सामग्री पर जाएँ

वाचस्पत्यम्/भ

विकिस्रोतः तः
← वाचस्पत्यम्/ब वाचस्पत्यम्/भ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/म →
पृष्ठ ४६१७
  • भकारः पवर्गीयश्चतुर्थोवर्णो व्यञ्जनवर्णभेदः । तस्योच्चारण-
स्थानमौष्ठौ । अस्योच्चारणे आभ्यन्तरप्रयत्नः ओष्ठाभ्यां सह
जिह्वाग्रस्य स्पर्शः अतस्तस्य स्पर्शवर्णता । बाह्यप्रयत्नाश्च
संवारनादघोषाः महाप्राणश्च । तस्य ध्येयरूपं यथा
“भकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली ।
महामोक्षप्रदं वर्णं तरुणादित्यसंप्रभम् । पञ्चप्राणमयं वर्णं
पञ्चदेवमयं सदा” कामधेनुतन्त्रम् । अस्य अधिष्ठातृ-
देवताध्यानं यथा “तड़ित्प्रभां महादेवीं नागकङ्कण-
शोभिताम् । षड्भुजां वरदां भीमां रक्तपङ्कजलोच-
नाम् । रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् । चतु-
र्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम् । एवं ध्यात्वा
ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” । अस्य वाचकशब्दाः
यथा “भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशा-
भवम् । द्विरण्डो भूषणोमूलं यज्ञसूत्रप्रवाचकः ।
नक्षत्रं भ्रमणा दीप्रिर्वयोभूमिः पयो नभः । नाभिर्भदं
महाबाहुर्विश्वमूर्त्तिर्विताण्डवः । प्राणात्मा तापिनी
वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः
सुखी मयापुरं हरः” । वर्णाभिधानम् । मातृकान्यासेऽस्य
नाभौ न्यास्यता काव्यादावस्य प्रयोगे “सुखभयमरणक्लेश-
दुःखं पवर्गः” वृ० टी० उक्तेः क्लेशः फलम् ।

न० भाति भा--क । १ नक्षत्रे अमरः । २ ग्रहे शब्दरत्ना० ।

३ राशौ ज्यो० त० । ४ शुक्राचार्य्ये पु० मेदि० । तेषां
दीप्तिमत्त्वात् तथात्त्वम् । ५ भूधरे एकाक्षरकोषः ।
६ भ्रान्तौ पु० शब्दरत्ना० । वृ० र० उक्ते ७ आदिगुरुके अन्त्य-
लघुद्वये वर्णत्रये । तस्य काव्यादौ प्रयोगे फलं यशः
देवताचन्द्रः यथोक्तं वृ० र० टीकायाम् “भश्चन्द्रो यशः
उज्ज्वलम्” ।

भंसस् पु० भसत् कटिदेशः पृषो० । उपचारात् तत्सम्बन्धिनि पायौ ऋ० १० । १६३ ।

भकार पु० भ + स्वरूपे कार । भस्वरूपे वर्णे ।

भकक्षा स्त्री ६ त० । नक्षत्रकक्षायाम् ।

“भवेत् भकक्षा तिग्मांशोर्भ्रमणं षष्टिताड़ितम् । सर्वो-
परिष्टाद्भ्रमति योजनैस्तैर्भूमण्डलम्” सू० सि० ।
“सूर्य्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्”
“खखार्थैकसुरार्णवाः” ४३२ १२०० इति वक्ष्यमाणं
षष्ट्यागुणितं सत् नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य
मध्यवृत्तं स्यात् । तैर्नक्षत्रकक्षामितैर्योजनैर्भमण्डलं नक्ष-
त्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य
उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति” रङ्गना० ।

भकूट न० ६ त० । विवाहे दम्पत्योः शुभाशुभसूचके राशिसमूहे

तस्य शुभाशुभत्वं च उपयमशब्दे १२५१ पृ० दृश्यम् ।
खेटारित्वं नाशयेत् सत् भकूटम्” । “प्रोक्ते दुष्टभकूटके
परिणयः” मुहू० तत्रैव दृश्या ।

भक्किका स्त्री फड़िङ्गा + पृषो० । (फड़िङ) ख्याते कीटभेदे शब्दार्थकल्पतरुः ।

भक्त पुंन० भज--क्त । १ अन्ने ओदने अमरः । २ भक्तियुक्ते

३ तदात्मके ततपरे ४ विभक्ते कृतभागे च त्रि० “भक्तो हरः
शुध्यति यद्गुणः स्यात्” लीला । अन्नपाकप्रकारस्त-
द्गुणश्च मावप्र० उक्तो यथा
“सुधोतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेद् ।
तद्भक्तं प्रशृतञ्चोष्णं विशदं गुणवन्मतम् । भक्तं वह्नि-
करं पथ्यं तर्पणं रोचनं लथु । अधौतमशृतं शीतं
गुर्वरुच्यं कफप्रदम्” ।
भक्तियुक्तलक्षणादिकं तद्भेदश्च मुक्ताफले उक्तं यथा
“सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि
यैरिह” “ते भक्ताः इति लक्षणं स च नबधाहासादिनववि-
धरसास्वादमूलकत्वेन नवविधत्वात्” । रसभेदे भक्तविशेषाः
मुक्ताफले दर्शिताः यथा “तस्य तत् खेलनं दृष्ट्वा गोप्यः
प्रेमपरिप्लुताः । व्रोड़िताः प्रेक्ष्य चान्योऽन्यं जातहासा
न निर्ययुः” भाग० १० । १२ अ० तथाच हासे गोप्य सम्भोगशृ-
ङ्गारे गोप्यादयस्तत्र दर्शिताः । विप्रलम्भशृङ्गारेऽपि गोप्य
स्तत्र दर्शिताः । “अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनि-
र्गमाः । इत्यादितद्भावनायुक्ता दध्युर्मीलितलोचनाः ।
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेष-
निर्वृत्त्या क्षीणमङ्गलाः । तमेव यरमात्मान
जारबुद्ध्याऽपि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीण-
बन्धनाः । अन्यानि रासपञ्चाध्यायीवाक्यानि तत्रोदा-
हृतानि दृश्यानि । करुणरमेऽर्जुनादयः । बाक्यानि
तत्र दृश्यानि । रौद्ररसे हिरण्यकशिपुशिशुपालादयः ।
भायानकरसे कंसादयः । वीभत्सरसे पुरूरवाः पिङ्गला-
दयश्च । शान्तरसे नारदादयः । अद्भुतरसे श्रीदाम-
ब्रह्मादयः । वीररसे बलिप्रभृतयः । तत्र दानवीरे बलिः
धर्मवीरसे कविप्रभृतयः । युद्धवीरे शिशुपालादयः ।
एतेषां मूलवाक्यानि तत्र दृश्यानि । अधिकं भक्तिशब्दे दृश्यम्
“भक्तानां लक्षणं लक्ष्मि! गूढ़ं श्रुतिपुराणयोः । पुण्य-
स्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारमूतं
गोपनीयं न वक्तव्यं खलेषु च । गुरुवक्त्राद्विष्णुमन्त्रो यस्य
कर्णे विशत्यलम् । वेदवेदाङ्गवेदान्तास्तं पवित्रं वदन्ति
हि । पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः । स्वर्गस्थं
नरकस्थ वा मुक्तिमाप्नोति तत्क्षणात् । यैः कैश्चिद् यत्र
वा जन्म लब्धं येषु च जन्तुषु च । जीवन्मुक्तास्ते च
पूता यान्ति काले हरेः पदम् । मद्भक्तियुक्तो मत्पूजा-
नियुक्तो मद्गुणाश्रितः । मद्गुणश्लाघनीयश्च सन्निविष्टश्च
सन्ततम् । सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च ।
न वाञ्छति सुखं मुक्ति सालोक्यादिचतुष्टयम् । ब्रह्म-
त्वममरत्वं वा तद्वाञ्छा मम सेवने । इन्द्रत्वञ्च मनुत्वञ्च
देवत्वञ्च सुदुर्लभम् । स्वर्गराज्यादिभोगांञ्च स्वप्ने च न हि
वाञ्छ्रात । ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ।
पृष्ठ ४६१८
कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति । भ्रमन्ति भारते
भक्ता लब्ध्वा जन्म सुदुर्लभम् । तेऽपि यान्ति महीं पूत्वा
परं तीर्थं ममालयम्” ब्रह्मवै० प्र० ५ अ० । “रति कृष्ण-
कथायाञ्च यस्याश्रु पुलकोद्गमः । मनो निमग्नं यस्यैव स
मक्तः कथितो बुधैः । पुत्रदारादिकं सर्वं जानाति श्री-
हरेरपि । आत्मना मनसा वाचा स भक्तः कथितो
बुधैः । दयास्ति सर्वभूतेषु सर्वं कृष्णमयं जगत् । यो
जानाति महाज्ञानी स भक्तो वैष्णवीत्तमः” ब्रह्मवै० जन्म०
१ अ० । त्रिविधभक्तलक्षणं यथा “भक्तानां त्रिविधा-
नाञ्च लक्षणं श्रूयतामिति । तृणशय्यारतो भक्तो मन्नाम
गुणकीर्त्तिषु । मनोनिवेशयेत् त्यक्त्वा संसारसुखकारणम् ।
दास्यं विना नहीच्छेत्तु सालोक्यादिचतुष्टयम् । नैव
निर्वाणमुक्तिञ्च सुधापानमभोप्सितम् । ध्यायते मत्पदा-
ब्जञ्च पूजयेद्भक्तिभावतः । श्रीहेतुकास्तस्य देवा सङ्कल्पर-
हितस्य च । सर्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीपसी-
तम् । ब्रह्मत्वममरत्वञ्च सुरत्वं सुखकारणम् । वञ्छन्ति
निश्चलां भक्तिं मदीयामतुलामपि । स्त्रीपुंविभेदो
नास्त्येव सर्वजीवेषु भिन्नता । तेषां सिद्धेश्वराणाञ्च पवराणां
ब्रजेश्वर! । क्षुत्पिपासादिकां निद्रां लोभमोहादिकं
रिपुम् । त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः ।
स मद्भक्तोत्तमोनन्द! श्रूयतां मध्यमादिकम् । नासक्तः
कर्मसु गृहो पूर्वप्राक्तनतः शुचिः । करोति सततञ्चैव
पूर्वकर्मनिकृन्तनम् । न करोत्यपरं यत्नात् सङ्कल्परहि-
तश्च सः । सर्वं कृष्णस्य यत्किञ्चिन्नाह कर्त्ता च कर्मणः ।
कर्मणा मनसा वाचा सततं चिन्तयेदिति । न्यूनभक्तश्च
तन्न्यूनः स च प्राकृतिकः स्मृतः । यमं वा
यमदूतं वा स्वप्नेन च न पश्यति । पुरुषाणां सहस्रञ्च
पूर्वं भक्तः समुद्वरेत् । पुंसां शतं मध्यमञ्च तच्चतुर्थञ्च
प्राकृतः । भक्तश्च त्रिविधस्तात! कथितश्च तवाग्रतः” इति
तत्रैव ८४ च० । भावे क्त । ५ भजने न० ।

भक्तकंस पुं न० भक्तार्थः कंस । भक्ताहरणार्थे पात्रे “भक्ता-

ख्यास्तदर्वेषु” पा० आद्युदात्ततास्य ।

भक्तकर पु० भक्तं भजन करोति कृ--ट । धूपे कृत्रिमधूपे

शब्दच० ।

भक्तकार त्रि० भक्तं करोति कृ--अण् उप० स० । पाचके सूपकारे हेमच० ।

भक्ततूर्य्य न० भक्ते तद्भोजनकाले वादनीयं तुर्य्यम् शा० त० ।

भजनकाले वादनीये वाद्यभेदे त्रिका० ।

भक्तदास पु० भक्तेन अन्नमात्रकाभेन दासः अङ्गीकृतदास-

भावः । पञ्चदशदासान्तर्गते दासभेदे । “भक्तदासश्च
विज्ञेयः” इति स्मृतिः । दासशब्दे दृश्यम् ।

