटयति आ + मुट--अच् । नागदम-

न्याम् भवाप्र०

बलाय पु० बलस्यायः ण्यानम् । वरुणवृक्षे शब्दच० ।

बलाराति पु० बलस्य तन्नामासुरस्यारातिः । इन्द्रे अमरः

बलशत्रु प्रभृतयोप्यत्र ।

बलालक पु० बलाय सामर्थ्याय अलति पर्य्याप्नोति अलण्वुल् । पानीयामलके शब्दच०

बलास पु० बलमस्यति क्षिपति अस० अण् उप० सम० ।

कफधातौ हेमच० “गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्नि-
मार्दवम् । माधुर्य्यमपि चास्यस्य बलासावतते हृदि” सुश्रु०

बलाह्वकन्द पु० बलं सामर्य्यमाह्वयति आ + ह्वे--क तादृशः

कन्दः । गुलुञ्चकन्दे राजनि० ।

बलि पु० बल--इन् । १ पूजायाम् २ उपहारे, “ददतु--स्तौ

बलिं चैव निजगात्रासृगुक्षितमिति” चण्डी ३ राजग्राह्ये
अमरः ४ चामरदण्डे, गृहस्थकर्त्तव्यपञ्चयज्ञमध्ये भागे,
५ भूतयज्ञे, हेमच० । “बलिकर्म ततः कुर्य्यादिति” स्मृतिः ।
पृष्ठ ४५६३
विरोचनपुत्रे ६ दैत्यभेदे च “येन बद्धो बलीराजा
दानवेन्द्रो महावसः” रक्षाबन्धनमन्त्रः । ७ जरया
श्लथचर्मणि स्त्री० ङीप् । “गृहस्यस्तु यदा षश्येत्
बलीपलितमात्मनः” इति मनुः । ७ उदरावयवभेदे “बलि-
त्रयं चारु बभार बाला” इति कुमारः । ८ गुह्यस्थे अङ्कु-
राकारे मांसपिण्डे, वैद्यकम् अर्शस्शब्दे दृश्यम् । ९
गृहदारुभेदे च (पाड़) स्त्री० स्वार्थे क । बलिका तत्रार्थे
अतिबलायाञ्च राजनि० । १० ययातिवंश्यसुतपोनृपपुत्रे
विष्णु पु० । दानबभेदकथा भाग० ४ स्क० दृश्या ।
वैश्वदेवबलिकरणप्रकारः मार्क० पु० उक्तो यथा ।
“ततोऽग्नेस्तर्पणं कुर्य्याद्दद्याच्च बलिमित्यथ । ब्रह्मणे
गृहमध्ये तु विश्वदेवेभ्य एव च । धन्वन्तरिं समुद्दिश्य
प्रागुदीच्यां बलिं क्षिपेत् । प्राच्यां शक्राय, याम्यायां
यमाय बलिमाहरेत् । प्रतीच्यां वरुणायैव सोमायो-
त्तरतो बलिम् । दद्याद्धात्रे विधात्रे च बलिं द्वारे
गृहस्य च । अर्य्यम्णे च बलिं दद्यात् गृहेभ्यश्च
समन्ततः । नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।
पितृणां निर्व्यपेच्चैव दक्षिणाभिमुखस्थितः । मृहस्य-
स्तत्परो भूत्वा सुसमाहितमानसः । ततस्तोयसुपादाय
तिष्ठेदाचमनाय वै । स्थामेषु निक्षिपेत् प्राज्ञस्तास्ता
उद्दिश्य देवताः । एवं गृहबलिं कृत्वा गृहे मृहपतिः
शुचिः । आप्यायनाय भूतानां कुर्य्यादुत्सर्गमादरात् ।
श्वभ्यञ्च श्वपञ्चभ्यश्च वयोभ्यश्च वपेद्भुवि । वैश्वदेवं हि
नामैतत् सायं प्रातरुदाहृतम्” ।
देवोद्देश्यकबलिविशेषादिकं यथा
“सायापनिदानेषु ग्राह्याः सर्वसुरस्य तु ।
पलिचः कच्छपा ग्राहा नत्स्या नवविधा मृगाः ।
महिषो गोधिका गावश्छागो बभ्रुश्च शूकरः । खङ्गश्च
कष्णसारश्च गोधिका सरभो हरिः । शार्दूलश्च
नरत्वैव रवगात्ररुधिरन्तधा । चण्डिकाभैरवादीनां
बलयः परिकीर्त्तिताः । वलिभिः साध्यते मुक्ति-
र्बलिभिः साध्यते लणम् । बलिदानेन सततं जयेत् शत्रू-
नृपान्नृपः । मत्स्यानां कच्छपानाञ्च रुधिरैः सततं
शिवा । मसैकं तृप्तिवायाति ग्राहैर्मासांस्तु त्रीनथ ।
मृगाणां शोणितैर्देवी नराणामपि शोणितैः । अष्टौ
मासानवाप्नोति तृप्तिं कल्याणदा च सा । गोगोधि-
कानां रुधिरैर्व्वार्षिकीं तृप्तिमाप्नुयात्। कृष्णसारस्य
रुधिरैः शूकरस्य च शोणितैः। आप्नोति सततं देवी
तृप्तिं द्वादशवार्षिकीं । महिषाणाञ्च खड्गानां रुधिरैः
शतवार्षिकीम् । तृप्तिमाप्नोति परमां शादू लरुधिरैस्तथा ।
सिंहस्य सरभस्याथ स्वगात्रस्य च शोणितैः । देवी तृप्ति-
मवाप्नोति सहस्रं परिषत्मरान् । मांसैरपि तथा प्रीती-
रुधिरैर्यस्य यावती । कृष्णसारमृते खड्गं तथा मत्स्यञ्च
रोहितम् । वार्द्धीनसयुगञ्चापि फलं तेषां पृथक्
शृणु । कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका ।
वर्षान् पञ्च शतान्येव तृप्तिमाप्नोति केवलाम् । रोहितस्य
तु मत्स्यस्य मांसैवांर्द्धीनसस्य च । तृप्तिमाप्नोति
वर्षाणां शतानि त्रीणि मत्प्रिया । त्रिःपिवंस्त्रीन्द्रिय-
क्षीणः श्वेतो वृद्धस्त्वजापतिः । वार्द्धीनसः प्रोच्यतेऽसौ
हव्ये कव्ये च सत्कृतः । नीलग्रोवो रक्तशीर्षः कृष्ण-
पादः सितच्छदः । वार्द्धीनसः स्यात् पक्षीशो मम विष्णो
रतिप्रियः । “मन्त्रपूतं शोणितन्तु पीयूषं जायते
सदा । मस्तकञ्चापि तस्यात्ति मांसञ्चाषि सदा शिवा ।
तस्मात्तु पूजने दद्याद्बलेः शीर्षञ्च लोहितम् । भोज्ये
होमे च मांसानि नियुञ्जीयाद्विचक्षणः । पूजाषु नाऽऽन
मांसानि दद्याद्वै साधकः क्वचित् । ऋते तु लोहित
शीर्षममृतं तत्तु जायते । कुष्माण्डमिक्षुदण्डञ्च मद्य-
मासंवमेव च । एते बलिसमाः प्रोक्तास्तृप्तौ छागु-
समाः सदा । चन्द्रहासेन कत्र्यां वा छेदनं मुख्यमि-
ष्यते । दात्रासिधेनुक्रकचसङ्कुलाभिस्तु मध्यमम् ।
क्षुरक्षुरप्रभल्लेश्चैवाधमं परिकीर्त्तितम् । एम्योऽन्यैः
शक्तिपाण्याद्यैर्बलिश्छेद्यः कदापि न । नात्ति देवी
बलिं तन्तु दाता मृत्युमवाप्नुयात् । हस्तेन च्छेदयेद्यस्तु
प्रोक्षितं साधकः पशुम् । पक्षिणं वा ब्रह्महत्यां सोऽवा-
प्नोति मुदुःसहाम् । नामन्त्र्य खड्गन्तु वलिं नियुञ्जीत
विचक्षणः ।” “पशूनां पक्षिणाञ्चापि नराणाञ्च विशे-
षतः । स्रियं न दद्यात्तु बलिं दत्त्वा नरकमाप्नुयात् ।
मङ्घातबलिदानेषु योषितं पशुपक्षिणोः । षलिं दद्या-
न्मानुषीन्तु त्यक्त्वा सङ्घातपूजितम् । न त्रिभासीबकान्न्यूनं
पशुं दद्यात् शिवावलिम् । न च त्रिपक्षकान्न्यूनं प्रद-
द्याद्वै पतत्रिणम् । काणाभ्यङ्गादिदुष्टन्तु न पशु पक्षिण-
न्तथा । देञ्चै दद्याद्यथामर्त्यं तथैव पशुपक्षिणौ ।
किन्नलाङ्गूत्वकर्णादिभग्नदन्तन्तथैन स । भग्नशृङ्गादि-
कङ्कापि न दद्यात्तु कदाचन ।” नारं सव्ये शिरो-
रक्तं देव्याः सम्यक् निवेदयेत् । कानन्तु बायतो दद्यान्म-
हिषं वितरेत् पुरः । पशिणं वामतो दद्यादग्रतो देह
पृष्ठ ४५६४
शोणितम् । क्रव्यादीनां पशूनान्तु पक्षिणाञ्च शिरोऽ
सृजम् । यामे निवेदयेन पार्श्व जलजानाञ्च सर्व्वशः ।
कृष्णसारस्य कूमक खडगस्य शशकस्य च । ग्राहाणा-
यध मत्स्यानामग्र एव निवैदयेत् । सिंहस्य दक्षिणे
दद्यात् खड्गिनोऽपि च दक्षिणे । पृष्ठदेशे न दद्य नु
शिरो वा रुधिर वलेः” कालिपु० नानास्थानीयम् ।
“बसिदानेन विप्रेन्द्र! दुर्गाप्रीतिर्भवेनृणाम् । हिंसाजन्यञ्च
पापञ्च सभते मात्र संशयः । उत्सर्गकर्त्ता दाता च छेत्ता
सोष्टा च रक्षकः । अग्रपश्चान्निरोद्धा च सप्तैते बधना-
गिनः । यो यं हन्ति स तं हन्ति चेति वेदाक्तमेध च ।
कुर्य्यन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना” ब्रह्म०
प्रकृ० ६१ । ६२ अ० । बलिदाननिन्दा यथा
“पार्वत्युवाक्ष । ये ममार्चनमित्युक्त्वा प्राणिहिंसन
तक्सराः । तत् पूजनं ममामेध्यं यद्दोषात्तदधोगतिः ।
मदर्थे शिव कुर्वन्ति तामसा जीवषातनम् । आकल्प
कोटि निरये तेषां वासो न संशयः । मम नाम्नाथ वा
कज्ञे पशुहत्यां करोति यः । क्वापि तन्निष्कृतिर्नास्ति
कुम्भीपाकमवाप्नुयात् । दैवे पैत्रे तथात्मार्थे यः
कुर्य्यात् प्राणिहिंसनम् । कल्पकोटिशतं शम्भो! रौरवे
स बमेत् ध्रुवम् । यो मोहान् मानसैर्दैहिहत्यां कुर्य्यात्
सदाशिव! । एकविंशतिकृत्वः स तत्तद्योनिषु जायते ।
यस्तु यज्ञे पशून् हत्वा कुर्य्यात् शीणितकर्दमम् । स
पचेन्नरके तावद् बावल्लोमानि तस्य वै । हन्ता कर्त्ता
तथोतमतकर्त्ता धर्त्ता तथैव च । तुल्याभवन्ति सर्वे ते
ध्रुव नरकगामिनः । ममोद्देशे पशून् हत्वा सरक्तं
पात्रमुनसृजेब । यो मूढ़ः स तु पूयोदे वमेद् देव! न
मंशयः । देवतान्तरभन्नामव्याजेन स्वेच्छया तथा ।
हत्व । जीवास्तती मोहात् नित्यं नरकमाप्नुयात् ।
यूपे बद्ध्वा पशून् हत्वा यः कुर्य्याद्रक्तकर्दमम् । तेन
चेत् प्राप्यते, स्वर्गो नरकं केन गम्यते । उपदेष्टा वथे
हन्ता कर्त्ता धर्त्ता च विक्रयी । उत्सर्गकर्त्ता जीवानां
सर्वषा नरकं भवेत् । मध्यस्थस्य बधायापि प्राणिनां क्रय-
विक्रये । तवा दृष्टुब सूनायां कुम्भीपाकीभवद् ध्रुवम् ।
स्ववकामाथयो भूत्वा योऽज्ञानेन विमोहितः ।
हन्त्यन्यात् विविधान् जीवान् कुर्य्यान्मन्नाम शङ्कर! ।
तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् अचिराद्वै
भवेन्नाशो मृतः स नरकं व्रजेत्। देवयज्ञे पितृश्राद्धे
तथा माङ्गल्यकर्मणि। तस्यैव नरके वासो यः कुर्य्या-
ज्जीवधातनम । मद्व्याजेन पशून् हत्वा यो भक्षेत्
सह बन्धुभिः । गद्गात्रसोमसंख्याव्दैरसिपत्रवने
वसेत् । आवयोरन्यदेवानां न । च परकर्मणि ।
यः संपोष्य पशून् हन्यात् बोऽन्धतामिस्रमाप्नुयात् ।
पशून् हत्वा तथा त्वां मां योऽर्चयेन्मांसशोणितैः ।
तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ । निर्वह्निभस्म-
तुल्यं तत् बहुद्रव्येण यत् कृतम् । यस्मिन् यज्ञे प्रभो ।
शम्भो! जीवहत्या भवेद्ध्रुवम् । यज्ञमारभ्य चेत् शक्तः
कुर्य्याद्वै पशुचातनम । स तदाऽधोगतिं गच्छेदितरेषाञ्च
का कथा । आवयोः पूजनं मोहाद् ये कुर्य्युर्मांसशोणितैः ।
पतन्ति कुम्भीपाके ते भवन्ति पशबः पुनः । फलकामास्तु
वेदोक्तैः पशोरालभनं मखे । पुनस्तत्तत् फलं भुक्त्वा ये
कुर्वन्ति पतन्त्यधः । स्वर्गकामोऽश्वमेघं यः करोति
निगमाज्ञया । तद्भोगान्ते पतेद्भूयः स जन्मनि भवार्णवे ।
ये हताः पशवो लोकैरिह स्वार्थेषु कोविदैः । ते परत्र तु
तान् हन्युस्तथा खड्गेन शङ्कर । आत्मपुत्रकलत्रादिसु-
सम्पत्तिकुलेच्छया । यो दुरात्मा पशून् हन्यात् आत्मा-
दीन् घातयेत् स तु” । जानन्ति नो वेद पुराणतत्त्वं ये
कर्मठाः पण्डितमानयुक्ताः । लोकाधमास्ते नरके पतन्ति
कुर्वन्ति मूर्खाः प्रशुघातनञ्चेत् । येऽज्ञानिनो मन्दधियो-
ऽकृतार्था भवे पशुं घ्नन्ति न धर्मशास्त्रम् । जानन्ति नाकं
नरकं न मुक्तिं गच्छन्ति धोरं नरकं नरास्ते । शुद्धा
अकार्ष्णा न विदन्ति शाक्ता न धर्ममार्गं परमार्थतत्त्वम् ।
पापः न पुण्यं पशुधातका ये पूयोदवासो भवतीह
तेषाम् । जीवानुकम्पां न विदन्ति मूढ़ा भ्रान्ताश्च येऽस-
त्पथिनोन धर्मम् । स्यार्त्ता भवे प्राणिबधं तु कुर्य्युस्ते
यान्ति मर्त्याः खलु रौरवाख्यम् । ततस्तु खलु जन्तूनां
घातनं नो करिष्यति । शुद्धात्मा धर्मवान् ज्ञानी प्राणा-
न्तेनैव मानवः । यदीच्छेदात्मनः क्षेमं त्यक्त्वाऽज्ञानं तदा
नरः । जीवान् कानपि नो हन्यात् सङ्कटापन्न एव
चेत् । सम्पत्तौ च विपत्तौ वा परलोकेच्छुकः पुमान् ।
कदाचित् प्राणिनो हत्यां न कुर्य्यात् तत्त्ववित् सुधीः ।
मानवो यः परत्रेह तर्त्तुमिच्छेत् सदाशिव! । सर्वविष्णु-
मयत्वेन न कुर्य्यात् प्राणिनां बधम् । बधाद्रक्षति या
मर्त्यो जीवान् तत्त्वज्ञ! धर्मवित् । किं पुण्यं तम्बवक्ष्येऽहं
ब्रह्माण्ड स तु रजति । यो रक्षेत् पःतमात् शम्भो!
जीवमात्रं दयापरः । तष्ण प्रयतमो नित्यं मर्वरणां
करोति सः । एकस्मिनक्षिते जीवे त्रैलोक्यं तेन रक्षि-
पृष्ठ ४५६५
तम् । बतात् शङ्कर! वै येन तस्माद्रक्षन्न घातवत ।
पशुहिंसाविधिर्यत्र पुराणे निगमे तथा । उक्तो राज
स्तभोभ्यां स केवलं मनसापि वा । नरकस्वर्गसेवार्थं
संसाराय प्रवर्त्तितः । तयोस्तत्कर्मभोगेन गमनागमनं
भवेत् । सत्येन सात्त्वतग्रन्थे स विधिर्भैव शङ्कर ।
प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया । एवं
नानाविधं कर्म पशोरालभनादिकम् । कामाशयः
फलाकाङ्क्षीकृत्वाऽज्ञानेन मानवः । पश्चाज्ज्ञानासिना च्छित्वा
भ्रान्त्याशां तामसीं सदा । यमभीतिहरं भक्त्या यदि
गोविन्दमाश्रयेत् ।” पाद्मोत्तरखण्डे १०४ १०५ अ० ।

बलिध्वंसिन् पु० बलि ध्वंसयति स्वस्थानात् पातयति ध्वन्स-

णिच्--णिनि । विष्णौ वामनावतारेण हितस्य तथात्वम् ।
तत्कथा च वामन पु० २२ अ० दृश्या ।

बलिनन्दन पु० ६ त० बाणासुरे शब्दर० ।

बलिन(भ) त्रि० बलि + ग्रस्त्यर्थे--इन भ वा । जरया शिथिलचर्मवति अमरः ।

बलिन् त्रि० बलमस्त्यस्य इनि । १ बलवति । २ उष्ट्रे, ३ महिषे,

४ वृषे, ५ शूकरे, ६ कुन्दवृक्षे, ७ कफे पु० जटा० ८ माषे
पु० हेम० । ९ बलेरामे शधदर० (वेलियाडा) १० क्षुपे
स्त्री ङीप् शब्दच० ।

बलिपुष्ट पु० बलिना वैश्वदेववंलिद्रव्येण पुष्टं पुष--क्त

३ त० । काके अमरः स्त्रियां ङीप् ।

बलिपोदकी स्त्री उपोदक्यां राजनि० ।

बलिप्रिय पु० बलिनं प्रीणाति प्री--क । लोध्रद्रुमे शब्दच० ।

बलिबिन्ध्य पु० रैवतकमनोःपुत्रभेदे भाग० ८ । ५ । २ ।

बलिभुज् पु० बलिं वैश्वदेवद्रव्यम् गृहस्थदत्तवलिं भुङ्क्ते

भुज--क्विप् । काके अमरः ।

बलि(ली)मुख पु० बलि(ली)युक्तं मुखमस्य शाक० त० ।

वानरे अमरः ।

बलिष्ठ त्रि० अतिशवेन बली बलिन् + इष्ठन् । १ अत्यन्तबल बति । २ उष्ट्रे पु० राजनि० ।