भक्तपुलाक पु० भक्तस्य पुलाक इव । सिक्थे अन्नमण्डे

(माँड़) त्रिका०

भक्तमण्ड पु० ६ त० । भक्तस्य निस्रावे (माँड़) । हेमच० ।

भक्तवत्सल त्रि० ६ त० । १ भक्तेषु स्निग्धे २ विष्णौ पु० ।

“माधवो भक्तवत्सलः” विष्णुस० ।

भक्तसिक्थ पु० ६ त० । भक्तमण्डे अमरः ।

भक्ति स्त्री भज--क्तिन् । १ सेवायाम् आराधनायां, २ तदेकताने

चित्तवृत्तिभेदे ३ विभागे ४ गौण्यां वृत्तौ ५ उपचारे ६
अवयवे ७ भङ्ग्याम् ८ श्रद्धायाम् ९ रचनायाञ्च “भवति विरन्त-
भक्तिः” रघुः । भक्तिलक्षणमुक्तं शाण्डित्यसूत्रटीकयो यथा
“सा परानुरक्तिरीश्वरे” सू० “अत्र सा परेति लक्ष्यनि-
र्देशः । शेषं लक्षणम् । परेति गौणीं व्यावर्त्तयति । ईथर
इति प्रकृताभिप्रायम् । आराध्यविषयकरागत्यमेव भक्ति-
त्वम् । इह तु परमेश्वरविषयकान्तःकरणवृत्तिविशेष एव
भक्तिस्तद्वैशेष्यं च लौकिकानुरागादौ सुग्रहम् । यथोक्तं
परभक्तिमता प्रह्लादेन । (विष्णापु० । अंशे १ । अ० २० ।
श्लो० १७) । “या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु” । अत्र प्रीति-
पदेन सुखनियती राग एव लक्षितः । अन्यथा प्रीतेः
सुखरूपाया निर्विषयत्वेन विषयसप्तमा न स्यात् तस्याः
सुखज्ञानरूपत्वेऽपि तज्ज्ञानस्य सुखविषयत्वाद्विषयविषय-
त्वासम्भवात् । तस्मादनुरक्तिरेव सविषयिणी लक्षिता ।
न च विषयजन्यप्रीतिरर्थः जनकसप्तम्या अननुशासनात् ।
किञ्च “अच्युतास्तु सदा त्वयि” इत्यत्र भक्तेरीश्वरविषय-
तासिद्धौ प्रीतिपदेनापि तदेकवाक्यतया सैवोच्यते ।
पूर्वं प्रतिजन्म भक्तिप्रार्थनमिह तु विषयरागदृष्टान्तेन
तस्या एव सर्वथान्यपरिहार्यत्वप्रार्थनमिति विशेषः ।
विषयजन्यप्रीतिरपि रागं विना न सम्भवतीति रागा-
वश्यकत्वम् । तथा च पातञ्जलसूत्रम् । (पा० २ । सू०
७ पृ० ७९) “सुखानुशयी रागः” इति । तस्यैव वक्ष्यमाण-
लिङ्गषु व्यापनाल्लाघवाच्च भक्तित्वम् । न तु क्वचित्
स्वरणस्य, क्वचिच्च कीर्तनादेः अननुगमात् । न च
तज्ज्ञानस्य तत्त्वं द्वेषादिमत्स्वपि तत्प्रसङ्गात् । नाप्या-
राध्यत्वेन ज्ञानं स पूजानमस्काराद्याराधनास्वननु-
गमात् । अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञान-
वत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः । अनु-
पृष्ठ ४६१९
रागादिसहिताराध्यत्वज्ञानमिति चेत् अनुराग एवास्तु
अतएव गी० । अ० १० । श्लो० ९) । “मच्चित्तामद्गतप्राणा
बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति
च रमन्ति च । तेषां सततयुक्तानां भजतां प्रीतिपूर्व-
कम् । ददामि बुद्धियोगं तं येन मासुपयान्ति ते”
इत्यादौ तद्गतचित्तप्राणादीनां भजनमुक्तं नाराध्य-
त्व न ज्ञानवताम् । अतएव च कृष्णस्य कमनीयाकृति-
दर्शनेनानुरक्तानां गोपतरुणीनामपि भक्तिफलं मुक्तिः
स्मर्य्यते । अनुस्तु न लक्षणान्तर्गतः किन्तु भगवन्महि-
मादिज्ञानादनुपश्चाज्जायमानत्वादनुरक्तिरित्युक्तम् । ननु
पित्रादिगोचरानुरागस्यापि प्रकृतभक्तित्वं प्रसज्येत
जगत एव परमेश्वरात्मकत्वात् । अथ विकारावि-
शिष्ट एव तथात्वं वाच्यं तथापि गोपीप्रभृतीनां प्रादुर्भा-
वावच्छिन्नेश्वरभक्तावव्यापकम् । उच्यते जीवीपाध्यनव-
च्छिन्नचेतनविषयिणी अनुरक्तिरेव सेति । एवञ्च प्रादुर्भा-
वावच्छिन्ने परिपूर्णे च भक्तिः संगृहीता भवति” टीका ।
“तत्संस्थस्यामृतत्वोपदेशात्” ३ सू० “तस्मिन्नीश्वरे संस्था
भक्तिर्यस्य स तथोक्तः । तस्यामृतत्वं फलमुपदिश्यते (छा० । पृ०
१३७) “ब्रह्मसंस्थोऽमृतत्वमेतीति” । तस्मान्निष्फलत्वगौण-
फलत्वनिवन्धना तदजिज्ञासा परिहृता भवतीति” टी० ।
“ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः” ४ सू०
“ननुब्रह्मसस्थाशब्देन ब्रह्मज्ञानमेवोच्यते न तु तद्भक्तिः ।
तथाचामृतत्वफलं तस्यैवेति चेद्ब्रूषे । नैष दोषः ।
संस्था भक्तिरेव न ज्ञानं द्विषतस्तज्ज्ञानवतोऽपि
तत्संस्थत्वव्यवहाराभावात् । राजाद्यनुरक्ताः खल्वमात्य-
मित्रादयस्तत्संस्था इति व्यपदिश्यन्ते न पुनः प्रतिपक्ष-
भपालाः । शब्दार्थनिर्णयो हि लोकवदेव वेदेऽपीति ।
अतएव चिरकालिकोपाख्याने “बिमृश्यते न कालेन
पत्नीसंस्था व्यतीक्रमः । सोऽब्रवीच्च भृशं तप्तो दुःखे-
नाश्रूणि वर्त्तयन्” । (महाभा० शा० अ० २६७ श्ला०
९५२६) इत्यनेन पतिभक्त्यतिक्रम उक्तः । तस्मात् संस्था
भक्तिरिति एवञ्च (ब्रह्मसू० । अ० १ । पृ० ७) “तन्निष्ठस्य मोक्षो
पदेशादिति” वादरायणीयसूत्रस्याप्ययमेवार्थोऽध्यवसेयः” टी०
“तयोपक्षयाच्च” ५ सू० । “तया भक्त्या मुक्तिं प्रति ज्ञानसुप-
क्षीणं यस्माच्चकार उक्तयुक्तिसमुच्चयार्थः (गी० । अ० ७ । श्लो०
१३) । “यदा ते निश्चलं चेतो मयि भक्तिसमन्वितम् ।
तदा त्वं मत्प्रसादेन निर्वाणमपि यास्यसि” इति स्थि-
तम् । ननु (श्वे० । पृ० । ७३) “तमेव विदित्वातिमृत्युमेति
नाव्यः पन्था विद्यतेऽयनाय” इत्यत्र वेदनफलं मुक्तिः श्रुता
तद्विरोधेन स्मृतीनामन्यार्थत्वं स्यादिति चेन्न अत्रापि
तयैवीषक्षयात् । तथा हि अतिमृत्युपदं न मुक्तौ रूपं
किन्तु यस्यां सत्यां मृत्योरतिक्रम इति व्युत्पत्त्या
तदपेक्षया यतो भक्तेर्मृत्य्वतिक्रम इति व्युत्पाद्य भक्ति-
मेवातिमृत्युपदेनाभिधत्ताम् उपपदविभक्त्यर्थापेक्षया
कारकविभक्त्यर्थस्य बलवत्त्वात् । (गी० । अ० १२ पृ० ७) ।
“तेषामहं समुद्धता मृत्युसंसारसागरात् । भवामि न
चिरात् पार्थ! मय्यावेशितचेतसाम्” । इत्यादिना
भक्तितो मृत्योरतिक्रमोक्तेः । मन्त्रश्च भवति (तैत्तिरीय-
मन्त्रभागे) “त्र्यग्वकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय मामृतादिति” । अत्र
यजनं भक्तिः तथैव तत्कल्पव्याख्यानात् नचास्यां श्रुतौ
भक्तेरसन्निधानं मुक्तावपि तुल्यत्वात् । तस्मादनयापि
श्रुत्या ज्ञानस्योपक्षय एव प्रतीयत इति । नन् तथापि
भक्तेरागरूपत्वे किं कारणमित्यपेक्षायामाह” टी० । “द्वेष-
प्रतिपक्षभावाद्रसशब्दाच्च रागः” सू० । “भक्तिः खलु राग
एव भवितुमर्हति कुतः द्वेषविंरोधित्वात् । लोके हि
द्वेष्टायं भक्तोऽयमिति मिथोविरुद्धधर्मवति व्यव-
ह्रियते तत्र द्वेषविरोधी च राग एव प्रसिद्धो न ज्ञा-
नादिः । एवञ्च भगवति शिशुपालस्य द्वेषानु-
बन्धमभिधाय विष्णुपु० अ० ४ १५ गद्येन १० अयं हि
भगवान् कीर्त्तितः संस्मृतश्च द्वेषानुबन्धेनापि
अखिलसुरासुरदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमताम्”
इत्युक्तम् । तथा चात्रिस्मृतौ “विद्वेषादपि गोपिन्दं
दमघीषात्मजः स्मरन् । शिशुपालो गतः स्वर्गं किं
पुनस्तत्परायणः” इति अत्रापि द्वेषविरोधित्वेन भक्ते-
रभिधानात् । तथा च गीतासु (गी० अ०१६ । श्लो० १८) ।
“ममात्मपरदेहेषु प्रद्विपन्तोऽभ्यसूयकाः । तानहं
द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रम-
शुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूद्वा
जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय! ततो यान्त्व-
धमां गतिम् । इति । तद्विरोधिनी च भक्तिरीश्वर-
विषयैवानुरक्तिरिति युज्यते । किञ्च (तैत्ति० । पृ० १००)
“रसं ह्येवायं लब्ध्वानन्दीभवतीतिशब्दाद् ब्रह्मानन्दा-
विर्भावमुक्तेर्ब्रह्मगोचरस्य रसस्य हेतुतावगम्यते । रसश्च
रागः (गी० । अ० २ । श्लो० ५९) । “रसवर्जं
रसोऽप्यस्य परं दृष्ट्वा निवर्त्तते” इत्यादौ प्रसिद्धः । अत्र
पृष्ठ ४६२०
रसो विषयरागः । अत एव च (विष्णपु० अ० ४ ।
अ० ४ गद्यम्) रामलक्ष्मणादीनां स्वर्लोकारोहण-
मुक्त्वा “येऽपि तेषु भगवदंशेष्वनुरागिणः कोशलनगर-
जानपदास्तेऽपि तन्मनसस्तत्सलोकतामापुरिति” साक्षा-
देव भक्तावनुरागशब्दः प्रयुक्त इति । तस्यादपि न
ज्ञानं किन्त्वनुरागरूपैव भक्तिर्निःश्रेयसफलेति । ननु
द्वेषविरोधित्वं न रागत्वे लिङ्गम् उदासीनत्वेनानैका-
न्त्यादिति चेत् उच्यते द्वेषकार्य्यं हि निवृत्तिस्तद्विरो-
धिनी प्रवृत्तिरिति । भवति च भक्तानां भजनीयानु-
वर्त्तनादौ प्रवृत्तिस्तद्विरोधिनां तदनुवर्त्तनादौ निवृत्तिः ।
एवञ्च कार्य्यमुखेन विरोधमभिप्रेत्य द्वेषप्रतिपक्षेत्युक्तम् ।
तथा च प्रयोक्तव्यं भक्तिर्भजनीयगोचररागरूपा तदनु-
वर्त्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वाद्
यन्नैवं तन्नैवं यथा द्वेषः । रागोत्कर्षेण तदनुवर्त्त-
नाद्युत्कर्षस्य दृष्टत्वाच्च । किञ्च यो यस्मिन् भक्तस्तत्र
तस्यौदासीन्याभावेऽवगते भक्तिस्तादृशानुवर्त्तनाद्यनुकूल-
द्वेषविरोधिगुणरूपा अनुवर्त्तनहेत्वात्मविशेषगुणत्वाद्धित-
साधनताधीवदिति हितसाधनताधीत्वबाधसहकारेण
परिशेषाद्रागत्वसिद्धिः । किमुत भक्तिमतामिमित्येतत्-
कैमुतिकन्यायी विरोधिन्येव द्रष्टव्यः । (गी० । अ० ९ ।
श्लो० ३२) । “मां हि पार्थ! व्यपाश्रित्य येऽपि स्युः
पापयोनयः” । “किं पुनर्ब्राह्मणाः पुण्याः” इत्यादौ च ।
एवं (गी० । अ० १६ । श्लो० १८) “मामात्मपरदेहेष्वित्य-
नेन द्वेषस्य संहारहेतुत्वात् तद्विरोधिगुणो जीवोपा-
धिपरिहारेण परात्मगोचरो राग एव भक्तिरूपः संसा-
रनाशहेतुः । एतदेवोक्तं मामप्राप्यैवेति । चकारात्
पुलकादिरागलिङ्गेनापि रागत्वम् । प्रसिद्धं हि “पुल-
काञ्चितेन कथयति मथ्यनुरागं कोपोल” इत्यादौ । भक्ते-
र्गुणान्तरत्वे तु पृथग्लिङ्गताकल्पने गौरवात् । स च
रागः केषाञ्चिदिष्टसाधनताज्ञानजन्योऽपि यागादिवदि-
च्छारूप एव । अस्माकं तु प्रीणाम्यनुरज्यामि नेच्छा-
मीत्यादिप्रतीतेरागः पृथगेव द्वेषवत् । इच्छाया
असिद्धमात्रविययत्वाद्रागस्य सिद्धासिद्धविषयत्वाच्च । प्रत्युत
तस्येच्छात्वादिव्याप्यत्वकल्पनागौरवाच्चेति दिक् । तस्मान्न
तल्लक्षणासिद्धिरिति । ननु भक्तिः क्रियात्मिका सा
च निःश्रेयसाय न क्षमते (तत्ति । आरण्य० ।
खिलप्रश्ने ऋक् २१) “न कर्मणा न प्रजया धनेन त्यागे-
नैकेऽमृतत्वमानशः” इत्यादिश्रुतिभ्य इत्याशङ्कां परिहर-
न्नाह टी० । “न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्” ७ सू० । सा
भक्तिर्न क्रियात्मिका भवितुमर्हति प्रयत्नानुवधानाभा-
वात् । यन्न प्रयत्नानुषिधायि तन्न क्रियात्मकं यथा
ज्ञानम् । तद्धि प्रमाणसम्पत्त्यधीनं न पुरुषेण स्वेच्छया
कर्तुमकर्तुमन्यथा कर्तुं शक्यते । तथा भक्तिरपि न
हि रागिण्णां प्रमदापुत्रादिविषयिणी पुंव्यापारेणं तथा
भवति भक्तिः किन्तु पूर्वसुकृतगौणभक्त्यादिसाधनाधी-
नेति” टी० । “अतएव फलानन्त्यम्” ८ सू० । “यतः सा न
क्रियात्मिका अतएव तत्फलस्य निःश्रेयसस्यानन्तत्र-
मुपपद्यते । अन्यथा (छा० । पृ० ५३८) “तद्यथेह कर्म-
जितो लोकः क्षोयते एवमेवामुत्र पुण्यजिती लोकः
क्षीयते” इत्यनेनामृतत्वस्यापि क्षयित्वं प्रसज्येतेति” टी० ।
“तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्” ९ सू० ।
“भवति हि भगवद्वाक्यं (गी० । अ० ७ । श्लो० १९)
“बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः
सर्वमिति स महात्मा सुदुर्लभः” इति । ज्ञानवतः प्रपत्ति-
रुक्ता भक्तेर्ज्ञानहेतुत्वे नेदमुपपद्यते इतरप्रपत्तिवदिति ।
यथा तदनन्तरं (गी० । अ० ७ । श्लो० २०) । “कामै-
स्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः” । इत्यनेन देवता-
न्तरप्रपत्तिनिन्दामुखेनैव प्रपत्तिः स्तूयते । तत्र देवता-
भक्तेरेव प्रपत्तिशब्देन कथनं न तज्ज्ञानस्य । तस्या
एव प्रपत्तेरुभयत्र प्रत्यभिज्ञानात् इति । चकाराज्०
ज्ञानानन्तर्य्यश्रवणमपि ज्ञानत्वाभावे निदानम् । यथा
(गी० । अ० १५ । श्लो० १६) । “यो मामेवमसंमूढ़ो जानाति
पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत!
इति । तथा (गी० । अ० ९ । श्लो० १३) । “भजन्त्यनन्य-
मनसो ज्ञात्वा भूतादिमव्ययम् । इति मत्वा भजन्ते
मां बुधा भावसमन्विताः” । इति च । तस्मान्न ज्ञाना-
त्मिका । यद्यपि रागत्वेनैव ज्ञानभेदः सिद्धस्तथापि
भक्तिशब्दो ब्रह्मज्ञागे गौण इति शङ्कानिरासार्थमेतत् ।
इदन्तु चिन्त्यते भगवद्वीतावाक्यानि न शब्दविधया
वेदवत् प्रमाणम् । किन्तु भारतस्मृतित्वेन तथा च
कथं शब्दादिति निर्देशः । अत्रैकेऽनुमितशब्दादिति
व्याचक्षते । अत्रोच्यते अदृष्टार्थकभगवद्वाक्यत्वमेव वेदत्वं
तच्च गीतास्वप्यविशिष्टम् । अतएव भगवद्गीतासूपनि-
पत्स्विति दृश्यते, केवलं त एव श्लोका व्यासेन निवद्धाः
तथा च पुराणान्तरम् “गीता सुगीता कर्त्तव्या
किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्मात्
पृष्ठ ४६२१
द्विनिःसृता” । न च शूद्राणामश्रवणप्रसङ्गः भारतश्रवणा-
भ्यनुज्ञानेनैव तदुपपत्तेः प्रणवादिस्तुत्यादिवत् । तद्वि-
हायेति चेन्न लक्षणाऽपरिपूर्त्तेः । तथाचीक्तमाचार्य्यैः ।
“तानेव वैदिकान् मन्त्रान् भारतादिनिवेदितान् ।
खाध्यायनियमं हित्वा लोकबुद्ध्या प्रयुञ्जते” टी० । १ आ० ।
“एवममृतत्वं प्रत्यनन्यथासिद्धायां भक्तौ लक्षितायां ज्ञान-
योगभक्तीनामङ्गप्रघानभावविवेकाय द्वितीयाह्निकस्यारम्भः ।
“सा मुख्येतरापेक्षितत्वात्” १० सू० आह्निकसमाप्तायुक्तस्य
पुनः खरणाय सेति निर्देशः । सा परा भक्तिर्मुख्या प्रधा-
नम् इतरैरात्मज्ञानयोगादिभिः स्वोपकार्य्यतयापेक्षित-
त्वादित्यर्थः । छान्दोग्ये (पृ० ६१६) “यो भूमा तत्सुखम्”
इत्याद्युपक्रम्य म्नायते “आत्मैवेदं सर्वमिति स य
एष एवं पश्यन्नेवं मन्यान एवं विजानन्नात्मरतिरा-
त्मकीड़ आत्ममिथुन आत्मानन्दः स स्वराड् भवतीति”
तत्रात्मरतिरूपायाः परभक्तेः पश्यन्निति दर्शनमप्रिय-
त्वादिभ्रमनिरासमुस्येनाङ्गं भवति । यथा “दण्डी प्रैष-
मन्याह प्राचीनावोती दोहयति अभिजानन् जुहोति
घनवान् सुखवानित्यादौ दण्डाद्यङ्गं तथा “दर्शनमपि
रतेरङ्गं मननविज्ञानयोरुक्तप्रियदर्शनार्थतया न्याय-
प्राप्तयोरनुवादः । एवमात्मक्रीड़ादेरतिनैयत्यादर्थप्राप्तो-
ऽनुवाद एव । अन्यथा रत्युद्देशेन दर्शनादिविधौ
दर्शनाद्युद्देशेन वा रत्यादिविधौ वाक्यानि भिद्येरन् ।
तस्मात् (पूर्वमीसांसायाम् । अ० ३ । पा० १ । सू० २)
“शेषः परार्थत्वादिति” न्यायाद्दर्शनमङ्गमिति । अतएव
भगवान् मनुरपि । (महाभार० । शान्ति० । अ० १९४ ।
श्लो० ७१११ । ७११२) । “यस्त्यक्त्वा प्राकृतं कर्म
नित्यमात्मरतिर्मुनिः । सर्वभूतात्मभूतात्मा स्याच्चेत्
परतमा गतिः” । इत्यनेनात्मरतेः प्राधान्यमाहेति” टी० ।
“प्रसुरणाच्च” ११ सू० । “प्रकरणं रतेरेव फलवत्त्वात् तस्यास्त-
तप्रकरणस्यं दर्शनमङ्गं भवितुमर्हतीति” टी० । “दर्शनफल-
मिति चेन्न तेन व्यवधानात्” १२ सू० । “अथ दर्शनस्यैव फलं
स्वाराज्यलक्षणममृतत्वं तथा च तस्यैव प्रकरणमिति
वैपरीत्यमिति चेन्न तेन तच्छब्देन व्यवधानात् (छां० ।
पृ० ५१६१७) स स्यराड् भवतीत्यत्र तच्छब्देन सन्निकृष्टा-
त्मरतिमानेवोपस्थाप्यते न विप्रकृष्टः पश्यन्निति व्यव
हितोपस्थितौ कारणाभावात् । प्रकरणमेव कारणमिति
चेन्न अन्योन्यान्नयात्” टी० “दृष्टत्वाच्च” १३ सू० “दृष्टं हि लोके
सौन्दर्यादिज्ञाबस्म तरुण्यास्तरुणे रतिहेतुत्वं न तु
रतेर्ज्ञानहेतुत्वमिति दृष्टोपकारत्वादप्यङ्गत्वमवसीयते ।
दृष्टं च प्राकृतनिष्करुणत्वाल्पमहिमत्वाप्रियत्वादिज्ञानं
मनोमालिम्यकारणं भूतेषु करुणाबहुलाव्याहतैश्वर्याति-
शयितरूपाश्रय आत्मेति ज्ञानन्मालिन्यनिवृत्तिस्ततः परा
भक्तिरिति । अतएव गीयते (गी० । अ० ५ । श्लो० १७) ।
“तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपु-
नरावृत्तिं ज्ञाननिर्द्धूतकल्मषाः । इति । तथा
आयुर्वेदेऽपि (अष्टाङ्गहृदये । अ० १ श्लो० २३) ।
धीर्धैर्यात्मादिविज्ञानं मनोदीषौषधं परम्” टी० ।
“अतएव तदभाबाद्वल्लवीनाम्” १४ सू० । “यतो ज्ञानं दृष्टोपकार-
कमङ्गमत एव दृष्टोपकारं निरस्य मनोमालिन्यादिवाधात्
प्रधानभगवदनुरागमात्रेण वल्लवीनां मुक्तिः स्पर्य्यते ।
(विष्णुपुराणे । अंशे ५ । अ० १३ । श्ला० १४ । १५ ।
“तच्चिन्ताविपुलानन्दक्षीणपुण्यचया सती । तदप्राप्ति-
महादुःखविलीनाशेषपातका । चिन्तयन्ती जगत्सूति”
परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्तिं गतान्याः
गोपकन्यका” इति । अत्र सुखदुःखलिङ्गेनानुरागोऽनु-
मीयते न मुक्तिरिति वाक्यार्थः । द्वारबाघादनवहत-
कृष्णलेनापि कर्मणा फलसिद्धिरिव तासां रागान्मुक्ति-
स्तदप्यवगम्यते ज्ञानमङ्गमेव प्रधानत्वे तु तदभावे फलं
न स्यात् चिन्ता च न ब्रह्मात्मैक्यज्ञानं तत्कारण-
श्रवणमननाद्यसम्भवात् । किन्त्वनुरागनियतानुस्मृति-
रेव । नचायमर्थवादः अपूर्वार्थत्वाभावात् सन्निधौ विध्य-
भावाच्चेति” टी० । “भक्त्या जानावीति चेन्नाभिज्ञप्त्या
साहाय्यात्” १५ सू० “इदानीं श्रुतिविरोधेन प्रकरणस्थान-
लिङ्गबाधमाक्षिप्य समाधीयते । यथा श्रुतं (गी० । अ०
१८ । श्लो० ५५ । “भक्त्या मामभिजानाति यावान्
यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते
तदनन्तरम्” । इति । तत्र (तैत्तिरीयसं० । अ० १ ।
प्र०५ । अनुवाक०८) “ऐन्द्र्या गार्हपत्यमुपतिष्ठने”
इतिवत् कारकश्रुत्या बलीयस्या भक्तेर्ज्ञानहेतुत्वसासीयते ।
यद्यपि दृष्टत्वादित्यनेन दृष्टोपकारे पत्यक्षगम्ये न श्रुते,
रवकाशः तथापि ब्रह्मविषयिण्या रतेर्ब्रह्मविषयज्ञानोप-
कार्य्यत्वं न प्रत्यक्षगम्यम् । किन्तु तरुण्यादे रतौ तथा
दर्शनेन ब्रह्मगोचरायामप्यनुमातव्यम् । तथाच लिङ्गत्वे
पर्यवसानादिति चेन्न दोषः । तथाहि यदि केवलं
जानातीति वदेन्न त्वेवम् । किन्त्वभिजानातीति ।
अभिज्ञा पूर्वज्ञातज्ञानमुच्यते । तथा च भक्त्युपकारिपूर्व-
पृष्ठ ४६२२
ज्ञानं तत्फलरूपभक्तिप्रवर्त्तकम् । अनन्तरं यावत्
तद्दार्द्यं भक्त्यैवाभिज्ञप्तिभावेनापेक्ष्यते व्रीह्यवहननेनाव-
घातवदिति । कार्य्यसाहाय्यार्थमुक्तं ततो ज्ञानदार्द्येन
भक्तिदार्द्ये सति विशत इति । तस्मान्नेयं श्रुतिः किन्तु
न्यायप्राप्तानुवाद इति । एतमेवार्थं स्फुटीकरोति” टी० ।
“प्रागुक्तं च” १६ सू० । “भक्त्या मामित्यस्य पूर्वं व्रह्मभूयाय
कल्पत इत्यभिधाय (गी० । अ० १८ । श्लो० ५४) ।
“ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः
सर्वेषु भूतेषु मद्भक्तिं लमते पराम्” इत्युक्तम् । तस्य तु
ज्ञातब्रह्मणो ज्ञानप्रयोजनाभावाद्युक्तमनुवादत्वमिति” टी०
“एतेन विकल्पोऽपि प्रत्युक्तः” १७ सू० “एतेन ज्ञानस्याङ्गत्व-
निर्णयेन ज्ञानभक्त्योरत्र विकल्पपक्षोऽपि प्रत्युक्तः निराकृत
इति मन्तव्यम् । नह्यङ्गाङ्गिनोरेकत्र विकल्पो भवतीति ।
अपिशब्दात् समुच्चयोऽपीति” टी० । “देवभक्तिरितरस्मिन्
साहचर्य्यात्” १८ सू० । “क्वचिदेवं श्रूयते (श्वेताश्व० पृ०११७)
“यस्य । देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता
ह्यर्थाः प्रकाशन्ते महात्मनः” इति । अत्र देवभक्तिरो-
श्वरेतरस्मिन् देवे मन्तव्या कुतः गुरुभक्तिसाहचर्य्यात् ।
साहचर्य्यं हि नामृतफलायां भक्तौ घटते । इन्द्रादि
देवतास्त्वाराधिताः शुभवज्ज्ञानफलाय भवन्तीति
साहचर्य्यमपि निर्णायकम् । साहचर्य्यादुलूकशब्दवदुपयुक्ते-
रुपष्टम्भकमेतत्” ११ टी० “योगस्तूभयार्थमपेक्षणात् प्रयाज-
वत्” १९ सू० । “योगः पुनर्ज्ञानार्थं भक्त्यर्थं च भवति ।
समाहितमनस्कताया उभाभ्यामपेक्षणात् । ननु (पूर्वमी-
मांसायाम् । अ०३ । पा० १ । सू० २१) “गुणानां
च परार्थत्वादसम्बन्धः समत्वात् स्यादिति” न्यायात् प्रधा-
नाङ्गं योगः कथमङ्गाङ्गमित्यत आह प्रयाजवदिति
यथा प्रयाजो वाजपेयाद्यङ्गं तदोयदीक्षणीयादेरप्यङ्गं
तद्वत् । तदङ्गताबोधकप्रमाणाविशेषात् । केवलं ज्ञानार्थं
योगानुष्ठानप्रसङ्गेन भक्तिमुपकरोतीति । एवं विषय-
वैराग्यमपि उभयार्थं मन्तव्यम् । ननु योगे
पातञ्जलदर्शने २३ पृ०) “ईश्वरप्रणिधामादिति” पतञ्जलि-
स्वरणं दुरपह्नवं तत्र प्रणिधानाभिधेयस्य
भगवद्भजनस्य समाधिसिद्ध्यर्थत्वमिति कथं भक्तेः प्राधान्य-
मित्यत आह” टी० । “गौण्या तु समाधिसिद्धिः” २० सू० ।
तत्र प्रणिधानं गौणभक्तिरेव न प्रधानं तया समाधि-
सिद्धिरिति न स्मृतिविरोधोऽपीति । भवति च वाक्य-
शेषस्तत्रैव (पा० द० ४० । ४१ पृ०) “तस्य वाचकः प्रणवः”
“तज्जपस्तदर्थभावनमिति” टी० । “हेया रागत्वादिति
चेन्नोत्तमास्पदत्वात् सङ्गवत्” २१ सू० । योगशास्त्रप्रस्तावादिदं
सूत्रम् । योगशास्त्रोक्तरागत्वाविशेषाद्भक्तिरपि मुमुक्षुणा
हेयैव । तथा च सूत्रं पा० द० ७२ पृ०) “हेयाः
रागद्वेषाभिनिवेशाः क्लेशाः” इति । एवञ्चेदुच्यते । नैवं
वाच्यम् उत्तमास्पदत्वाद्भक्तेः परमेश्वरविषयत्वादिति
यावत् । न हि रागत्वमात्रेण हेयत्वं किन्तु संसारानु-
बन्धिरागत्वेनैव । यथा सङ्गत्वमात्रेण न त्याज्यता
किन्तु असत्सङ्गत्वेन तद्वत् । तथा चेश्वरभक्तिर्हेया
रागत्वादित्यत्र संसारान्रबन्धित्वं मोक्षाननुगुणत्वं
चोपाधिः । नच सात्त्विकी सा (गी० । अ० १७ । श्लो० ४)
“यजन्ते सात्त्विका देवान्” इत्यादिना सात्त्विकत्वकीर्त्तना-
दिति” टी० । “तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्”
२२ सू० “तदेव भजनं मुख्यं तस्या भक्तेर्वामुख्यत्वम् । एतत्
सर्वथैव निश्चितं यस्मादेवं शब्द्यते (गी० । अ० ६ ।
श्लो० ४६ । ४७) । “तपस्विभ्योऽधिको योगी ज्ञानि-
भ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्
योगी भवार्जुनः । योगिनामपि सर्वेषां मद्गतेनान्तरा-
त्मना । श्रद्धावान् भजते यो भां स मे युक्ततमो मतः”
इति । अत्र विशेषणानां तपादीनामाधिक्यनिबन्धनं
विशेष्याणामाधिक्यं क्रमादिति मन्तव्यम् । न खल्वङ्गस्य
मुख्यादाधिक्यमुपपद्यते । तस्माद्भक्तिः प्रधानमिति ।
श्रुत्यर्थेनापि तदुत्पत्तिपरिहार्थं पठति” टी० । “प्रश्ननि-
रूपणाभ्यामाधिक्यसिद्धेः” २३ सू० । अत्र कृत्स्रोऽपि
द्वादशाध्याय उदाहरणम् (गी० । अ० १२ । भक्तियोग-
शब्दे स च अध्यायो दृश्यः ।
तल्लिङ्गानि च तत्रैवोक्तानि यथा
“तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः” ४३ सू० ।
“यद्यपि जानामीच्छामीत्यादिवदहं भजे अनुरज्ये इत्येवं
मानादिना प्रत्यक्षगम्यैव भक्तिस्तथापि तस्या दृढत-
रसंस्कारवैशिष्ट्यलक्षणा परिशुद्धिर्न प्रत्यक्षतो निर्णेतुं
शक्यते ज्ञानप्रामाण्यवत् । तस्मात् तन्निर्णयो
लोकवज्ज्ञातलिङ्गेभ्य एव । यथा लोकेऽनुरागतारतम्यं
तत्कथादाबश्रुपुलकादिविकारैरनुमीयते तद्वदिति । न
केवलं लोकवल्लिङ्गानि भवन्ति महर्षीणां स्मृतिभ्यो-
ऽपि तानि लिङ्गानि बाहुल्येन लक्ष्यन्त इत्याह” टीका ।
“सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्या-
तितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनि च
पृष्ठ ४६२३
स्युरन्येभ्यो बाहुल्यात्” ४४ सू० । “यथार्जुनस्य सम्मानः ।
“प्रत्युत्थान तु कृष्णस्य सर्वावस्थो धनञ्जयः । न लङ्घयति
धर्मात्मा भक्त्या प्रेमणा च सर्वदा” । बहुमानःयथा
इक्ष्वाकोः (नृसिंहपु० अ० २५ श्लो० २२) “पक्षपातेन तन्नाम्नि
मृगे पद्मे च तादृशि । बभार मेघे तद्वर्णे बहुमानमतिं
नृपः” । प्रीतिर्यथा विदुरस्य । (महाभारते । उद्यो० अ०
८८ श्लो० ३११४) । “याप्रीतिः पुण्डरीकाक्ष! तवागमनकार-
णात् । सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्” ।
विरहो यथा गोपीनाम् (विष्णुपु० । अंशे ५ । अ० १८ ।
श्लो० १७) “गुरूणामग्रतो वक्तुं किं ब्रवीमि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना” ।
इतरविचिकित्सा यथा श्वेतद्वीपनिवासिनाम् । नारददर्शने-
ऽपि विघ्नबुद्धिः यथाचोपमन्योः (महाभरते । अनुशा-
अ० १४ । श्ला० ७० ७७) । “अपि कीटपतङ्गो वा भवेयं
शङ्कराज्ञया । न तु शक्र! त्वया दत्तं त्रैलोक्यमपि
कामये” । महिमख्यातौ यथा यमस्य । (नृसिंहपुरा०
अ० ८ श्लीक० १) “नरके पच्यमानस्तु यमेन परिभा-
षितः । किं त्वया नार्चितोदेवः केशवः खेदनाशनः” ।
(विष्णुपु० । अंशे ३ । अ७ । श्लो०१०) । “स्वपुरुषमभिवीक्ष्य
पाशहस्तम् । वदति यमः किल तस्य कर्णमूले ।
परिहर मघुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्”
तदर्थप्राणस्थितिर्यथा हनूमतः । तेनैवोक्तम् (वाल्मी-
कीये उत्तरकाण्डे । स० १०७ श्लो० ३१३१) । “यावत्
तव कथा कोके विचरिष्यति पावनी । तावत् स्थास्यामि
मेदिन्यां तवाज्ञामनुपालयन्” । अथ वा कृतकृत्यानामपि
नारदादीनां तदेकाराधनार्थं प्राणधारणम् । अतएव
श्रुतिः । (नृसिंहतापिनी । खं० ६) “यं सर्बेदेवा नमन्ति
मुमुक्षवो ब्रह्मवादिनश्चेति” । तदीयताभावस्तु वसोरुप-
रिचरस्य (महाभारते । शा० । अ० ३२७ । श्ला०
१२७१८) “आत्मराज्य धनं चैव कलत्रं वाहनं तथा ।
एतद्भागतवतं सर्वमिति तत् प्रथते सदा” इति । सर्व
भूतेषु तद्वावो यथा प्रह्लदस्य प्रसिद्धः । उक्तञ्च तेनैव ।
(विष्णुपु० । अंशे १ । अ० १९ । श्लो० ५) “एवं
सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा
सर्वभूतमयं हरिम्” । तस्मिन्नप्रातिकूल्यं यथा हन्तु०