बलिष्णु त्रि० बल--संवरणे वष्णु । अपर्मानिते उणा० ।

बलिसद्मन् न० ६ त० । पाताले अमरः बलिमन्दिरादयोप्यत्र ।

बलीक पु० न० बालयति श्रावृणीति बल--ईकन् नि० । पटल

प्रान्ते (छाच) अमरा ।

बलीयस् त्रि० अतिशयेन बली बलिन् + ईवत् । अत्यन्तवलयुते स्त्रियां ङीप् ।

बलीबर्द पु० ईलक्ष्मीः वॄ--विच् बर् तौ ईवरौ ददाति

दा--क ईवर्दः बली चासौ ईवर्दश्चेति । वृषे अमरः ।
ततः शुभ्रा० चपत्वे ढक् । बालीबर्देय तदपत्ये पुंस्त्री०

बलूल त्रि० बल + सिष्मा० वा लच् जङ । वरुयुक्ते ।

बलोत्कटा स्त्री १ स्कन्दानुचरमातृकाभेदे भा० शा० ४५अ०

२ बलेनोत्कटे त्रि० ।

बल्य न० बलाय हितं बल + यत् १ प्रधानधातौ शुक्रे, २ तत्र-

साधने च ३ अश्वगन्धायाम् ४ अतिबलायां, ५ शिसुड़ीक्षुपे
६ प्रसारिण्याञ्चे स्त्री राजनि० । बला० चतुरर्थ्यांयत् । ७
बल+ र्वृत्ते त्रि० ८ बुद्धभिक्षुके पु० त्रिका० ।

बल्वजा स्त्री वल--कप् तं वजति बज--ततौ अच् । उलपे तृणभेदे हेमचं

बल्ह स्तृतौ दाने, यधे, च सक० याचने द्विक० भ्वा० आत्म०

सेट् । बल्हते अबल्हिष्ट बबल्हे ।

बल्हि पु० बल्ह--इन् । १ क्षत्रियभेदे २ जनपदभेदे स्वार्थे क तत्रा

र्थे । ततः कोपथत्वात् भवे मण् । बाल्हिकहिङ्गनि न०

बव पु० प्रथमे तिथ्यर्द्धरूपे करणभेदे करणशब्दे दृश्यम् ।

बष्क(स्क)यि(णी)नी स्त्री मस्क गतौ अयन् पृषो० मस्य बः

सस्य वा षत्वम् । बष्क(स्क)योऽस्यास्ति इनि ङीप्
षमध्यत्वेणत्वम् । चिरप्रसूतायां गवि अमरः । बष्क(स्क)यं
नयतीति नी--ड गौ० ङीष् षमध्यत्वे पूर्व० णत्वम् ।
बष्क(स्क)यणी(नी) इत्यप्यत्र स्त्री ।

ब(व)ह वृद्धौ भ्वा० आत्म० अक० सेट् इदित् । बं(व)हते

अबं(वं)हिष्ट । बवंहे महिसाहर्य्यादयमोश्छादिरिति
पाणिनीयाः । दन्तोष्ट्यादिरिति बोपदेवः ।

बहल त्रि० बहि--कलच् नलोपश्च १ प्रचुरे २ बहुशब्दार्थे च ।

ब(व)हु त्रि० बं(व)हि--कु नलोपः । १ त्रिप्रभृत्यनेकसङ्ख्यान्विते,

२ विपुले च । ब(व)ह्रादि० स्त्रियां वा ङीप् ।
बहुत्वं च त्रित्वपर्य्यवसयि कपिञ्जलन्थायात् अपेक्षाबुद्धिवि-
शेषजन्यत्वं तच्च पर्य्याप्त्या सर्वत्र वर्त्तते समवायेन प्रत्येकं
वृत्तिमन् । अस्य संख्यावत् कार्य्यम् तेन बहुशः बहुत्र
बहुतिथ इत्यादि ।

बहुक पु० बहु + संज्ञायां कन् । १ कर्कटे २ सूर्य्ये

३ अर्कवृक्षे ४ दात्यूहे स्वगे ५ जलस्वातके च मेदि०

ब(व)हुकण्टक पु० ब(व)हूनि कण्टकान्यस्य । १ त्तूद्रगोक्षुरे ।

२ यवासे (गोखुरी) ३ द्विन्ताले ४ अग्निदक्षण्यां स्त्री क्षुप-
मेदे राजनि० ।

ब(व)हुकण्टा स्त्री ब(व)हवः कण्टाः कण्टकाः यस्याः । कण्टकारिकायाम् राजनि० ।

ब(व)हुकन्द पु० ६ व० । १ शूरणे । २ कर्कट्यां स्त्री० राजनि० ।

बहुकर त्रि० ब(व)हूनि किरति वॄ--अच् । (फरास्) १ सभामा-

र्जनकरे खलपौ अमरः । करणे अप् । २ सम्मार्जन्यां स्त्री
हेम० गौरा० ङीष् । कृ--अच् ६ त० । ३ उष्ट्रे त्रिका० ।
४ अनेककार्य्यकरे त्रि० ।

ब(व)हुकर्णिका स्त्री० ब(व)ह कर्स्या इव पर्णात्यस्य । आच कर्य्याम् राजनि० ।

पृष्ठ ४५६६

बहुकूर्च पु० बहूनि कूर्चान्यस्य । मधुनालिकेविके राजनि० ।

ब(व)हुगन्ध पु० ६ ब० । १ कुन्दुरुके । २ त्वचे, (तेजपात) न० ।

३ चम्पकलिकायां ४ यूथिकार्यां ५ कृष्णजीकौ च स्त्री राजनि०

बहुगन्धदा स्त्री० ब(व)हुगन्धं ददाति दा--क । मृगमदे ।

राजनि० ।

ब(व)हुग्रन्थि पु० ६ ब० । झावुके (झाउ) । शब्दर०

बहुच्छिन्ना स्त्री ब(व)हु यथा स्यात् छिद्यते स्म

छिदक्त तस्य दस्य च नः । कन्दगुडूच्याम् राजनि० ।

बहुतरकणिश पु० ६ त० । रागीधान्ये राजनि० ।

बहुतिक्ता स्त्री ब(व)हुस्तिक्तो रसोऽस्याः । काकमाच्याम्

राजनि० ।

ब(व)हुतिथ त्रि० ब(व)हूनां पूरणः ब(व)हु + डट् तिथुक्

च । अनेकसंख्याते, “काले गते बहुतिथे” इत्युद्भटः ।

ब(व)हुत्र अव्य० ब(व)हुषु त्रल् । अनेकेषु दिग्देशकालेषु ।

ब(व)हुत्वच्(क्क) पु० ६ ब० बा कप् । भूर्जपत्त्रवृक्षे शब्दर०

कवन्तः हेमच० ।

ब(व)हुदुग्ध पु० ब(व)हूनि दुग्धानीव चूर्णानि शुभ्रवर्णत्वात्

यस्य । १ गोधूमे राजनि० । २ प्रचुरक्षीरवत्यां ३ गवि,
स्त्री हेमच० । वा कप् अत इत्त्वम् । बहुदुग्धिका स्नुही-
वृक्षे स्त्री शब्दच० ।

ब(व)हुधा अव्य० ब(व)हु + प्रकारे--धाच् । अनेकप्रकारे

ब(व)हुधार न० ६ ब० । वज्रास्त्रे राजनि० तस्य षट्कोण

त्वात् सर्वत्र धोणेषु धारायुक्तत्वात्तथात्वम् ।

बहुनाड़ीक पु० ६ त० । अस्वाङ्गत्वात् कप् । १ अनेकदण्डयुते

२ दिवसे ३ स्तम्भे च सि० कौ० । स्वाङ्गे न कप् न वा ह्रस्वः ।
बहुनाड़ी इत्येव अनेकान्त्रयुते एवं तन्त्रीशब्देऽपि
ह्रस्वकपोर्मांवाभावौ उह्यौ ।

बहुनाद पु० ६ ब० । शङ्के राजनि० ।

ब(व)हुपत्त्र पु० ६ ब० । १ पलाण्डौ २ अनेकपर्णयुक्ते त्रि० ।

३ लिङ्गिन्याम् ४ वृतकुभार्य्यां ५ तुलस्यां ६ बृहत्यां, ७ गोरक्ष-
दुग्धायां, ८ जतुकायाञ्च स्त्री राजनि० । गौरा० ङीष् ।
९ तरुणीपुष्पे स्त्री टाप् । ततः संज्ञायां क । बहुपत्रिका
भूम्यामलक्यां, मेथिकायां, महाशतावर्य्याञ्च राजनि० ।

ब(व)हुपर्ण पु० ६ ब० । १ सप्तच्छदवृक्षे तस्य प्रतिपर्णं सप्तसप्त-

पर्णवत्त्वात् तथात्वम् । २ अनेकपर्णयुक्ते त्रि० ३ मेथिकायां
रवी ङीप् । ततः संज्ञायां फ । बहुपर्णिका आस्वुकर्ण्यां
रवी टाप् । राजनि० ।

ब(व)हुपाद(द्) पु० ६ ब० वा अन्त्रलोषेः । बटवृक्षे हलन्त

अमरः । अदन्तः राजनि० । तस्यानेकशिफावत्त्वात्तथात्वम् ।

ब(व)हुपुत्र ब(व)हवः पुत्रा--इव पर्णान्यस्य । १ सप्तच्छदे शब्दच०

अनेके पुत्रा इव मूलान्यस्य । २ शतमूल्यां स्त्री ङीप् रत्नमा०
६ ब० । ३ अनेकतनयान्विते त्रि० ।

ब(व)हुपुष्प पु० ६ ब० । निग्यवृक्षे । संज्ञायां कन् अत सत्त्वम् ।

बहुपुष्पिका धातक्यां स्त्री राजनि० ।

ब(व)हुप्रज त्रि० ६ ब० । १ बहुसन्तानवति । २ शूकरे पु० हेम० ।

प्रजातुल्यप्रचुरतृणवत्त्वात् ३ मुञ्जतृणे पु० राजनि० ।

बहुप्रतिज्ञ पु० ७ ब० । अनेकविषयकप्रतिज्ञायुक्ते व्यवहारे यथा

मदीयं रूपकमनेन गृहीतं, सुवर्णञ्चास्य, हस्ते निक्षिप्तं
न ददाति, मदीयं क्षेत्रमपहरतीत्ये बमादीनां पक्षत्वमिष्यत
एव किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येव
“बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् । कामं
तदपि गृह्णीयात् राजा तत्त्वबुन्भुत्सया” कात्यायनोक्तेः
मिता०

बहुप्रद त्रि० बहूनि प्रददाति प्र + दा--क । दानशौण्डे वदान्ये अमरः ।

ब(व)हुफल पु० ६ ब० । १ कदम्बवृक्षे मेदि० २ विकङ्कते, ३ तेजः फले

च राजनि० । ४ अनेकफलयुक्ते त्रि० । ५ माषपर्ण्यां, ६ क्षवि-
कायां, ७ काकमाच्यां, ८ त्रिपुस्यां, (शशा) ९ क्षुद्रकारवेल्ल्यां,
स्त्री राजनि० १० भूम्यामलक्या भावप्र० स्त्री । ११
आमलंक्यां स्त्री ङीप् मेदि० १२ मृगेर्वारौ राजनि० । संज्ञायां
कन् इत्त्वम् । बहुफलिका । भूमिवदर्य्यां स्त्री राजनि० ।

बहुफेना स्त्री ६ त० । सातलायां राजनि० ।

बहुबल पु० ६ ब० । १ सिंहे राजनि० स्त्रियां ङीष् । २ अतिबले त्रि०

बहुबल्ली स्त्री नित्यक० । डोडिक्षुपे राजनि० ।

ब(व)हुमञ्चरी स्त्री० ६ ब० संज्ञात्वात् न कप् । तुलस्याम्

भावप्र० ।

ब(व)हुमल पु० ६ ब० । १ सीसके रत्नमा० । २ अनेकमलयुक्ते त्रि० ।

बहुमार्ग न० ७ ब० । १ चत्वरे हेमच० । २ अनेकपथयुते त्रि० ।

ब(व)हुमूर्त्ति स्त्री ६ ब० । १ वनकार्पासे शब्दच० । २ नानाकार-

युते त्रि० ।

बहुमूर्ध्वन् पु० ६ ब० । विष्णौ सहस्रशीर्य्यत्वात्तस्य तथात्वम् ।

ब(व)हुमूल त्रि० ६ ब० । १ अनेकमूलयुते । २ शिग्रौ ३ स्थूल-

सरे पु० राजनि० । ४ माकन्द्यां ५ शताबर्य्यां स्त्री टाप् ।
६ वनछागले त्रि० ङीप् राजनि० । ७ नागभेदे भा० आ०
३५ अ० । सज्ञायां कन् । बहुमूलक उशीरे न० भावप्र० ।

बहुमूल्य त्रि० ६ ब० । महार्थे महाधने अमरः ।

बहुरन्ध्रिका स्त्री ६ ब० वा कप् अत इत्त्वम् । मेदायाम् राजनि० ।

पृष्ठ ४५६७

ब(व)हुरसा स्त्री० ६ ब० । १ महाज्योतिद्मत्याम् राजनि० ।

२ नानारलवति त्रि० ।

बहुरुहा स्त्री बहु रोहति रुह--क । कन्दगुडूच्यां राजनि०

ब(व)हुरूप पु० ६ ब० । १ सर्जरसे (धुना) अमरः । २ शिवे,

३ विष्णौ ४ सरटे ५ कामे मेदि० ६ केशे ७ ब्रह्मणि शब्दर० ।
८ बुद्धभेद त्रिका० ९ नानारूपवति त्रि०

बहुरेतस् पु० ६ ब० । ब्रह्मणि चतुर्मुखे शब्दरत्ना० ।

ब(व)हुरोमन् त्रि० ६ ब० । १ अनेकरोमवति रोमशे । २ मेघे पु० हारा

ब(व)हुल त्रि० ब(व)हि--कुलच् नि० नलोपः । १ अनेकसंख्या-

न्विते २ प्रचुरे । व(व)हूनि लाति ला--क । ३ अग्नौ ४ कृष्ण-
पक्षे पु० मेदि० । “ब(व)हुलेऽपि गते निशाकरः” कुमारः ।
५ आकाशे ६ सितमरिचे न० ७ कृष्णवर्णे ८ तद्वति त्रि०
९ एलायां १० नीलिकायां ११ गवि स्त्री मेदि० । १२ देवीभेदे
स्त्री कालिकापु० २३ अ० अग्निदैवतत्वात् १३ कृत्तिकानक्षत्रे
स्त्री ब० व० मेदि० ।

बहुलगन्धा स्त्री० ६ ब० । एलायाम् राजनि० ।

ब(व)हुलच्छद पु० ६ ब० । रक्तशोभाङ्गने राजनि० ।

बहुलवण न० नित्य० क० । ऊषरभूमिजे लवणभेदे राजनि० ।

बहुलाश्व पु० मैथिलवंश्ये नृपभेदे भाग० ९ । १३ । १६ ।

ब(व)हुलीकृत त्रि० ब(व)हुल + च्वि--कृ--क्त । (आगड़ा)

बुषस्यापसारणेन राशीकृते स्वलस्थे १ धान्ये, अमरः ।
२ राशीकृतमात्रे च ।

बहुवचन न० बहुत्वं वक्ति वच--ल्यु । “द्व्येकयोद्विवचनैक-

वचने बहुषु बहुवचनम्” पा० उक्ते बहुत्वबोधके
जस्प्रभृतौ सुब्विभक्तौ झिप्रभृतौ २ तिङ्विभक्तौ च ।

ब(व)हुवल्क पु० ६ क० । प्रियाले । (पियासाल) राजनि० ।

ब(व)हुवारक पु० ब(व)हूनि वारयति अण्, ण्वुल् वा ।

श्लेष्मातके (लोना आता) शब्दर० ।

बहुविध त्रि० ६ त० । नानाप्रकारे अमरः ।

ब(व)हुविस्तीर्णा स्त्री० ब(व)हु यथा तथा विस्तीर्णा वि +

स्तॄ--क्त । (कुचुँइ) १ कुचिकावृक्षे शब्दच० । २ अनेक-
विस्तारयुते त्रि० ।

ब(व)हुवीज पु० ६ ब० । १ आतृप्रे वृक्षे(आता) शब्दच० । २ प्रचुरवीजवति त्रि०

ब(व)हुवीर्य्य पु० ६ ब० । १ विभीतके, (वयड़ा) जटा० ।

२ तण्डुलीयशाके, (नटेशाक) ३ शाल्मलिवृक्षे ४ मरुवके
च राजनि । ५ भूम्यामलक्यां स्त्री राजनि० ।

ब(व)हुव्रीहि त्रि० ६ ब० । १ अनेकधान्यादियुक्ते “तत्पुरुष!

कर्म धारय येन यस्यां सदा बहुव्रीहिः” उद्भटः । व्या०
करणोक्ते प्रायेण अन्यपदार्थप्रधाने २ समासभेदे पु०
तल्लक्षणादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा
बहुब्रीहिं लक्षयति । “बहुव्रीहिः स्वगर्भार्थसम्बन्धि-
त्वेन बोधकः । निरूढ़था लक्षणया स्वांशज्ञापकशब्द-
वान्” समास इति प्रकृतं तथा च स्वांशस्य निरूढ़-
लक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्य
सम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भ-
तादृशार्थसम्बन्धिबोधेन बहुव्रीहिरित्यर्थः । आरूढ़वान-
रोवृक्ष इत्यत्रारूढ़ोवानरो यमिति व्युत्पत्त्या स्वकर्म-
कारोहणकर्तृवानरसम्बन्धित्वेन वृक्षं, पीतपयस्कं पात्र-
मित्यत्र पीतं पयोयेन इति रीत्या खकरणकपानकर्म-
जलसम्बन्धित्वेन पात्रम्, पक्वतण्डुलश्चैत्र इत्यत्र पक्व-
स्तण्डुलो येनेति दिशा स्वकर्तृकपाककर्मतण्डुलसम्ब-
न्धित्वेन चैत्रं, दत्तदक्षिणोद्विज इत्यत्र दत्ता दक्षिणा
यस्मै इति क्रमेण स्वसम्प्रदानक्वदानकर्मदक्षिणासम्बन्धि-
त्वेन द्विजं, पतितपत्रस्तरुरित्यत्र पतितं पत्रं यस्मा-
दिति विग्रहेण स्वापादानकपतनाश्रयपत्रसम्बन्धित्वेन
तरुं, चित्रगुरित्यत्र चित्रा गौर्यस्येति वाक्यानुसारेण
श्चित्राभिन्नस्वगोसम्बन्धित्वेन चैत्रम्” रक्तपटः काय इत्यत्र
रक्तः पटो यत्रेति व्युत्पत्या रक्ताभिन्नस्ववृत्तिपटसम्ब-
न्धित्येन कायम्” एवं वाणच्छिन्नकरोनर इत्यादावपि ।
वाणेन छिन्नः करो येन यस्य वा इत्यादि विग्रहे
वाणकरणकस्वकर्तृकच्छिदाकर्मकरसम्यन्धित्वादिना
नरादिकं बहुव्रीहिर्वोधयतीति सर्वत्र स्वगर्भतत्तदर्थसम्बन्धि-
त्वेन धर्मिणामवगमः । दक्षिणपूर्वा पूर्वोत्तरेत्यादिवि-
दिग्बहुव्रीहिस्थले दक्षिणया पूर्वा यस्या इत्यादिविग्रहेण
स्वपार्श्वस्थदक्षिणसहितपूर्वदिक्सम्बन्धित्वादिना आग्ने-
यीप्रभृतीनां विदिशां बोधः । अस्तिक्षीरा गौरीत्यादाव-
प्यस्ति क्षीरं यस्या इत्यादिविग्रहेणास्तित्ववत्स्वक्षीरसम्ब-
न्धित्वादिप्रकारेण गवादेरवगतिः । इयांस्तु विशेषो यत्त-
त्रैकेषाम्मतेऽस्तीत्यादिकं तिङन्तमन्येषां मते तत्प्रतिरूप-
काव्ययमिति । उप समीपे दश येषामिति समीपगणित-
त्वार्थकपष्ठ्या विग्रहादुपदशाः शकुनय इत्यादौ स्वसमी-
पगणितदशसम्बन्धित्वेन नवानामेकादशानानाञ्च पक्षिणा-
मवगमस्तत्र दशशब्दस्य दशत्वलक्षणया स्वपर्थ्याप्तसंख्या-
समीपगणितदशत्वसम्बन्धित्वेनैव नवादेर्बोध इति दुर्ग-
प्रभृतयः । अधिका दश येषामित्यादिविग्रहे अधिकदशाः
परुषा इत्यादावपि स्वपर्य्याप्तसंख्याधिकदशवृत्तिसंख्या-
पृष्ठ ४५६८
पर्य्याप्त्यधिकरणदशसम्बन्धित्वेन नवादिपुंसां प्रत्ययः ।
द्वौ त्रयो वा येषां इत्यन्यतरार्थकवाशब्देन विग्रहे द्वित्राः
पवित्राः इत्यादौ । द्वित्र्यन्यतरपर्य्याप्तस्वपर्य्याप्त-
सख्यासम्बन्धित्वेन द्वयोस्त्रयाणां वा पवित्राणां बोधः ।
पटे घटे वा घटत्वमित्याद्यनुरोधेन वाकारस्यान्यतरार्थ-
कताया व्युत्पाद्यत्वात् तस्य च वृत्तौ गतार्थत्वादश्रुतिः
पञ्च षड़् वा येषामित्यादिविग्रहात् पञ्चषाः पुरुषाः
इत्यादावप्युक्तरीत्यैवान्वयोद्रष्टव्यः । परे तु द्वौ वा त्रयो
वा येवामित्यादिबिग्रहे वाशब्दस्य संशयकोट्यर्थकंतया
द्वित्रा इत्यादि बहुव्रीहेः स्वधर्भिकसंशयकोटितापन्न-
द्वित्रिसम्बन्धित्वेन द्विप्रभृतिबाधकत्वमित्याहुः” । वैयाकर-
णास्तु बहुव्रीहिप्रकरणपठितत्वमेव तत्त्वमित्याहुः तेन
उन्मत्तगङ्गाद्यव्ययीभावे नातिव्याप्तिः । तद्भेदौ च
तद्गुणातद्गुणसावज्ञानौ तद्गुणसंविज्ञानशब्द ६२१७ पृ०
उक्तौ तत्र समानाधिकरणपदघटितस्येव प्रायेण साधुत्वम् ।