मागतेऽपि भगवति भीष्मस्य । तेनैवोक्तम् । (महा-
भारते भौष्मप० । अ० ५८ श्लो० २६४) “एह्येहि
देवेश! जगन्निबाल! नमोऽस्तु ते शार्ङ्गगदासिपाणे! ।
प्रसह्य मां पातय लोकनाथ । रथादुदग्राद्भुतशौर्य्य
सख्ये” । आदिशब्दादुद्धवाक्रूरादिचेष्टितान्यपि द्रष्टव्यानि ।
यद्यपि द्वेषविपक्षभावादित्यत्रेदमुक्तं तथापि तत्र
रागलिङ्गत्वेनात्र च बहुभक्तिपरिशुद्धिलिङ्गतयेति विशेष
इति । ननु स्वामिन्यनुरागिणां तदनुग्रहतारतम्यवत्सु
द्वेषेर्ष्यादयो भवन्ति तेऽपि किं लिङ्गानि नेत्याहं टी० ।
“द्वेषादयस्तु नैवम्” ४५ सू० । “तदसम्भादेव । यथोक्तं
भगवता द्वैपायनेन महाभारते अनुशा० । अ० १४९ पृ०
१४६ । श्लो० ७६९) “न क्रोधो न च मात्सर्य्यं न
लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां
पुरुषोत्तमे” इति । शिशुपालस्य तु द्वेषात् स्मरणं ततः
परा भक्तिस्ततो मुक्तिरित्येव क्रमः इति” टी० ।
अत्रेदमवधेयम् शाण्डिल्यसूत्रादौ “भक्तेर्ज्ञानाङ्गकत्वं
यदुक्तं तद् भक्तेः प्रशंसार्थं तत्त्वज्ञानेनाज्ञाननिवृत्तौ
अज्ञानकार्य्यानुरागविशेषान्तःकरणवृत्तिरूपाया भक्तेः
कुतस्तरां सम्भवोऽतो ज्ञानस्यैव भक्तिरङ्गम् । अतएव पात० सू०
ईश्वरप्रणिधानात् योगसिद्धिरुक्ता “तपास्वाध्यायेश्वरप्रणि-
धानानि क्रियायोगाः” क्रियायोगरूस्येवरप्रणिधानस्य
योगाङ्गत्वमुक्तम् अतएव भक्तिर्ज्ञानाय कल्पते इति मुक्ता-
फलकर्त्ता वोपदेव उदाजहार । इयांस्तु भक्तौ रसास्वाद-
मुक्तौ सुखस्वरूपतेति ।
तेन च मुक्ताफलग्रन्थे भक्तिलक्षणं तद्भेदाश्चान्यथोक्तं यथा
“तत्र विष्णुभक्तिर्लक्षणं भेदाश्च । “तस्मात् केनाप्युपायेन
मनः कृष्णे निवेशयेत्” मू० “यस्मात् कृष्ण एव कैवल्य-
प्रदः यद्वा तस्मात् उपायविशेषस्याविवक्षितत्वात् ।
केनापि विहितेन अविहितेन वा उपायेन साध्यसिद्ध्याव-
धृतसामर्थ्येन, न तून्मादादिना कृष्णे सत्त्वोपाधौ ब्रह्मणि
निवेशयेत् स्थिरीकुर्य्यात् लिङ्निर्देशस्याविवक्षितत्वात्
उपायपूर्वं भगवति मनःस्थिरीकरणं भक्तिरिति लक्षणार्थः ।
न तावदस्यासम्भवः प्रह्रादादौ सुपसिद्धत्वात् । न च
कर्मक्षयार्थविधिसिद्ध्यर्थयोः भक्त्योरव्याप्तिः तयोरप्य-
तःकरणशुद्धिहेतुत्वेन मनोनिवेशहेतुत्वात् । नाप्यु-
न्मादादावभक्तिभूतेऽतिव्याप्तिः तस्यानुपायत्वेन निरस्त-
त्वात् । तापि शुद्धायां भक्तौ उपायानिर्देशादुपायेनेति
लक्षणेऽनन्तर्भूतमिति शङ्क्यम् । श्रौताभावेऽप्यानुमानि-
कस्य सम्भवात् । सा द्वेधा विहिता अविहिता च ।
तत्र विहिता “देवानां गुणलिङ्गानामानुश्रविककर्म-
णाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु य ।
पृष्ठ ४६२४
अनिमित्ता भागवती भक्तिः सिद्धेर्मरीयसी
जरयत्याशु या कोशं निगीर्णमनलो यथा” । सा द्वेधा मिश्रा
शुद्धा च । मिश्रा त्रेधा । कर्ममिश्रा कर्मज्ञानमिश्रा ज्ञान-
मिश्रा च । कर्ममिश्रापि त्रेधा । तामसी राजसी सात्त्विकी
च तामसी च त्रेधा । हिंसार्था दम्भार्था मात्स्यर्य्यार्था
च । “अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा । सरम्भी
भिन्नदृग्भावमपि कुर्य्यात् स तामसः । राजसी त्रेधा ।
विषयार्था यशोऽर्था ऐश्वर्य्यार्था च । “विषयानभिसन्धाय
यश एश्वर्य्यमेव वा । अर्चायामर्चयेद् यो मां पृथग्भावः
स राजसः । सात्त्विकी त्रेधा कर्मक्षयार्था विष्णुप्री-
त्यर्था विधिसिद्ध्यर्था च । “कर्मनिर्हारमुद्दिश्य परस्मिन्
वा तदर्पणम् । यजेत् यष्टव्यमिति वा पृथग्भावः स
सात्त्विकः” । कर्मज्ञानमिश्रा त्रेधा उत्तमा मध्यमाऽधमा
च सत्त्वतारतस्यात् । तत्रोत्तमा “सर्वभूतेषु यः पश्ये-
द्भगवद्भावमात्मनः । भूतानि भगवत्यात्मत्येध भागवतोत्तमः ।
मध्यमा “ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेम-
मैत्रीकृपोपेक्षा यः करोति स मध्यमः” । अधमा “अर्चा-
यामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु
स भक्तः प्राकृतः स्मृतः” । ज्ञानमिश्रा “मद्गुणश्रुति-
मात्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा
गङ्गाम्भसोऽम्बुधौ । लक्षणं भक्तियोगस्य निर्गुणस्य
ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषो-
त्तमे! सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव
भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिवृज्य त्रि-
गुणान् मद्भावायोपपद्यते” । अविहिता चतुर्द्धा,
कामजा द्वेषजा भयजा स्नेहजा च । “कामाद् द्वेषाद् भयात्
स्नेहाद् यथा भक्त्येश्वरे मनः । आवेश्य तदथं हित्वा
बहवस्तद्गतिं गताः” । भक्तिष्वधिकारिणश्च तत्रोक्ता यथा
“गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । सम्ब-
न्धाद् वृष्णयः स्नेहात् यूयं भक्त्या वयं विभोः” । सम्ब
न्धात् स्नेहाद्वृष्णयो यूयं चेत्येकम् । भक्त्या विहितया
वयमित्यत्र विभागः । “निर्विणानां ज्ञानयोगो न्यासिना-
मिह कर्मसु । तेष्वनिर्विन्नचित्तानां कर्मंयोगस्तु कर्मि-
णाम् । यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ।
य एतान् मे पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् चलैः प्राणैर्जुपन्ते संसरन्ति ते । स्वे
स्वेऽधिकारे या निष्ठा सगुणः स प्रकीर्त्तितः” । एवं सति
कर्ममिश्रा नव गृहस्थानाम् । कर्मज्ञानमिश्रास्तिस्रो
वनस्थानाम् । ज्ञानमिश्रैका भिक्षूणाम् । शुद्धैका सर्वेषां
उत्पन्नेऽनुरागे । उत्पाद्ये तु यथा संमिश्रा ।
अविहिताश्चतस्रो गोप्यादीनाम् एवमष्टादश भेदाः । “यावन्न
जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः
स्मरेत् । नैष्कर्म्यमप्यच्युतभाववर्जितम् न शोभते
ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न
चार्पितं कर्म यदप्यकारणम्” । विष्णुभक्त्यङ्गवर्गलक्षणं
भेदाश्च तत्रोक्ता यथा “कायेन वाचा मनसेन्द्रि-
यैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात् । करोति यद्
यत् सकलं परस्मै नारायणायेति समर्पयेत्तत्” इत्युपक्रमे
स एकोनविंशतिधा । षडत्रिंशद्वर्गः १ । त्रिंशद्वर्गः २ ।
षड्विंशतिवर्गः ३ । पञ्चविंशतिवर्गः ४ । चतुर्विशतिवर्गः ५ ।
विंशतिवर्गः ६ । एकोनविंशतिवर्गः ७ । अष्टादशवर्गः ८ ।
पञ्चदशवग ९ । त्रयोदशवर्गः १० । द्वादशवर्गः ११ ।
एकादशवर्गः १२ । दशवर्गः १३ । नववर्गः १४ । सप्त-
वर्गः १५ । षड्वर्गः १६ । पञ्चवर्गः १७ । चतुर्वर्गः १८ ।
त्रिवर्गः १९ । एते च यथोत्तरमन्तरङ्गवर्गाः ।
तत्र षड्त्रिंशद्वर्गः “तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय
उत्तमम् । शाब्दे परे च निष्णातो ब्रह्मण्युपशमा-
श्रयम् १ । तत्र भागवतान् धर्मात् शिक्षेद्गुर्वात्मदैवतः ।
अमाययानुवृत्त्या च यैस्तुष्येदात्मदो हरिः । सर्वतो
मनसीऽसङ्गमादौ सङ्गञ्च साधुषु । दयां मैत्रीं प्रश्रयञ्च
भूतेष्वद्धा यथोचितम् । शौचं तपस्तितिक्षां च मौनं
स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्व-
संज्ञयोः । सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।
विविक्तं चीरवसनं सन्तीषं येन केनचित् । श्रद्धां
भागवते शास्त्रे निन्दामन्यत्र चापि हि । मनोवाक्काय
दण्डञ्च सत्यं शमदमावपि । श्रवणं कीर्त्तनं ध्यानं
हरेरद्भुतकर्मणः । जन्मकर्मगुणानाञ्च तदर्थेऽखिलचेष्टि-
तम् । इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः पियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ।
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्य्या
चोभयत्र महत्सु नृषु साधुषु । परस्परानुकथनं
पावनं भगवद्यशः । मिथोरतिर्मिथस्तुष्टिः निर्वृत्ति-
र्मिथ आत्मनः । स्वरन्तः स्वारयन्तञ्च सिथोऽपौधहर-
पृष्ठ ४६२५
हरिम् । भक्त्या संजातया भक्ता बिभ्रत्युत्पुलकां
तनुम् । क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्धसन्ति नन्दन्ति
वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तुष्णीपरमेत्य निर्वृताः । इति भागवतान् धर्मान्
भक्त्या शिक्षेत्तदुत्थया । नारायणपरो मायामञ्जस्तरति
दुस्तराम्” भाग०११ । ३ अ० ।
त्रि शद्वर्गः “सत्यं दया तपःशौचन्तितिक्षेज्या शमोदमः ।
अहिंसा ब्रह्मचर्य्यञ्च त्यागः स्वाध्याय आर्जवम् । सन्तोषः
समदृक्सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा
मौनमात्मविमर्शनम् । अन्नाद्यादेः संविभागो भूतेभ्यश्च
यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव! ।
श्रवणं कीर्त्तनं चास्य स्मरणं महतां गतेः । सेवेज्याऽव-
नतिर्दास्यं सख्यमात्मसमर्पणम् । नृणामयं परो धर्मः
सर्वेषां समुदाहृतः । त्रिंशल्लक्षणवान् साक्षात् सर्वात्मा
येन तुष्यति” भाग०७ । १ अ० ।
षड्विंशतिवर्गः । “हरौ गुरौ मयि भक्त्यानुवृत्त्या
वितृष्णया द्वन्द्वतितिक्षया च । सर्वत्र जन्तोर्व्यस-
नावगत्या जिज्ञासया तपसेहानिवृत्त्या । मत्कर्मभि-
र्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्त्तनान्मे । निर्वेर-
साम्योपशमेन पुत्रा! जिहासया देहगेहात्मबद्धेः ।
अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन
सम्यक । सच्छ्रद्धया ब्रह्मचर्य्येण शश्वदसंप्रमादेन यमेन
वाचाम् । सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञान-
विराजितेन । योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपी-
हेत् कुशलोऽहमाख्यन्” भाग०५ । ५ अ० ।
पञ्चविंशतिवर्गः “स्वधर्माचरणं शक्त्या विधर्माच्च
निवर्त्तनम् । दैवलब्धेन सन्तोष आत्मविच्चरणार्चनम् ।
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं
शश्वत् विविक्तक्षेमभावनम् । अहिंसा सत्यमस्तेयं
यावदर्थपरिग्रहः । ब्रह्मचर्य्यं यमं शौचं स्वाध्यायः
पुरुषार्चनम् । मौनं सदासनजयः स्थैर्य्यं प्राणजयः
शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसो हृदि ।
धिष्ण्यानामेकदेशे च मनसः प्राणधारणा । वैकुण्ठली-
लामिध्यानं समाधानं तथात्मनः । एतैरन्यैश्च पाथ
भिर्मनो दुष्टमसत्पथे । बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्य-
तन्द्रितः” भाग० ३२८ अ० ।
चतुर्विंशतिवर्गः “मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्य्या स्तुतिः प्रह्वगुणकर्मानुकीर्त्तनम् । मत्कथा-
श्रवणे श्रद्धा मदनुध्यानमुद्धव! । सर्वलोभोपहरणं दास्ये-
नात्मनिवेदनम् । मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः । यात्रा-
बलिविधानं च सर्ववार्षिकपर्वनु । वैदिकी तान्त्रिकी
दीक्षा मदीयव्रतधारणम् । ममार्चास्थापने श्रद्धा
स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड़पुरमन्दिर-
कर्मणि । समार्जनोपलेपाभ्यां सेकमण्डलवर्त्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया । अमानित्वमद-
म्भित्वं कृतस्यापरिकीर्त्तनम् । अपि दीपावलोकं मे नो
पयुञ्ज्यान्निवेदितम् । यद्यदिष्टतमं लोके यच्चातिप्रिय-
मात्मनः । तत् तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ।
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेदृढ़म् । पुष्पो-
द्यानानि रम्याणि पूजापात्रोत्सवाश्रितान् । पूजादीनां
प्रवाहार्थं सदा पर्वण्यथान्वहम् । क्षेत्रापणपुरग्रामान्
दत्त्वा मत्सार्ष्टितामियात् । प्रतिष्ठया सार्वभौमं सद्मना
भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यता-
मियात्” भाग०११ २७ अ० ।
विंशतिवर्गः “सेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेण शस्तेन नातिहिस्रेण नित्यशः । मद्धिष्ण्य-
दर्शनस्पर्शपूजास्तुत्यभिवन्दनैः । भूतेषु मद्भावनया सत्त्वे-
नासङ्गमेन च । महतां बहुमानेन दीनानाथानुकम्पया ।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च । आध्यात्मि-
कानुश्रवणान्नामसंकीर्त्तनाच्च मे । आर्जवेनार्य्यसङ्गेन
निरहङ्क्रियया तथा । मद्धर्माचरणैरेतैः परिसंशुद्ध
आशयः । पुरुषश्चाञ्जसाभ्येति श्रुतमात्रगुणं हि माम्”
भाग० ३ । २९ अ० ।
एकोनविंशतिवर्गः “सच्छ्रद्धया भगवद्धर्मचर्यया जिज्ञासया-
ऽऽध्यात्मिकयोगनिष्ठया । योगेश्वरोपासनया च नित्यं
पुण्यश्रवःकथया पुण्यया च । अथेन्द्रियारामसगोष्ठ्य-
तृष्णया तत्सम्मतानामपरिग्रहेण । विविक्तरुच्या
परितोष आत्मन् विना हरेर्गुणपीयूषपानात् । अहिंसया
पारमहंस्यचर्य्यया स्मृत्या मुकुन्दाचरिताग्र्यशीधुना ।
यमैरकामैर्नियमैरनिन्दया निरीहया द्वन्द्वतितिक्षया च ।
हरेर्मुहुस्तत्परकर्णपूरगुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्यसङ्गः सटसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि
चाञ्जसा रितिः” भाग० ४ । २२ अ० ।
अष्टादशवर्गः “मयि भावेन सत्येन मत्कथाश्रवणेन च ।
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्य्येण मौ-
पृष्ठ ४६२६
नेन स्वधर्मेण महीयसा । यदृच्छयोपस्थितेन सन्तुष्टो
मितभुक् मुनिः । विविक्तशरणः शान्तो मत्रः करुण
आत्मवान् । सानुबन्धे च देहेऽस्मिन्न कुवन्नसदाग्रहम् ।
ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च । निवृत्तबुद्ध्यव-
स्थानो दूरीभूतान्यदर्शनः । उपलभ्यात्मनात्मानं चक्षुषे-
वार्कमात्मदृक् । मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ।
सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्” भाग० ३ २७ अ० ।
पञ्चदशवर्गः “श्रद्धामृतकथायां मे शश्वन्मदनुकीर्त्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम । आदरः
परिचर्य्यायां सर्वाङ्गैरभिवन्दनम् । मद्भक्तपूजाभ्यधिका
सर्वभूतेषु मन्मतिः । मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणे-
रणम् । मय्यर्पणञ्च मनसः सर्वकामविवर्जनम् ।
मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं
हुतं भुक्तं मदर्थे यद्व्रतं तपः । एवं धर्मैर्मनुष्याणा-
मुद्धवात्मनिवेदनम् । मयि सञ्जायते भक्तिः कोऽन्यो-
ऽथास्यावशिष्यते” भाग० ११ । १९ अ० ।
त्रयोदशवर्गः “कुर्य्यात् सर्वाणि कर्माणि मदर्थं शनकैः
स्मरन् । मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ।
देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवा
सुरमनुष्येषु मद्भक्ताचरितानि च । पृथक्मत्रेण
वामह्यं पर्वयात्रामहोत्सवान् । कारयेद्गीतनृत्याद्यै-
र्महाराजविभूतिभिः । मामेव सर्वभूतेषु बहिरन्तरथा
वृतम् । ईक्षेतात्मनि चात्मानं यथास्वममलाशयः ।
इति सर्वाणि भूतानि मद्भावेन महाद्युते! । सभाजयन्
मन्यमानो ज्ञानं केवलमाश्रितः । ब्राह्मणे पुक्कसे स्तेने
ब्रह्मण्येऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक्
पण्डितो मतः । विसृज्य स्वयमन्यां स्वां दृशं व्रीड़ां च
दैहिकीम् । प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोस्यरम् ।
यावत् सर्वेषु भूतेषु मद्भावो नोपजायते । तावदेवमुपा-
सीत वाङ्मनःकायवृत्तिभिः । नरेष्वमीक्ष्ण मद्भावं
पुंसो भावयतोऽचिरात् । स्पर्द्धासूयातिरस्काराः
साहङ्कारा वियन्ति हि” भाग० ३१ । २९ अ० ।
द्वादशवर्गः “गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च ।
सङ्गेन साधुभक्तानामीश्वराराधनेन च । श्रद्धया
तत्कथायाञ्च कीर्त्तनैर्गुणकर्मणाम् । तत्पादाम्बु
रुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः । हरिः सर्वेषु भूतेषु
भगवानास्त ईश्वरः । इति भूतानि मनसा कामैस्तैः
साधु मानयेत् । एवं निर्जितषड्वर्गैः क्रियते भक्ति-
रीश्वरे । वासुदेवे भगवति यथा संलभते रतिम् ।
निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः
कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ
उद्गायति रौति नृत्यति । यदाग्रहग्रस्त इव क्वचि-
द्धसप्त्वाक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन्
वक्ति हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः ।
तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धवीजानुशयो महीयान् भक्तिप्रयोगेण समेत्यधो-
क्षजम्” भाग० ७७ ।
“एकादशवर्गः “स वै मनः कृष्णपदारविन्दयोर्वचांसि
वैकुण्ठगुणानुकीर्त्तने । करौ हरेर्मन्दिरमांर्जनादिषु
श्रुती चकाराच्युतसत्कथोदये । मुकुन्दलिङ्गालयदर्शने
दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् । घ्राणं च
तत्पादसरोजसौरभे श्रीमत्तुलस्या रसना तदर्पिता ।
पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभि-
वन्दने । कामं च दास्येन तु कामकाम्यया यथोत्तम-
श्लोकजनाश्रया रतिः” भाग० ९४ ।
दशवर्गः “आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्य तैर्यत् क्षणो नीत उत्तमश्लोकवार्त्तया । तरवः किं
न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न
लेहन्ति किं ग्रामपशवोऽपरे । श्वविड्वराहोष्ट्रखरेः
संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम
गदाग्रजः । बिले वतोरुक्रमविक्रमान् न ये शृण्वतः
कर्णपुटे नरस्य । जिह्वाऽसती दार्दुरिकेव सूत! न
चोपगायत्युरुगायनाथाः । भारः परं पट्टकिरीटजुष्ट-
मप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नी कुरुतः
सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा । बर्हायिते ते
नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ
नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजती हरेर्यौ ।
जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्त्यो-
ऽभिलभेत यस्तु । श्रीविष्णुपद्यामनुजस्तुलस्याः श्वसन्
शवी यस्तु न वेद गन्धम् । तदश्मसारं हृदयं वतेदं
यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा
विकारो नेत्रे जलं नात्ररुहेषु हर्षः” भाग०२ ३ अ० ।
नववर्गः “श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इति पुंसा-
र्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियते भगवत्यद्धा
तन्मन्येऽधीतसुत्तमम्” भाग० ७ । ५ अ० ।
पृष्ठ ४६२७
सप्तवर्गः “अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
तीब्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् । ज्ञानेन
दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन
तीब्रेणात्मसमाधिना । प्रकृतिः पुरुषस्येह दह्यमाना
त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः”
भाग०३ । २७ अ० ।
षड्वर्गः “वाणी गुणानुकथने, श्रवणे कथायां, हस्तौ च
च कर्मसु, मनस्तव पादयो र्नः । स्मृत्यां, शिरस्तव निवास
जगत्! प्रणामे, दृष्टिः सतां दर्शनेऽस्तु भगवत्तनूनाम्”
भाग० १० । ११ अ० ।
पञ्चवर्गः “शृण्वतां गदतां शवदर्चतां त्वाभिवन्दताम् ।
नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम्” भाग० १० । ८६ अ० ।
चतुर्वर्गः “तस्मादेकेन मनसा भगवान् सात्वताम्पतिः ।
श्रोतव्यः कीर्त्तितव्यश्च ध्येयः पूज्यश्च नित्यदाः” भाग०
१ । २ अ० ।
त्रिवर्गः “तस्माद्भारत! सर्वात्मा भगवान् हरिरीश्वरः ।
श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्” भाग० २ । १ अ०
“तस्यात् सर्वात्मना राजन्! हरिः सर्वत्र सर्वदा । श्रो-
तव्यः कीर्त्तितव्यश्च स्मर्त्तव्यो भगवान्नृणाम्” भाग० २ । २ अ०
पुनर्वचनं त्रिवर्गस्यान्तरङ्गतमत्वख्यापनार्थम्” ।
“भज इत्येव वै धातुः सेवायां परिकीर्त्तितः । तस्मात्
सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी” गारुड़े २३१ अ० ।
अथ विशेषलक्षणानि । गौतमीयतन्त्रे “देवतायाञ्च
मन्त्रे च तथा मन्त्रप्रदे गुरौ । भक्तिरष्टबिधा यस्य
तस्य कृष्णः प्रसीदति । तद्भक्तजनवात्सल्यं १ पूजायाञ्चनुमो-
दंनम् २ । सुमना अर्चयेन्नित्यं ३ तदर्थे दम्भवर्जनम् ४ ।
तत्कथाश्रवणेराग ५ स्तदर्थे चाङ्गविक्रिया ६ । तदनुस्मरणं ७
नित्यं यस्तन्नाम्नोपजीवति ८ । भक्तिरष्टविधा ह्येषा
यस्मिन् म्लेच्छेऽपि वर्त्तते । स मुनिः सत्यवादी च कीर्त्ति-
मान् स भवेन्नरः” । पाद्मे कार्त्तिकमाहात्म्ये यमधू-
भ्रकेशसंवादे । “श्रवणं कीर्त्तनं पूजा सर्वकर्मार्पणं ऋतिः ।
वरिचर्य्या नमस्कारः प्रेम स्वात्मार्प्रणं हरौ” । तत्रैवोत्तरे
शिवपार्वतीसंवादे “आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं
हरेः । धारणञ्चोर्द्धपुण्ड्राणां तन्मन्त्राणां परिग्रहः ।
अर्चनञ्च जपीध्यानं तन्नामस्मरणं तथा । कीर्त्तनं
श्रवणञ्चैव वन्दनं पादसेवनम् । तत्पादोदकसेवा च तन्नि-
वेदितभोजनम् । तदीयानाञ्च संसेवा द्वादशीव्रतनि
ष्ठता । तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः । भक्तिः
षोड़शधा प्रोक्ता भवबन्धविमुक्तये” । किञ्च । “दर्शनं
भगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम् । आघ्राणं धूपशेषा-
देर्निर्माल्यस्य च धारणम् । नृत्यं भगवदग्रे च
तथावीणादिवादनम् । कृष्णलीलाद्यभिनयः श्रीभाग-
वतसेवनम् । पद्माक्षमालादिधृतिरेकादश्यादिजागरः ।
प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः । लिखिता
भगवर्द्धर्मा भक्तानां लक्षणानि च । तानि ज्ञेयानि
सर्वाणि भक्तेर्वै लक्षणानि ह । तेषु ज्ञेयानि गौणानि
मुख्यानि च विवेकिभिः । बहिरङ्गान्तरङ्गाणि प्रेम-
सिद्धौ च तानि यत् । भेदास्तु विविधाभक्तेर्भक्तभावादि-
भेदतः । मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम्”
“प्रेमभक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम् ।
भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुलक्षणम् । अथ प्रेम-
भक्तिलक्षणम् । नारदपञ्चरात्रे “अनन्यममता विष्णौ
ममता प्रेमसङ्गता । भक्तिरित्युच्यतेः भीष्मप्रह्वादो-
द्धवनारदैः । प्रेमभक्तेश्च महात्म्यं भक्तेमाहात्म्यकं परम् ।
सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् । चिह्नानि
प्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च । अथ प्रेमसम्पत्ति
चिह्नानि ७ मस्कन्धे प्रह्रादस्य वालानुशासने । “निशभ्य
कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुमिः
कृतानि” इत्यादि ४६२६ पृ० दर्शितम् ।
एकादशे च कवियोगेश्वरोत्तरे “शृण्वन् सुभद्राणि
रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके । गीतानि
नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ।
एवंव्रतः सप्रियनामकीत्त्यां जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति
लोकबाह्यः” । श्रीभगवदुद्धवसंवादे च “कथं विना रोमहर्षं
द्रवता चेतसा विना । विनानन्दाश्रुकलया शुध्येद्भक्त्या
विनाऽऽशयः । वाग्गद्गदा द्रवते यस्य चित्तं रोदित्य-
भीक्ष्णं हसति क्वचिच्च । विलज्ज । उद्गायति नृत्यते
च मद्भक्तियुक्तो भुवनं पुनाति । यथोक्तभक्त्यशक्तौ
तु भगवच्चरणाम्बुजम् । शरणागतभावेन कृत्स्नभीतिघ्न-
माश्रयेत्” हरिभक्तिविलासे ११ विलासः । उत्तमभ-
क्तेर्लक्षणं यथा “अन्याभिलाषिताशून्यं ज्ञानकर्मा-
द्यनावृतम् । आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा” ।
तथा नारदपञ्चरात्रे । “सर्वोपाधिविनिर्मुक्तं तत्परत्वेन
निर्मलम् । हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते” भाग०
३ स्क० च । सा उत्तमा भक्तिः षडविधा यथा “क्लेशघ्नी
पृष्ठ ४६२८
शुभदा मोक्षलघुदाकृत् सुदुर्लभा । सान्द्रानन्दविशेषात्मा
श्रीकृष्णाकर्षणी च सा” । तत्रास्याः क्लेहघ्नत्वम् क्ले-
शस्तु पापं तद्वीजमविद्या चेति ते त्रिधा” । शुभदत्वं
यथा “शुभानि प्रीणनं सर्वजगतामनुरक्तता । सद्गुणा
सुखमित्यादीन्याख्यातानि मनीषिभिः” मोक्षलघुताकृद्-
यथा “मनागेव प्ररूढ़ायां हृदये भगवद्रतौ । पुरुषा-
र्थास्तु चत्वारस्तृणायन्ते समन्ततः” । सुदुर्लभा यथा
“साधनौधैरनासङ्गैरलभ्या सुचिरादपि । हरिणा
चाशुदेयेति द्विधा सा स्यात् सुदुर्लमा । सान्द्रानन्दविशे-
षात्मा यथा “ब्रह्मानन्दो भवेदेष चेत्परार्द्धगुणीकृतः ।
नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि” । श्रीकृ-
ष्णाकर्षणी यथा “कृत्वा हरिं प्रेमभाजं प्रियवर्गसम-
न्वितम् । भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा” ।
सा उत्तमा भक्तिस्त्रिधा यथा “सा भक्तिः साधनं भावः
प्रेमा चेति त्रिधोदिता” । साधनभक्तिर्यथा । कृतिसाध्या
भवेत् साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य
भावस्य प्राकठ्यं हृदि साध्यता” । भावभक्तिर्यथा
“शुद्धसत्त्वविशेषात्मा प्रेम सूर्य्या शुसाम्यभाक् ।
रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते” । प्रेमभक्ति-
र्यथा “सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः
स एव सान्द्रात्मा वुधैः प्रेमा निगद्यते” भक्तिरसामृत-
सिन्धौ पूर्वविभागः ।