बहुशत्र पु० ६ ब० । १ चटके शब्दच० । २ अनेकशत्रुयुते त्रि० ।

“बहुशत्रुः पटोले स्यात्” ति० त० ।

ब(व)हुशल्य पु० ६ ब० । १ रक्तखदिरे राजनि० । २ अनेककीलयुक्ते त्रि० ।

ब(व)हुशस् अव्य० ब(व)हु + शस् । अनेकवारानित्यर्थे ‘गुण-

कृत्ये ब(व)हुशो नियोजिता’ इति कुमारः ।

ब(व)हुशाल पु० ब(व)हुभिः शालते शाल--संज्ञायां कर्त्तरि

धञ् । १ स्तु हीवृक्षे राजनि० ।

ब(व)हुशिखा स्त्री० ६ ब० । १ जलपिप्पल्याम् । राजनि० । २ अनेकशिखायुक्ते त्रि०

बहुशिरम् पु० ६ ब० । विष्णौ “रुद्रो बहुशिरा बभ्रुः”

विष्णुस० ।

बहुशृङ्ग पु० ६ ब० । विष्णौ हेमकरः “चत्वारि शृङ्गा”

“त्रयो अस्य पादाः” इत्यादिश्रुत्या तस्य तथात्वंम् ।

बहुश्रुत त्रि० श्रु--भावे क्त ६ ब० । अनेकशास्त्रश्रुतियुक्ते

मनुः ४ । १३५ ।

बहुश्रेयसी त्रि० । ६ ब० ईयवन्तत्वात् न कप् न बा ह्रस्वः । अनेकश्रेयसीयुक्ते ।

बहुसन्तति पु० बहुः सन्तरिर्विस्तारोऽस्य (वेड़बाँस)

१ वंशभेदे शब्दच० । २ अनेकसन्तानयुक्ते त्रि० ।

बहुसम्पुट पु० ६ ब० । विष्णुकन्दे राजनि० ।

ब(व)हुसार पु० ६ ब० । १ खदिरे राजनि० २ अनेकसारविति त्रि०

ब(व)हुसुता स्त्री० ब(व)हवः तता इव मूलान्यस्याः ।

१ गतमल्याम् अमरः । २ अनेकपुत्रयुते त्रि० ।

बहुसू स्त्री बहूत् मूले सू--क्विप् । १ शूकर्य्यां शब्दर० ।

२ अनेकप्रसवकर्त्र्यां स्त्रियाञ्च ।

ब(व)हुसूति स्त्री० ६ ब० । १ अनेकप्रसववत्यां २ गवि अमरः ।

२ ब(व)हुप्रसवयुते स्त्रीमात्रे च ।

ब(व)हुस्रवा स्त्री० ब(व)हु यथा तथा स्रवति स्वु--अच् ।

१ शल्लकीवृक्षे शब्दच० । २ अनेकधा क्षरणवति त्रि० ।

बहूदक न० बहूनि उदकानि शौचाङ्गतया यस्य । सन्न्यासि-

भेदे कुटीचकशब्दे दृश्यम् ।

बह्वपत्य पु० ६ ब० । १ शूकरे २ मूष्के च राजनि० । ३ अनेकात्मजयुते त्रि० ।

बह्वादि बिभाषया स्त्रियां ङीष्प्रत्ययनिमित्ते शब्दगणे स च

गणः पा० ग० उक्तो यथा “बहु पद्धति अञ्चति अङ्कति
अंहति शकटि शक्ति (शस्त्रे) शारि वारि राति राधि
अहि कपि यष्टि मुनि (इतः प्राण्यङ्गात्) वण्ड अराल
कृपण कमल बिकट विशाल विसङ्कट भरुज ध्वज चन्द्र-
भाग (अनद्याम) कल्याण उदार पुराण अहन् क्रोड़
नख खुर शिखा बाल शक गुद” आकृतिगणोयम “तेन
भग गल राग इत्यादि ग्रहणम्” ।

बह्वाशिन् त्रि० बहु अश्नाति अश--णिनि । १ बहुभोजन-

शीले स्त्रियां ङीप् । “बह्वाशी स्वल्पहृष्टश्च तनिद्रः
शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः”
चाणाक्यः । २ धृतराष्ट्रपुत्रभेदे पु० भा० आ० ६७ अ० ।

ब(व)ह्वृच्(च) त्रि० ६ ब० अध्ये तर्य्येव अच्समा० नान्यत्र । १ ऋग्०

बेदे २ सूक्ते न० । ३ तदध्ये तरि पु० । ४ तत्पत्न्यां स्त्री ।

बा(वा)ड अ प्लावने सक० स्नाने अक० भ्वा० आ० सेट् । बा(वा)ड़ते

अबा(वा)ड़िष्ट । ऋदित् चङि न ह्रस्वः अवबाड़त् त ।

बाड़व न० बड़वानां समूहः अण् । १ घोटकीसमुदाये ।

बाड घञ् बल--घञ् लस्य डो वा बाड़ो वृन्निः तं वाति
वा--क वा । २ ब्राह्मणे पु० । बड़वायां जातः अच् ।
३ और्वे समुद्रस्थे कालाग्निभेदे पु० हेमच० । वाड़वाग्न्या-
दयोऽप्यत्र पु० ।

बाड़वेय पु० द्विव० वडवायाः अपत्यम्--ढक् । अश्विनीकुमारयोः शब्दभा० ।

बाड़व्य न० बाड़व + सघे--यत् । विप्रसमुदाये ।

बाडिङ्गन पु० बाडे वृद्धौ इङ्गते इङ्ग--ल्यु । वार्त्ताकौ रत्नना० ।

बा(वा)ण पु० बण--शब्दे वण--गतौ वा संज्ञाबां कर्त्तरि घञ् ।

१ शसे, २ गोस्तने, (वांट) ३ विरोचनसुते ४ दैत्यभेदे, ५ केवले
च ६ शरपुत्रे ७ नीलझिण्ठ्याम् पुंस्त्री० अमरः ८ बाणमूले
स्त्री मेदि० । मेदिन्यां दन्तोष्ठ्यवादित्वेन पठितः रायमुकु-
टादवस्त बण शब्दे इति पातुप्रकृतिकत्वमाहुरतोऽस्वो-
भयविधादित्वम् बल--भावे घञ् । ९ शब्दे १० तदथि-
तदधिष्ठातृदेव्यां सरस्वत्यां स्त्री उपचारात् ११ वाक्ये अमरः ।
पृष्ठ ४५६९

बाणगङ्गा स्त्री रावणबाणनिर्भेदेन प्रवृत्तायां नद्यात्

“सोमेशाद्दक्षिणे मागे बाणेनाभिविभिद्य वै । रावणेन प्रक-
टिता जलधारातिपुण्यदा । बाणगङ्गेतिविख्याता या
स्नानादघहारिणी” वराहपु० ।

बाणधि पु० बाणाधीयन्तेऽस्मिन् धा--आधारे कि । १ इषुधौ २ तूणे हेमच० ।

बाणपुङ्खा स्त्री बाणस्य पुङ्खोऽस्माः ५ व० । शरपुङ्खायां राजनि०

बाणपुर न० ६ त० । बाणासुरनगरे शोणितपुरं त्रिका० ।

बाणमुद्रा स्त्री “यथा हस्तगत बाणास्तथा हस्ताङ्कुरं प्रिये! ।

बाणमुद्रा समाख्याता रिपुवर्गनिकृन्तनी” तन्त्रसा० उक्ते
मुद्राभेदे ।

बाणयुद्ध न० ६ त० । कृष्णेन सह शिवसाहाय्यकस्य बाणस्य

युद्धे तच्च युद्ध भाग० १० । ६१ अध्यावादो दृश्यम् ।

बा(व)णलिङ्ग वाणदैत्येन संपू आवसृज्य नर्मदायां निक्षिप्ते

शिवलिङ्गभेदे । नर्मदासम्भवशब्दे ३९८७ पृ० विवृतिः ।

बाणवार न० बाणं वारयति वारि--अण् उप० स० । १ कञ्चुके

सन्नाहे हारा० ।

बाणिज्य न० बणिजो भावः, कर्म वा ब्राह्मणादित्वात् ष्यञ् ।

क्रयविक्रयादौ बाणिज्येन गतस्य मे गृहपतेर्वार्त्तापि
न श्रूयते” सा० ३ परि० ।
तत्र विहितनिषिद्धानि भिता० उक्तानि यथा
“मानेन तुलथा वापि योऽंशमष्टमकं हरेत् । दण्डं
सदाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्” । यः
पुनर्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं कूटमानेन
कूटतुलया वाऽन्यथापहरत्यऽसौ पणानां द्वशा दण्ड-
नीयः । अपहृतस्य पुनर्द्रव्यस्य वृद्धौ हानौ च दण्ड-
स्यापि वृद्धिहानी कल्प्ये । “भेषजस्नेहलवणगन्धधान्य
गुडादिषु । पण्येषु प्रक्षिपन् हीनं एणान् दाप्यस्तु
षोड़श” याज्ञ० । भेषजमौषधद्रव्य स्नेहो वृतादिः । गन्ध
द्रव्यमुशीरादि आदिशब्दाद्धिङ्गुमरिचादि । एवेष्वसार-
द्रव्यं विक्रयार्थं मिश्रयतः षोड़शपणो दण्डः । किञ्च ।
“मृच्चर्सदमणिसूत्रायःकाष्ठबल्कलवाससाम् । अजातौ जाति-
करणे विक्रेयाष्टगुणोदमः” य ज्ञ० । “न बिद्यते बहुमूल्या-
जातिर्यस्मिन् मृच्चर्मादिके तदजाति तस्मिन् जातिकरणे
विक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीय
सादृश्यसम्पादने यथा मल्लिकामोदपञ्चारणेन मृत्तिकायां
सुगन्धापादनमिति । मार्जारचर्मणि बर्णोत्कर्पापादनेन
न्यःघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग
इति कार्पातिके मृले गुग्पोत्कर्षामनेत्र पट्टस्मूलामति
कार्ष्णायसे वर्णोत्कर्षाधानेन रजतमिति बिल्वकाष्ठे चन्द
नामोदसञ्चारणेन बन्दनमिति कक्कौले त्वगाख्यं लवङ्ग-
मिति कार्पासिके बाससि गुणोत्कर्षाधानेन कौशेयमिति
विक्रेयस्मापादितस्य दृश्यस्य मृच्चर्मादेः पण्यस्याष्टगुणो
दण्डो वेदितव्यः । “समुद्गपरिवर्त्तञ्च सारभिआण्डञ्च कृत्त्रि-
मम् । आधानं विक्रयं वापि नयतो दण्डकल्पना
भिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो
दण्डो मूल्यवृद्धौ च वृद्धिमान्” याज्ञः । मुद्गं पिधानं
मुद्गेन सह वर्त्तत इति समुद्गं करण्डकम् । परिवर्त्तनं
व्यत्यासः । योऽन्यदेवमुक्तानां पूर्णं करण्डकं दर्शयित्वा
हस्तलाघवेनान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयति
यश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रय-
माधिं बा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या ।
कृत्त्रिमकस्तूरिकादेर्मूल्यभतं पणे भिन्ने न्यूने न्यूनपण
मूल्यमिति” ।
“लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।
षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । गणिकन्तु
लित मेयं क्रियया रूपतः श्रियेति” गणित क्रमुकफलादि
तुमितं कुङ्कुमादि मेयं शाल्यादि क्रियय बाहदोहादि-
रूपयोपलक्षितमश्वमहिष्यादि । रूपतः पण्यङ्गनोदि
श्रिया दीप्त्यामरकतपद्मरागादि । इत्येतत् षट् प्रकारमपि
पण्यम्” मिता० । तस्य विप्रैरापदि स्वयं कार्य्यत्वं
विदधे वृहस्पतिः “कुषीदकृषिबाणिज्य प्रकर्वीतास्वयं
कृतम् । आपत्काले स्वय कुर्वन् नैनसा लिप्यते दिव्ज ।
लब्धलाभः पितॄन् देवःन् ब्राह्मणांश्चैव पूकयेत् । ते
तुष्टास्तस्य त दाषं शमयन्ति न संशयः । बणिक् कुषीदी-
दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीबलोऽन्नपानादि
यानशय्याशनानि च । पण्येभ्यो विंशक दत्त्वा
पशुस्वर्णादिकं शतम् । बणिक् कुषीद्यदोषः स्यात् ब्राह्मणा-
नाञ्च पूजनात्। राज्ञे बत्त्वा तु षड्भागं देवतानाञ्च
विशकम्” आ० त० । अधिक कृषिशब्दे २२०५ पृ० दृश्यम् ।

बाणिनो स्त्री बण--णिनि ङीप् । १ विदग्धायां स्त्रियां

२ नर्त्तक्याम् ३ उत्तमस्त्रियाञ्च अजयपालः ।

बा(वा)दर पृ० ब(व)दर + स्वार्थेऽण् । १ कार्पासवृक्षे मेदि० ।

ब(व)दरस्येदं तस्म विकारो वा अण् । २ कार्पासस्तत्रे न० ।
३ तद्वस्त्रादं ब्रि० अमरः । ४ कार्षासवृक्षे रपी अनन्तत्वेऽपि
अजादराकृतिगस्मस्त्वात् टाप् शब्दच० ।

बा(वा)दरायण पु० ब(व)दर्य्या भवः फक । वेदव्यासे । इञि

पृष्ठ ४५७०

बादरिक त्रि० बदराण्युञ्छति बरर--ठक् । वदरफलस्य

भूमौ पतितस्यएकैकग्राहिणि ।

बाध विहतौ भ्वादि० आत्म० सक० सेट् । बाधते अबालिष्ट ।

ऋदित् चङि न ह्रस्वः अबबाधत् त ।

बाध पु० बाध भावे--घञ् । १ प्रतिरोधे । २ प्रतिबन्धे, पीड़ने,

३ उपद्रवे च । न्यायमते ४ स्वाभाववत्पदार्थे यथा बह्यनु-
मितौ बह्ण्यभाववान् द्रुदो बाधः । “साध्याभाववत्त्वप्रमा-
विषयमपक्षत्वम्” तल्लक्षणम् । ५ हेतुदोषभेदे अनुचिन्ता०
बाध--कर्त्तरि अच् । ३ प्रतिबन्धके त्रि० ।

बाधक त्रि० बाध--ण्वुल् । १ प्रतिबन्धके । २ स्त्रीणामृतुकाले

प्रजाजननशक्तिप्रतिरोघके रोगभेदे पु० ।
स च रोगश्चतुर्विधस्तल्लक्षणं वैद्यके उक्तं यथा
“व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि च । रक्त-
माद्रीप्रदोषेण जायते फलहीनता । माममेकं द्वयं
वापि ऋतुयोगो भवेद्यदि । रक्तमाद्री १ प्रदोषेण
फलहीना तदा भवेत् । नेत्रे हस्ते भवेज्ज्वाला योनौ चैव
विशेषतः । लालासंयुक्तरक्तञ्च षष्ठी बाधकयोगतः ।
जासैकेन भवेद् यत्र ऋतुस्नानद्वयं तथा । मलिना रक्त
योनिः स्यात् षष्ठीबाधक योगतः । उद्वेगो गुरुतादेहे
रक्तस्नावो भवेद् बहुः । नाभेरधो भवेत् शूलं चाङ्कुरः ३
स तु बाधकः । ऋतुहीना चतुर्मासं त्रिमालं वा भवेद्
यदि । कृशाङ्गी करपादे च ज्वाला चाङ्कुरयोगतः ।
सशूला च सगर्भा च शुष्कदेहाल्परक्तिका । जलकुमा-
रस्य ४ दोषेण जायते फलहीनता । या कृशाङ्गी भवेत्
स्यूला बहुकालसूतुस्तथा । गुरुस्तनी स्वल्परक्ता
जलकुमारस्य दूषणात्” वैद्यकम् ।

बाधन न० बाध--भावे ल्युट् । १ पीड़ायां शब्दर० । २ प्रतिबन्धे च ।

बाधा स्त्री बाध--भावे १ अपीड़ायां २ निषेधे ३ प्रतिबन्धे च ।

बाधित त्रि० बाध--कर्मणि क्त । १ प्रतिवते । २ बाधज्ञानविषये च

बाधिर्य्य न० बधिरस्य भावः ब्राह्मणादित्वात् प्यञ् । श्रवण-

शक्तिराहित्ये रोगमेदे बधिरशब्दे दृश्यम् ।

बान्धकिनेय पु० स्त्री० बन्धक्याः अपत्यं ढक् इनङ् च । असत्या

अपत्ये अमरः ।

बान्धव पु० बन्धु + स्वार्थे, इदमर्थे वाऽण् । १ बन्धुशब्दार्थे,

२ पितृमातृसम्बन्धिनि ३ भ्रातरि ४ मातुलादौ च ।
“बान्धबास्तदवाप्नुयुः” काव्या० स्मृतिः ।

बार्बटीर पु० १ रङे पाती २ आम्रास्थ्नि ३ अङ्कुरे ४ गणिकासने हेमच०

बार्हत न० बहस्ताः फलम् प्लमा० अण् । १ पहतीफले

बृहतिभवः उत्सा० अञ् । २ बृहत्रिभवे त्रि० ।

बार्हदग्न पुं स्त्री० बृहदग्नेरपत्यम् करुवा० अण् । बृह

दग्निनामकर्षेर्गोत्रापत्ये ।

बार्हद्रथ पुंस्त्री० बृहद्रथस्यापत्यम् शैकिकोऽण् । १ बृहद्रथनृपसुते २ तत्सम्बन्धिनि त्रि० ।

बार्हस्पत पु० वृहस्पतेरिदम् सवदेवताऽस्य वृ--अण् ।

गुरुसम्बन्धिनि १ वत्सरे २ चर्वादौ च । पत्यन्तत्वात् पुरो-
हिता० यक् । बार्हस्पत्य तत्रार्थे त्रि० । “बार्हिस्पत्येन
षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः” सू० सि० ।

बार्हिण त्रि० बर्हिणो विकारः ताला० अण् । बर्हिबिकारे ।

बाल पु० न० बालाख्ये १ गन्धद्रव्यभेदे । २ मूर्खे ३ शिशौ मेदि० ।

“बाल आषोड़शात् बर्षात्” स्मृतिपरिभाषित ४ षोड़श-
वर्षावधिकवंयस्के च त्रि० । ५ केशे पु० अमरः । अर्श
आदित्वादस्त्यर्थे अच् । ६ अश्वशिशौ अमरः ७ अश्वबालधौ
८ हस्तिबालधौ ९ नारिकेले मेदि० १० पशुपुच्छे च पु०
हेमच० । मत्स्यभेदे शब्दच० । “पञ्चवर्षो गता कालः”
हेम० उक्ते पञ्चवयस्कपदे ।
“बालाचतुष्टयं शीतं मधुरं बलकास्न्तिकृत् । क्षिग्तं
ग्राहि समीरास्रपित्तास्रक्षयनाशनम्” । “बलामूलत्वच-
श्रूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमे-
तन्न संशयः । हरेश्महाबला कृच्छ्रं भवेद्वातानुलोमनी ।
हन्यादिति वलामोहं पयसा सितया सह” मावप्र० ।
यालादेरवधिमाह सुश्रुतः “वयस्तु त्रिविधं बाख्यं मध्यमं
बार्द्धकं तथा । ऊनषोड़शवर्षस्तु नरो बालो निगद्यते ।
त्रिबिगः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्नभुक् ।
दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् । तदुत्तरं
स्यादन्नाशी एवं बालस्त्रिधामतः” ।
“यथोक्त बिधिना बालं मासि षष्टेऽष्टमेऽपि च । अन्नं
सम्प्राशयेत्किञ्चित् ततस्तद्वर्द्धयन् क्रमात्” अथ बालस्य
परिचय्याविधिः । “बालमङ्के सुखन्दध्या नचैनन्तर्जयेत्
क्वचित् । सहस्म बोधयेन्नैव नायोग्यं मुपद्वेशयेत्” अयोन्यं
उपवेशनासमर्थम् । “नाकृष्य स्थापयेत् क्रोड़े न
क्षिप्रं शयने क्षिपेत् । रोदयेन्न क्वचित् कार्य्ये विधि-
माबश्यकं विना” आवश्यको विधिः भेषज दान तैला-
भ्यङ्गोद्वर्त्तनादिः । “तच्चित्तमनुवर्त्तेत तं सदैवासु-
मोदयेत् । निम्नीञ्चेरवानतश्चापि रक्षेद् बालं प्रयत्रतः”
तालस्य स्वभावहितान्याह । “तभ्यङ्कोद्वर्त्तनं धानं
नेत्रयोरञ्जनन्तया । बलनं सद् यत् तच्च तत्रा गृहद्धत्वेप-
नम् । जन्मप्रभृतिपथानि थाणस्येतानि सर्कवा”
पृष्ठ ४५७१
बालस्य कवलादेः समयमाह । “कवलः पञ्चमाद्वर्षादष्ट-
मान्तस्य कर्म च । विरेकः षोड़शाद्वर्षाद्विंशतेश्चैव नैथु-
नम्” । ततः पृथ्वा० इमनिच् वालिमन् बालभावे पु०
पक्षे ष्यञ् बाल्य तत्रार्थे न० ।

बालक पु० बाल + स्वार्थे क । १ शिशौ (वाला) २ गन्धद्रव्ये न०

राजनि० । ३ ह्रीवेरे ४ अङ्गुरीयके ५ पारिहार्य्ये न० विश्वः ।
६ अश्वकरिपुच्छयोः ७ बलये मेदि० ८ केशे च पु० विश्वः ।

बालकप्रिया स्त्री बालकं प्रीणाति प्री--क । १ इन्द्रवारुण्यां

(राखलशशा) २ कदल्याञ्च राजनि० ३ शिशुप्रियमात्रे त्रि० ।

बालकृमि पु० ६ त० । केशकीटे (उकुन) जटा० ।

बालक्रीड़नक पु० बोलः क्रीड़त्यनेन क्रीड--करणे ल्युट् ।

स्वार्थे क । कपर्दके (कड़ि) राजनि० २ तत्क्रीड़ासाधन-
मात्रे त्रि० ।

बाल(लि)खिल्य पु० ब० अङ्गुष्ठपर्वमितेषु षष्टिसहस्रसंख्येषु

“क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत । षष्टिर्यानि
सहस्राणि ऋषीणामूर्ध्वरेतसाम्” मार्क पु० उक्तेषु १ मुनि-
भेदेषु । तेषां पारमाणञ्च अङ्गुष्ठमात्र यथाक्तं भा० स०
३१ अ० । “अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः ।
पलाशवृन्तिकामेकां सहितान् वहतः पथि । प्रलीनान्
स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान्
मन्त्रबलान् गोष्पदे संप्लुतोदके” । “प्राणा वै बालखिल्याः”
चरणव्यूहभाव्येक्तेषु २ प्राणेषु च ।

बालगर्भिणी स्त्री बालैव गर्भिणी । प्रथमगर्भवत्यां गवि अमरः ।

बालगोपाल पु० कर्म० । श्रीकृष्णमूर्त्तिभेदे शिशुरूपे

गोपाले बारदपञ्चरात्रे दृश्यम् ।

बालग्रह पु० ६ त० । बालानां पीड़के उपग्रहभेदे “बालग्रहा-

भिभूतानां बालानां शान्तिकारकसिति” चण्डी । कुमार-
भृत्याशब्दे २१०८ पृ० दृश्यम् ।

बालचर्य्य पु० बालस्येव चर्य्याऽस्य । १ कार्त्तिकेये त्रिका० ६ त० । २ शिशुचर्य्यायां स्त्री

बालतनथ पु० बालास्तनया इव पत्त्राण्यस्य । १ खदिरे अमरः

२ शिशुसुतके पु० स्त्री० ।

बालतन्त्र न० बालार्थं तद्रक्षार्थं तन्त्रमुपायः ।

गर्भिणीचर्य्यायाम् कुमारभृत्याया त्रिका० २१०८ पृ० दृश्यम्

बालतृण न० कर्म० । नवतृणे शष्पे अमरः ।

बालदलक पु० बाल इव स्वल्पं दलमस्य कप् । खदिरे भरतः

बालधि पु० बाल धीयन्तेऽत्र धा--आधारे कि । केशयुक्त-

लाङ्गूले अमरः ।

बालपत्र पु० बाल इव क्षुद्रं पत्रमस्य । १ यवासे राजनि० ।

२ खदिरवृक्षे भरतः । ३ नवपत्रयुते त्रि० कर्म० । ४ नबोने
पत्रे न० वा कप् । बालपत्रक स्वदिरे त्रिका० ।

बालपाश्या स्त्री बालस्य केशस्य समीपस्था पाश्या । सीमन्ता

न्तिकस्थस्वर्णादिरचितपट्टिकारूपे भूषाभेदे (सिँती) अमरः-

बालपुष्पी स्त्री० यालानि क्षुद्राणि पुष्पाण्यस्याः ङीप् ।

यूथिकायाम् राजनि० । कप् बालपुष्पिका तत्रार्थे जटाधरः ।

बालभंद्रक पु० बालेऽपि भद्र इव कायति कै--क । विषभेदे

शब्दच० ।

बालभैषज्य न० ६ त० । १ रसाञ्जने राजनि० २ शिशूनामौषधे च ।

बालभोज्य पु० ६ त० । १ चणके राजनि० २ बालकभक्षणीये त्रि०

बालमूषिका स्त्री० कर्म० । क्षुद्रमूषिकायां गिरिकायाम्

अमरः ।

बालयज्ञोपवीतक न० बालस्य यज्ञोपवीतमिव कायति कै--क ।

उरस्कटे (वुकवाछाडि) त्रिका० ।

बालराज न० बालः स्वल्पोऽपि राजते राज--अच् । वैदूर्य्यमर्णौ शब्दर० ।

बालरोग पु० भाबप्र० उक्ते बालस्य रोगभेदे तन्निदानादि

तत्रोक्तं यथा
“अथ बालरोगाणां निदानानि लक्षणानि चाह ।
“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा । दोषा देहे
प्रकुप्यन्ति ततः स्तन्थ प्रदुष्यति । मिथ्याहारविहारिण्या
दुष्टा वातादयस्त्रयः । दूषयन्ति पयस्तेन जायन्ते
व्याधयः शिशोः । ह्रीवेरं शर्करा क्षौद्रं लीढं तृष्णा
हरं परम् ।” इति तृष्णायाम् । “वातदुष्टं शिशुः
स्तन्यं पिबन् वातबदातुरः । क्षामस्तरः कृशाङ्गः स्वा-
द्वद्धविण्मूत्रमासतः । खिन्नो भिन्नमलो बालः कामला-
पित्तरोगवान् । तृष्णालुरूष्मसर्वाङ्गः पित्तदुष्टं पयः
पिवन् । श्लेष्मदुष्टं पिबन् क्षीरं लालायुक् श्लेष्मरोगवान् ।
निद्रार्द्दितो जडः शूनो वक्राक्षश्छर्दनः शिशुः ।
ज्वराद्या व्याधयः सर्वे वक्ष्यन्ते महतान्तु ये । बालाना-
मपि ते तद्वद्बोद्धव्या भिषगुत्तमैः । बालानामेव ये रोमा
भवन्ति महतां न च । तालुकण्टकमुख्यांस्तानवधारय
यत्नतः ।” तत्रादौ तालुकण्टकमाह । तालुम से
कफः व्रुद्धः कुरुते तालुकण्टकम् । तेन तानुप्रदेशस्य
निम्नता मूर्घ्नि जायते । तालुपातात् स्तनवेषः कृच्छ्रात्
पानं शकृद्दूवम् । तृडक्षिकण्ठास्यरुज ग्रीवादुर्द्वरता-
वमिः ।” पानं स्तनस्य, शकृद्दूवं द्रवरूपम् । महापद्म-
माह । “वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः ।
पद्मवर्णो महापद्मरोगो२ दोषत्रयोङ्गतः। शङ्खाभ्यां
पृष्ठ ४५७२
हृदयं याति हृदयाच्च गुदं ब्रजेत् ।” पद्मवर्णः लोहित
वर्ण तत्र शीर्षजो वीसर्पः । शङ्खार्भ्या हृदयं याति हृद०
याच्च गुदं व्रजेत् एवं वस्तिजो गुदं याति गुदतः हृदयं
हृदयाच्छिरो याति इति बोद्धव्यम् । कुकूणकमाह
“कुकूणकं३ क्षीणदोषाच्छिशूनामेव वर्त्मनि । जायते
सरुज नेत्रं कण्डूरं प्रस्रवेद्बहु । शिशुः कुर्य्याल्ललाटा-
क्षीकूटनासाप्रघर्षणम् । शक्तो नार्कप्रभां द्रष्टुं न
चाक्ष्युन्मीलनक्षमः ।” कुकूणकं (कोथु) इति लोके ।
अथ तुण्डीगुदप्राकमाह । “वातेनाध्मापिना नाभिः
सरुजा तुण्डिरुच्यते । बालस्य गुदपाकाख्यो ४ व्याधिः
पित्तेन जायते ।” अहिपूतनमाह । शकृन्मूत्रसमायुक्ते
धौते पाने शिशोर्भयेत् । खिन्ने वा स्नाप्यमानस्य कण्डू
रक्तकफाद्भवा । कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च
जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्५ ।”
स्विन्ने स्वेदितिए । अजगल्लीमाह । स्निग्धा सवर्णा
ग्रथिता नीरुजा मुद्गसन्निभा । कफवातोत्थिता ज्ञेया
बालानामजगल्लिका६ । ग्रथिता गुम्फितेव मुद्गसन्निभा
मुद्गाकृतिः । परिगर्भिकमाह मातुः । कुमारो गर्भिण्या
स्तन्यं प्रायः पिबन्नपि । कासाग्निसादवमथुतन्द्राकार्श्या-
ऽरुचिभ्रमैः । युज्यते कोष्टवृद्ध्या च तमाहुः परिगर्भि-
कम् ७ । रोगं परिभवाख्यञ्च ८ तत्र युञ्जीत दीपनम् ।
पिबन्नपीत्यपिशब्दादपिबन्नपि परिगर्भिकः (अहीडीति)
लोके । परिभवाख्यं परिभवेति नामान्तरम् । अथ दन्तो-
द्भेदकान् रोगानाह “दन्तोद्भेदः शिशीः सर्वं रोगाणां
कारणं स्मृतम् । विशेषात् ज्वरविड्भेदकासच्छर्दिशिरो-
रुजाम् । अभिष्यन्दस्य षोथक्याधीसर्पस्य च जायते ।
कारणभित्यन्वयः पोथक्या वर्त्मरोगविशेषस्य ।”

बालव पु० तिथ्यर्द्धात्मकेषु करणेषु द्वितीये करणे ज्यो० त० ।

बालवायज न० वैदूर्य्यमणौ त्रिका० ।

बालवाह्य पु० बालो वाह्यो यस्य । इक्कटे अनछागे हारा०

बालव्यजन न० बाला एव व्यजनम् । चामरे हेमच० ।

‘कुर्वन्ति बालव्यजनैश्चमर्य्यः’ इति कुमारः ।

बालसन्ध्याभ पु० बाल सन्ध्याया इवाभा यस्य । अरुणवर्णे हेमच० ।

बालसूर्य्य न० बालः सूर्य्यस्तद्वर्णोऽस्त्यस्य । १ वैदूर्य्यमणौ

त्रिका० कर्म० । २ अचिरोदिते सूर्य्ये पु० ।

बालसूर्य्यक न० बालसूर्य्य इव कावति कै--क । वैष्टूर्थमणौ शब्दर० ।

बालहस्त पु० बालाः केशा हस्त इव यत्र । १ पशूनां लाङ्गूले

अमरः । बाल + संघे हस्तप्र० । २ केशसंघे च पु० ।

बाला स्त्री० बालाः केशाकाराः पदार्थाः सन्त्यँस्य अच् ।

१ नारिकेले २ हरिद्रायां ३ मल्लिकाभेदे, ४ बलये, ५ मेध्ये च
६ त्रुटौ स्त्री मेदि० ७ घृतकुमार्य्यां (वाला) ८ गन्धद्रव्यभेदे,
शब्दच० । ९ अम्बष्ठायां, १० नीलझिण्ट्याम् स्त्री राजनि०
११ षोड़शवर्षीयायां स्त्रियां १२ कन्यायाञ्च “बर्षमात्रा भवेद्
बाला” प्रा० त० उक्तायामेकवर्षीयायां १३ गवि स्त्री १४ देवी
मूर्त्तिभेदे तन्त्रसारः । स्वार्थे क अत इत्त्वम् । बालिका
तत्रैव । बालुकायां, पत्रकाहलायां मेदि० कर्णभूषणे
(कानबाला) मेदि० एलायां शब्द० ।

बालाकि पु० बलाकाया अपत्यम् वा० इञ् । “दृप्तबालाकि

र्हानूचानो गार्ग्य आस” वृ० उ० उक्ते गार्ग्ये ऋषिभेदे ।

बालाक्षी स्त्री बालः केशा इवाक्षितुल्यं पुष्पमस्याः षचसमा०

स्त्रियां ङीष् । केशपुष्पोवृक्षे शब्दच० ।

बालायनि पुंस्त्री० बालाया अपत्यं तिका० फिञ् । बा०

लाया अपत्ये स्त्रियां ङीप् ।

बालार्क पु० कर्म० । प्रातःकालीनसूर्य्ये “बालाकैस्तरुणं दधि” चाणक्य ।

बालि पु० बाले केशे जातः इञ् । केशे इन्द्रस्कन्नशुक्रजाते

वानरभेदे । बालः उत्पत्तिस्थानत्वेनास्त्यस्य इनि ।
बालिन् तत्रार्थे त्रिका० ।
तदुत्पत्तिकथा रामा० उत्तरा० ३७ स० यथा
“उत्प्लुत्य तस्मात् स ह्रदादुत्थितः प्लवगः पुनः । तस्पि-
न्नेव क्षणे राम! स्त्रीत्वं प्राप स वानरः । तद्रूपमद्भुतं
दृष्ट्वा त्यजितौ धैर्य्यमात्मनः । ततस्तस्यां सुरेन्द्रेण स्कन्नं
शिरञ्चि पातितम् । अनासाद्यैव तां नारी सन्निवृत्तमथा
भवत् । ततः सा वानरपतिं जज्ञे वानरमीश्वरम् ।
अमोघरेतसस्तस्य वासवस्य महात्मनः । बालेषु पतितं बीजं
बाली नाम बभूव ह । भास्करेणापि तस्यां वै कन्दर्प-
वशवर्त्तिना । बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तता ।
ग्रीवायां पतितं बीजं सुग्रीवः समजायत” ।

बालिश त्रि० बाड--इन् बाडिं वृद्धिं श्यति शो--क डस्य लः ।

१ मूर्खे, २ शिशौ च मेदि० “बालिशमालि! शयानम्”
उद्भटः । बालाः सन्त्यस्य इनि वाली मूर्द्ध्वा शेतेऽत्र शी--
बा० आधारे ड । ३ उपधाने न० शब्दमा० ।

बालीश पु० मूत्रकृच्छ्ररोगे शब्दर० ।

बालिहन् पु० बालिं बालिनं वा हन्ति हन--क्विप् । रामे

बालिहन्त्रादयोप्यत्र पु० । तत्कथा रामा० सुन्दराकाण्डे
दृश्या ।

बालु पु० बल--उण् । १ एलबालुकनामगन्धद्रव्ये उणादि० ।

पृष्ठ ४५७३

बालुक न० बालु + स्वार्थे क । १ तत्रैव अमरः । चु०

बालउक । २ पानीयामलके पु० राजनि० । ३ सिकतासु स्त्री ।
४ कर्कट्यां जटा० ५ कर्पूरे ६ तन्त्रभेदे शब्दच० ।

बालुकायन्त्र न० ६ त० । १ औषधपाकार्थे यन्त्रभेदे ।

“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके । कुपिका
कण्ठपर्य्यन्तं बालुकाभिश्च पूरिते । भेषजं कूपिकासंस्थ
वह्निना यत्र पच्यते । बालुकायन्त्रमेतिद्धि यन्त्रतन्त्रबुधैः
स्मृतम्” भावप्र० । २ कालज्ञापने रङ्गना० प्रदर्शिते यन्त्र-
भेदे “ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू० सि०
व्याख्यायां “सूत्राकारेण रेणवः सिकतांशागर्भे उदरे
यस्यैतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्” रङ्गनाथः ।

बालुकास्वेद पु० ३ त० । भावप्र० उक्ते तप्तबालुकाभिः

स्वेदने । “वातश्नेष्मकृते स्वेदान् कारयेद्रूक्षनिर्मितान् ।
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान् ।
स्वर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः ।
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् । स्रोतसां
मार्दवं कृत्वा नीत्वा पावकमाशयम् । हत्वा वातकफस्तम्भं
स्वेदो ज्वरमपोहति” ।

बालुकी स्त्री० चु० बल--उक गौरा० ङीष् ।

कर्कोटीभेदे राजनि० पृषो० नुक् । बालुङ्कीत्यप्यत्र त्रिका०

बालूक पु० चु० बाल--ऊक । विषभेदे हेमच० ।

बालेय पु० बलेरपत्यं, बलये हितं वा ढक् । १ रासभे, अमरः

२ दैत्यभेदे, धरणिः ३ अङ्गरवल्लर्य्यां विश्वः । ४
चाणक्यमूलके पु० ५ बालहिते च त्रि० मेदि० ।