भक्तियोग पु० भक्तिरूपो योगश्चित्तैकाग्रतासाधनम् उपाय-

भेदः । भक्तिरूपे योगे भक्तियोगस्य ज्ञानात् श्रैष्ठ्यम्
स्वल्पायाससाध्यत्वात् गीतायाम् उक्तं यथा
“एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते । ये चाप्य-
क्षरगव्यक्तं तेषां के योगवित्तमाः” भू० । “द्वितीयप्रभृति-
ष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य
बिध्वस्तसर्वविशेषणस्योपासनमुक्तं सर्वयोगैश्वर्य्यसर्वज्ञानशक्ति-
मत्सत्त्वोपाघेरीश्वरस्य तव चोपासनम् । तत्र तत्रोक्तं
विश्वरूपाध्याये तु समस्तजगदात्मरूपं विश्वरूपं
त्वदीयं दर्शितमुपासनार्थमेव त्वया तच्च दर्शयित्वोक्त-
वानसि सत्कर्मकृदित्यादिना अहमनयोरुभयोः पक्ष
योर्विशिष्टतरबुभुत्सया त्वां पृच्छामीति अर्जुन
उवाच । एवमिति । एवं सततयुक्ता नैरन्तर्य्येण भगवत्-
कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः
ये भक्ताः अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्व-
रूपम्पर्य्युपासते ध्यायन्ति ये चाप्यक्षरमिति ये
चापि त्यक्तसर्वैषणाः सन्न्यस्तसर्वकर्माणो यथाविशै-
षितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगो-
चरं यद्धि लोके करणगोचरन्तद्व्यक्तमुच्यते अञ्जेर्धा-
तोस्तत्कर्मकत्वादिदं त्वक्षरं तद्विपरीतं शिष्टैश्चीच्य-
मानैर्विशेषणैर्विशिष्टं तद्ये चापि पर्य्युपासते तेषा-
मुभयेषां मध्ये के योगवित्तमाः मे अतिशयेन योगविद
इत्यर्थः” भा० ।
“श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता
उपासते । श्रद्धया परयोपेतास्ते मे युक्ततसा
मताः” मू० । “ये त्वक्षरोपासकाः सम्यग्दर्शिनो
निवृत्तैषणास्ते तावत्तिष्ठन्तु तान् प्रति यद्वक्तव्य
तदुपरिष्टाद्वक्ष्यामः ये त्वितरे मयीति । मयि विश्वरूपे
परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तो मां
सर्वयोगेश्वराणामधीश्वरं सर्वज्ञं विसुक्तरागादिक्लेशति-
मिरदृष्टिं नित्ययुक्ता अतीतानन्तराध्यायान्तोक्तश्लोकार्थ-
न्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृ-
ष्टया उपेताः मे भम मताः अभिप्रेता युक्ततमा
इति नैरन्तर्य्येण हि ते मच्चित्ततयाहोरात्रमतिवाह-
यन्ति अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम्” भा० ।
“ये त्वक्षरमनिर्देश्यमव्यक्तं पर्य्युपासते । सर्वत्रगमचि-
न्त्यञ्च कूटस्थमचलं ध्रुवम्” । “किमितरे युक्ततमा न
भवन्ति न, किन्तु तान् पति यद्वक्तव्यन्तत् शृणु ये तु
अक्षरमनिर्देश्यमव्यक्तमव्यक्तत्वादशब्दगोचरमिति न
निर्देष्टुं शक्यते अतोऽनिर्देश्यमव्यक्तं न केनापि प्रमा-
णेन व्यज्यत इत्यव्यक्तं पर्य्युपासते परिसमन्तादुपा-
सते उपासनं नाम यथाशास्त्रमुपास्यस्य विषयीकर-
णेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण
दीर्घकालं यदासनन्तदुपासनमाचक्षते । अक्षरस्य विशे-
षणमाह सर्वत्रगं व्योमवद्व्यापि अचिन्त्यं चाव्यक्तत्वाद-
चिन्त्यं यद्धि करणगोचरं तन्मनसापि चिन्त्यं तद्वि-
परीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमानगुणमन्तर्दोषं
वस्तु कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो
लोके तथा चाविद्यानेकसंसारवीजमन्तर्दोषं मायाप-
कृत्यादिशब्दवाच्यतया “मायान्तु प्रकृतिं विद्यान्मायिनन्तु
महेश्वरम्” “मम माया दुरत्यया” इत्यादौ प्रसिद्धं यत्तत्
कूटं तस्मिन् कूटे स्थितं तदध्यक्षतया । अथ वा राशि-
रिव स्थितं कूटस्थमत एवाचलं यस्मादचलं तस्मात् ध्रुवं
नित्यसित्यर्थः” भा० ।
पृष्ठ ४६२९
“संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्न वन्ति
मामेव सर्वभूतहिते रताः” भू० । “संनियम्येति । संनि-
यम्य सम्यक् नियम्य संहृत्य इन्द्रियग्रामं इन्द्रियसमुदायं
सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धि-
र्येषामिष्टानिष्टप्राप्तौ ते समबुद्धयः ते समबुद्धयः ते ये
एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः
न तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञा-
नित्वादात्मैव मे मतमित्युक्तत्वात् न हि भगवत्स्वरूपाणां
सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्” भा० ।
“क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि
गतिर्दुःखं देहवद्भिरवाप्यते” मू० । “किन्तु क्लेशोऽधिकतरो
यद्यपि मत्कर्मादिपराणां क्लेशोधिकस्तथापि अधिकतर-
स्त्वक्षरात्मनाम् । परमार्थदर्शिनां देहाभिमानपरित्यागनि-
मित्तः अव्यक्तासक्तचेतसामव्यक्ते आसक्त चित्तं येषां ते
अव्यक्तासक्तचेतसाम् अव्यक्ता हि यस्मादया गतिरक्षरा-
त्मिका दुःखं देहवद्भिर्देहाभिमानवद्भिरवाप्यते अतः
क्लेशोऽधिकतरः” भा० । “ये तु सर्वाणि कर्माणि मयि
संन्यस्य मत्परः । अनन्येनैव योगेन मां ध्यायन्त
उपासते” म० । “अक्षरोपासकानां यद्वर्त्तनं तदुपरि-
ष्टाद् वक्ष्यामः ये त्विति । ये तु सर्वाणि कर्माणि
मयीश्वरे सन्न्यस्य मत्परा अहं परो येषां ते मत्पराः
सन्तः अनन्येनैव अविद्यमानमन्यदालम्बनं विश्वरूपं
देवमात्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्येनैव केवलेन
योगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते” भा० ।
“तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात् । भवामि न
चिरात् पार्थ! मय्यावेशितचेतसाम्” । “तेषां किमि-
त्याह तेषामिति । तेषां मदुपासनैकपराणाम् अहमीश्वरः
समुद्वर्त्ता कुत इत्याह मृत्युसंसारसागरात् मृत्युयुक्तः
मसारो मृत्युसंसारः स एव सागरवत् सागरो दुरु-
त्तरत्वात् तस्मान्मृत्युसंसारसागरादहं तेषां समुद्धर्त्ता
भवामि न चिरात् किं तंर्हि क्षिप्रमेव हे पार्थ! मय्या-
वेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतो
येषां ते मय्यावेशितचेतसस्तेषाम्” भा० ।
“मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसि-
ष्यसि मय्येव अत ऊर्द्ध्वं न संशयः । अथ चित्तं
समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन
ततो मामिच्छ्वाप्तुं धनञ्जय! । अभ्यासेऽप्यसमर्थोऽसि
मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धि-
मवाप्स्यसि । अथैतदप्यशक्तीऽसि कर्त्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मबान् । श्रेयो हि
ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात् कर्म-
फलत्यागस्त्यागाच्छान्तिरनन्तरम् । अद्वेष्टा सर्वभूतानां
मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःख-
सुखः क्षमी । सन्तुष्टः रुततं योगी यतात्मा दृढ़निश्चयः ।
मय्यर्पितमनोबुद्धिर्योमद्भक्तः समे प्रियः । यस्मान्नोद्विजते
लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो
यः स च मे प्रियः । अनपेक्षः शुचिर्दक्ष उदासीनोगत-
व्यथः । सर्वारम्भपरित्यागी यो भद्भक्तः स मे प्रियः ।
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभा-
शुभपरित्यागी भक्तिमान् यः स मे प्रियः । समः शत्रौ
च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः । तुल्यनिन्दास्तुतिर्भौनी सन्तुष्टी
येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो
नरः । ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना
मत्परमा भक्तास्तेऽतीव मे प्रियाः” मू० गीता०१२ अ० ।

भक्तिरस पु० भक्तिः ईश्वरविषया रतिरेव रसः । तत्स्थायि-

भावके रसभेदे “विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः । एषः
कृष्णरतिस्थायिभावो भक्तिरसो भवेत्” इति भक्ति-
रसामृतसिन्धुः । मुक्ताफले तद्वीकायाञ्च भक्तेरसत्वम्
व्यवस्थापितं यथा “भक्तिरसस्यैव हास्यशृङ्गारकरुण
रौद्रभयानकवीभत्सशान्ताद्भुतवीररूपेणानुभवात् व्या-
सादिभिः वर्णितस्य विष्णोर्विष्णु भक्तानां वा चरित्रस्य
नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्ति-
रसः” मुक्ता० । “भक्तिर्विहिताऽविहिता च सैव परां
प्रकर्षरेखामापन्नारसः । यदाहुः । “भावा एवातिसम्पन्नाः
प्रयान्ति रसताममी” इति । भक्तिरसानुभावाच्च भक्तः यथा
तृप्त्यनुभवात् तृप्त इत्युच्यते सचानुभवो नवधा हास्यादि
भङ्गिभेदेन हास्यादय एव हि भगवति प्रयुज्यमानाः
“तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेदिति” भक्ति-
लक्षणाक्रान्तत्वात् भक्तिरसपदवीमासादयन्तीति भावः ।
हास्यादिलक्षण तु र्वक्ष्यते । ते चामी नवापि सुखः ख
मोहात्मकत्रैगुण्यव्यतिकरोद्भवाः तथा हि । प्रथमे "यो
रजोमूलाः, मध्यास्तु तमोमूलाः, चरमे सत्त्वमूलः ।
रतिहासादयो हि रजःप्रभृतीनां विकारा रत्युक्त-
मेकादशस्य पञ्चविंशाध्याये । तत्रापि प्रथमे त्रिषु-
पृष्ठ ४६३०
क्रमात् सत्त्वसंमिश्रं तमःमंमिश्रं सत्त्वतमःसंमिश्रं
च रजोमूलम् । मध्येषु रजोमिश्रं सत्त्वमिश्रं रजः
सत्त्वमिश्रञ्च तमः । चरमेषु तमोमिश्रं रजोमिश्रं
रजस्तमोमिश्रं च सत्त्वम् हेयाभिधानक्रमेण चैष क्रमः” ।
आक्षेपपूर्वकं तस्या रसरूपत्वं तत्र व्यवस्थापितं यथा
“तस्माद्विभावादिरससामग्रीविरहान्न भक्ते रसत्वम्
अतएवायमन्यैः “एवं भक्तावपि वाच्यमिति” वदद्भिः स्रत्या-
दिष्टः । अत उत्तरं पठति । व्यासादिभिरिति । वर्णितस्य
चरित्रस्य विष्णुभक्ताः गोप्यादयः श्रवणादिनेत्यादिशब्दा-
द्दर्शर्नकीर्त्तनस्मरणाभिनयात् चमत्कारः सामाजिकानां
हि यस्मादेवंसामग्रीको भक्तिरसस्तस्मादनपह्नवनीय
इत्यर्थः । तत्रैषा सामग्री केनाप्युपायेन मनीनिवेशः
स्थायी चरित्रश्रवणादय उद्दीपनविभावा विष्णु विष्णु-
भक्ताश्चालम्बनम् अनुभावास्तु स्तम्भादयो वक्ष्यमाणा
यथायोग्यं धृत्यादिका व्यभिचारिणश्च । उपायस्तु
रतिहासादिः । कविभिर्वर्णितस्येत्यनेन महाकविप्रबन्धसमर्प्य-
माणेष्वेव रसव्यवहारो नान्यत्रेऽत्युक्तम् । एवमेवैतत्
अनुकार्य्येषु हि जानकीरामभद्रादिषु रत्यादिमात्रं
चमत्कारश्च यद्यपि शृङ्गारादौ क्वचिदस्ति । तथापि तस्य
भयानकादावनुपलम्भान्न तत्र रसव्यवहारः । अतएव च
“तानि चेन्नाट्यकाव्ययोः” इत्यादीनि विशेषणानि ।
अभिनयैरुपदर्श्यमानादपि सन्दर्मैः समर्प्यमाणो रसोऽतिस्वदते
अतएवोक्तं “कविवागभिनेयञ्च तदुपायो द्विधेष्यते ।
वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते” इति । यत्त्व
भिनवगुप्तहेमचन्द्रभ्याम् “एवं भक्तावपि बाच्यम्” इत्युक्तं
तदसत् रसत्वस्य दर्शितत्वात् । सामग्रीसद्भावेऽपि पत्या-
ख्यानमरोचकतामात्रशरणम् । न च संगच्छमानोप्य
यमसर्वविषयत्वात् रसत्वात्च्यवतामिति चोद्यं तथा
सति सर्वरसोच्छेदापातात् । तथा हि शोत्रियजरन्मी-
मांसकादयो हि नाट्यमण्डपान्तःप्रविष्टा अपि चमत्-
काराभावात् कीशप्राया एव । एवं प्रशान्तब्रह्मचारि-
प्रभृतयः शृङ्गाररसास्वादे बालानां गाढ़रागाणाञ्च
शान्तरसचर्वणानभिज्ञत्वम् । अननुभूतशोकस्पर्शानां च
करुणरसास्वादावसरे पाषाणप्रख्यत्वम् तस्मात् सवासन-
स्यैव रसचर्वणेति भक्तिरसदर्शनम्” ।

भक्तिल पु० भक्तिं भङ्गीं लाति ला--क । साधुहये शब्दच०

भक्तिसूत्र न० “अथातो भक्तिजिज्ञासेत्यादिके शाण्डिल्य-

मुनिप्रणीते सूत्रात्मकग्रन्ये ।

भक्ष अदने चु० उभ० सक० सेट् । भक्षयति--ते अबभक्षत्--त

तस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत् । उभयपदित्व-
मस्येत्यन्ये भक्षते अभक्षिष्ट ।

भक्ष पु० भक्ष--भावे कर्मणि वा घञ् । १ अशने २ भक्ष्ये च ।

“वषट् कर्तुः प्रथमभक्षः” श्रुतिः उञ्छा० अन्तोदात्ततास्य
“गावः सोमस्य प्रथमस्य भक्षाः” सि० कौ० धृतश्रुतिः ।

भक्षक त्रि० भक्ष--ण्वुल् भक्षणकारके अमरः ।

भक्षिका स्त्री भक्ष अर्हादौ गम्ये भावे ण्वुच् । भक्षणार्हादौ

“भवानिक्षुभक्षिकामर्हति ऋणे इक्षुभक्षिकां मे
धारयति” सि० कौ० ।

भक्ष(क्ष्य)कार पु० भ(क्ष)क्ष्यं वा करोति कृ--अण् । भक्ष्य-

पिष्टकादिविक्रयोपजीविनि आपूपिके भरतः ।

भक्षटक पु० भक्ष--बा० अटन् संज्ञायां कन् । गोक्षुरे राजनि०

भक्षण न० भक्ष--भावे ल्युट् । कठिनद्रव्यस्य गलाधःकरण-

व्यापारे भक्षणप्रकारः सुश्रुतोक्तः आहारशब्दे ८९७
पृष्ठादौ दृश्यः ।

भक्ष(क्ष्य)पत्रा स्त्री भक्ष्यं पत्रमस्याः । ताम्बूलीलतायाम् राजनि० ।

भक्षालि पु० भक्षाणामालिर्यत्र । देशभेदे ततो भवार्थे वुञ् ।

भाक्षालिक तद्देशभवे त्रि० ।

भक्षिवस् त्रि० भक्ष--क्वसु वेदे न द्वित्वम् । भक्षणे अथर्व०

६ । १९ । लोके तु बिभक्षिवस् इत्येव त्रि० स्त्रियां ङीप्
बिभक्षुषी ।

भक्ष्य त्रि० भक्ष--कर्मणि ण्यत् । १ अदनीये “कठिनं विशदम-

व्यवहार्य्यं भक्ष्यम् महाभाष्योक्ते विविक्तावयवे कठिने
२ खाद्ये च “भक्ष्येण मिश्रीकरणम्” पा० मिश्रीकरणद्वारा
सामर्थ्यम् ३ त० । गुड़धानाः ।