बालेयशाक पु० बलये हितं ढक् कर्म० (वामनहाटि) शाकभेदे अमरः ।

बालेष्ट पु० बालानामिष्टः १ ब(व)दरे राजनि० । २

बालकानामभीष्टे त्रि० ।

बालोपवीत न० ६ त० उरस्कटे बालयज्ञोपवीतशब्दार्थे हारा०

बाल्वजभारिक त्रि० बल्वजानां भारं वहति वंशा० ठक् ।

उलपतृणभारवाहके ।

बाल्य न० बालस्य भावः, कर्म वा वयोयचनत्वात् ष्यञ् । ‘आ

षोड़शाद्भवेद्बाल’ इत्युक्ते अवस्थाभेदे ।

बाल्हक न० बल्हिदेशे भवः बा० बुञ् । कुङ्कुमे अमरः

पाठान्तरम् ।

बाल्हायन त्रि० बल्हौ जातम् फक् । १ बल्हिदेशोद्भवे हिङ्गुनि न० ।

बाल्हि(ही)क पु० बल्हि + स्वार्थे ठञ् । ईक वा । १ कुङ्कुमे

हिङ्गुनि च न० मेदि० ३ देशभेदे ४ तद्देशीये च पु० मेदि० ।
५ तद्देशनृपे हरिवं ३०६ अ० । दीर्घमध्यः गन्धर्वभेदे पु० शब्दर०

बाष्कल पु० ॠमिभेदे आश्व० गृ० ३ ४ ४ ।

बाष्प(स्प) पु० बाध--पृषो० सत्वं षत्वं वा । १ नेत्रजले, २ जष्मणि

च अमरः लौहे च मेदि० तत्र अयमन्त्यस्थवादितवोक्तः ।

बास्कल पु० दैत्यभेदे हरिवं० ४ अ० ।

बा(वा)ह प्रयत्ने भ्वादि० आत्म० अक० सेट् । बा(वा)हते

अबा(वा)हिष्ट । ऋदित् चङि न ह्रस्वः अबबाहत् त ।

बाह पुंस्त्री बाहु + पृषो० । नाहुशब्दार्थे रमानाथः ।

बाहा(हू)बाहवि अव्य० बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तम्

युद्धम् इच्समा० पूर्वपदे आद् दीर्घो वा । बाहुभ्यां
बाहुभ्यां प्रहृत्य प्रवृत्ते युद्धे ।

बाहु पु० बाध--कु धस्य हः । भुजे कक्षावध्यङ्गुलिपर्य्यन्तेऽवयवे अमरः ।

बाहुक पु० ऋतुपर्णनृपस्य अश्वपालत्वादिरूपेण स्थिते

नलनृपे तत्कथा भा० व० ६७ अ० दृश्या । २ नागमेदे भा० आ०
५७ अ० ।

बाहुकुण्ठ त्रि० ३ त० । कुण्ठितबाहुके (कोपा) जटा० ।

बाहुकुन्थ पु० बाहुरिव कुन्वति कुन्थ--अच् । विहगानां

बाहुस्थानीये पक्षे शब्दच० ।

बाहुकुलेयक त्रि० बहुकुले जातादि ढक्ञ् । बहुकुलजाते ।

बाहुज पु० बाहुभ्यां ब्र(व्र)ह्मबाहुभ्यां जायते जन--ड । १ क्षत्रिये

अमरः । ‘बाहू राजन्यावि’ ति श्रुतिः । २ कीरे ३ स्वयं
जाततिले च मेदि० ४ बाहुजातमात्रे त्रि० ।

बाहुत्र पु० न० बाहुं त्रायते त्रै--क । अस्त्राघातवारणार्थं हस्त-

बद्धे लौहवर्मादौ हेमच० ।

बाहुत्राण न० बाहू त्रायते अनेन त्रै--करणे ल्युट् । शस्त्रा-

घात वारणार्थं बाहुबद्धवर्मणि हेमच० ।

बाहुदन्तक पु० बहवश्चत्वारो दन्ता अस्य कप् ऐरावतः

उपचारात् इन्द्रः तेन प्रोक्तमण् । पुरन्दरप्रोक्ते पञ्चसहस्रात्मके
नीतिशास्त्रेभेदे भा० शा० ५९ अ० ।

बाहुदन्तेय पु० बहुदनश्चतुर्दन्त ऐरावतस्तमर्हति वा० ढ । इन्द्रे हेमच० ।

बाहुदा स्त्री स्वनामख्याते १ नदीभेदे । सा च प्रसेनजिद्भार्य्या

गौरी नाभ, भर्त्त्रा शप्ता नदीरूपा जाता हरिवं० १२ अ० ।
सा हि शङ्घस्य भ्रातुः फलहरणे सद्युम्रनृपदण्डेन
छिन्नं लिखितस्य मुनेः हस्तम् अवगाहनात् पुनददाविति
कथा भा० शा० २३ अ० यथा “स गत्वा बाहुदां शीघ्रं
तर्पयस्व यथाविधि । देवानृषीन् पितॄंश्चैव मा चाधर्मे
मनः कृथाः । तम्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे । प्रादुरास्तां
ततस्तस्य करौ जलजसन्निभौ । ततः स विस्मितो भ्रातु-
र्दर्शयामास तौ करौ” ।
३ परीक्षिद्भार्य्याभेदे भा० आदिपर्वणि ९५ अध्याये ।
पृष्ठ ४५७४

बाहुबल न० ६ त० । युद्धोपयोगिनि बाहुविक्रमे ।

बाहुभूषा स्त्री ६ त० । केयूरे हेमच० ।

बाहुमात्र त्रि० बाहुः प्रमाणमस्य बाहु + मात्रच् । बाहु-

परिमाणे स्त्रियां ङीप् “बाहुमात्त्र्यः स्रुचः” कात्या० श्रौ०
१ । ३ । ३७ ।

बाहुमूल न० ६ त० । कक्षे (काँक) (वगल) ख्याते अमरः ।

बाहुयुद्ध न० ३ त० । नियुद्धे अमरः ।

तत्प्रकारः भा० वि० १३ अ० यथा
“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । सन्निपातावधू-
तेश्च प्रमाथोन्मथनैस्तथा । क्षेपणैर्मुष्टिभिचैव
वराहोद्धूतनिःस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव
च । शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभि-
श्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः । तद्युद्धमभवद्घोर-
मशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सव
सन्निधौ । अराजत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः ।
बलिनोः संयुगे राजन्! वृत्रवासवयोरिव । प्रकर्षणाकर्ष-
णयोरभ्याकर्षविकर्षणैः । आकर्षतुरथान्योन्यं जानु-
भिश्चापि जघ्नतुः” । मू० “कृतं क्वचिद्देशे निपीड़नं प्रतिकृतं
तस्य शोधनम् । सुसङ्कटैः मुष्टिग्रहणेन कृशीकृतैः सकङ्क-
टैरिति पाठे सकवचैः मकिणैर्वा “कङ्कटो बाहुवरणे
कवचे कठिने किणे” इति विश्वः सन्निपातोऽङ्गसंघट्टनम्
अबधूतं तेनैव दूरीकरणं प्रमाथादय उक्ता मल्लशास्त्रे
“निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते । यत्तूत्था-
याङ्गमथनं तदुन्मथनमुच्यते । क्षेपणं कथ्यते यत्तु-
स्थानात् प्रच्यावनं हठात् । उभयोर्भुजयोर्मुष्टिरुरोमध्ये
निपात्यते । मुष्टिरिच्यते तज्ज्ञैर्गल्लविद्याविशारदैः ।
अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः
स भवेद्वराहोद्धूतनिःस्वनः । तलैर्वज्रनिपातैर्वज्रवद्दृढ़-
पातैश्चपेष्टैः । “अङ्गुल्यः प्रसृतास्तास्तु प्रसृष्टा या
उदीरिताः । ऋज्वी दृढ़ा रुषा क्षिप्तशालका साङ्गुली स्मृता” ।
तस्यानखपातैः पादोद्धूतैः पादप्रसारणेनाक्षेपैः जानुभिः
शिरोभिश्च कृतैरवघट्टनैरास्फालनैः अश्मनिर्घोषैरित्युभय-
विशेषणम् । अशस्त्रं निन्द्यं यथोक्तं तत्रैव “बाहुयुद्धं हि
भल्लानामशस्त्रमृषिभिः स्मृतम् । मृतस्य तत्र न स्वर्गो
यशोनिहापि विद्यते” इति । बलप्राणेन बलेन शारीर-
बलेन प्राणेन मानसबलेन च । सोत्क्रुष्टनिनदः
हीहीशब्दोच्चाराणेन खज्जितस्थ समुत्यापनम् । तत्स-
हितः । “आकृष्य क्रोड़ीकरणं प्रकर्षणमुदाहृतम् ।
आकर्षणं लीलयैव सन्मुखीकरणं स्मृतम् । पुरः पश्चात्
पार्श्वयोश्चाभ्याकर्षो भ्रमणं तथा । पश्चात् प्रपातनं वेगा-
द्विकर्षणमुदाहृतम्” नीलक० ।

बाहुल पु० बहुलानां कृत्तिकानामयं स्वामी अण् ।

१ वह्नौ शब्दच० । बहुलाभिर्युक्ता पौर्णमासी अण् ।
३ कार्त्तिकर्पौर्णमास्यां स्त्री ङीप् । सा यत्र मासे
पुनरण् । ३ चान्द्रकार्त्तिकमासे पु० अमरः । ४ बाहुत्राणे
हेमच० । बहुलेन निर्वृत्तम् सङ्कला० अण् । ५ अनेकसाध्ये
त्रि० । पृथ्वा० इमनिचोऽभावे भावे अण् । ६ बाहुल्ये न० ।

बाहुलक न० बहुलेन बहुलग्रहणेन निर्वृत्तं सङ्कला० अण्

संज्ञायां कन् । व्याकरणोक्तसर्वोपाधिरहिते विधानादौ
यत्र यद्विधीयते तत्र क्वचिन्न स्यात् क्वचिद्वा स्यात्
क्वचित्ततोऽन्यत्रापि स्यादित्येवं परे विधाननिषेधादौ ।
मनोज्ञा० भावे बुञ् । २ बाहुलिका बहुलभावे स्त्री ।

बाहुलेय पु० बहुलानामपत्यं ढक् । कार्त्तिकेये अमरः

बाहुशालिन् त्रि० बाहुभ्यां शालते तद्विक्रमाधिक्येन श्ला-

घते शाल--णिनि । बाहुबीर्य्याधिययुते स्त्रियां ङीप् ।

बाहुसम्भव पु० बाहू ब्रह्मवाहू सम्भवोऽस्य । १ बाहुजे क्षत्रिये

हेमच० । २ बोहुजातमात्रे त्रि० ।

बाहुसहस्रभृत् पु० बाहुसहस्रं बिभर्त्ति भृ--क्विप् तुक् च ।

कार्त्तवीर्य्य त्रिका० कार्त्तवीर्य्यशब्दे दृश्यम् ।

बाह्य त्रि० बहिर्भवः ष्यञ्टिलोपः । बहिर्भवे

बाह्यकर्ण पु० नागभेदे भा० आ० ३३ अ० ।

बाह्यकुण्ड पु० नागभेदे भा० उ० १०२ अ० ।

बाह्वादि पु० इञ् प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग०

उक्ती यथा “बाहु उपबाहु उपचाकु निवाकु शिवाकु
वटाकु उपबिन्दु वृषली वृकला चूड़ा बलाका मूषिका
कुशला छगला ध्रुवका धुवका सुमित्रा दुर्मित्रा पुष्करसद्
अनुहरत् देवशर्मन् अग्निशर्मन् भद्रवर्मन् सुशर्मन् कुना-
मन् सुनामन् पञ्चन् सप्तन् अष्टन् अमितौजसः (सलो-
पश्च) सुधावत् उदञ्चु शिरस् माष शराविन् मरीची
क्षेमवृद्धिन् शृङ्ख्लतोदिन् खरनादिन् नगरमर्दिन् प्राका-
रमर्दिन् लोमन् अजीगर्त्त कृष्ण युधिष्ठिर अर्जुन
साम्ब गद प्रद्युम्न राम उदङ्क उदकः (संज्ञायाम्) सम्भू-
योऽम्भसोः (सलोपश्च) बाह्वादिः । वाहविः कार्त्तिः ।

बि(वि)ट आक्रोशे भ्वा० पर० सक० सेट् । बे(वे)टति अबे(वे)टीत्

बिटक पु० पिटक + पृषो० । पिटके अमरे पाठान्तरम् ।

पृष्ठ ४५७५

बि(वि)ठ न० विट--क पृषो० अन्तरीक्षे निरुक्तकारः ६ । ३० ।

बिद अवयवे भ्वा० पर० सक० सेट् इदिद् । बिन्दति अबिन्दीत्

बिदल न० बिदि--कलच् नि० नलोपः । १ द्विदले अमरः २ अंशे च

बिन्दवि पु० विदि--अवयवे बा० अवि । बिन्दौ अंशे । ततः

गहा० छ । बिन्दवीय तत्सम्बन्धिनि ।

बिन्दु पु० बिदि० उ । १ अल्पेऽंशे अमरः । २ राजभेदे ततोऽपत्ये

विदा० अञ् । वैन्दव तदपत्ये पुंस्त्री० । २ रेखागणित
प्रसिद्धे स्थूलत्वदीर्घत्वहीने लक्षयितुं शक्ये २ प्रदार्थे
क्षेत्रशब्दे २३८९ पृ० दृश्यम् ।
सा० द० उक्ते ३ अर्थप्रकृतिभेदे “वीजं बिन्दुः पताका च
प्रकरी कार्य्यमेव च । अर्थप्रकृतयः पञ्च” उद्दिश्य “अवा-
न्तरार्थविच्छेदे बिन्दुरुच्छेदकारणम्” लक्षितम् । ४ अनु
स्वारमूचके रेखाभेदे । “बन्दुद्विबिन्दुमात्रौ” मुग्धबो०
शा० ति० उक्ते ५ नादजन्ये क्रियाप्राधान्यलक्षणे चिच्छक्ते-
रवस्थाभेदे यथा “सच्चिदानन्दविभवात् सकलात् परमे-
श्वरात् । आसीच्छक्तिस्ततो नादो नादात् बिन्दुसमु-
द्भवः” । तद्व्याख्यायां राघवभट्टधृतम् “सा तत्त्वसंज्ञा
चिन्मात्रज्योतिषः सन्निधेस्तदा । विचिकोर्षुर्घनीभूता
क्वचिदभ्येति बिन्दुताम्” “अभिव्यक्ता परा शक्तिरविना
भावलक्षणा । अखण्डपरचिच्छक्तिजाता चिद्रपिणी
विभुः । समस्ततत्त्वभावेन विवर्त्तेच्छासमन्बिता । प्रयाति
बिन्दुभावञ्च क्रियाप्राधान्यलक्षणम्” । तस्मादेव रौद्री-
रुद्रयोराविर्भावः यथाक्तं शा० ति० “रौद्री बिन्दोस्ततो
नादात् ज्येष्ठा वीजादजायत । समेताभ्यः समुत्पन्ना
रुद्रब्रह्मरमाधिपाः” । ६ वीजभेदे “बिन्दुः शिवात्मको बीज
शक्तिर्नार्दतयोर्मिथः । समवायः समाख्यातः सर्वागम-
विशारदैः” शा० ति० ।

बिन्दुचित्रक पु० बिन्दुरूपं चित्रमस्य कप् । मृगभेदे शब्दर०

बिन्दुजाल न० ६ त० । १ बिन्दुसमूहे २ हस्तिशुण्डोपरिस्थ

बिन्दुसमूहे हेमच० । संज्ञायां कन् । बिन्दुजालक
गजसम्मुखादिस्थे तत्समूहे पद्मके अमरः ।

बिन्दुतन्त्र पु० । १ शारीफकके २ चतुरङ्गक्रीड़ने च मेदि० । ३ पाशके हारा०

बिन्दुदेव पु० ६ त० । बिन्दु वर्णस्येश्वरे शिवे मेदि० ।

बिन्दुपत्र पु० बिन्दुचिह्नित पत्रमस्य । भुर्जपत्रवृक्षे रत्नमा० ।

बिन्दुमाधव पु० काशीस्थे वेणीमाधबे काशीख० ।

बिन्दुरेखक पु० बिन्दुरूपा रेखा मूचिकाऽस्य कप् । १

अनुस्वारे वर्णे २ पक्षिभेदे शबदच० ।

बिन्दुसरस न० बिन्दुजातं सरः शा० त० । सरोवरभेदे यत्र

गङ्गावतारणार्थं भगीरथेन तपस्तेपे तत्कथा “अथो
त्तरेण कैलासात् मैनाकं पर्वतं प्रति । हिरण्यशृङ्गः
सुमहान् महामणिमयो गिरिः । रम्यं बिन्दुसरो
नाम यत्र राजा भगीरथः । द्रष्टुं भागीरथीं गङ्गा-
मुवास बहुलाः समाः” भा० स० ३ अ० । मात्स्ये १०१ अ०
तदुत्पत्तिकथा उक्ता यथा
“तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता । सोमपादात्
प्रसूता सा सप्तधा प्रविभज्यते । यूपा मणिमयास्तत्र
चितयश्च हिरण्मयाः । तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः
सुरगणैः सह । दिव्यश्छायापथस्तत्र नक्षत्राणान्तु
मण्डलम् । दृश्यते भास्वरा रात्रौ देवी त्रिथगा तु सा ।
अन्तरीक्षं दिवञ्चैव भावयित्वा भुवङ्गता । भवोत्तमाङ्गे
पतिता संरुद्धा योगमायया । तस्या ये बिन्दवः केचित्
क्षुब्ध्यायाः पतिताभुवि । कृतन्तु तैर्विन्द्रुबरस्ततो विन्द-
सरः स्मृतम्” । बिन्दुह्रदोऽप्यत्र पु० ।

बिल भेदने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । बेलयति

ते बिलति । अबीबिलत् त अबेलीत् ।

बिल न० तु० बिल + क । रन्ध्रे १ छिद्रे अमरः । २ गुहायाम् ३ उच्चैः

श्रवसि पु० मेदि० । ४ वेतसे शब्दच० ५ मर्त्ते च । ततः
तृणा० क्षतुरर्थ्यां स । बिलस तददूरदेशादौ त्रि० ।

बिलकारिन् त्रि० बिलं करोति कृ--णिनि । १ गर्त्तकारके

स्त्रियां ङीप् । २ मूषके पुंस्त्री० राजनि० ।

बिलवास पु० बिले वासोऽस्य । जाहकजन्तौ राजनि० ।

बिलवासिन् पु० बिले वसति बस--णिनि । १ सर्पे शब्दरत्ना० ।

२ गर्त्तवासिनि त्रि० स्त्रियां ङीप् । अलुक्स० बिले-
वासिन् तत्रार्थे ।

बिलशय पुंस्त्री० बिले शेते शी--अच् । सर्पे शब्दरत्ना० । स्त्रियां योपधत्वात् टाप् ।

बिलेशय पुंस्त्री० बिले शेते शी--अच् अलुक्स० । १ सर्पे अमरः

२ मूषिके जटा० ३ गोधायां ४ शशे ५ शल्लक्याञ्च भावप्र० ।
“गोधाशशभुजङ्गाखु शल्लक्याद्या बिलेशयाः । बिलेशया
वातहरा मधुरा रसपाकयोः । वृंहणा बद्धविण्मूत्र ।
वीर्य्योष्णा अपि कीर्त्तिताः” तत्र तन्मांसगुणा उक्ताः ।

बिल्म न० त्रि० बिल--बा० मन् । भासने निरु० १ । २० । ऋ० २ । ३५

१२ । २ शिरस्त्राणे यजु० १६ । ३५ । तदस्यास्ति इनि । बिल्०
मिन् तद्वति त्रि० रुद्रभेदे पु० यजु० तन्मन्त्रे दृश्यम् ।

बिल्ल न० बिलं क्विप् तं लाति ला--क । १ आलबाले त्रिका० ।

२ हिङ्गुनि शब्दच० ।

बिल्लमूला स्त्री बिल्लमिव मूलमस्याः । वाराहीकन्दे शब्दच०

पृष्ठ ४५७६

बिल्लसू स्त्री “बिल्लसूर्दशपुत्रा स्यादिति” शब्दर० उक्त्वायां

प्रसूतदशपुत्रायां स्त्रियाम् ।

बिल्व पु० बिल--उल्बा० नि० । १ स्वनामख्याते वृक्षे अमरः

“श्रीफलः प्रवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् । बालः
श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः” भावप्र० ।
“बिल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् ।
संग्राहि तिक्तकटुकं तीक्ष्णं वातकफाफम् । पक्वं
सुगन्धि मधुरं दुर्जरं ग्राहि दोषलम् । फलेषु परिपक्वेषु
यो गुणः समुदाहृतः । बिल्वादन्यत्र सज्ञेयो बिल्वमानं
गुणोत्तरम् । कफवातामपित्तघ्नी ग्राहिणी बिल्वपे-
षिका” राजवल्लभः । “काञ्जिके संस्थितं बिल्वमग्नि-
सन्दीपनं परम्” इति वैद्यकम् । २ तत्फले न० मेदि० ।
३ पलपरिमाणे न० शब्दमाला । तद्वृक्षोत्पत्त्यादिर्यथा
“भृगोर्लक्ष्मीश्च या धेनुर्गोरुपा सा गता महीम् । तद्गो-
मयभवो बिल्वः श्रीश्च तस्मादजायत । “बिल्ववृक्षः प्रियः
शम्भोस्तव योनिर्भविष्यति । सर्वपुष्पोत्तमः श्रेष्ठो देवाहारो
मनोरमः । अच्छेद्यः सर्ब्बलोकानां छेदान्नाशः सदा
नृणाम् । ये च पापा दुराचाराः श्रीतरोश्छेद-
कारिणः । ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणोदिनम् ।
सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा । तत्र देशे
भयं नित्यं चिरं राजा न जीवति । न च द्रव्यपतिः कश्चिद्
बिल्ववृक्षस्य छेदकः । क्रियते यत्र विच्छेदः सपुष्पफलिन-
स्तरोः । अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते” ।
अग्निपु० । वृहद्धर्मपुराणे १० अ० अस्योत्पत्तिरन्ययोक्ता “लक्ष्म्या
शिवाराधनार्थं स्वैकस्तनस्योत्पाटने कृते तुष्टेन शिवेन
लक्ष्मीं प्रत्युक्तं यथा “मातः समुद्रतनये! मा मा छिन्धिस्तनं
परम् । यस्ते छिन्नः स्तनो वामो जायतां पुनरेव सः ।
ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः । यश्च छिन्नः
स्तनोभक्त्या मल्लिङ्कोपरि ते शुभे । सोऽस्तु वृक्षः क्षितौ
पुण्यो नाम्ना चीफल इत्यतः । मूर्त्तिमांस्तव वै भक्ति-
र्वृक्षः श्रीफलनामकः । त्वत्कीर्त्तये क्षितावास्तां
यावच्चन्द्रदिवाकरौ । स तरुर्ममवै लक्ष्मि! परमः
सुप्रियो भवेत् । नत्पत्रेणैव मे पूजा भविष्यति न
चान्यथा । स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि च ध्रुवम् ।
श्रीफलच्छदलेशस्य कलां नार्हन्ति कोटिकाम् । यथा मे
श्रीफलतरुर्यथा जुङ्गाजलं मम । तथा प्रियतमं लक्ष्मि!
त्रिपद्मः श्रोफलञ्जदः” तत्रैव ११ अ० । “धनुः शतञ्चास्य
सूतात् खञ्चाग्रं तीर्थसुच्यते । अधो भूमेस्तथा तीर्थमत-
स्तीर्थत्रयं सखि! । ऊर्द्धपत्रं हरो ज्ञेयः पत्रं वाम
विधिः स्वयम् । अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत ।
अस्य छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत् । हरते लङ्घ-
नादायुः पदा स्पर्शात् श्रियं हरेत्” । इत्यादिना
तन्माहात्म्यमुक्त्वा तत्पत्रहरणविधानादि तत्रोक्तं यथा
“पक्षान्तद्वादशीसायमध्याह्नभिन्नकालतः । शाखाभङ्गो
न कर्त्तव्यो नैवारोहेत्तथा तरुम् । वरमारुह्य चिनु-
यान्न शाखाभञ्जनं क्वचित् । खण्डितैश्च शिवः पूज्यः
पत्रैरन्यैश्च खण्डितैः । षण्मासानन्तरं बिल्वपत्रं पर्य्यु
षिते भवेत् । पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौ
विना । बिल्ववृक्षवनं यत्र सा तु बाराणसी पुरी । पञ्च
बिल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः । सप्त बिल्व-
द्रुमा यत्र तत्र दुर्गायुतो हरः । एको बिल्वतरुयत्र
तत्र शम्भु मर्या सह । बिल्ववृक्षा यत्र दश तत्र शम्भु-
र्गणैः सह । एतान्युक्तानि तीर्थानि देवाः सर्वे
मरुद्गणौ । यत्र वाट्यां गृहस्थस्य कोण ईशाननामके ।
जायते श्रीफलतरुर्न तत्र विपदः क्वचित् । पूर्वस्यां
सुखदः स स्याद्दक्षिणे यमभीतिहा । पश्चिमे च प्रजा-
दायी वृक्षो बिल्व उदाहृतः । श्मशाने च नदीतीरे
प्रान्तरे वा वनान्तरे । बिल्ववृक्षतलं प्रोक्त सिद्धपीठस्थलं
समेम् । न मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम् ।
दैवाद् यदि प्रजायेत तदा शिववदर्च्चयेत् । चैत्रादिचतुरो
मासान् शम्भवे परमात्मने । दत्तं स्याद् बिल्वपत्रैकं लक्ष-
धेनुसर्म सुराः । मध्याह्नकाले ये मर्त्या बिल्वं कुर्य्युः
प्रदक्षिणम् । तैः सुमेरुर्गिरिवरः कृतएव प्रदक्षिणम् ।
न च्छिन्द्यात् श्रीफलतरुं न दहेत् काष्ठमेव च । विना
ब्राह्मणयज्ञार्थं पतितो बिल्वविक्रयी । पक्वबिल्वसमुद्घृष्टं
यो धत्ते मूर्ध्नि मानवः । यमाधिकारो नात्र स्यात् हृतः
पापोपपातकैः । विल्वपत्रं फलं वीजं भूमौ पतितमीश्वरः ।
स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः । चैत्रादि-
चतुरो मासान् सिञ्चेद्बिल्वतरुं कृती । यथा स्निग्धो
भवेद्वृक्षस्तथा तत्पितरोऽपि च । चैत्रादिवतुरो मासान्
सदा भ्रमति शङ्करः । नवीनबिल्वपत्रार्थी भुक्तिमुक्ति-
प्रदायकः । हदिद्रानगरे यत्र वैद्यनाथो महेश्वरः ।
तत्राक्षयो बिल्ववृक्षः स्वर्गवृक्ष उदाहृतः । कामरूपे
कामतरुः काश्या मुक्तस्तथादिमः । काञ्चीपुरे पुरः प्रोक्तः
श्रीफलोऽक्षयपुण्यदः । तेऽपि तीर्थविशेषाः स्युरतीर्थेष्वपि
सदाऽतुलाः ।” वृक्ष र्मपु० ११ अ० । “तत्फलैस्तत्प्रसूनै-
पृष्ठ ४५७७
र्वा तत्पत्रैर्यः प्रपूजयेत् । तत्काष्ठचन्दनैर्वापि स मे
भक्तः स मे प्रियः । तत्काष्ठचन्दनं भाले यो धारयति
सम्भ्रमात् । तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता ।
अतस्तच्चन्दनं देवि! न धारयति कश्चन । तत्पत्रं तत्
प्रसूनं वा कदापि धारयेन्न हि । तस्यमूले महेशानि!
प्राणांस्त्यजति यो नरः । रुद्रदेहो भवेत् सत्यं पाप
कोटियुतोऽपि सन्” योगिनीतन्त्रे पटले ।
“बिल्ववृक्षं तथा देवि! भगवान् शङ्करः स्वयम् ।
बिल्ववृक्षतले स्थित्वा यदि प्राणांस्त्यजेत् सुधीः ।
तत्क्षणास्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः । यत्र ब्रह्मा-
दयो देवास्तिष्ठन्ति मुक्तिहेतवे । बिल्ववृक्षतले स्थानं यदि
विष्ठादिपूरितम् । तदेव शाङ्करं क्षेत्रं सर्वतीर्थमयं सदा ।
सर्वपीठमयं तत्तु सर्वदेवमयं सदा । न त्यजेत् शाङ्करं
क्षेत्रं न च गङ्गां त्यजेत् प्रिये! । समीपे स च चार्बङ्गि ।
बिल्बवृक्षौ यदि प्रिये! । काशीपुरसमं तत्तु तत्र प्राणान्
त्यजेद् यदि । किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये! ।
पुरश्चरणरसोल्लासे १० पटले । तद्दानविधिर्यथा
“पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् । यथोत्-
पन्नं तथा देयं बिल्बपत्राण्यधोमुखम् ।” मातृकातन्त्रे
५५ पटले । “शिव उवाच । शृणु देवि! प्रवक्ष्यामि
रहर्स्य त्रिजटात्मकम् । पत्रं ब्रह्ममयं देवि! अद्भुत वर
वर्णिनि! । श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः ।
विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा । ब्रह्मविष्णु-
शिवाः पत्रे वृन्तञ्च शक्तिरूपकम् । वृन्तमूले तु वज्रं
स्यात् पत्रे ब्रह्मपदं प्रिये! । त्रिजटापत्रकैकेन हरं वा
हरिमर्च्चयेत् । कैवल्यं तस्य तेमैव शक्तिपूजा विशेषतः ।
पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम् । दत्त्वा यद्यत्
फलं प्राप्तं तस्मात् कोटिगुणं भवेत् । सर्वैरर्चनतो देवि!
त्रिजटात्मसत्तर्पणम् । कैवल्यदो हरिश्चैव दास्येऽहं त्वत्-
स्वरूपताम् । त्वयि कैवल्यदं ज्ञानं धर्मकामार्थदं प्रिये! ।
वज्रहीनमिदं देवि! प्राप्नुयाद्वाञ्छितं फलम् । सवज्रे
म्रियते न्यूनं वज्राघातेन पार्वति! । तस्माच्च साधकेन्द्रेण
वज्रहीनं प्रदीयते” । धाणं गृहीत्वा यो गच्छेत्
सर्वसिद्धिमवाप्नुयात् । ऊर्द्ध्वं सुदर्शनं रक्षेदधः पशुपति-
स्तथा । पुरो माहेश्वरी रक्षेत् पृष्ठे च शूलधारिणी ।
दक्षपार्श्वे च श्रीनाथो वामपार्श्वे प्रजापतिः । चन्द्र
सूर्य्यौ धृतौ छत्रमहंवादकरौ सदा” । ज्ञानभैरव-
तन्त्रे ६ पटले । बिल्वशब्दस्य बर्ग्यबोपधत्वेऽपि मुद्रा-
क्षरे तादृशवर्ण्णा भावात् अन्त्यस्थबोपधत्वं पूजितं सर्वत्र
तस्याशुद्धत्वं बोध्यम् ।

बिल्वक न० १ तीर्थभेदे भा० अनु० २५ अ० । २ नागभेदे भा० आ० ३५ अ० ।

बिल्वकादि पु० “बिल्वादिभ्यश्छस्य लुक्” पा० उ क्ते छप्रत्यय

लुग्निमित्ते शब्दगणे स च पा० ग० उक्तो यथा
“बिल्व बेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण क्रुञ्चा
(ह्रस्वत्वञ्च) । तक्षन् (नलोपश्च)” बैल्वकीयायां भूमौ भवाः
वैल्बकाः तस्य लुक् न कुको निवृत्तिः ।

बिल्वकीय त्रि० बिल्वाः सन्ति यस्यां नडा० छ कुक्च । बिल्व-

युक्तभूमौ ततो बहुत्वे बिल्वका० छमात्रस्य लुक् ।

बिल्वज त्रि० बिल्वात् जायते जन--ड । मालूरजाते । बिल्वस्य

विषयः राजन्या० वुञ् । वैल्वजक तद्विषये ।

बिल्वतेजस् पु० नागभेदे भा० आ० ५७ अ० ।

बिल्वपत्र पु० १ नागभेदे भा० भी० १०२ । ६ त० २ मालूरस्य पत्रे

न० “बिल्बपत्रकृता पीड़े” दुर्गोत्सवपद्धतिः ।

बिल्वपाण्डर पु० नागभेदे भा० आ० ३५ अ० ।

बिल्वपेषिका स्त्री बिल्वस्य पेषः साधनत्वेन अस्त्यस्याः

ठन् । (वेलसुँठ) शुष्कबिल्बखण्डे राजनि० ।

बिल्ववन न० ६ त० । मालूरसमुदाये तस्य विषयः राजन्या०

वुञ् । बैल्ववनक तद्विषये ।

बिल्वा स्त्री० बिल--भेदने उल्वा० नि० । हिङ्गुपत्र्यां राजनि ।

बिल्वोदकेश्वर पु० । शिवभूर्त्तिभेदे तस्याविर्भवकथा हरिवं०

१३६ अ० ।

बिस क्षेपे दि० पर० सक० सेठ् । बिस्यति । इरित् अबिसत् अबेसीत् बिबेस ।

बिस न० विस--क । मृणाले अमरः ।

बिसकण्ठिका स्त्री बिसमिव कण्ठोऽस्याः कप् । बलाकायाम् अमरः ।

बिसकण्ठिन् पु० बिसमिव कण्ठोऽस्त्यस्य इनि । बले राजनि० ।

बिसकुसुम न० बिसस्थितं कुसुमम् शा० त० । कमले राजनि० ।

बिसप्रसून तत्रार्थे अमरः ।

बिसखा त्रि० बिसं मृणालं खनति खन--विट् ङा । मृणाल खननकर्त्तरि ।

बिसग्रन्थि पु० ६ त० । मृणालग्रन्थौ । तस्य जलकालुष्यनि-

वारकता सुश्रुते उक्ता यथा
“सप्त कलुषस्य प्रसाधनानि भवन्ति । तद्यथा कतकगोमे-
दकबिसग्रन्थिशैवालमूलवत्राणि मुक्तामणिश्चेति” ।

बिसनाभि स्त्री बिसं नाभिरिवास्याः । पद्मिन्यां त्रिका०

बिसनालिका स्त्री बिसस्य नालिकेव । मृणाले शब्दार्थ०

कल्प० । तस्य सच्छिद्रकनालत्वात् तथातम् ।

बिसल न० विस--कलच् । किसलये त्रिका० ।

पृष्ठ ४५७८

बिसवत् त्रि० विस + चतुरर्थ्यां मतुप् मस्य त्रः । मृणाल

युक्तादौ स्त्रिषां ङीप् ।

बिसवर्त्मन् पु० न० बिसाख्ये नेत्रवर्त्मगतरोगभेदे सुश्रुतः ।

“शून्यं यद्वर्त्म बहुभिः सूक्ष्मैश्छिदैः समन्वितम् ।
बिसमन्तर्जल इव विसवर्त्मेति तन्मतम्” ।

बिसिनी स्त्री विस + पुष्करा० इनि । १ पद्मिन्याम् अमरः ।

२ मृणालादियुक्ते देशे ३ तत्समुदये च ।

बिसिल त्रि० विस + चतुरर्थ्याम् काश्या० इल । मृणालसमीपादौ ।

बीभत्स त्रि० बन--निन्दायां स्वार्थे सन् कर्मणि घञ् । १ पापि-

नि २ जुगुप्सिते, ३ वृणाविषये च ४ तद्धेतौ त्रि० मेदि० ।
५ नाट्यादौ प्रसिद्धे जुगुप्सास्थायिभावके रसभेदे, पु० अमरः
तद्रसविषये ६ बिकृतमांसादौ त्रि० । “शृङ्गारहास्यकरुण-
रौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्त-
स्तथा मतः” रसानुद्दिश्य सा० द० लक्षितो यथा “जुपुप्सा-
स्थायिभावस्तु बोभत्सः--कथ्यते रसः । नीववर्णो
महाकान्तटैवतोऽयमुदाहृतः । दर्गन्धमांसपिशितमेदांस्यालम्बनं
मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् । निष्ठाव-
नास्यवन्त्रनेन्त्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथा
स्युर्व्यमिचारिणः । मोहापस्मरादिरोग । व्याधिश्च
मरणादयः” तन्निरुक्तिः । ७ अर्जुने पु० मेदि० ।

बीभत्सु पु० बध--निन्दने स्वार्थे सन् उ । १ अर्जुने । भा०

वि० ४४ अ० अस्यनिरुक्तिव अन्यथोक्ता यथा
“न कुर्य्यां कर्म बीभत्सं युध्यमानः कथञ्चनः तेन देवम-
नुष्येषु बीभत्सुरिति विश्रुतः” । बीभत्सुरिति भदि कल्याणे
सुखे चेत्यस्य सनि रूपम्” नीलक० । तत्र पृषो०
इटोऽभावो नलोपश्च । अन्ये तु बीभत्सकर्मरहितत्वात्
विरोधिलक्षणया तन्निन्दनकारित्वाद्वा तथात्वमित्याहुः ।

बुक त्रि० बुक--अच् पृषो० उपधालोपः । भषणशब्दकारके ततः

प्रेक्ष्या० चतुरर्थ्याम् इनि । बुकिन् भषणशब्दकारकस-
मीपादौ त्रि० ।

बुक्क कुक्कु रादिशब्दे कथने च वा चु० उभ० पक्षे म्बा० पर० सक०

सेट् । बुक्कयति ते बुक्कति अबुबुक्कत् त इरित् अवुक्वत्
अबुक्कीत् । “कथने चुरा० कश्वादिशब्दे तु भ्वा०” रमानाथः ।

बुक्क न० बुक्व अच । १ हृदयस्थे मांसपिण्डे २ अग्रमांसे ३ हृदये

च अमरः अस्य स्त्रीत्वमपि स्त्रीत्वे टाप् गौ० ङीष् वा ।
“बुक्वाथातैर्युबतिनिकटे प्रौढ़वाक्येन राधा” उद्भटः ।
४ छागे पु० (बोका) त्रिका० । ५ समने च पु० । ६ शोणिते भरतः
स्त्री टाप् । ५ पी० बूक्कबुक्के अपि हृदये ।