भक्ष्यालाबू स्त्री कर्म० । राजालाबूलतायां राजनि० ।

भग पु० न० भज + घ । १ सूर्य्ये २ अणिमद्यष्टविधैश्वर्य्ये ३ वीर्य्ये

४ यशसि ५ श्रियां ६ ज्ञाने ७ वैराग्ये ८ योनौ ९ इच्छायाम्
१० माहात्म्ये ११ यत्ने मेदि० १२ धर्मे १३ मोक्षे १४
सौभाग्ये १५ कान्तौ १६ चन्द्रे च । ज्योतिषोक्ते योनिन-
क्षत्रदैवते १७ पूर्वफल्गुनानक्षत्रे १८ गुह्ममुष्कयोर्मध्यस्थाने
च पु० । आद्युदात्ततास्य । १९ धने २० पदे च न० निघण्टुः ।
भगबच्छब्दे दृश्यम् । स्त्रीचिह्नस्य लक्षणभेदादिकं यथा
“विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम्” “कूर्मपृष्ठं
गजस्कन्धं पद्मगन्धं सुकोमलम् । अकोमलं सुविस्तीर्णं
पञ्चैते च भगोत्तमाः । शीतलं निम्नमत्युष्णं गोजिह्वा-
सदृशं परम्” रतिमञ्जरी ।
पृष्ठ ४६३१

भगघ्न पु० भगं तन्नेत्रं हन्ति हन--टक् । १ महादेवे

“नमस्ते त्रिपुरघ्नाय भगघ्नाय नमो नमः” भा० द्रो० २०३ अ०
तस्य दक्षयज्ञकाले तन्नेत्रहारित्वात् तथात्वम् ।

भगण पु० ६ त० । १ द्वादशराशीनां समूहे २ तद्भोगकाले च ।

यथोक्तं सू० सि० “पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं
ग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ।
प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः । परिणाह
वशाद्भिन्ना तद्वशाद्भानि भुञ्जते । शीघ्रगस्तान्यथाल्पेन
कालेन महताल्पगः । तेषां तु परिवर्त्तेन पौष्णान्ते भगणः
स्मृतः । विकलानां कला षष्ठ्या तत् षष्ठ्या भाग उच्यते ।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” सू० सि० ।
“शीघ्रगतिर्ग्रहस्तानि भान्यल्पेन कालेन भुनक्त्यल्पगति-
र्ग्रहो बहुकालेन भुनक्ति, तुल्यराश्यादिभोगो मन्दशीघ्र-
गतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः । तेषां
राशीनां परिवर्त्तेन भ्रमणेन । तुकाराद् ग्रहादिगति-
भोगजनितेन भगणः प्राज्ञैरुक्तः । क्रान्तिवृत्ते द्वादश-
राशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थान-
मारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्र-
भोगः परिवर्त्तसञ्ज्ञीऽपि द्वादशराशिभोगाद्भगण
इत्यर्थः । ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवा-
दत्रकः परिबर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्त
इति । सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारा-
सन्नप्रदेशे सर्वग्रहाणां निवेशतित्वात् तदवधिती ग्रह-
चलनाच्च पौष्णस्य रेवतीयोताराया अन्ते निकटे प्रदेशे
तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूत-
मिति भावः” रङ्गनाथः ।

भगदत्त पु० प्राग्ज्योधपुराधीशे नरकासुरपुत्रभेदे कालिकापु० ३९ अ० ।

भगदा स्त्री स्कन्दानुचरमातृभेदे भा० व० ४७ अ० ।

भगदेव पु० भगेन दीव्यति दिव--अच् । कामुके भा० आश्व० ४३ अ० ।

भगदैवत न० भगो योनिः दैवतं यस्य । पूर्वफल्गुनीनक्षत्रे

तस्या योनिदेवताकत्वात् तथात्वम् । अश्लेषाशब्दे दृश्यम् ।
तच्च वृहस्पतिजन्मनक्षत्रं यथोक्तं ज्यो० त० “विशाखा-
नल ३ तोयानि २४ वैष्णवं २२ भगदवतम् ११ । पुष्या पौष्णो २७
यमः २ सर्पो ९ जन्मभान्यर्कतः क्रमात्” ।

भगनन्दन पु० ३ त० । ऐश्वर्य्येनानन्दयुक्ते विष्णौ भगहन्शब्दे दृश्यम् ।

भगनन्दा स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ० ।

भगनेत्रघ्न पु० भगनेत्रं हन्ति दक्षयज्ञकाले हन--ठक् ।

महादेवे भा० अनु० १४३ अ० । भगनेत्रापहादयोऽप्यत्र ।

भगन्दर पु० भगं गुह्ममुष्कमध्यस्थानं दारयति दृ--णिच्--खश् मुम्

खचि ह्रस्वश्च । स्वनामख्याते रोगभेदे । भावप्र० तन्नि-
दाननिरुक्त्यादिकमुक्तं यथा
“अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह । “कटीक-
पालयोस्तोददाहकण्डूरुजादयः । भवन्ति पूर्वरूपाणि
भविष्यति भगन्दरे । गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः
पीड़कार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्च-
विधो भवेत्” । आर्त्तिकृत् पीड़ाकृत् । पञ्चविधः वाति-
कपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः । अथ गन्दर-
शब्दस्य निरुक्तिमाह भोजः “भगन्दरः समन्ताच्च गुदं
वस्तिं तथैव च । भगवद्दारयेद्यस्मात् तस्मादेष
भगन्दरः” । भजन्त्यनेनेति भगो मेहनम् । भजन्त्यस्मिन्निति
भगं योनिः । अत्र भगशब्देन द्वयमपि कथ्यते ।
भगवत् योनिवत् । अथ वातिकं शतपोनकसंज्ञं
भगन्दरमाह । “कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे
पिड़कां करोति याम् । उपेक्षणाद्वातमुपैति दारुणं
रुजा च भिन्नारुणफेनवाहिनीम् । तत्रागमो मूत्रपुरीष-
रेतसां व्रणैरनेकैः शतपोनकं वदेत्” । दारुणम्
अतिदारुणरुक् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकं
शतपोनकश्चालनी तत्तुल्यम् । अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह
“प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिड़कां
गुदे गताम् । तदाशुपाकां हिमपूतिवाहिनीं भगन्दरं
चोष्ट्रशिरोधरं वदेत्” । आशुपाकां हि मपूतिवाहिनीं
शीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं च । तदा भगन्दरमुष्ट्र-
शिरीधरं वदेत् । उष्ट्रग्रीवसंज्ञा च पिड़कागलेन
वक्रतयोष्ट्रग्रीवाकत्वेन । अथ श्लैष्मिकं परिस्राविसंज्ञ-
माह । “कण्डूयनो घनस्रावी कठिनो मन्दवेदनः ।
श्वेतावभासः कफजः परिस्रावी भागन्दरः” । कठिनः
पिड़कावस्थायाम् । परिस्रावी निरन्तरस्रावशीलः ।
अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह । “बहुवर्णरुजा
स्रावा पिड़का गोस्तनोपमा । शम्बूकावर्त्तगतिकः शम्बू-
कावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णा-
दिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः । अथ शल्यज-
मुन्मार्गसंज्ञमाह । “क्षताद्गतिः पायुगता विवर्द्धते
ह्युपेक्षणात् स्यः कृमयो विदार्य्य ते । प्रकर्वते मार्गमने-
कधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्” । क्षतात् कण्ट-
कादिना नखेन कण्डूयनादिना वाऽभिघातात् । गतिः
स्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी-
पृष्ठ ४६३२
षादिनिर्गमादुन्मर्गसंज्ञ” । कष्टसाध्यमसाध्यञ्चाह “घोराः
साधयितुं दुःखा सर्व एव भगन्दराः । तेष्वसाध्यस्त्रिदो-
षोत्थः क्षतजश्च विशेषतः । वातमूत्रपुरीषाणि वक्रञ्च
कृमयस्तथा । भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्” ।

भगभक्त त्रि० भगे धने भक्तः । धनरते ऋ० १ । २४ । ५ ।

भगभक्षक पु० भगेन तद्व्यापारोपपादनेन भक्षति भक्ष--ण्वुल् ।

(कोटना) ख्याते नायकयोर्मेलके ।

भगल त्रि० भगं तद्व्यापारं लाति--ला--क । भगव्यापार

म्राहके ततः अरीहणा० चतुरर्थ्या वुञ् । भागलक
तन्निवृत्तादौ त्रि० ।

भगशास्त्र न० भगव्यापारबोधकं शास्त्रम् शा० त० । कामशास्त्रे

भगवत् षु० भगम् “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः

श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनेत्युक्तम्
अस्त्यस्य मतुप् मस्य वः । १ ऐश्वर्य्यादियुक्ते परमेश्वरे २ बुद्धे
अमरः तस्य षड़भिज्ञत्वात् भगरूपैश्चर्य्यादियोगाच्च
तथात्वम् । अस्य संबोधने भगो इत्येव अजादौ तस्य
विसर्गस्य लोपः । ३ दुर्गायां स्त्री ङीप् । “सेव्यते या
सुरैः सर्वैस्ताञ्चैव भुजते यतः । धातुर्भजेति सेवायां
भगवत्येव सा स्मृता” देवीपु० ४५ अ० ।

भगवद्गीता स्त्री ३ त० । भीष्मपर्वान्तर्गते अष्टादशाध्यायात्मके

कर्मयोगज्ञानयोगभक्तियोगसूचके ग्रन्थे ।

भगवद्दृश्य त्रि० भगवानिव दृश्यते दृश--कर्मणि क्यप ।

भगवत्तुल्ये । “श्रुतं मे भगवद्दृश्येभ्यस्तरति शोकमात्म-
वित्” छा० उ० ।

भगहन् पु० भगमैश्वर्य्यं संहारकाले हन्ति--हन--क्विप् । विष्णौ “भगहा भगनन्दतः” विष्णुस० ।

भगाङ्कुर पु० भगे गुह्यस्थानेऽङ्कुर इव । अर्शोरोगे शब्दार्थक०

भगाधान न० ६ त० । १ माहात्म्याधाने २ सौभाग्ये च

हरिवं० १२४ अ० ।

भगाल न० भज--कालन् न्यङ्क्वा० कुत्वम् । १ नरमस्तके २

नरकपाले उज्ज्वलः । ततः अस्त्यर्थे इनि । भगालिन्
कपालधारके शिवे त्रिका० भगालशब्दे परे द्विगौ पूर्व-
पदप्रकृतिस्वरः पञ्चभगालः । द्विगुभिन्ने तत्पुरुषे प्रकृति-
स्वरस्तेन अन्तोदात्ततास्य ।

भगिनी स्त्री भगं यत्नः पित्रादीनां द्रव्यादानेऽस्त्यस्याः इनि

ङीप् । १ सोदरायाम् स्वसरि अमरः । “भगिनीशुल्कं
सोदर्य्याणाम्” दायभागः । २ खीमात्रे च शब्दच० ३ भाग्या-
त्वितस्वीमात्रेऽपि तेन सर्वस्त्रीणां तत्पदेन संबोधनं
विहितम् । “परपत्नी च या स्त्री स्यादसम्बन्धाश्च
योनितः । तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च” मनुः ।

भगीरथ पु० सूर्य्यवंश्ये नृपभेदे “असमञ्जसस्तु तनयो ह्यंशु-

मान्नाम विश्रुतः । तस्य पुत्रो दिलीपस्तु दिलीपात्तु
भगीरथः । येन भागीरथी गङ्गा तपःकृत्वाऽवतारिता”
मत्स्यपु० १२ अ० ।

भगेश पु० ६ त० । ऐश्वर्य्यादेरीश्वरे “धर्मावहं पापनुद भगेशम्” श्वेता० उ० ।

भगोल पु० भानां नक्षत्राणां गोलाकारः पदार्थः । राशिचक्रे

तस्य भ्रमणभेदादिकं सू० सि० उक्तं यथा
“सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् । उपरि-
ष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा” सू० सि० । “अयं
प्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरो-
रुत्तराग्रवर्तिनां सव्यम् पूर्वादिकममार्गेणेत्यर्थः ।
भ्रमति भ्रमं परिवर्तं करोतीत्यर्थः । दैत्यानां मेरो-
देक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण ।
पूर्वोत्तरपश्चिमदक्षिणक्रमेणेत्यर्थः । नक्षत्राधिष्ठितगोलो
भ्रमति । व्यक्षे निरक्षदेशेषु जात्यभिप्रायेणैकवच-
नम । उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलः
पश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति
भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् तयोस्तत्र क्षिति-
जवृत्तस्थत्वाच्च” रङ्ग० । तस्य प्रत्यक्षदर्शनार्थं सि० शि०
भगोलबन्धप्रकारमाह यथा
“इदानीं भगोलबन्धमाह । “याम्योत्तरक्षितिजवत् सुदृढ़ं
विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् । षष्ट्यङ्कमात्रस-
ममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव” मू० ।
इदानीं क्रान्तिवृत्तमाह । “क्रान्तिवृत्तं विधेयं गृहाङ्कं
भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः । क्रान्तिपातः प्र०
तीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” ।
इदानीं क्रान्तिवृत्तस्य निवेशनमाह । “क्रान्तिपाते च
पाताद्भषट्कान्तरे नाड़िकावृत्तलग्नम् विदध्यादिदम् ।
पाततः प्राक्त्रिभे सिद्धभागैरुदग् दक्षिणे तैश्च भागै-
र्विभागेऽपरे” । इदानीं विमण्डलमाह । “नाड़िकामण्डले
क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् । क्षेपवृत्तं तु राश्य-
ङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् ।
क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा
युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः
सौम्ययाम्ये न्यसेत् शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाः
स्युः परक्षेपभागा ग्रहाणां स्फुटाः । क्षेपवृत्तानि षण्णां
विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा महाः” ।
पृष्ठ ४६३३
इदानीं क्रान्तिं विक्षेपं चाह । “नाड़िकामण्डलात्
तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः । क्षेपवृ-
त्तावधिस्तिर्यगेवं स्फुटो नाड़िकावृत्तखेटान्तरालेऽपमः” ।
इदानीं क्रान्तिपातानां विषुवत्क्रान्तिवलययोः सम्पातः
क्रान्तिपातः स्यात् । तद्भगणाः सौरोक्ता व्यस्ता अयुत-
त्रयं कल्पे । अयनचलनं यदुक्तं मुञ्जालाद्यैः स
एवायम् । तत्पक्षे तद् भगणाः कल्पे गीऽङ्गार्तुः
नन्दगोचन्द्राः । तत् संजातं पातं क्षित्या खेटेऽपमः
साध्यः । क्रान्तिवशाच्चरसुदयाश्चरदललग्नापमे ततः
क्षेप्यः” । इदानीं विक्षेपपातानाह । “एवं क्रान्तिविम-
ण्डलसपाताः क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः
क्षेपानयने तु ते योज्याः । मन्दस्फुटो द्राक् प्रतिमण्डले
हि ग्रहो भ्रमत्यत्र च तस्य पातः । पातेन युक्ताद्-
गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् ।
पातेऽथ वा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन
युताच्छरोऽतः । चन्द्रस्य कक्षाबलये हि पातः स्फुटा-
द्विधोर्मध्यमपातयुक्तात्” । इदानीं ज्ञशुक्रयोर्विशेषमाह
“ये चात्र पातभगणा पठिताज्ञभृग्वोस्ते शीघ्रकेन्द्र-
भगणैरधिका यतः स्युः । सूक्ष्माः सुस्वार्थमुदिताश्चल-
केन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ।
चलाद्विशोध्यः किलकेन्द्रसिद्ध्यै सपातेद्युचरस्तु योज्यः ।
अतश्चलात् पातयुताज्ज्ञभृग्वीः सुधीभिराद्यैः
शरसिद्धिरुक्ता । स्फुटी न शीघ्रोच्चयुतौ स्फुटौ तयोः
पातौ भगोले स्फुट एव पातः” । इदानीं ग्रहगोले
विशेषमाह । ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य
कक्षाबलय यथोदितम् । निबध्य शीघ्रप्रतिवृत्तमस्मिन्
विमण्डलं तत्पठितैः शराशैः । मध्येऽत्र पातोद्युसदां
ज्ञभृग्वोः खशीघ्रकेन्द्रेण युतस्तु देयः । इदानीमहोरा-
त्रवृत्तमाह । “ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाड़िका-
स्यादहोरात्रवृत्ताह्वयम् । तत्र बद्ध्वा घटीनां च षष्ठ्याङ्क-
येद्यस्य विष्कम्भखण्डं द्युजीवा मता । इदानीमन्यदाह ।
“अथ कल्प्यामेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एषां
मेषादीनां द्युरात्रवृत्तानि बध्नीयात् । नाड़ीवृत्तोभयत-
स्त्रीणि त्रीणि क्रमोत्क्रमात् तानि” । इदानीमस्योपसं-
हारमाह “एष भगोलः कथितः खेचरगोलोऽयमेव
विज्ञेयः । अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव ।
शन्यादीनां कक्षा बध्नीयादूर्णनाभजालामाः । बद्ध्वा
भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः । प्रक्षिप्य
भ्रमयेत् तं यष्ट्याधारं स्थिरौ खट्टग्गोलौ” सि० शि० ।

भग्न त्रि० भन्ज--क्त । १ कृतावयवभेदे २ रोगभेदे हेमच० ।

तन्निदानभेदादिकं सुश्रुते उक्तं यथा
“अथातो भग्नानां निदानं व्याख्यास्यामः । पतनपीड-
नप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिथातविशेषैरने-
कविधमस्थ्नां भङ्गमुपादिशन्ति तत् तु भङ्गजातमनुसार्य्य-
माणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च ।
तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्त्तितमवक्षिप्तमति-
क्षिप्तं तिर्य्यक्क्षिप्तमिति षड्विधम् । तत्र प्रसारणान
कुञ्चनविवर्त्तनाक्षेपणाऽशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति
सामान्यं सन्धिमुक्तलक्षणमुक्तम् । विशेषेणोत्पिष्टे
सन्धाबुभयतः शोफो वेदनाप्रादुर्भावी विशेषतश्च नाना-
प्रकारा वेदना रात्रौ प्रादुर्भवन्ति । विश्लिष्टेऽल्पशोफो
वेदनासातत्यं सन्धिविक्रिया च । विवर्त्तिते तु सन्धि-
पार्श्वापगमनाद्विषमाङ्गता वेदना च । अवक्षिप्ते सन्धि-
विश्लेषस्तीव्ररुजत्वञ्च । अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरति-
क्रान्तता वेदना च । तिर्य्यक्क्षिप्ते त्वेकास्थिपार्श्वाप-
गमनमत्यर्थं वेदना चेति । काण्डभग्नमत ऊर्द्ध्वं वक्ष्यामः
कर्कटकमश्वकर्णं चूर्णितं पिच्चितमस्थिच्छल्लितं काण्ड-
भग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितं
स्फुटितमिति द्वादशविधम् । श्वयथुबाहुल्यं स्पन्दन
विवर्त्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता
विधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ
इति समासेब काण्डभग्नलक्षणमुक्तम् । विशेषतस्तु
संमूढ़मुभयतोऽस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकम् ।
चूर्णितमस्थि तत् तु शब्दस्पर्शाभ्यां बोद्धव्यम् । पिच्चितं
पृथुताङ्गतमनल्पशोफम् । पार्श्वयोरस्थिहीनोद्गतम-
स्थिच्छल्लितम् । वेल्लेत प्रकम्पमानं काण्डभग्नत्वम् ।
अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानसुन्नह्यतीति
मज्जानुगतम् । अस्थि निःशेषतश्छिन्नमतिपतितम् ।
आभुग्नमविमुक्तास्थि वक्रम् । अन्यतरपार्श्वावशिष्टं
छिन्नम् । पाटितमणु बहुविदारितं वेदनावच्च । शूकपूर्ण-
मिवाध्मातं विपुलं विस्फुटीकृतं स्फुटितमिति । तेषु
चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि
कृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतञ्चेति ।
भवन्ति चात्र “भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा
च्युतम् । जघनं प्रतिपिष्टञ्च वर्जयेत् तच्चिकित्ससकः ।
असंश्लिष्टं कपालन्तु ललाटे चूर्णितञ्च यत् । भग्नं
पृष्ठ ४६३४
स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् । आदितो यच्च
दुर्ज्जातमस्थिसन्धिरथापि वा । सम्यक् संहितमप्यस्थि
दुर्न्यासाद् दुर्निबन्धनात् । सङ्क्षोभाद्वापि यद्गच्छेद्वि-
क्रियां तत् तु बर्जयेत् । मध्यस्य वयसोऽवस्थास्तिस्रो
याः परिकीर्त्तिताः । तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो
विजांनुता । तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि
तु । कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च” ।

भग्नपाद न० ज्यो० त० उक्ते कृत्तिकादिनक्षत्रेप्यस्य नक्षत्रस्य

तृतीयपादस्य आद्यपादस्य वा राश्यन्तरघटकता तादृशे
नक्षत्रे । “पुनर्वसूत्तराषाढ़ाकृत्तिकोत्तरफल्गुनी । पूर्वभद्रा
विशाखा च षड़ेते पुष्कराः स्मृताः भग्नपादर्क्षसंयोगात्” ।

भग्नपृष्ठ त्रि० भग्नं पृष्ठं यस्य । १ मुटितपृष्ठके २ सम्मुखे च

त्रिका० ।

भग्नप्रक्रम पु० भग्नः प्रक्रमो यत्र । काव्यगते वाक्यदोषभेदे

३७६३ । ६४ पृ० दोषशब्दे दृश्यम् । तदुदाहरणं सा० द०
“एवमुक्तो मन्त्रिमुख्यैर्रावणः प्रत्यभाषत” अत्र
वचधातुना प्रकान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन
“रावणः प्रत्यवोचतेति” पाठो युक्तः । एवञ्च सति न
कथितपदत्पदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्
इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिर्देश्यत्वम् । यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र ।
यदि पदान्तरेण स एवार्थः पतिपाद्यते तदान्योऽर्थ इव
प्रतिभासमानः प्रतीतिं स्थगयति । यथा वा । “ते
हिमालयमामन्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धञ्चास्मै
निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” । अत्र “अस्मा इति”
इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां
वा परामर्शो युक्तो न तच्छब्देन । यथा वा । उदन्व-
च्छिन्ना भूः स च पतिरपां योजनशतम्” । अत्र “मिता
भूः पत्यापां स च पतिरपामिति” युक्तः पाठः । एवं
“यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितुं
वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति
सिद्धिः अत्र सखमीहितुमित्युचितम् । अत्राद्ययोः
प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्य्यायविषयः चतुर्थे
प्रत्ययविषयः” ।