बुक्कन न० बुक्व--भावे ल्युट् । भषणे कुक्करादिशब्दे

बुक्कन् पु० बुक्व--कनिन् । बुक्कशब्दार्थे भरतः ।

बुक्कस पुंस्त्री० पुक्वस + पृषोदरादि । चण्डाले हेमचन्द्र ।

बुक्काग्रमांस न० ६ त० । हृदयस्थे मांसपिण्डाकारे अग्रमासे रायमुकुटः ।

बुक्वार पु० बुक्कं भषणमृच्छति ऋ--अण् । सिंहध्वनौ हारा०

बुट हिसायां चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । बोटयति

ते । बोटति । अबुबुटत्--त । अवोटीत् ।

बुड त्यागे संवरणे च तु० कुट्० सक० सेट् । बुडति अबुडीत् बुबोड़

बुड़िल पु० तुदा० बुड--इलच् । अश्वतराश्वापत्ये राजभेदे छा०

उ० ५ । १० । १ ।

बुद निशामने (आलोचने) भ्वा० उ० सक० सेट् ।

बोदति ते । इरित् अबुदत्--अबोदोत् अबोदिष्ट । उदित्क्त्वा वेट् ।

बुद्ध पु० बुध क्त । १ भगवतोऽवतारभेदे येन वेदतत्कर्मणोर्निन्दा-

कृता । २ जानरिते, ३ ज्ञातवति च त्रि० । ४ षण्डिते पु० मेदि० ।
युद्धश्च विष्णोः चतुर्विशत्यवतारभध्ये एकविं नोऽततारो
यथोक्तं “ततः कलौ संप्रकृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाऽञ्जनसुतः कीकटेषु भविष्यति” भाग० स्क० ।
बुद्धेन प्रोक्तम् अण् तद्वेति अण् । बौद्धप्रोक्तशास्त्रे
तदभित्ते च त्रि० । तद्दर्शनभेदतन्मतादिकं सर्वद० दं० दर्शितं
यथा “अत्र बीर्द्धरभिधीयते यदभ्यधायि अविनाभावो दुर्बोध
इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य
सुज्ञानत्वात् । तदुक्तम् “कार्य्यकारणभावाद्वा स्वभावाद् वा
नियामाकात् । अबिवाभावनियमो दर्शनान्तरदर्शनादिति”
अन्वयव्यतिरेकावविनाभावनिश्चायकाविति । ननु पक्षे
साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्, भविष्यति,
भूते अनुपलभ्यमाने च व्यभिचारशङ्काया अनिवार-
णात् । ननु तथाविधस्थले तावकेऽपि मते व्यभि-
चारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापि
कारण कार्य्यमुत्पद्यतामित्येवंविधायाः शङ्काया
व्याधातावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत यस्मि-
न्नाशङक्यमाने व्याघातादयो नावतरेयुः तदुक्तम् ।
“व्याघातावधिराशङ्केति” तस्मात् तदतपत्तिनिश्चयेन
अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः प्रत्यक्षो-
पलम्भानुपलम्भपञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनु-
पलम्भः १ कारणोपलम्भे २ सत्युपलम्भः ३ उपलब्धस्य पश्चात्
कारणानुपलम्भात् ४ अनुपलम्भ ५ इति पञ्चकारण्या धूमधूम-
ध्वजयोः कार्य्यकारणभावो निसीयते । तथा तादात्म्यनि-
सयिनाप्यविनाभावो निसीयते यदि शिंशपा वृक्षत्वमतिपतेत्
स्वात्मानमेव ब्रह्मादिति विपक्षे वाधकप्रवृत्तेः । अप्रवृत्ते
पृष्ठ ४५७९
तु बाधके भूयःसहभावोपलम्भेऽपि व्यभिचारशङ्कायाः
को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो
वृक्षोऽर्यं शिंशपेति सामानाधिकरण्यबलादुपपद्यते ।
न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि
प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरिवानुपलम्भात् ।
तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इति
सिद्धम् । यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात्
तं प्रतिव्रूयात् अनुभानं न भवतीत्येतावन्मात्रं प्रमाणं तत्र
न किञ्चन साधनमुपन्यस्यते उपन्यस्यते वा । न प्रथमः
एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेष्टिति न्यायात् ।
नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेन
त्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद्
व्याघातापातात् । किञ्च प्रमाणतदामासव्यवस्थापनं
तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावा-
नुमानम् । परगता विप्रतिपत्तिस्तु वचनलिङ्गेनेति
ब्रुवता कार्य्यलिङ्गकमनुमानम् । अनुपलद्ध्या कञ्चिदर्थं
पातषधयतानुपलब्धिलिङ्गकमनुमानम् । तथाचोक्तं
तथागतैः “प्रमाणान्तरसामान्यस्थिरत्वान्यधियां गतेः । प्रमा-
णान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति” पराक्रान्तञ्चात्र
सूरिभिरिति ग्रन्थभूयस्त्वभ्यादुपरम्यते । ते च बौद्धा-
चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । ते च
माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा
बौद्धा यथाक्रमं सर्वशून्यत्व--बाह्यशून्यत्वबाह्यर्थानुमेयत्व
बाह्यार्थप्रत्यक्षत्रवादानातिष्ठन्ते । यद्यपि भगवान् बुद्ध
एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातु-
र्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचाना-
दयः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिस-
मयं बुध्यन्ते । सर्वं क्षणिकं क्षणिकम्, दुखं दुःखं,
स्वलक्षणं स्वलंक्षणं, शून्यं शन्यमिति भावनाचतुष्ट
पमुपदिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं भीलादिक्षणानां
सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधर
पटल सन्तश्चामी भावा इति । न चायमसिद्धो हेतुः अर्थ
क्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्ष
सिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापक
फमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाञ्च ।
तच्चार्थाक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमा-
क्रमाभ्यामन्यः प्रकारः समस्ति “परम्परविरोधे हि न प्रका-
रान्तरस्थितिः । नैकताप्रि विरुद्धानामुक्तिमात्रविरोधतः”
इति न्यायेन व्याथातस्योद्भटत्वात् । तौ च क्रमाक्रमौ
स्थायिनः सकाशाद् व्यावर्त्तमानौ अर्थक्रियामपि व्याव-
र्त्तयन्तौ क्षणिकत्वपक्ष एव सत्तं व्यवस्थापयत इति
सिद्धम् । नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति
चेत् तदयुक्त विकल्पासहत्वात् तथा हि वर्त्तमानाथ-
क्रियाकरणकाले अतीतातागतयोः किमर्थक्रिययोः
स्थायिनः सामर्थ्यमस्तिः? नो वा? आद्ये तयोरनिरा०
करणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करण-
समर्थं तत् तदा तत्करोत्येव यथा समग्री स्वकार्य्यं
समर्थश्चायं भावः इति प्रसङ्गानुमानाच्च । द्वितीयेऽपि
कदापिनि कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारि-
त्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थं
यथा हि शिलाशकलमङ्कुरे, न चैष वर्त्तमानार्थक्रिया०
करणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये करोतीति
तद्विपर्य्ययाच्च । ननु क्रमवत्सहकारिणः स्थायिनः
अतीतानागतयोः क्रमेण क्रमणमुपपद्यते इति चेत्
तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं
भावस्योपकुर्वन्ति? न वा? न चेत् नापेक्षणीयास्ते
अकिञ्चित्कुर्वतां तेषां तादर्थ्यायोगात् । उपकारकत्वपक्षे
सोऽयमुपकारः किं भावाद्भिद्यते? न वा? भेदपक्षे
आगन्तुकस्यैब तस्य कारणत्वे स्यात् न भावस्याक्षणि-
कस्य, आगन्तुकातिशयान्ववव्यतिरेकानुविधायित्वात्
कार्य्यस्य । तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति
तयोः फलम्? । चर्मोपमश्च सोऽनित्यः खतुल्यश्चेदसत्-
फल इति” । अथ भावस्तैः सहकारिभिः सहैव कार्य्यं
करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहारिणो
न जह्यात् प्रत्युत पलायमानानपि पाशेन बद्घा कृत्यं
कार्य्यं कुर्य्यात् स्वभावस्यानपायात् । किञ्च
सहकारिजन्योऽतिशयः किमतिशयान्वरमारभते न वा
उभयथापि प्रागुक्तदूषणपापाणवर्षणप्रसङ्गः । अतिशयान्त-
रारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशये
जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापात
इत्येकानवस्थाऽऽस्थेया, तथाहि सहकारिभिः सलिल-
पवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशंये
वीजमुत्पादकमभ्यु पेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भ-
येत् वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधच
अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रस-
ज्येत । तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरद्वि-
पृष्ठ ४५८०
शयान्तरमाधेयं वीजे, तस्मिन्नत्युपकारे पूर्वन्यायेन
सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसम्पा-
द्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता । अथोप-
कारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्य्यं
जनयति तत्सापेक्षो वा । प्रथमे वीजादरहेतुत्वमाप०
तेत् । द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे
अतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्याति-
शयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा
भवेत् । एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युप-
कारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशय-
परम्परापात इति तृतीयानवस्था दुरवस्था स्यात् ।
अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्य-
भ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः
अन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति
कलितं ममापि मनोरथद्रुमेण । तस्मादक्षणिकस्यार्थ-
क्रिया दुर्घटा । नाप्यक्रमेण घटते विकल्पासहत्वात् ।
तथा हि युगपत्सकलकार्य्यकरणसमर्थः स भावस्तदुत्तर-
कालमनुवर्त्तते न वा । प्रथमे तत्कालवत् कालान्तरेऽपि
तावत्कार्य्यकरणमापतेत् । द्वितीये स्थायित्ववृत्त्याशा
मूषिकभक्षितवोजादावङ्करादिजननप्रार्थनामनुहरेत् । यत्
विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे । विरुद्ध-
धर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चाय
मसिद्धो हेतुः, स्थायिनि कालभेदेन सामर्थ्यासाम-
र्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वान् तत्रासामर्थ्यसाधकौ
प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेते
यद्यदा यज्जननासमर्थं तत् तदा तन्न करोति यथा
शिलाशकलमङ्कुरम् असमर्थश्चायं वर्त्तमानार्थक्रिया-
करणकाले अतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः
यद्यदा यत् करोति तत् तदा तत्र समर्थं यथा
सामग्रो स्वकार्य्येति, करोति चायमतीतानागतकाले
तत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः
विपर्ध्ययः । तस्माद् विपक्षे क्रमयौगपद्यव्यावृत्त्या व्याप-
कानुपलम्भेनाधिगतव्यतिरेकव्याप्तिक प्रसङ्गतद्विप-
र्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्व-
पक्ष एव व्यवस्थास्यतीति सिद्धम् । तदुक्तं ज्ञान-
श्रिया “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च
भावा अमी सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु
सिद्धा न सा । नाप्येकैव विधाऽन्ययः परकृतेनापि
क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च
विश्राम्यतीति” । न च कणभक्षाक्षन्वरणादिपक्षकक्षी-
कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं
सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र
स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयोजकगौरवा-
पत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च, सर्षपमही-
धरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्र-
वद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं
सर्वगतं स्वाश्रयसर्वगतं वा प्रथमे सर्ववस्तुसङ्करप्रसङ्गः
अपसिद्धन्तापत्तिश्च यतः प्रोक्तं प्रशस्तपादेन “स्वविषय-
सर्वगतमिति । किञ्च विद्यमाने घटे वर्त्तमानं सामा-
न्यमन्यत्र जायमानेन संबधमानं तस्यादागच्छत्
मबध्यते अनागच्छत् वा आद्ये द्रव्यत्पापत्तिः द्वितीये
सम्बन्धानुपपत्तिः । किञ्च विनष्टे घटे सामान्यमत्रति-
ष्ठते, विनश्यति, स्थानान्तरं गच्छति वा प्रथमे निरा-
धारत्यापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीये
द्रष्टव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्य-
मप्रामाणिकम् । “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थान-
जन्मनि । तस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तता ।
यत्रासौ वर्त्तते भावस्तेन संबध्यते न तु । तद्देशिनञ्च
ध्याप्नोति किमप्येतन् महाद्भुतम् । न याति न च
तत्रासीदस्ति पश्चान्नचांशवत् । जहाति पूर्वं नाधार-
महो व्यसनसन्ततिरिति” अनुवृत्तप्रत्ययः किमालम्बन
इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमा-
युष्मतेति अलमतिप्रसङ्गेन । सर्वस्य ससारस्य दुःखा-
त्मकत्वं सर्वतीर्थकरसम्मतम् अन्यथा तन्निविवर्त्तयिषूणां
तेषां तन्निवृत्युपाये प्रवृत्त्यनुपपत्तेः । तस्मात् सर्वं
दुःखं दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे
दृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानां
क्षणिकतया सालक्षण्याभावात् नैनेन सदृशमपरमिति
वक्तुमशक्यत्वात् । ततः स्वलक्षणं स्वलक्षणमिति
भाविनीयम् । एवं शन्यं शून्यमपि मावनीयं स्वप्ने
जागरणे च न मया दृष्टमिदं रजतादीति विशिष्ट-
निषेघस्योपलम्भात् । यदि दृष्टं सत् तदा तद्विशिष्टस्य
दर्शनखेदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य
रजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् न
चैतदिष्टं कस्यचिद् वादिनः । न चार्द्धजरतीयसुचितं
स हि कुक्कुट्या एको भागः पाकाय अपरो भागः प्रस-
पृष्ठ ४५८१
वाय कल्प्यतामिति कल्प्यते । तस्मादध्यस्ताधिष्ठान-
तत्सम्बन्धदर्शनद्रष्टृणां मध्ये एकस्यानेकस्य वा
असत्त्वे निषेधविषयत्वेन सर्वस्यासत्त्वं बलादापतेदिति ।
  • (माध्यमिकाः) भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थ-
मचीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान-
मुखेन स्थायित्वानुकूलेवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्याव-
र्त्तनेन सर्वशून्यतायामेव पर्य्यवसानम् । अतस्तत्त्वं
सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । तथा हि
यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम् ।
असत्त्वं सवभाव इति पक्षे प्राचीन एव दोषः प्रादुः
ष्यात् । यथोक्तम् “न सतः कारणापेक्षा व्योमादेरिव
युज्यते । कार्य्यस्यसम्भवो हेतुः खपुष्पादेरिवासतः” इति
विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता लङ्कारतारे
“बुद्ध्या विविच्यमानानां स्वमावो नावधार्य्यते । अतो
निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः” इति । “इदं वस्तु
बलायतं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते
विशीर्य्यन्ते तथा तथेति” च । न क्वचिदपि पक्षे
व्यवतिष्ठत इत्यर्थः । दृष्टार्थव्यवहारश्च न स्वप्नव्यवहार-
वत् संवृत्त्या सङ्गच्छते । अतएवोक्तन्न “परिव्राट्कामुक
शुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति
तिस्रो विकल्पना इति ।” तदेवं भावनाचतुष्टयवशान्नि-
खिलवासनानिवृत्तौ निर्वाणं शून्यरूपं सेत्स्यतीति
वयं कृतार्थाः नास्माकसुपदेश्यं किञ्चिदस्तीति । शिव्यै-
स्तावद्योगश्चाचारश्चेति द्वयं करणीयम् । तत्रापाप्त-
स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्तस्यार्थस्याङ्गीकर-
णमाच्चारः गुरूक्तस्याङ्गीकरणादुत्तमाः पर्य्यनुयोगस्या-
करणादपमाश्च अतस्तेषां माध्यमिका इति प्रसिद्धिः ।
  • (योगाचाराः) गुरूक्तमावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं
चाङ्गीकृत्याऽऽन्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति?
पर्य्यनुयोगस्य करणात् केषाञ्चिद् योगाचारप्रथा एषा
हि तेषां परिभाषा स्वयंवेदनं तावदङ्गीकार्य्यम् अन्यथा
जगदान्ध्यं प्रसज्येत । तत्कीर्त्तितं धर्म्मकीर्त्तिना
“अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति ।” वाह्यं
ग्राह्यं नोदपद्यत एव विकल्पानुपपत्तेः । अर्थो ज्ञान-
ग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्प
न्नम्भ स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात् ।
अथमन्येथाः अतीत एवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति
तदपि बालमाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया-
देरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः कि परमाणु-
रूपोऽर्थः अवयविरूपो वा । त चरमः कृत्म्रैकदेशवि-
कल्पादिना तन्निराकरणात् । न प्रथमः अतीन्द्रियत्वात्
षट्केन युगपद्योगस्य बाधकत्वाच्च । यथोक्तम् “षट्केन
युगपद् योगात् परमाणोः षडंशता । तेषामप्येकदेशत्वे
पिण्डः स्यादणुमात्रकः” इति । तस्मात् स्वव्यतिरिक्त-
ग्राह्यविरहात्तदात्मिफा बुद्धिः स्वयमेव स्वात्मरूपपका-
शिका प्रकाशवदिति सिद्धम् । तदुक्तम् “नान्योऽनुभाव्यो
बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्य्यात्
स्वयं सैव प्रकाशते इति ।” ग्राह्यग्राहकयोरभेदश्चानु-
मातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा
ज्ञानेनात्मा, वेद्यन्ते तैश्च नीलादयः । भेदं हि सत्य-
धुना अनेनार्थस्य सम्बन्धितं न स्यात् तादात्म्यस्य
नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्य-
ग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि
द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा
भेदवामनैव निमित्तम् । यघोक्तम् “सहोपलम्भनियमा-
दभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दा-
विवाद्वये” इति । “अविभागोऽपि बुद्ध्यात्मा विपर्यासित-
दर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति च ।
न च रसवीर्य्यविपाकादिसमानमाशामोदकोपार्जितमो-
दकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकार-
विधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न-
ग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशे-
न्द्रनाड़ीज्ञानाभेदवदनाद्युपप्लवबासनासामर्थ्याद् व्यवस्थो-
पपत्तेः पर्य्यनुयोगायोगात् । यथोक्तम् “अवेद्यवेदका-
कारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राह-
काकारविप्लवा । तथा कृतय्य्वस्थेयं केशादिज्ञानभेद-
वत् । यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति”
तस्माद् बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति
सिद्धम् १ ततश्च प्रागुक्तभावनाप्रचयबलान्निखिलवास-
नोच्छेदविगलितविवधविषयाकारोपप्लवविशुद्धविज्ञानोदयो
महोदय इति ।
  • (सौत्रान्तिकाः) अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तु-
जातं नास्तीति तदयुक्त प्रमाणाभावात् । न च
सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयो-
रभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्ध-
विपक्षव्यावृत्तिकत्वात् । ननु भेदे महीपलम्भनियमात्मकं
पृष्ठ ४५८२
साधन न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतथा च
भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्व-
नियमासम्भवाच्च नीलार्थस्य ज्ञानाकारत्वे अहमिति
प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययाव्य-
तिरेकात् । अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो
भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राह-
मुल्लेख इति यथोक्तम् “परिच्छेदान्तराद् योऽयं भागो
बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्यु-
पप्लवः” इति । “यदन्तर्ज्ञेयतत्त्वं तद् वहिर्वदवभासत इति
च”--तदयुक्तं बाह्यार्थाबावे तदुत्पत्तिरहिततया बहिर्व-
दित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदब-
भासत इति प्रेक्षावानाचक्षीत । भेदप्रतिभासस्य भ्रान्तत्वे
अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रति-
भासस्य भ्रान्तत्वमिति परस्पराअश्रयप्रसङ्गाच्च । अविसंवा-
दान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्यु-
पेक्षन्ते चान्तरमिति व्यवस्थादर्शनाच्च । एवञ्चायमभेद-
साधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतो
चहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति
भवदीय एव वाणो भवन्तं प्रहरेत् । ननु ज्ञानाभि-
न्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम्
इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकार-
समर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोप-
पत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम् ।
“भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः ।
हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति” तथा च
यथा पुष्ट्या भोजनमनुमीयते यथा च भाषया देशः
यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनु-
मेयम् । तदुक्तम् “अर्द्धेन घटयत्येनां न हि मुक्त्वाऽ-
र्द्धरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप-
तेति” न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व-
त्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं घटये-
दिति च । तथा च बाह्यार्थसद्भावे प्रयोगः ये
यस्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः
यथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रति-
भासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा
च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने
कदाचिदेव नीलाद्युल्लेखना इति । तत्रालयविज्ञानं
नामाहमास्पदं विज्ञानं, नीलाद्यल्लेखि च प्रवृत्ति-
विज्ञानम् । यथोक्तम् “तत् स्यादालयविज्ञानं
यद्भवेदहमास्प्यदम् । तत् स्यात् प्रवित्तिविज्ञानं यन्नी-
लादिकमुल्लिखेदिति” तस्मादालयविज्ञानसन्तानातिरिक्तः
कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव
न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचि-
दुत्पाद इति वेदितव्यम् । विज्ञानवादिनये हि
वासनानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्ति-
जननशक्तिः तस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यं
परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्वक्षणः
कक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात् । ततश्च
प्रवृत्तिज्ञानजननालयविज्ञानवृत्तिवासनापरिपाकं प्रति
सर्वऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्त-
व्यम् । न चेदेव कोऽपि न समर्थः स्यादालयविज्ञान-
सन्तानवर्त्तित्वाविशेषात् । सर्वे समर्था इति पक्षे कार्य्य-
क्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्श-
रूपरसगन्धविषयाः सुखादिविषयाः षड़पि प्रत्ययाश्चतुरः
प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चत्रेणानिच्छताप्यच्छ-
मतिना स्वानुभवमानाच्छाद्य परिच्छेत्त्यव्यम् । ते चत्वारः
प्रत्ययाः आलम्बनसमन्तरसहकार्य्यधिपतिरूपाः तत्र
ज्ञानपदवेदनीयस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला-
कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद्
बोधरूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपति-
प्रत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य ज्ञानस्य
रसादिसाधारण्यप्राप्तेर्नियमकं चक्षुरधिपतिर्भवितुमर्हति
लोके नियामकस्याधिपतित्वोपलम्भात् । एवं चित्तचैत्ता
त्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि ।
एवं चित्तचैत्तात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना-
संज्ञासंस्कारसंज्ञकः । तत्र अरूप्यन्ते एभिर्विषया इति
च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः ।
आलयविज्ञानप्रवृत्तिबिज्ञानप्रवाहो विज्ञानस्कन्धः । प्रागुक्त-
स्कन्धद्वयअम्बन्धजन्यः सुखदुःखादिप्रत्ययपवाहो वेदना
स्कन्धः । गौरित्यादिशब्दल्लि खिसविज्ञानप्रवाहः संज्ञा-
स्कन्धः । वेदनास्कन्धनिबन्धना रामद्वेषादयः क्लेशा
उपक्लेशाश्च मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः ।
तदिदं सर्वं दुखं दुःखस्यायतनं दुःखसाधनञ्चेति
भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं सम्पादयेत् । अत
एवोक्तं “दुःखसमुदायनिरोधमार्गाश्चत्वारः बुद्धाभिमतानि
तत्त्वानि” । तत्र दुःखं प्रसिद्ध्वं, समुदायो दुःखकारण,
पृष्ठ ४५८३
तद् द्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च । तत्र
प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् “इदं कार्य्यं
ये अन्ये हेतवः प्रत्ययन्ति” गच्छति तेषामयमानानां हे
तूनां भावः प्रत्ययत्वं, कारणसमवायः तन्मात्रस्य फलं, न
चेतनस्य कस्यचिदिति सूत्रार्थः । यथा वीजहेतुरङ्कुरो
धातूनां षण्णां समवायाज्जायते । तत्र पृथिवीधातुरङ्कुरस्य
काठिन्यं गन्धञ्च जनयति, अब्धातुः स्नेहं रसञ्च
जनयति, तेजोधातुः रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनं
चलनञ्च, आकाशधातुरवकाशं शब्दञ्च ऋतुधातुर्यथा-
योगं पृथिव्यादिकम् । हेतूपनिबन्धनस्य च संग्राहकं
सूत्रम् “उत्पादाद् वा तथागतानामनुत्पादाद् वा स्थितै-
वैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता
च प्रतीत्य समुत्पादानुलोमतेति” । तथागतानां बुद्धानां
मते धर्माणां कार्य्यकारणरूपाणां या धर्मता कार्य्य-
कारणभावरूपा एषोत्पादादनुत्पादाद् वा स्थिता,
यस्मिन् सति यदुत्पद्यते तत् तस्य कारणस्य कार्य्य-
मिति धर्मतेत्यस्य विवरणं, धर्मस्य कार्य्यस्य कारणा-
नतिक्रमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः । धर्मस्य
कारणस्य कार्य्यं प्रति नियामकता । नन्वयं कार्य्य-
कारणभावश्चेतनमन्तरेण न सम्भवतीति अत उक्तं
कारणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता
अनुसारिता या सैव धर्मता उत्पादादनुत्पादाद् वा
धर्धाणां स्थिता । न चात्र कश्चिच्चेतनोऽधिष्ठातोपलभ्यत
इति सूत्रार्थः । यथा प्रतीत्य समुत्पादस्य हेतूपनि-
बन्धः वीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो
नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम् । न चात्र
षाह्ये समुदाये कारणं वीजादि कार्य्यमङ्कुरादि
चेतायते अहमङ्कुरं निर्वर्त्तयामि अहं वीजेन निर्वर्त्तित
इति । एवमध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम् ।
पुरःस्थिते प्रमेयाब्धौ ग्रन्थविस्तरभियोपरम्यते ।
तदुभयनिरोधः तदनन्तरं विमलज्ञानोदयो वा मुक्तिः
तन्निरोधोपायो मार्गः स च तत्त्वज्ञानं तच्च प्राचीन-
भावनाबलाद् भवतीति परमं रहस्यम् । सूत्रान्तं
पृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रा-
न्तिका भवन्त्विति भगवताभिहिततया सौत्रान्तिकसंज्ञाः
सञ्जाताः ।
  • (वैभाषिकाः) केचन बौद्धाबाह्येषु रूपादिषु आन्तरेषु सखादिषु
स्कन्धषु सत्स्वपि तत्रानास्थामुत्पादयितु सर्वं शून्य-
मिति, प्राथमिकान् विनेयानचीकथत् भगवान्,
द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं
सदिति, तृतीयानुभयं सत्यमित्यास्थितान् विज्ञेयमनु-
मेयमिति, सेयं विरुद्धा भाषेति वर्णयन्तो वैभापि-
काख्यया ख्याताः । एषा हि तेषां परिभाषा समुन्मि-
षति । विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्या-
ऽभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तिः
सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः ग्रा-
ह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं
कल्पनापोढत्वात्, अध्यवसायः सविकल्य करूपोऽप्रमाणं
कल्पनाज्ञानत्वात् । तदुक्तम् “कल्पनापोढ़मभ्रान्तं
प्रत्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादा-
दुपप्लवः” इति । “ग्राह्यं वस्तु प्रमाणं हि ग्रहणं
यदितोऽन्यथा । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिज-
मिति च” ननु सविकल्पकस्याप्रामाण्ये कथं गतः
प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं
मणिप्रभाविषयमणिविकल्पन्यायेन पारपम्पर्य्येणार्थप्रति-
लम्भसम्भवेन तदुपपत्तेः । अवशिष्टं सौत्रान्तिकप्रस्तावे
प्रपञ्चितमिति नेह प्रतन्यते । न च विनेयाशयानु-
रोधेनोपदेशभेदः साम्प्रदायिको न मवतीति भणित्यव्यं
यतो भणितं बोधचित्तविवरणे “देशना लोकनाथानां
सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायै-
र्बहुमिः किल । गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः ।
भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणेति ।
द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम् । “अर्था-
नुपार्ज्य बहुशो द्वादशायतनानि वै । परितः पूजनी-
यानि किसन्यैरिह पूजितैः । ज्ञानेन्द्रियाणि पञ्चैव
तथा कर्मेन्द्रियाणि च । मनोबद्धिरिति प्रोक्तं द्वादशा-
यतनं बुधैरिति” । विवेकविलामे बौद्धमतमित्थमध्य-
धायि । “बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम् ।
आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् । दुःखमा-
यतनञ्चैव ततः समुदयो मतः । मार्गचेत्यस्य च व्याख्या
क्रमेण श्रूयतामतः । दुःखं संसारिण स्कन्धास्ते च
पञ्च प्रकीर्त्तिताः । विज्ञानं येदना संज्ञा संस्कारो
रूपमेव च । पञ्चेन्द्रियाणि शब्दाद्या विषयः पञ्च
मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु । रागा-
दीनां गणोऽयं स्यात् ममुदेति नृणां हृदि । आत्मा-
त्मीयस्वभावाख्यः स स्यात् समुदयः पुनः । क्षणिकाः
पृष्ठ ४५८४
सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति
विज्ञेयः स च मोक्षोऽभिधीयते । प्रत्यक्षमनुमानञ्च
प्रमाणद्वितयं तथा । चतुःप्रस्थानिका बौद्धाः ख्याता
वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकैश्च बहुम-
न्यते । मौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ।
आकारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां
संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः । रागादिज्ञान-
सन्तानवासनाच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्ति-
रेषा प्रकीर्त्तिता । कृत्तिः कमण्डलुर्मौण्ड्यं चोरं
पूर्वाह्णभोजनम् । सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्ध-
भिक्षुभिरिति” ।

बुद्धगया स्त्री (बुधगया) प्रसिद्धे कीकटस्थे बुद्धानां गयाभेदे ।

बुद्धद्रव्य न० स्तौपिके स्तूपीकृते द्रव्ये त्रिका० ।

बुद्धधर्म्म पु० ६ त० । बुद्धानामहिंसादौ धर्मे ।

बुद्धपुराण न० बुद्धस्याविर्भावादिज्ञापके पुराणभेदे ।

बुद्धान्त पु० बुध--भाये क्त तस्यान्तः परिच्छेदः । जीवस्यावस्था-

भेदे जाग्रदवस्थायाम् शत० व्रा० १४ । ७ । ११ । ८ ।

बुद्धि स्त्री० बुध--क्तिन् । १ ज्ञाने, २ सुखदुःखाद्यष्टबिध-

धर्मयुते प्रकृतिपरिणामभेदे “महत्तत्त्वमिति प्रोक्तं बुद्धि-
तत्त्वं तदुच्यते” सां० प्र० भा० धृतवाक्यम् । वेदान्तोक्ते
निश्चयात्मकवृत्तियुते ३ अन्तःकरणे च । “मनोबुद्धिरह-
ङ्कारश्चित्तं करणयान्तरम् । संशयो निश्चयो गर्बः स्मरणं
विषया अमी” वेदान्तप० । ४ धर्मपत्नीभेदे भा० आ० ६६ अ० ।
कणा० सूत्रोपस्करवृत्तौ सांख्यमतसिद्धमहत्तत्वरूपबुद्धितत्व-
निराकरणेन बुद्धेर्ज्ञानपर्य्यायता तद्भोदाश्चोका यथा “द्र-
व्येषु ज्ञानं व्याख्यातम्” सू० “विषयेण तिषयिणं तृतीया-
ध्यायस्थमुपलक्षयति । “इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्था
न्तरस्य हेतुः” “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते
तदन्यत्र” इत्येताभ्यां सूताभ्यां ज्ञानं व्याख्यातमित्यर्था” । तत्र
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः” गौ० सू० समान-
तन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्थ्यायाभिधानम् ।
साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमाचक्षते तथा हि सत्त्व-
रजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव पुरुषास्तु परं
भिद्यन्ते ते च कूटस्था नित्या अपरिणाभिनो नित्यचैतन्य-
स्वभावाः ते च पङ्गवोऽपरिणामित्वात् पकृतिस्त्वन्धा जड़-
वात यदा विषयभोनेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृते-
र्भवति तदा सा पुरुषोपरागवशात् परिणमेत् तस्याश्चाद्यः
गरिणामो द्धिरन्तःकरणविशेषः बुद्धिरेव महत्तत्र तदु-
क्तम् “प्रकृतेर्सहान्” इति सां० सू० । सा च बुद्धिर्दर्पणवान्न
र्मला तस्याश्च बहिरिन्द्रियप्रणाड़िकया विषयाकारो यः
परिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञानं वृत्ति-
रिति चाख्यायते खच्छार्या बुद्धौ वर्त्तमानेन ज्ञानेन
चैतज्यस्य पुरुषस्य भेदाग्रहादहं जानामीति यौऽभिमानविशेषः
सैवोपलब्धिः । स्रक्चन्दनादिविषयसन्नि कर्षादिन्द्रियप्रणा-
ड़िकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषः
स प्रत्ययः । अतएव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारध-
र्माऽधर्माः सर्वएव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया
प्रकृतावे वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति
च । पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिविम्बते परं बुद्धा-
वितिं यन्मन्यन्ते । तदनेन पर्य्यायाभिधानसूचितप्रमाणेन
निराक्रियते तथा हि बुद्धिशब्दो यदि बुध्यतेऽनयेति
करणव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति नच मनः प्रत्यक्षम्
बुद्धिस्त्वहं बुध्ये इति प्रत्यक्षवेद्यैव । नचान्तःकरणस्य ज्ञाना-
द्याधर्मा कर्तृधर्मत्वेनैव तेषां सिद्धेः भवति हि अहं जाने
अहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येन
प्रतिभासः । अभिमानोऽसाविति चेत् तात्त्विकत्वे वाधका-
भावात् । पुरुषस्यागन्तुकधरानाधारत्वं कूटस्थत्वं तदेव
बाधकमिति चेन्नामन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात्
न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेव
धर्म्युत्पादविनाशौ स्यातां तथा च यएव चेतायते स एव
बुध्यते जानात्युपलभ्यते पत्येति चेति नार्थान्तरकल्पना
युक्तेति दिक् । तच्च ज्ञानं द्विविधं विद्या चाविद्या च
विद्या चतुर्व्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । अवि०
द्याऽपि चतुर्व्विधा संशयविपर्य्ययस्वप्नानध्यावसायलक्षणा ।
तत्र यल्लैङ्गिकं तदनिन्द्रियजम् कुतएतदित्याह”
उप० वृ० । “तत्रात्मा मनश्चाप्रत्यक्षे” कणा० सू० ।
“आत्माऽत्र परात्मा स्वात्मा वा खात्मनि मानसस्य क्वा०
चित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरिव्यादि
प्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता । चकारादा-
काशकालदिशां षायोः परमाणूनाञ्च द्रव्याणामुपग्रहः ।
इन्द्रियजमपि द्विविधं सर्वज्ञीयमसर्वज्ञीयञ्च सर्वज्ञीयं
योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं तथा हि
परमाणवः प्रत्यक्षप्रसक्ताः प्रमेयत्वादभिधेयत्वात्
सत्त्वात् । सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षं
प्रति कारणत्वात् न च परमाणवो महन्तः रूपवत्त्व-
स्यापि चाक्षुषप्रत्यक्षकारणत्वात् न च दिगादयो रूपवन्त
पृष्ठ ४५८५
इति चेन्न योगजधर्मसहकारिणा मनसैव तत्सम्भवात्
तदुपग्रहाच्चक्षुरादिना वा । अचिन्त्यप्रभावोहि योगजो
धर्मो न सहकार्य्यन्तरमपेक्षते । विवादाध्यासितः पुरुषो
न सर्वज्ञः पुरुषत्वादहमिवेत्यादि तु प्रामाकरो न मीमां-
साभिज्ञः पुरुषत्वादहमिवेत्यादिवद्विपक्षबाधकतर्कशून्य-
त्वादप्रयोजकम् । असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं सविकल्पकं
निर्विकल्पकञ्च सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्ति-
दिङ्नागादयः तथा हि अभिलापर्ससगेयोग्यप्रतिभासं
हि तत् नह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येन
घट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात्
नच जात्यादि परमार्थसत् येन तद्वैशिष्ट्यं बिषयेषु इन्द्रिय
गोचरः तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्ना
च सबिकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमिति
चोच्यते इति । तच्चैतदनुपपन्नमभिलापसंसर्गयोग्यप्रति-
भासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादिति
सन्दिग्धव्यतिरेकित्वं नामवैशिष्ठ्यञ्च चाक्षुषज्ञाने सम्भव-
त्येव सुरभि चन्दनमितिवदुवनीतभानसम्भवात् । यद्वा
संज्ञावैशिष्ठ्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम्
स्मृतैव साऽर्थव्यावर्त्तिका अभावज्ञाने प्रतियोगिस्मरणवत्
जात्यादिकञ्च वस्तुभूतं साधितमेबातः सविकल्पकमपीन्द्रि-
यार्थसन्निकर्षजत्वात् प्रत्यक्षम् प्रमाणम् । ननु निर्विकल्पकं
न व्यवहारप्रवर्त्तकं न वा व्यवहारविषय इति किन्तत्र
प्रमाणमिति चेत् सविकल्पकमेव तद्धि विशिष्टज्ञानम् न च
विशेषणज्ञानमन्तरेण तदुत्पद्यते विशिष्टज्ञाने हि विशे-
षणज्ञानविशेष्येन्द्रियसन्निकर्षतटुभयासंसर्गाग्रहस्य
कारणत्वावधारणात्” उपस्करवृत्तिः ।
“सा च सात्त्विकराजसतामसभेदेन त्रिविधा । तत्र
सात्त्विकी यथा “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।
बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी” ।
राजसी यथा “यया धर्ममधर्मञ्च कार्य्यञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी” । तामसी
यथा “अधर्मं धर्ममिति या मन्यते तमसावृता । मर्वा-
र्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी” गीता०
तस्याः पञ्चगुणा यथा । “इष्टाऽनिष्टविपत्तिश्च व्यव-
सायः समाधिता । संशयप्रतिपत्तिश्च बुद्धेः पञ्च
गुणान् विदुः” महाभारते मोक्षधर्मः “इष्टानि-
ष्टविपत्तिः इष्टानिष्टार्ना वृत्तिविशेषाणां विपत्तिर्नाशः
निद्रास्वपा वृत्तिरित्यर्थः । व्यवसायः उत्साहः । समा-
धिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः संशयः
द्वयस्पृक् ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः”
तट्टीका । तस्याः सप्त गुणा यथा “शुश्रूषा श्रवण-
ञ्चैव ग्रहणं धारणन्तथा । ऊहापोहोऽर्थविज्ञानं तत्त्व-
ज्ञानञ्च धीगुणाः” हेमच० । तस्या वृत्तिः पञ्चधा यथा ।
“प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” पात० सू० तल्लक्षणं
च तत्तच्छब्दे दृश्यम् ।
बुद्धिक्षयकरा यथा “शोकः क्रोधश्च लोभश्च कामो मोहः
परासुता । ईर्ष्या मानो विचिकित्सा हिंसाऽसूया
जुगुप्सता । द्वादशैते बुद्धिनाशहेतवो मानसा मलाः” ।
कालिकापु० १८ अ० । “बुद्धिक्षयकरा एते माषकासार-
मृत्तिकाः” । बुद्धिवृद्धिकरा यथा “निम्बाटरूषवृन्ताश्च
बुद्धिवृद्धिकरा मताः । बुद्धिक्षयकरान्नित्यं त्यजेद्राजा
च भोजने । भोजयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः ।
काकिकापु० ८९ अ० ।

बुद्धिकामा स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ० ।

बुद्धिजीविन् स्त्री बुद्ध्या जीवति जीव--णिनि । बुद्धिरूपो-

पायेन जीविनि । “भूतानां प्राणिनां श्रेष्ठा प्राणिनां
बुद्धिजीविनः” मनुः ।

बुद्धिसहाय पु० ७ त० । धीसचिवे अमात्यभेदे हारा० ।

बुद्धीन्द्रिय न० ६० त० । “मनः कर्णौ तथा नेत्रे रसना त्वक्

च नासिके । बुद्धीन्द्रियमिति प्रोक्तम्” इत्युक्तेषु इन्द्रियेषु
उभयोः ज्ञानकर्मेन्द्रिययोरुपकारकत्वात् मनसो ज्ञानमात्र-
सहकारित्वविवक्षया बाह्यान्तरज्ञानकरणतया च तथात्वम्
“चक्षुः श्रोत्रे स्पर्शनञ्च रसनाघ्राणमेव च । बुद्धीन्द्रियाणि
जानीयात्” इत्यत्र बाह्यापेक्षया पञ्चकत्वमुक्तम् ।

बुद्धुद न० बुद--क पृषो० द्वित्वम् । जलस्य लोलाकारे विकारमेद

अमरः । “पञ्चरात्रेण कललं बुद्धुदाकारतां व्रजेत्” ।
सुखबो० उक्ते २ गर्भावस्थाभेदे च ।

बुध ज्ञापने भ्वा० प० सक० अनिट् । बोधति अभौत्सीत्

शिष्यं गुरुः । बोद्धा बुद्धः ।

बुध ज्ञाने भ्वा० उभ० सक० सेट् । बोधति ते । इरित अबुधत्०

अपोधीत् अबोधि अबोधिष्ट । ज्वला० वा ण पक्षे क ।
बोधः बुधः ।

बुध ज्ञाने दि० आ० सक० अनिट् । बुध्यते अबोधि अबोधिष्ट ।

बुबुधे । उद् + बुध--जागरणे पिषयस्फुरणाभिमुखीभाव
रूपे सस्कारनिष्ठे व्यापारभेदे उद्नुद्धसंस्करादेव स्मृति-
र्भवतीति शाखे स्थितम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ब&oldid=313031" इत्यस्माद् प्रतिप्राप्तम्