भग्नसन्धि पु० भग्नः सन्धिरत्न । रोगभेदे गरुड़पु० १५७ अ०

भग्नसन्धिक न० भग्नः सन्धिः सन्धानमवयवयोजनमत्र

कप् । तक्रे (थोग) शब्दच० ।

भग्नात्मन् पु० ६ ब० । चन्द्रे शब्दचन्द्रिका । तस्य कृष्णप्रति-

पदादिक्रमेण एकैककलाविच्छेदेन भग्नदेहत्वात् तथात्वम्

भग्नाश त्रि० ६ त० । १ हताशे इष्टविषयाया इच्छायाः प्रति-

घातयुक्ते ।

भग्नी स्त्री भगिनी + पृषो० । भगिन्यां द्विरूपकोषः ।

भङ्कारी स्त्री भमित्यव्यक्तशब्दं करोति कृ--अण् गौरा० ङीष् ।

भम्भरालिकायां दंशे त्रिका० ।

भङ्ग पु० भन्ज--भावादौ घञ् । १ तरङ्गे अमरः २ पराजये ।

३ खण्डे ४ रोगभेदे मेदि० ५ कौटिल्ये ६ भये ७ पत्ररचनाभेदे
हेम० । ८ गमने ९ जलनिर्गमे च अजयपालः १० मातुला-
याम्, अमरः । ११ शणाख्ये १२ शस्ये त्रिवृतायां (तेउडी)
१३ विजयायाञ्च (भाङ्) स्त्री । १४ रोगमात्रे पु० राजनि० ।

भङ्गकार पु० अविक्षितो नृपस्य १ पुत्रभेदे भा० आ० ९४ अ० ।

२ सत्राजित्पुत्रभेदे हरिवं ३८ अ० ।

भङ्गवासा स्त्री भङ्गे सति वासः सौरभं यस्याः । हरिद्रायां

शब्दरत्ना० तस्याः पेषणे एव वासनावत्त्वात्तथात्तम् ।

भङ्गसार्थ त्रि० भङ्गस्तद्युतः सार्थः मायायुतत्वात् सप्रयोजनः ।

कुटिले हारा० ।

भङ्गाकट न० भङ्गाया रजः भङ्गा + रजसि कटच् । भङ्गौषधे । रजसि

भङ्गान पुंस्त्री भङ्गेन तरङ्गेण अनिति अन--अच् ।

(भाङ्गन) मत्स्यभेदे शब्दमा० स्त्रियां जातित्वात् ङीष् ।

भङ्गारी स्त्री भमित्यव्यक्तं गिरति गॄ--अण् गौरा० ङीष् ।

दंशे त्रिकाण्डे पाठान्तरम् ।

भङ्गासन पु० नृपभेदे तत्कथा भा० अनु० १२ अ० ।

भङ्गि(ङ्गी) स्त्री भतज्--इन् न्यङ्क्वा० कुत्वम् वा ङीप् । १

विच्छेदे २ कोटिल्ये ३ विन्यामे ४ कल्लोले ५ भेदे ६ व्याजे च ।

भङ्गिमन् पु० भङ्ग + बा० स्वार्थे इमनिच् । भङ्ग्याम् ।

भङ्गुर त्रि० भन्ज--घुरच् । १ स्वयं भञ्जनशीले जटा० । २ कुटिले

२ नदीनां वक्रे च शब्दमा० । ४ प्रियङ्गौ ५ अतिविषायाम् च
(आतैच्) स्त्री राजनि० ।

भङ्ग्य न० भङ्गानां भवनं क्षेत्रं तमर्हति बा यत् ।

भङ्गाभवनयोग्ये क्षेत्रे २ भङ्गार्हे त्रि० ।

भचक्र न० गानां नक्षत्राणां राशीनां वा चक्रम् । १ राशि-

चक्रे २ नक्षत्रचक्रे च “भ्रमावर्तो भचक्रेऽस्मिन् ध्रुवो नाभौ
व्यवस्थितः । आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः ।
राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः । यदा दिक्षु च
अष्टाशु मेरोर्भूगोलकोद्भवा । कृआया भवेत्तदा रात्रिः
स्याच्च तद्विरहाद्दिनम् । सूर्य्येन्द्वोरुपरागस्तु गोलक-
च्छायया भवेत् । अन्योन्ययोस्तयोरेव व्यासयोरेव कार-
पृष्ठ ४६३५
णात् । ग्रासमोक्षौ तु जायेते तत्रातः पूर्वपश्चिमौ । तत्र
पुण्यफलाद्भागः कृतो राहीस्तु विष्णुना” वह्निपु० ।
अधिकं मगोलशब्दे दृश्यम् ।

भज भागे पृथक्करणे सेवायाञ्च भ्वा० उभ० सक० अनिट् ।

भजति--ते अभाक्षीत् अभक्तबभाज भेजतुः भेजे ।

भज पाके दाने च चु० उ० सक० सेट् । भाजयति--ते अबीभजत्त

भज दीप्तौ चु० उभ० सक० सेट् इदित् । भाजयति--ते अबीभजत्--त

भजमान त्रि० भज--शानच् । १ न्यायागतद्रव्यादौ २ विभाजके

३ सेवके च । सात्त्वतो नृपस्य कोशल्यागर्भजाते ४ पुत्रभेदे पु०
हरिवं० ३८ अ० ।

भजि पु० भज--धातुनिर्देशे इन् । १ भजधातौ । इन् । सत्वतो

नृपस्य २ पुत्रभेदे भाग० ९ । २४ । ४ श्लो० । हरिवं० ३८ अ० ।
भजिन् इति पाठान्तरम् तत्रार्थे

भजेन्य त्रि० भज--बा० कर्मणि एन्य । भजनीये भाग० ५१७२०

भजेरथ पु० राजभेदे ऋ०१ । ६०२ ।

भञ्जनक पु० मुखरोगभेदे “वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च

जायते । कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः”
माधवकरः ।

भञ्जनागिरि पु० ६ त० । किंशुलुका० दीर्घः । पर्वतभेदे

भञ्जरुं पु० भन्ज--बा० उरु । देवकुलोद्भवे वृक्षे त्रिका० ।

भञ्जा स्त्री अन्नपूर्णायाम् रुद्रयामले ।

भट भृतौ कर्ममूल्यग्रहणे भ्वा० पर० सक० मेट् भटति । अभा

टीत्--अभटीत् । यो भाटयित्वा शकटं नीत्वा चान्यत्र
गच्छति । भाटं न दद्यात् दाप्योसाऽवरूढ़स्यापि भाटकम्”
वृद्धमनुः ।

भट भाषणे भ्वा० पर० सक० सेट् । भटति अभा(भ)टीत् ।

भट पु० भट--अच् । १ योद्धरि अमरः “तद्भटचातुरीतुरी”

नैष० । २ म्लेच्छभेदे हेम० ३ वीरे ४ नीचभेदे ५ रात्रिञ्चरे च
मेदि० ६ इन्द्रवारुण्याम् (राखालशशा) स्त्री रत्न० ।

भटित्र न० भट--इत्र । शूलपक्वे मांसादौ (कावाव) अमरः ।

भट्ट पु० भट--तन् । स्तुतिपाठवृत्तियुते (भाट) १ जातिभेदे

“वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह । स भटौ
धावदूकश्च सर्वेसां स्तुतिपाठकः” ब्रह्मवै० ब्रह्मख० ७ अ०
“क्षत्रियाद्विप्रकन्यायां भट्टी क्षातोऽनुवाचकः” ।
तेनद्विविधा जातिः । २ स्यामित्वे, ३ वेदाभिज्ञे ३ पण्डिते च ।
भट्टश्च तुतातभिधः मीमांसकभेदः तन्मतं च १०१ पृ०
दर्शितम् । दिग्मात्रं सौगाक्षिभास्करेण दर्शितं यथा
“स च यागादिर्वजेत स्वर्गकाम इत्यादि वाक्येन स्व-
र्गमुद्दिश्य पुरुषं प्रति विधीयते । तथाहि यजेते-
त्यत्रास्त्यंशद्वयं यजिघातुः प्रत्ययश्च । प्रत्ययेऽप्यस्त्यंश-
द्वयमाख्यातत्वं लिङ्त्वञ्च । तत्राख्यातत्वं दशलकार-
साधारणं, लिङ्त्वं पुनर्लिङ्मात्रे । उभाभ्यामप्यं-
शाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवनानु-
कूलोव्यापारविशेषः । सा द्विधा--शाब्दी आर्थी चेति ।
तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुर्व्यापारविशेषः शाब्दी
भावना । सा च लिङंशेनोच्यते लिङश्रवणेऽयं मां
प्रवर्त्तयति मत्प्रवृत्यनुकूलव्यापारवानिति नियमेन
प्रतीतेः । यद्यस्माच्छब्दान्नियतं प्रतीयते तत् तस्य
वाच्य” गामानयेत्यस्मिन् वाक्ये यथा गोशब्दस्य गोत्वम् ।
स च व्यापारविशेषो लौकिकवाक्ये पुरुषाभिपाय-
विशेषः वैदिकवाक्येषु पुरुषाभावात् लिङादिशब्दानिष्ठ
एव । अतएव शाब्दी भावनेति व्यवह्नियते । सा च
भावनांशत्रयमपेक्षते--साध्यं साधनमितिमर्त्तव्य-
ताञ्च । किं भावयेत्? केन भावयेत्? कथं
भावयेत्?--इति तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयो-
पेता आर्थी भावना साध्यत्वेनान्वेति, एकप्रत्यय-
गस्यत्वेन समानाभिधानश्रुतेः सङ्ख्यादीनामेकप्रत्ययगम्य-
त्वेऽप्ययोग्यत्वान्न साध्यत्वेनान्वयः । साधनाकाङ्क्षायां
लिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं न
भावनोत्पादकत्वेन तत्पूर्वमपि तस्याः शब्दे सत्त्वात्
किन्तु भावनाज्ञापकत्वेन शब्दभावन भाव्यनिर्वर्त्तकत्वेन
वा । इतिकर्त्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमिति-
कर्त्तव्यत्वेनान्वेति । प्रयोजनेच्छाजनितक्रियाविषयव्यापार
आर्थीभावना । सा चाख्यातवाच्या, आख्यातसामान्यस्य
व्यापारवाचित्वात् । साप्यंशत्रयमपेक्षते साध्यं साधनमिति-
कर्त्तव्यताञ्च । किं भावयेत्? केन भावयेत्? कथं भाव
येत्? इति । तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्य
त्वेनान्वेति । साधनाकाङ्क्षायां यागादिः करणत्वेना-
न्वेति, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति-
कर्त्तव्यत्वेनान्वेति” ।

भट्टाचार्य्य पु० भट्टस्तुतातभट्टश्च आचार्य्य उदयनाचार्य्यश्च

तौ तुल्यतया तन्मताभिज्ञतया वाऽस्त्यस्य । तुतातभट्टेन
उदयनाचार्य्येण च । तुल्ये २ तयोर्मताभिज्ञे च । द्वन्द्वः ।
३ तथोः द्वि० व० । “नास्तिकानां निग्रहाय भट्टाचार्य्यौ
भविष्यतः” ।
पृष्ठ ४६३६

भट्टार त्रि० भट्टं स्यापित्वमृच्छति ॠ अच् । १ प्रज्ये

त्रिका० । सूर्य्ये पु० स्वार्थेक । पूज्ये त्रि० जटा० । नाट्योक्तौ
नृपे संज्ञायां कन् । देवे तपोधने पु० मेदि० अमरः ।
“सखे । स्नायुनिर्मिताः पाशास्तदद्य भट्टारकवारे कथमे-
तान दन्तैः स्पृशामि” हितो० ।

भट्टि पु० १ द्वाविंशतिसर्गात्मके महाकाव्यभेदे तच्च जयमङ्गलेन

श्रीधरस्वामिसूनो महाब्राह्मणस्य महावैयाकरणस्य भट्टेः
कृतिरित्युक्तं भरतमल्लिकेन भर्तृहरिणा कृतमित्युक्तं
तच्चिन्त्यं “काव्यमिदं विहितं मया बलभ्यां श्रीधरसेनन
रेन्द्रपालितायाम्” तत्र द्वाविंशसर्गश्लोके उक्तेः न भर्तृ-
हरिकृतत्वम् भर्तृहरेरुज्जयिनीवास्तव्यत्वेन तन्नृपति-
त्वेन च नृपान्तरराजधानीवास्तव्यत्वोक्तेरनुचितत्वात् ।

भट्टिनी स्त्री भट्टं स्वामित्वमस्यास्ति इनि ङीप् । नाट्योक्तौ

१ अकृताभिषेकायां राज्ञः स्त्रियाम् अमरः । २ विप्र-
भार्य्यायाम् मेदि० ।

भट्टोजि पु० सिद्धान्तकौमुदीशब्दकौस्तुभादिग्रन्यकारके

दीक्षितोपनामके वैयाकरणभेदे ।

भड परिमाषणे भ्वा० आ० सक० सेट् इदित् । भण्डते अभण्डिष्ट बमण्डे ।

भड कल्याणभाषणे चु० उ० सक० सेट् इदित् । भण्डयति--ते

अवभण्डत्--त । प्रतारणे च भण्डयति प्रतारकी मुग्धं
धनदानाङ्गीकारेण, सनिन्दोपलम्भे परिहासे च उणा०
सू० भडिभण्ड्योः पृथग्निर्देशात् अयमिदिद्भिन्नोऽपि ।

भड पु० भडि--अच् । वर्णसङ्करभेदे “लेटस्तीवरक-

न्यायां जनयामास षड्नरान् । माल्लं मल्लं मातर
च भड़ं कोलं च कन्दरम्” ब्रह्मवै० ब्रह्मख० २० अ० ।

भडिल पु० भड--इलच । १ वीरे २ सेवके उज्ज्वलः । ३ ऋषि

भेदे ततः गर्गा० अपत्ये यञ् । भाडिल्य तदपत्ये अश्वा०
फञ् । भाडिल्यायन तदपत्ये बहुत्वे तस्य लुक् ।

भण कथने भ्वा० पर० द्विक० सेट् । भणति । अभाणीत्--अभ-

णीत् । चङि वा ह्रस्वः । अबीभणत्--त अबसाणत्--
त । कथनमिह व्यक्तवाक्यम् ।

भणिति स्त्री भण--क्तिन् ग्रहादित्वादिट् । कथने । गौडो-

र्वीशकुलप्रशस्तिभणितेः” नैष० ।

भण्टाकी स्त्री भटि--षाकन् ङीष् । १ वार्त्ताक्याम्, अमरः । २ वृहत्यां रत्नमाला ।

भण्टु(ण्टू)क पु० भटि--उक ऊक वा । श्योनाकवृक्षे रत्न मा०

भण्ड पु० भडि--अच् । अश्लीखवाक्यभाषके (भाँड़) “त्रयो

वेदस्य कर्त्तारो भण्डधूर्त्तपिशाचकाः” सर्व० सं० चार्वाकदर्शनम्

भण्डक पुंस्त्री० भण्ड + संज्ञायां कन् । खञ्जनखने जटा० ।

स्त्रियां आतित्वात् ङीष् ।

भण्डन न० भडि--भावाधारादौ ल्युट् १ खलीकारे (प्रतारणे)

२ कवचे मेदि० ।

भण्डहासिनी स्त्री भण्डेन सह हपति णिनि ङीप् । वेश्यायां शब्दर० ।

भण्डि स्त्री भडि--इन् । १ वीचौ हारा० । वा ङीप् ङीबन्तः

२ शिरीषवृक्षे राजनि० ।

भण्डिका स्त्री भण्ड--ण्वुल् कापि अत इत्त्वम् । मञ्जिष्ठायां शब्दर०

भण्डित पु० भडि--क्त । १ ऋषिभेदे ततः गर्गा० यञ् । भाण्डित्य

तद्गोत्रापत्ये पुंस्त्री अश्वा० फञ् । भाण्डित्यायन तद्गोत्रा-
पत्ये पुंस्त्री० । तस्य बहुत्वे वा लुक् ।

भण्डिर(ल) पु० भण्ड--इलच पृषो० रस्य वा लः । १ शिरीषवृक्षे

अमरः । रान्तः वाचस्पतिः । लान्तः शुभे दूते त्रि०
उणादिको० ।

भण्डीतकी स्त्री भण्डी सती तकति तक--ख्याने अच् गौरा०

ङीष् । मञ्जिष्ठायां भावप्र० ।

भण्डीर पु० भण्डि वा० ईर । १ समष्ठिलक्षुपे २ तण्डुलीयशाके

३ शिरीषवृक्षे च राजनि० हरिवं० ६५ अ० । तद्वनवर्णनम्

भण्डीरलतिका स्त्री भण्डीर इव लतते लत--अच् स्वार्थे

क कापि अत इत्त्वम् । मञ्जिष्ठायां राजनि० ।

भण्डीरी स्त्री भडि । बा० ईर गौरा० ङीष् । मञ्जिष्ठायाम्

अमरः । रस्य लः । तत्रार्थे पु० शब्दच० ।

भण्डु पु० भडि--उण् । देशभेदे ततः मुवास्त्वा० चतुरर्थ्यां

अण् । भाण्डव तददूरदेशादौ त्रि० ।

भण्डु(ण्डू)क पु० भडि--उक ऊक वा । (भाङ्गन) मत्स्यभेदे

रत्नमाला । दीर्घमध्यः २ श्योनाकवृक्षे रत्नमाला ।

भद शुभकथने प्रीतौ च भ्वा० आ० अक० सेट् इदित् ।

भन्दते अभन्दिष्ट ।

भद कल्याणकरणे चु० उ० अक० सेट् इदित् । भन्दयति--ते अबभन्दत्--त ।

भदन्त पु० भदि--भ्वच् नलीपः । १ बोद्धभेदे । २ पूजिते त्रि० ।

उणादि० ३ प्रव्रजिते उज्ज्वल० ।

भदाक न० भदि कल्याणे आकन् नलोपः । कल्याणे उज्ज्वल०

भद्र न० भदि--रक् नि० नलोपः । १ मङ्गले उणा० २ मुस्तके

३ स्वर्णे च मेदि० । ज्योतिषोक्ते बवादितः सप्तमे करणे
स्त्री न० । ४ महादेवे ५ वृषे ६ खञ्जने ७ कदम्बे ८ हस्ति-
जातिभेदे ९ वलदेवे १० रामचरभेदे पु० मेदि० । ११ सुमेरु-
शैले पु० हेमच० १२ स्नुहीवृक्षे च पु० राजनि० । ज्योति-
षोक्तासु १३ द्वितीयासप्तमीद्वादशीतिथिषु च स्त्री ।
१४ साधौ १५ श्रेष्ठे च त्रि० मेदि० । १६ देवदारुणि पु० ।
१७ कृष्णभगिन्यां स्त्री “रामं मां भद्रया सह” ति० त० ।
पृष्ठ ४६३७
१८ मध्यदेशभेदे पु० वृ० स० १४ अ० कूर्मविभागे दृश्यम् । १९ वसु
भेदेवपुत्रभेदे पु० भाग० ९२ । ४ । २५ श्लो० । २० तुषितदेवगण-
भेदे भाग० ४ । १ । ८ । २१ वैश्रवणपत्न्यां स्त्री० भा० १८९ अ० ।
२२ सोमस्य दुहितरि उतथ्यपत्न्यां स्त्री भा० अ० १५४ अ० ।
२३ रौद्राश्वस्य कन्याभेदे हरिवं०३६ अ० । २४ नटभेदे पु०
हरिवं० १५० अ० । २५ भारतवर्षस्थे नदीभेदे स्त्री
मार्कपु० ५९ अ० । विष्टिभद्रायाः सर्वकार्य्ये
वर्जनप्रतिप्रसवादिकं मु० चि० पी० धा० दर्शितं यथा
“अयोगे सुयोगोऽपि चेत् स्यात् तदानीमयोगं निहत्यैष-
सिद्धिं तनोति । परे लग्नशुद्ध्या कुयोदिनाशं दिनार्द्धो-
त्तरं विष्टिपूर्वं च शस्तम् (१) । शुक्ले पूर्वार्द्धेऽष्टमीपञ्च-
दश्योर्भद्रैकादश्यां चतुर्थ्यां परार्द्धे । कृष्णेऽन्त्यार्द्धे
स्यात् तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः (२) ।
पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा विष्टेरास्य
मसद्गजेन्दुरसरामाद्यश्विवाणाब्धिषु । यामेष्वन्त्यघटीत्रयं
शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरी
रात्रौ तु पूर्वार्द्धजा (३) । कुन्भकर्कद्वये मर्त्ये स्रर्गेऽब्जेऽजा-
त्रयेऽलिगे । स्त्रीधनुर्जूकनक्रे धो भद्रा तत्रैव
तत्फलम् (४)” मू० ।
“अथावश्यकशुभकृत्ये कालान्तरप्रतीक्षाऽयोग्यतायां
परिहारमाह विष्टिपूर्वं विष्टिर्भद्रा तत्पूर्वं तदादि
व्यतीपातादिकं दिनार्द्धोत्तरं मध्याह्नादनन्तरं शस्तं प्राहुः
अर्थान् मध्याह्न यावत्कालो निषिद्धः “विष्टिरङ्गारक
श्चैव व्यतीपातश्च वैधृतिः । प्रत्यरं जन्मनक्षत्रं मध्याह्नात्
परतः शुभम्” इति तेनैवोक्तत्वात् (१) । अथ भद्रा निषिद्धेति
पूवमुक्तं तदधुना प्रस्तावात् तन्निषिद्धकालं शालिनीच्छन्द-
साह शुक्ले इति । शुक्लपक्षे अष्टम्यां पूर्णिमायाञ्च
पूर्वार्द्धे भद्रा भवति एकादश्यां चतुर्थ्यां चोत्तद्धरार्द्धे
भद्रा । अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चान्त्यार्द्धे
उत्तरार्द्धे भद्रा स्यात् सप्तम्यां शम्भ तिथौ चतृर्दश्याञ्च
पूर्वे भागे पूर्वार्द्धे भद्रा स्यात् पूर्वे इति पूर्वादिभ्यो नवभ्यो
वेति स्मिनभावपक्षे रूपम् । अष्टम्यादीनां तिथीनां
गतभोग्यघटिकायोगार्द्धं भद्राप्रमाणमिति यावत् “तिथे-
र्गतैष्यैक्यदलं तन्मानं करणं भवेत्” वोपदेवोक्तेः “तिथ्य-
र्द्धभागं सर्वेषां करणानां प्रकल्पयेत्” इति सूर्य्यसिद्धा-
न्वोक्तेश्च । उक्तञ्च दीपिकायाम् तृतीयादशमीशेषे तत्प-
ञ्चन्योस्तु पूर्वतः । कृष्णे विष्टिः सिते तद्वत्तासां परतिथि-
ष्वपि” बहस्पतिना तु स्पष्टमुक्तम् । “सिते चतुर्थ्यामन्त्या-
र्धमष्टम्याद्यार्द्धमेव च । एकादश्या परार्द्धे तु पूर्वार्द्धं
पूर्णशीतगौ । कृष्णे तृतीयान्त्यार्द्धं हि सप्तम्याद्यार्द्ध-
मेव च । दशम्यामुत्तरार्द्धं तु चतुर्दश्यर्द्धमादितः ।
विष्ट्याख्योऽयं महादोषः कथितोऽत्र समस्तगः । तदानीं
कृततत्कम कर्त्रा सह विनश्यति” इति । पूर्णशीतगौ पूर्णिमा-
याम् । रत्नकोशे प्रत्येकं भद्रानामानि “हंसी नन्दिन्यपि
च त्रिशिराः सुमुखी करालिकाचैव वैकृतिरौद्रमुखी च
चतुर्मुखी विष्टयः क्रमशः” । चतुर्थ्यादितिथिसम्बन्धि
भद्रानामामाभिधानं नामसादृश्येन कलतारम्यसूच-
नार्थम् । भद्रास्वरूपं रत्नमालायाम् “उद्बद्धोद्भटतरपी-
ड़िताऽतिकृष्णा दंष्ट्रोग्रा पृषुहनुगण्डदीर्घनासा । कार्य्य-
घ्नीहुतबहबहुलं समुद्निरन्ती विश्वान्तः पतति समन्ततोऽत्र
विष्टिरिति” (२) । अथ चतुर्थ्यादितिथिषु भद्रायामुखपुच्छ-
विभागादिकं शार्दूलविक्रीड़ितेनाह । पञ्चेति चतुर्थ्यादि
तिथीनां क्रमशः पञ्चादिप्रहरेषु शराः पञ्च नाड्यः
आदिमा विष्टेर्भद्राया आस्यं मुखं यथा चतुर्थ्याः पञ्चम-
प्रहरे, आदिभूता पञ्च धट्यो भद्रामुखम् एवमष्टम्या द्वि-
तीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थ-
प्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे,
भद्रामुखमित्यर्थः तद् भद्रायामुखमसदशुभमित्यर्थः अथ
पुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अन्त्यम्
अन्ते भवमन्त्यं दिगादिभ्यो यदिति यत् घटीत्रयं
पुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्य्येष्वित्यर्थः । यथा
चतुर्थ्या अष्टमप्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छम
एवमष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य, पूर्णि-
मायास्तृतीयप्रहरस्य, तृतीयायाः सप्तमप्रहरस्य, सप्तम्या
द्वितीयप्रहरस्य, दशम्याः पञ्चमप्रहरस्य, चतुर्दश्याश्चतुर्थ
प्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छमित्यर्थः । यदाह गुरुः
“भूतदस्रस्वराम्भोधिवसुवह्न्यङ्गरूपकाः । यामेष्वेषु
क्रमादास्य भवेत तिथ्यर्द्धविष्टिष्विति” । व्यवहारसमुच्चये
“दशम्यामष्टम्यां प्रथमघटिकापञ्चकपरं हरिद्युः सप्तम्यां
द्विदश १२ घटिकान्ते त्रिघटिकम् । तृतीयाराकायां स्वयम
२० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्यास्तु
विरमे” इति । हरिद्युरेकादशी राका पूर्णिमा । ननु
भद्रा देवतेत्यभिधीयते तस्याः पुच्छकथनात्तु पशुत्वसिद्धि-
र्दृश्यते देवता च कथं पशुर्भवितुमर्हति । सत्यं
दैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुसनेत्रा
लोकितदेहात् देवी भद्रासंज्ञा मुखपुच्छादिमत्येव
पृष्ठ ४६३८
उत्पन्ना दैत्यान् जघान यदुक्तं श्रीपतिना दैत्यैन्द्रैः
समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान्
स्वङ्कायं किल निर्गता स्वरमुखी लाङ्गूलिनी च त्रिपात् ।
विष्टिः सप्तभुजा मृगेन्द्रगलका क्षानोदरी प्रेतगा
दैत्यघ्नी मुदितैः सुरैस्तु करणप्रान्ते नियुक्ता सदेति” ।
भद्राकृत्यमाह वसिष्ठः “बधबन्धविषाग्न्यस्त्रच्छेदनीच्चा-
टनादि यत् । तुरङ्गमहिषोष्ट्रादि कर्म विष्ट्यान्तु
सिद्ध्यति । न कुर्य्यान् मङ्गलं विष्ट्यां जीवितार्थी
कदाचन । कुर्वन्नज्ञस्तदा क्षिप्रं तत् सर्वं नाशतां व्रजेत्” ।
तत्राङ्गविभागः फलञ्च कश्यपसंद्वितायाम् “मुखे
पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ-
चतस्नः षट् कट्यां तिस्रः पुच्छे तु नाड़िकाः ।
कार्य्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता । कट्यामुत्मत्तता
नामौ च्युतिः पुच्छेध्रुवी जयः” । अयञ्च भद्राङ्गविभागो
नाड़ीनां त्रिंशतोन्यूनाधिकत्वे तु त्रैराशिकेन मुखा-
दीनामङ्गानां विभागज्ञानं यथा यदि नाडी त्रिंशता
इदमुक्तमङ्गपरिमाणं इष्टपरिमाणेन किमिति त्रैराशिकम्
एवं सति उक्ताङ्गपरिमाणं भद्राभोगमितघटीभिः
सङ्गुण्यं त्रिंशता भाज्यं लब्धसमोऽङ्गविभागः । तत्र
मुखादिकाशा रत्नमालायाम् “जलशिखिशशिरक्षःशर्व
कीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः ।
नियतमृषिभिराशासंख्यया प्रक्रमेण स्फुटमिह परिहार्य्यं
मङ्गलेष्वेतदेव” । जलं वरुणः कीनाशा यमः शुक्लचतुर्थ्या
उत्तरार्द्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्यक्रमेण
पञ्चमे प्रहरे भवति अर्थादेव भद्रायाः प्रहरचतष्टया
धिकस्थितभावादन्मे एव घटिकात्रयं पुच्छं ततोऽ-
ष्टम्यां द्वितीयप्रहरेऽनेन प्रकारेण आग्नेय्यां दिशि-
मुखं मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरान्त एव
पुच्छघटिका इत्येवं सर्वास्वपि भद्रातिथिष्ववगन्तव्यं
प्रयोजनमपि तत्रैव “मनुवसुमुनितिथियुगदशशिवगुण-
संख्यासु तिथिषु पूर्वस्याः । आयाति विष्टिरेषा पृष्ठे
शुभदा पुरस्त्वशुभेति” तदेतदात्ययिककार्य्यस्यासम्मवे सति
मुखदिक्संमुखयात्रानिषेधकमवधेयम् । ग्रन्थान्तरे
अन्यदप्युक्तम् । “असिते सर्पिणी ज्ञेया सिते विष्टिस्तु
वृश्चिकी । सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव
च” । अथ परिहारमाह तथेति विष्टिस्तिथ्यपरार्द्धजा
तिय्युत्तरार्द्धे संभूता वासरे दिवसे यदि स्याद् भद्रा
तदा शुभकरी तेनैव प्रकारेण तिथिपूर्वार्द्धजा भद्रा
रात्रौ चेत् स्यात् तदा शुभा शुभकरो स्यात् । उक्तञ्च
“रात्रिभद्रा यदाह्नि स्याद् दिवा भद्रा यदा निशि ।
न तत्र भद्रादोषः स्यात् सा भद्रा भद्रदायिनी” इति ।
रात्रिभद्रा तिथ्य त्तरार्द्धोद्भवा दिवाभद्रा तिथिपूर्वार्द्धो-
द्भवा अमुमर्थं स्पष्टमाह गुरुः । “निशि पूर्वार्द्धजा विष्टि-
र्दिवा चापरतः शुभा । क्रमागता तु या विष्टिः सैव
हालाहलोपमा” इति । लल्लीऽपि “दिवा परार्द्धजा
विष्टिः पूर्वार्द्धोत्या यदा निशि । तदा विष्टिः शुभायेति
कमलासनभाषितम्” । ब्रह्मसिद्धान्तेऽपि “दिवा परार्द्धजा
विष्टिर्विष्टिरेव दिवानिशोः । सा त्याज्या त्वन्यथा विष्टिः
सर्वकर्मशुभप्रदा” । मनु यत् तु नारदकश्यपादिभि-
रुक्तम् । “करणानि षबादीनि शुभसंज्ञानि षट्क्रमात् ।
क्रमायाता क्रमायाता विष्टिर्नेष्टा तु मङ्गले” । अत्र
क्रमायाता दिवारात्रिक्रमायाता दिवाभद्रा रात्रौ
रात्रिभद्रा च दिवेत्यर्थः । एवं सति द्विविधाया अपि
भद्रायादोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम्
उच्यते इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्य
अन्यथा सामान्यतो भद्राद्वये इत्युक्ते द्विविधभद्राया
दोषवत्त्वसिद्धेरनर्थकमिदं स्यात्तस्माच्छुमकार्य्याणां भद्रा-
रूपदुष्टदिनप्यतिरिक्तकालप्रतीक्षाऽयोग्यत्वे तदैव कार्य्यं
न दुष्टदिने अयधेनोपपत्तौ बाधो न न्याथ्य इति
न्यायात् वचनस्य निषेध एव तात्पर्य्याच्च । षवश्य-
कर्त्तव्यस्य तु शुभकर्मणः कालान्तरप्रतीक्षामसहमान-
स्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव
विष्टिरङ्गारकश्चैवेत्यपि परिहार एतत्पर एवेत्यलं पल्ल-
वितेन । अथ भद्रानिवासं तत्फलञ्चानुष्टुभाह (३) ।
कुम्भेति अब्जे चन्द्रमसि कुम्भद्वये कुम्भमीनस्थे कर्कद्वये
कर्कसिंहराशिस्थिते सति भद्रा मर्त्ये मनुव्यलोके तिष्ठति ।
अथाजात्त्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चन्द्रे
स्वर्गे भद्रा तिष्ठति । कन्याधनुस्तुलामकरराशिस्थितेऽधः
पाताललीके भद्रा तिष्ठति । अथ भद्रा तत्रैव मर्त्य
स्वर्गपातालेषु फलं ददातीत्यपवादद्वारा प्रयोजनमुक्तं
भवति । उक्तञ्च “मेषोक्षकौर्पमिथुने घटसिंहमीनकर्कषु
चापमगतौलिसुतासु चन्द्रे । स्वर्मर्त्यनागनगरीः क्रमशः
प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे” इति ।
भूपालवल्लभे “कन्थातुलामकरधन्विषु नागलोके मेषालि-
वैणिक ऋषषु सुरालये स्यात् । पाठीनसिंहघटकर्कटकेषु
मर्त्ये चन्द्रे वदन्ति मुनयस्त्रिविधां हिविष्टिम्” (४) बी० धा०
पृष्ठ ४६३९
भद्रशब्दात् परिवापणे (मुण्डने)ऽर्थे गम्ये डाच् । कृञोऽ-
नुप्रयोगः सक्षादा० स० । भद्राकरोति माङ्गल्यं मुण्डनेन
सस्करोतीत्यर्थः सि० कौ० । एवं मद्रशब्देऽपि बोध्यम् ।

भद्रक त्रि० भद्र--स्वार्थे संज्ञायां वा कन् । १ मनोहरे त्रिका० ।

२ भद्रमुस्तके न० शब्दमाला । ३ देवदारुवृक्षे शब्दर० ।
“भ्रौ नरनारनावथ गुरुर्दिगर्कविरसं हि भद्रकमिदम्” ।
वृ० र० उक्ते द्वाविंशत्यक्षरपादके ४ छन्दोभेदे ।

भद्रकण्ट पु० भद्रः कण्टोऽस्य । गोक्षुरक्षुपे राजनि० ।

भद्रकर्ण पु० भद्रस्य वृषस्य कर्णो यत्र । गीकर्णरूपे तीर्थभेदे ।

भद्रकर्णेश्वर पु० ६ त० । गोकर्णस्थे शिवलिङ्गभेदे भा० व०८१ अ० ।

भद्रकार त्रि० भद्रं करीति कृ--अण् उप० स० । १ मङ्गलकारके

२ देशभेदे पु० भा० स० १३ अ० ।

भद्रकाय पु० । १ नाग्नजित्यां जाते श्रीकृष्णस्य--पुत्रभेदे हरिवं०

१६२ अ० । ६ ब० । २ मङ्गलदेहके त्रि० ।

भद्रकाली स्त्री १ दुर्गाशक्तिभेदे “जयन्ती मङ्गला काली भद्र-

काली कपालिनी” दुर्गापूजामन्त्रः । तदाविर्भावकथा च
कलिपु० ५० अ० दृश्या । तन्मन्त्रादिकं तन्त्रसारे दृश्यम् ।
२ कुमारानुचरभेदे भा० श० ४७ अ० ।

भद्रकाशी स्त्री भद्राय काशते काश--अच् गौरा० ङीष् ।

भद्रमुस्तायाम् राजनि० ।

भद्रकाष्ठ न० ६ ब० । देवदारुवृक्षे सुश्रुतः ।

भद्रकुम्भ पु० भद्रकारकः कुम्भः शा० त० । पूर्णकुम्भे जलपूर्णघटे अमरः ।

भद्रगन्धिका पु० भद्रो गन्धोऽस्त्यस्या बाहुल्येन ठन् । मुस्तके

रत्नमाला ।

भद्रगौर पु० देशभेदे स च पूर्वदिग्वर्त्ती मार्क० ५८ अ० ।

भद्रङ्कर त्रि० भद्रं करोति कृ--स्वच् मुम् । मङ्गलकारके ।

भद्रङ्करण न० भद्रं क्रियतेऽनेन कृ--ख्युन् मुम् । मङ्गलसाधने ।

भद्रचारु पु० रुक्मिण्यां जाते वासुदेवस्य पुत्रभेदे हरिवं ११८ अ०

भद्रचूड़ पु० भद्रा च्रड़ा थस्य । (लङ्कासिज) वृक्षभेदे शब्दच० ।

भद्रज पु० भद्राय जायते जन--ड्ग । इन्द्रयवे राजनि० ।

भद्रतरुणी स्त्री भद्रः तरुणीव । कुब्जकवृक्षे राजनि० ।

भद्रतुङ्ग पु० तीर्थभेदे भा० व० ८२ अ० ।

भद्रतुरग न० भद्रास्तुरगा यत्र । जम्बुद्वीपस्य नववर्षमध्ये

वषभेदे । “माल्यवज्जलधिमध्यवर्त्तियत्तत्त भद्रतुरग
जगुबुधाः” सि० शि० जम्बुद्वीपशब्दे भद्राश्वशब्दे च
विवरणं दृश्यम् ।

भद्रदान्तका स्त्री कर्म० स्वार्थे कन् । दन्तीवृक्षभेदे ।

भद्रदारु पुंन० । कर्स० । देवदारुवृक्षभेदे अमरः ।

भद्रद्वीप पु० कुरुवर्षान्तर्गते उपद्वीपभेदे मार्कपु० ५९ अ० ।

भद्रनामन् पु० ६ ब० । (काटठाकरा) खगभेदे त्रिका० ।

भद्रनामिका स्त्री भद्र मङ्गलं नामयति पापयति नम--

णिच्--ण्वुल् । त्रायन्तीलतायां रत्नमा० ।

भद्रनिधि पु० दानार्थकल्पिते ताम्रादिघटितघटे तद्दानविधिश्च

हेमा० दा० वामनपु० उक्तो यथा
“पुण्यान्तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे
शशिसूर्य्ययोर्वा । चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्व-
पनेऽथ तिष्णोः । कुर्य्यादथौदुम्बरमेव कुम्भं हिरण्य-
भारेण यथात्मशक्त्या । तथाविधानञ्च सुराजतं स्या-
द्धिरण्यभारेण तु पूरयेत् तम् । तदर्द्धतोऽर्द्धेन
तदर्द्धती वा स्वशक्तितः स्वर्णपलैः शतेन । तदर्द्धमर्द्धेन तु
वित्तशक्त्या पलत्रयादूर्द्धमपि प्रकुर्य्यात् । तत्ताम्र-
भाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम् ।
समुक्तवैद्रूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात् ।
एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोप-
युक्ते । कुशोत्तरे दर्पणचामराणे सपादुकोपानहछत्र-
युक्तम् । सत्क्षौमवस्त्रोत्तमयुग्मयुक्तं संपूजयेन्मन्त्रवरै-
रथैतैः” “आदौ तु पञ्चामृतकेन विष्णुं संस्नाप्य संसा-
रहरं समर्च्य । तथेश्वरं पावकमेव हुत्वा आमन्त्र-
येद्भद्रनिधिं ततस्तम् । श्रीखण्डकर्पूरसकुङ्मुमेन पञ्चा-
क्षरं नाम श्रियः प्रलिख्य । नमस्तथोङ्कारयुतं च
पात्रे तद्राजतेऽप्येवमथार्चयेत । त्वया समस्तामर-
सिद्धयक्षविद्याधरेन्द्रोरगकिंनरेन्द्रैः । गन्धर्वविद्याधर-
दानवेन्द्रैर्युतं धृतं विश्वमिदं नमस्ते । समस्तससार-
करी त्वमेव विभोः सदानन्दमयी च माया । समस्त-
कल्याणनिधिः समाधिः । हरिप्रिये! भद्रनिधिर्नमस्ते ।
एवं पूज्य विधानेन ततो विप्रमथार्चयेत् । किरीटा-
ङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषणैः । अलङ्कृत्य हरिं
तद्वत् पीताम्बरधरं ततः । पूजयेदच्युतं ध्यात्वा मन्त्रेणा-
नेन भक्तिमान् । भूदेवोऽसीत्यतो नित्यं नित्यानन्दमयो
हरे! । हर मे दुष्कृतं कृष्ण! कृपाकर! नमस्त ते ।
भूदेव! भगवद्धर्म! भवभङ्गकरेश्वर! । भवभूतिकरोजिष्णो!
प्रमविष्णुर्नमोऽस्तु ते । एवं पूज्य हृदि ध्यात्वा तं द्विजं
विष्णु--रूपिणम् । ततो भद्रनिधिं दद्यान्मन्त्रेणानेन
मानवः । स्वगोत्रोच्चारणेनादौ वपुर्नाम तथात्मनः ।
यवदर्भतिलै सार्द्धमुदकं संपरित्यजेत् । पितृसन्तार-
णार्थाय नित्यानन्दविवृद्धये । सर्वाघौघविनाशाय विष्णो-
पृष्ठ ४६४०
र्दानं मया कृतम् । तदनेन सरत्नेन धातुत्रययुतेन
प । सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च । आसनेन
सच्छत्रेण चामरोपानहेन च । सदानन्दविधानेन प्रीयतां
विष्णुरीश्वरः । एवमुच्चार्य्य तन्दद्याद् द्विजाय
हरिरूपिणे । गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्त-
येत् । अकीर्त्तिते कोटिगुणायुतं फलं प्रगोपिते कल्प-
गुणैर्न संशयः । इतीदमन्यस्य न कीर्त्तयेत् सुधीः
निधानमध्ये निहितञ्च यद्वसु । एवंकृते स्यान्मनुजः
कृतात्मा तपेन्नवा स्यान्मरणं कदाचित् । प्रयाति विष्णोः
पदमव्ययं तत् शिवात्मकानन्दमयं स्वसंस्थम्” ।

भद्रपदा स्त्री ब० व० भद्रस्य वृषस्येव पदं यासाम् । पूर्वोत्तर-

माद्रपदासु रायमु० । तत्र जातः अण् उत्तरपदवृद्धिः ।
भद्रपाद तज्जाते त्रि० ।

भद्रपर्णा स्त्री भद्रं पर्णमस्याः अजादि० टाप् । १ कटम्भरा-

वृक्षे शब्दसाला । २ प्रसारिण्याम् अमरः । ३ गाम्भार्य्याञ्च
जटाध० । ङीप् ।

भद्रपीठ पुंन० भद्रार्थं पीठः । नृपदेवादीनामभिषेकार्थे पीठभेदे भद्रासनशब्दे वृश्यम् ।

भद्रबलन पु० भद्रं बलनं बलमस्य । बलरामे शब्दमा० ।

भद्रब(व)ला स्त्री भद्राय बलति चलति ब(व)ल--अच् ।

(गन्धभादाल) १ लताभेदे २ गन्धिकायां, ३ माधवीलतायाञ्च
अमरः । बलायां राजनि० ।

भद्रभीमा स्त्री कश्यपपत्न्यां दक्षसुतायां क्रोधायां जाते कन्याभेदे भा० आ० ६६ अ०

भद्रमल्लिका स्त्री कर्म० । मल्लिकाभेदे नवमल्लिकायाम्

शब्दमाला ।

भद्रमुख त्रि० भद्रं मुखं तद्व्यापारोऽस्य कप । सुवक्तरि “ततो

भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः” मार्कपु० १५ अ० ।

भद्रमुञ्ज पु० कर्म० । शरभेदे भावप्र० ।

भद्रमुस्तक पु० कर्म० । नागरमुस्तके । अमरः ।

भद्रमुस्ता स्त्री कर्म० । भद्रमुस्तके “भद्रमुस्ता च गृन्द्रा च

तथा नागरमुस्तकः । मुस्तं कटु हिमं ग्राहि तिक्तं
दीपनपाचनम् । कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तु-
हृत् । अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते । तत्रापि
मुनिमिः प्रोक्तं घरं नागरमुस्तकम्” भावप्र० ।

भद्रयव पु० भद्रो यव इव । इन्द्रयवे अमरः ।

भद्ररथ पु० कक्षेयुवंश्ये हर्य्यङ्गनृपस्य पुत्रे हरिवं० ३१ अ० ।

भद्ररेणु ६ व० । ऐरावते गजे त्रिका० ।

भद्ररोहिणी स्त्री भद्रार्थं रोहति रुह--णिनि ङीप् ।

कटुरोहिण्यां (कट्की) सुश्रुतः तस्याः भद्रदायकत्वात्
तथात्वम् । दार्वी त्वक् पिप्पली शुण्ठी लाक्षाशक्रयवै-
र्घृतम् । संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम्” ।

भद्रवट पु० ७ त० । १ आश्रमभेदे भा० व० २३० अ० । २ तीर्थभेदे च ।

भद्रवत् न० भद्र + मतुप् मस्य वः । देवदारुवृक्षे राजनि० ।

भद्रवती स्त्री भद्राणि पर्णानि सन्त्यस्या मतुप् मस्य वः

ङीप् । १ गाम्भार्य्याम् । नाग्नजितीजातायां
भरतकन्यायां स्त्री हरिवं० १६१ अ० ।

भद्रवर्मन् पु० भद्रं वृणाति वृ--मनिन् । नवमल्लिकायाम् शब्दच०

भद्रवल्लिका स्त्री नित्यक० । संज्ञायां कन् ह्रस्वः अत इत्त्वम्

कर्म० । (अनन्तमूलख्याते) लताभेदे रत्नमा० ।

भद्रवल्ली स्त्री नित्यक० । (अनन्तमूल) गोपवल्ल्याम् राजनि० ।

भद्रविराज् “ओजे तपरौ जरौ गुरुश्चेन् म्सौ ज्गौ

भदूविराड् भवेदनोज” वृ० उक्ते अर्द्धसमे वृत्तभेदे ।

भद्रशर्मन् पु० भद्रं शर्म मुख यस्य । पुत्राद्यानन्दयुते । ततो

वाह्वा० अपत्ये इञ् भाद्रशर्मि तदपत्ये पुंस्त्री ।

भद्रशाख पु० भद्राः शाखाः सहायाः यस्य । कार्त्तिकेये भा० व० २२७ अ०

भद्रश्रय न० भद्राय श्रीयते श्री--कर्मणि अच् । चन्दनवृक्षे रत्न०

भद्रश्रवस् पु० षर्सस्य पुत्रभेदे भास० ५ । १८ । १ ।

भद्रश्रौ पु० भद्रा श्रीर्यस्य । चन्दनवृक्षे अमरः ।

भद्रश्रेण्य पु० दिवोदासात् पूर्वं वाराणस्यधीशे नृपभेदे

हरिवं० २९ अ० ।

भद्रसरस् न० नित्यक० । सुपार्श्वाचलस्थे सुरोभेदे धान्या-

चलशब्दे दृश्यम् ।

भद्रसालवन न० ६ त० । भद्राश्ववर्षस्थे वनभेदे भा० भी० ७ अ० ।

भद्रसेन पु० देवक्यां जाते वसुदेबस्य १ पुत्रभेदे भाग०९ । २४ । २५

२ कुन्तिनृपपुत्रभेदे च भाग० ९ । २३ ।

भद्रसोमा स्त्री भद्रः सोम इव द्रवोऽस्याः । १ गङ्गायां शब्दमा०

२ कुरुवर्षस्थे नदीभेदे मार्कपु० ५९ अ० ।

भद्रा स्त्री भद्राश्ववर्षस्थे १ नदीभेदे २ बिष्टिभद्रादौ भद्रशब्दे दृश्यम् ।

भद्राकरण न० भद्र + डाच् कृ--ल्युट् साक्षदा० स० । मुण्डने हे म०

भद्राङ्ग पु० भद्रमङ्गमस्य । बलरामे हेमच० ।

भद्रात्मज पु० खड्गे त्रिका० ।

भद्रारक पु० अष्टादशद्वीपान्तर्गते द्वीपभेदे शब्दमाला ।

भद्रालपत्रिका स्त्री भद्रायालति पर्य्याप्नोति अन--अच

तादृशं पत्रं यस्याः कप् अत इत्त्वम् । गन्धाल्याम्
(गान्धाल) शब्दमा० ।

भद्राली स्त्री भद्रायालति पर्य्याप्नोति अच् गौरा० ङीष् ।

१ गन्धाल्याम् (गान्धाल) शब्दमा० । ६ त० । २ मङ्गलश्रेणौ च ।
पृष्ठ ४६४१

भद्रावती स्त्री भद्र--अस्त्यर्थे मतुप् मस्य वः संज्ञायां पूर्वपद-

दीर्घः । कट्फलवृक्षेराजनि० ।

भद्राश्रय पु० ६ त० । चन्दनवृक्षे ।

भद्राश्व न० भद्रा अश्वा यत्र । १ जम्बुद्वीपस्य नववर्षान्तर्गते वर्ष-

भेदे । २ तद्वर्षस्थे जनपदे पु० ब० व० । तद्वर्षविवरणञ्च “माल्य-
वतः पूर्बपार्श्वे पूर्वगण्डिका एकशृङ्गाद् योजनसहस्राणि
मानन्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनञ्च तत्र
व्यवस्थितं, कालाभ्रवृक्षाः, पुरुषाः श्वेताः, पद्मवर्णिनः,
स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि च तेषामायुस्तत्र
च पञ्च कुलपर्वताः तद्यथा शैलवर्णः मालाख्यकीऽवरज-
स्वः त्रिपर्णो नीलश्चेति तद्विनिर्गता नद्यस्तदन्तःस्थितानां
देशानां तान्येव नामानि ते च देशाः एताः नदीः
पिवन्ति तद्यथा सीता सुवाहिनी हंसवती कावेरी सुरसा
शाखावती इन्द्रनदी अङ्गारवाहिनी हरितोया सोमा-
वर्त्ता शतह्रदा यमाला वसुमती हंसापर्णा पञ्चगङ्गा
धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया
पुण्योदा नागवती शिवा शैवालिनी मणितटा क्षीरोदा
वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा
सुरावती वामोदा पताका चेत्येता महानद्यः एताश्च
गङ्गासमाः कीर्त्तिताः आजन्मान्तं पापं विनाशयन्ति
क्षुद्रनद्यश्च कोटिशस्ताश्च नदीर्ये पिवन्ति ते दशवर्षसह-
स्रायुषः रुद्रोमाभक्ता इति वराहपु० गद्यम् । अधिकं
जम्बुद्वीपशब्दे ३०४५ पृ० दृश्यम् ।

भद्रासन न० भद्राय लोकक्षेमायास्यतेऽत्र आस--आधारे ल्युट् ।

नृपासने असरः । तल्लक्षखादि वृ० स० ४८ अ० उक्तं यथा
“आदावनडुहश्चर्म जरया संहृतायुषः । प्रशस्तलक्षण-
भृतः प्राचीनग्रीवमास्तरेत् । ततो वृषस्य योधस्य चर्म
रोहितमक्षतम् । सिंहस्याथ ततीयं स्याद्व्याघ्रस्य च
ततः परम् । चत्वार्य्येतानि चर्माणि तस्यां वेद्यामुपा-
स्तरेत् । शुभे मुहूर्त्ते संप्राप्ते पुष्ययुक्ते निशाकरे ।
भद्रासनमेकतमेन कारितं रुक्मरजतताम्राणाम् ।
क्षीरतरुनिर्मितं वा विन्यस्तं चर्मणामुपरि । त्रिविध-
स्तस्योच्छ्रायो हस्तः पादाधिकोऽर्द्धयुक्तश्च । माण्डलिका
नन्तरजित् समस्तराज्यार्थिनां शुभदः । अन्तर्धाय
हिरण्यं तत्रोपविशेन्नरेश्वरः सुमनाः” ।

भद्रिका स्त्री भद्रा + स्वार्थे क । १ पक्षयोः द्वितीयासप्तमी-

द्वादशीषु तिथिषु । २ योगिनीदर्शान्तर्गतायां पञ्चम्यां
दशायाम् “मङ्गला । मङ्गला धान्या भ्रामरी भद्रिका
तथा” दशाशब्दे दृश्यम् । “भद्रिका भवति रो नरौ”
वृ० र० उक्ते नवाक्षरपादके ३ छन्दोभेदे “ननरलगुरुभिश्च
भद्रिका” वृ० र० उक्ते ४ एकादशाक्षरपादके छन्दोभेदे च ।

भद्रेश्वर पु० १ शिवलिङ्गभेदे । २ कल्पग्रामस्य शिवलिङ्गभेदे च

वामनपु० ४६ अ० ।

भद्रैला स्त्री स्थूलैलायाम् राजनि० ।

भद्रोदनी स्त्री भद्रमुदनित्यनया उद् + अन--बा० घञर्थे क

गौरा० ङीष् । बलायां राजनि० ।

भन अर्चने भ्वा० प० सक० सेट् निघण्टुः । भनति अभा(भ)नीत बभान ।

भन्द अर्चने दीप्तौ च भ्वा० आ० सक० सेट् निघण्टुः ।

भन्दते अभन्दिष्ट वभदे वभन्दे । कर्मणि भद्यते ।

भन्दिल त्रि० भदि--इलच् । १ शुभे २ कम्पे ३ दूते च संक्षिप्तसा०

भन्द्रुक पु० वक्रेश्वरसमीपस्थे देशभेदे स्कन्दपु० ।

भपञ्जर न० भानां पञ्जरमिव । नक्षत्रचक्रे सि० शि० ।

भपति पु० ६ त० । १ नक्षत्रेशे चन्द्रे हेमच० भनाथादयोऽ

प्यत्र । २ राशीश्वरे मङ्गलादौ च ।

भमण्डल न० ६ त० । राशिचक्रे सू० सि० ।

भम्भ पु० भमित्यव्यक्तशब्देन भाति भा--क । मक्षिकाभेदे दंशे

हारा० । २ तत्तुल्यगतिके धूमे हेमच० ।

भम्भराली स्त्री भमित्यव्यक्तशब्दस्य भरमालाति गृह्णाति

आ + ला--क गौ० ङीष् । (डाँश) मक्षिकायाम् । स्वार्थे
क अत इत्त्वम् । भम्भबालिका तत्रैवार्थे त्रिका० ।

भम्भासार पु० मगधदेशनृपभेदे हेमच० ।

भय न० विभेत्यस्मात् भी--अपादाने अच् । १ भयहेतौ । भावेऽच् ।

२ दैन्यात्मके परतः स्वानिष्टसम्भावनारूपे वा चित्तवृत्तिभेदे
३ नाटकप्रसिद्धे भयस्थायिभावके रसभेदे च । भयञ्च
“रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम्” सा० द०
लक्षितम् । भयानकशब्दे दृश्यम् । ४ निरृतिपुत्रभेदे पु०
भा० आ० ६६ अ० ।

भयकर त्रि० भयं करोति कृ--अच् ६ त० । भयकारके भा० क० १५५२ श्लो० ।

भयकृत् त्रि० भयं करोति कृ--क्विप् । १ भयकारके भयं कृन्तति

कृत--छेदने क्विप् । २ परमेश्वरे । “भयकृद् भयनाशनः
विष्णुस० ।

भयङ्कर पु० भयं करोति कृ--खच् मुम् च । १ मयजनके २

रसभेदे ३ डुण्डुलविहगे च पुंस्त्री० स्त्रियां ङीष् । भा० व०
३५ अ० उदा० ४ विश्वदेवगणभेदे पु० भा० अनु० ९१ अ० ।
५ कुमारानुचरमातृभेदे स्त्री ङीप् भा० श० ४७ अ० ।

भयडिण्डिम पु० भयजनको डिण्डिमः । रणवाद्ये

पृष्ठ ४६४२

भयद्रुत त्रि० भयेन द्रुतः ३ त० । मयेन पलायिते अमरः ।

भयनाशन त्रि० भयं नाशयति नाश--ल्यु । १ भयनिवारके

२ विष्णौ पु० “भयकृत् भयनाशनः” विष्णुस० ।

भयनाशिनी स्त्री भय रोगभयं नाशयति नश--णिच्-

णिनि । त्रायमाणालतायाम् राजनि० ।

भयब्राह्मण पु० भयेन ब्राह्मणः सम्पद्यते । भीत्या विप्रत्वेनात्मनः ख्यापके ।

भयभ्रष्ट त्रि० ६ त० । भयेन पलायिते जटाधरः ।

भयव्यूह पु० भये सति व्यूहः । पार्श्वादितो भयभेदेन राज्ञा

कर्त्तव्ये व्यूहभेदे भयभेदेन तत्प्रकारः काम० नी० उक्तो
यथा “यायाद्व्यूहेन महता मकरेण पुरोभये । श्येने-
नीभयपक्षेण सूच्या वाधीरचक्रया । पश्चाद् भये तु शकटं
पार्श्वयोर्वज्रसञ्ज्ञितम् । सर्वतः सर्वतो भद्रं भयव्यूहं
प्रकल्पयेत्” ।

भयानक पु० बिभेत्यस्मात् भी--आनक । १ व्याघ्रे २ राहौ

३ रसभद च मेदि० । ४ मयङ्करे त्रि० । ५ भीतेः अपादाने
अमरः । तद्रसलक्षणादि सा० द० उक्तं यथा
“भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री-
नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः । यस्माद्
उत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य
भवेद्दीपनं पुनः । अनुभावोऽत्र वैवर्ण्यं गद्गदस्वर-
भाषणम् । प्रलयस्त्रेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ।
जुगुप्सावेग मोहसंत्रासग्लानिदीनताः । शङ्काप-
स्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः” ।

भयापह त्रि० भयमपहन्ति अप + हन--ड । १ मयनाशके

२ नृपे पु० त्रिका० ३ विष्णौ पु० “जितमन्युर्भयापहः” विष्णुस०

भयावह त्रि० भयमावहति आ + वह--अच् ६ त० ।

भयकारके हेमच० ।

भय्य न० भी--भावे यत् वेदे नि० । भये पञ्चभी० १०५६ ।

लीके तु भेयमित्येव ।

भर पु० भृ--अप् । १ अतिशये । कर्त्तरि अच । २ मरणकर्त्तरि त्रि० अमरः ।

भरग त्रि० भरमतिशयं गच्छति नम--ड । १ अतिशयगन्तरि

भरगेति वर्णत्रयद्योत्ये २ भर्गशब्दार्थे परब्रह्मणि यथोक्तं
ब्राह्म० स० योगियाज्ञवल्क्येन “भेति भासयते यस्मात्
रोक रञ्जयति प्रजाः । गेति च गच्छतेऽजस्वं भरगात्
भर्ग उच्यते” । तत्र भासि--ड भः रञ्जि ड--रः ।
गम--ड नः तेषां समाहारः भरगम् । तद्वर्णत्रय-
योगात् मर्ग इत्य च्यते पृषो० ।

भरट पु० भृ--अटन् । १ कुम्भकारे तेन हरति भस्या० ष्ठन् भर-

टिक तेन हर्त्तरि त्रि० स्त्रियां षित्त्वात् ङीष् भराटकी ।

भरण न० भृ--भावकरणादौ ल्युट् । १ वेतने २ पोषणे ३ धारणे

च । अश्विन्यवधिके द्वितीये ४ नक्षत्रे शब्दर० ५ घोषक-
लतायाञ्च स्त्री ङीप् । नक्षत्रभेदे पु० मेदि० । तस्यायोग-
तारादिकम् अश्लेषाशब्दे उक्तम् सा च राशिचक्रस्य४०
अंशोत्तरं १३ । २० कलाविकलात्मिका । उग्रगणान्तर्गता-
अधोमुखन्तर्गता च । भरणेन हरति भस्त्रादि० ष्ठन्
भरणिक वेतनेन हारिणि त्रि० स्त्रियां ङीष् ।

भरणीभू पु० भरण्यां भवति भू--क्विप् । राहुग्रस्थे हेमच०

भगदैवतशब्दे दृश्यम् ।

भरण्ड पु० भृ--अण्डन् । १ स्वामिनि २ नृपे च उणादिको० ।

भरण्य कण्ड्वा० नामधातुः भुरणेत्यत्र पाठान्तरम् धारणे

पोषणे पर० सक० सेट् भरण्यति भुरण्यति वा ।

भरण्यभुज् त्रि० भरण्यं वेतनं भुङ्क्ते भुज--क्विप् ।

वैतनिके कर्मकरे अमरः ।

भरण्याह्वा स्त्री भरण्या आह्वा आह्वा यस्याः । पर्वपुष्पीवृक्षे (रामदूती) शब्दच० ।

भ(भु)रण्यु पु० कण्ड्वा० भ(भू)रण्य उन् । १ शरण्ये २ मित्रे

च शब्दमाला । ३ अग्नौ ४ चन्द्रे ५ स्वामिनि च
संक्षिप्तसा० । भुरण्युरिति पाठान्तरम् ।

भरत पु० भरं तनोति तन--ड । (जड़भरत) इति ख्याते

१ मुनिभेदे जड़भरतकथा च ३०१५ पृ० दृश्या नाट्यशास्त्रस्य
अलङ्कारशास्त्रस्य च २ कर्त्तरि मुनिभेदे ३ शवरे ४ तन्तुवाये
५ क्षेत्रे ६ केकयीसुते रामानुजे च । भरतेन प्रोक्तम् भारतं
नाट्यशास्त्रमधीयते अण् तस्य लुक् । ७ तच्छ स्त्राध्येतृषु
ब० व० । ८ दुष्मन्तेन शकुन्तलायामुत्पादिते पुत्रभेद पु० तस्याप-
त्यानि इञ् तस्य बहुषु लुक् । ९ भरतवंश्ये नृपे पु० ब० व० ।
दौष्मन्तिभरतकथा भाग० ९ । १० अ० दृश्या १० ऋषभदेवपुत्रभेदे
भाग०५ । ४ अ० । ११ वह्निपुत्रभेदे “पावनो लौकिको ह्यग्निः
प्रथमो ब्रह्मणः सुतः । ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम
विश्रुतः” मात्स्ये ४८ अ० । रामानुजभरतस्य जन्म यथा
“भरतो नाम कैकय्यां जज्ञे सत्यपराक्रमः । साक्षा-
द्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः” । १२ भौत्यमनुपुत्रभेदे
मार्कपु० १०० अ० । १३ आयुधजीविसंधभेदे पु० ततः यौधेया०
स्वार्थे अण् । भारत तदर्ये ब० व० । १४ ऋत्विक्षु ब० व०
निघण्टुः ।

भरतखण्ड कुमारिकाखण्डे “कुमारिकेति विख्याता यस्या

नाम्ना प्रकथ्यते । इदं कुमारिकाखण्डं चतुर्वर्गफल-
व्रदम् । यथा कृतावनीयञ्च नानाग्रामादिकल्पना ।
इदं भरतखण्डश्च मया सम्यक् प्रकल्पितम्” स्कन्दपु० ।
पृष्ठ ४६४३

भरतद्वादशाह पु० भरतकृते द्वादशाहसाध्ये यज्ञभेदे

“सर्वाग्निष्टोमो भरतद्वादशाहः” कात्या० श्रौ० २४ । ७ । १२ ।
“तत्र यज्ञे सर्वाग्निष्टोमा भवन्ति प्रायणीयोदनीयबर्जम् ।
तेन दशरात्रस्य स्थाने दशाप्यग्निष्टोमाः भवन्ति आद्य-
न्तयोः प्रायणीयोदनीययोरतिरात्रावेव” संग्रहव्याख्या
आश्व० श्रौ० १० । ५ । ८ सूत्रादौ तु अन्यथोक्तं यथा
“अथ भरतद्वादशाहः” सू० “अथशब्दोऽहीनकैवल्यबुद्धि-
विच्छेदार्थः । सत्राहीनसाधारणाश्चत्वारो द्वादशाहा
उक्ताः । तत एकोऽहीन उक्तः । उत्तमश्च साधारण
एवमतस्तविच्छेदार्थममथशब्दः प्रयुक्तः” नारा० ।
“इममेवेकाहं पृथक् संस्थाभिरुपेयुः” सू० “भरतद्वादशाह
स्याहःकॢप्तिः । इममेव प्रकृतैकाहं पृथग्भूतामिः
संस्थाभिर्युक्तं द्वादशकृत्वः कुर्य्युः । विकृतिषु प्रकृतेः
मनिहितत्वादिदमुच्यते । उत्तरत्र संस्थाविधानादेव संस्था-
सम्बन्धे सिद्धे पृथक्सस्थाभिरितिवचनं वचनादेव स्थान-
नियमो नातिदेशादिति ज्ञाषनार्थम्” नारा० । “अतिरात्र-
मग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथाति-
रात्रम्” सू० “द्वादशाहमामान्येन प्राप्तानां संस्थानां
विधीयमानो भरतद्वादशाहे अयमपवादः” नारा० ।

भरतपुत्रक पु० मरतस्य नाट्यशाखकर्तुः पुत्र इव कायति

कै--क । नटे हेम० ।

भरतप्रसू स्त्री ६ त० । १ केकय्यां शब्दर० । २ शकुन्तलायाम् ३ ऋषभदेवपत्न्यां च ।

भरतवर्ष न० ६ त० । भारते वर्षे ।

भरताग्रज पु० ६ त० । दाशरथौ श्रीरामे ।

भरद्वाज पु० ज्येष्ठस्य भ्रातुरुतथ्यस्य पत्न्यां ममतायां

वृहस्पतिना जनिते मुनिभेदे । तदुत्पत्तिकथा विष्णु पु० ४ अं०
१९ अ० । भाग० ९ । २० अ० । द्वाजशब्दे ३७९५ पृ० तन्निरुक्ति-
रुक्ता । भा० अनु० ९३ अ० अन्यथा निर्वचनमुक्तं यथा
“भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान् ।
भरे भार्य्या भरद्वाजं भरद्वाजोऽस्वि शोभने!” । “प्रजा वै
वाजस्ता एष विभर्त्ति यद्बिभर्त्ति तस्याद्भरद्वाज इति
श्रुत्यनुसारेण खनामाह “भरे इति अशिष्यान् शासितु-
मयोग्यानपि राचसान् शत्रूंश्च वशेकृत्य करुणया
पालयामि तथा असुतान् अपुत्रानुदासीनानपि दीनानदीनान्
पालयामि भार्य्यां भार्य्येति पुत्रभृत्यादेरुपलक्षणम्
ईदृग्विवोऽन्योऽपि वाजं वेगं शत्रूणां साहसमन्नं वा
भरेत्स पृथिवीवत् सर्वं तहोन्नप्रदश्च भवतीति तस्मा-
दहमपि तथास्मीत्यर्थः । भरे द्वाजमिति च्छेदे तु द्वाभ्यां
जातं सङ्करजमित्यर्थः ननु “माता भस्त्रा पितुः पुत्रो येन
जातः स एव सः” इति स्मृतेश्चर्मकोशतुल्या मातेत्यतः
सर्वोप्येकज एवेति नास्ति कश्चिद् द्वाजः न हि द्वाभ्यां
रेतःसेकाभ्यामेको जायत इति सम्भवति सत्यम्
आहवनीयादीनामपि संस्कारवतां सर्वेषां द्विविधं जन्म
योनितः संस्कारतश्च तत्र सङ्करोऽन्यस्माज्जातोऽन्येन
स्वपुत्र इति बुद्ध्या संस्कृत इति स एव द्वाजः द्विर्जायत
इति द्विर्जोऽन्यः द्वाभ्यां स्त्रीपुरुषाभ्यां जायत इत्यर्थः
द्वाजादयो निपात्यन्ते तत एव द्वाजा अपि सन्तीति
“वशी वशं नयसि एकजात! त्वमिति” मन्त्रे मन्योः
संकल्पस्य एकजेति विशेषेणं द्वाजे तु वीजसंस्कार
सङ्कारादवश्यं संकल्पयोर्वाड्मनसयोर्वा पौर्वापर्यविरोधा
भवतीति विश्वासघातकादयो द्वाजा इति ज्ञेयं तदयं
संग्रहः “कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते । खले
वाक्चित्तवैमत्ये वीजसंस्कारसङ्करादिति” नीलक० ।
२ मनोरूपे सचेतने ऋषिभेदे तन्निरुक्तिर्यथा
“भरद्वाज ऋषिरिति । मनो वै भरद्वाज ऋषिरन्नं
वाजो योवै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मा-
न्मनो भरद्वाज ऋषिः” शत० ब्रा० ८ । १ । १ । ९ । अस्यार्थः
“भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स
भरद्वाजीऽन्नधर्ता मनः मनसि स्रस्थे अन्नादनेच्छोत्पत्तेः
ऋषिः सचेतनो मनोरूपः” यजु० १३ । ५५ वेददी० ।
(भारुइ) ३ खगभेदे पुंस्त्री० अमरः । ४ देशभेदे भा० भी०
९ अ० । भरद्वाज ऋषिश्च गोत्रपवर्त्तकः तच्छब्दे २७९६
पृ० दृश्यम् ।

भरम त्रि० भृ--बा० अमच् । भरणकर्त्तरि । ततः शुभ्रादि०

अपत्ये ढक् । भारमेव तदपत्ये पुंस्त्री० ।

भरस् पु० भृ--असुन् । भरणे । ऋ० ५ । १५ । ४ ।

भरित त्रि० भरो जातोऽस्य तारका० इतच् । १ जातभरणे

हरित + पृषो० हस्य भः । २ हरितर्णे ३ तद्वति त्रि० स्त्रियां
ङीप् तस्य नः । भरिणी तद्वर्णयुक्तायां स्त्रियाम् ।

भरित्र न० द्वि० व० भृ--इत्र । बाह्लीः निघण्टुः ।

भरिमन् पु० भृ--कर्मणि इमनिच् । १ कुटुम्बे उज्ज्वल० ।

भावे इमनिच् । २ भरणे उणादिको० कर्त्तरि इमनिच्
३ विष्णौ सि० कौ० ।

भरु पु० भृ--उन् । १ स्वामिति उज्ज्वल० । २ स्वर्णे ३ शिवे मेदि० ।

भरुक पु० दक्षिणदेशभेदे वृ० स० १४ अ० ।

पृष्ठ ४६४४

भरुज पुंस्त्री० भेतिशब्देन रुजति रुज--क । शृगाले ततः

जातित्वेऽपि स्त्रियां बह्वा० वा ङीष् । भरुजा भरुजी ।
ततः इवार्थे अङ्गुल्या० ठक् । भारुजिक तदर्थे ।

भरुटक न० भृ--उट संज्ञायां कन् । भृष्टामिषे हेमच० ।

भरे अव्य० भृ--वा० ए । संग्रामे निघण्टुः ।

भर्ग पु० भ्रस्ज--घञ् भर्जादेशे कुत्वम् । १ शिवे २ ज्योतिः-

पदार्थे ३ आदित्यान्तर्गते ऐश्वरे तेजसि, “आदित्यान्तर्गतं
वर्चा भर्गाख्यं तन्मुमुक्षिभिः । जन्ममृत्युविनाशाय
दुःखस्य त्रितयस्य च । ध्यानेन पुरुषैर्यच्च द्रष्टव्यं सूर्य्य-
मण्डले” योगियाज्ञ० । तस्य तेजस ऐश्वरत्वञ्च “यदा-
दित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि
यच्चाग्नौ तत्तेजो विद्धि मासकम्” इति गीतायामुक्तम् ।
भावे घञ् । ४ भर्जने च । ५ धृष्टकेतुवंश्ये नृपभेदे हरुवं०
२९ अ० । ६ देशभेदे । तत्र भवः तस्य राजा वा अण् ।
भार्ग । तद्देशनृपे तत्र भवे च स्त्रियां न लुक् भार्गी ।

भर्गस् पु० भृज--असुन् न्यङ्क्वा० । तेजसि ऋ०१ । १४१ । १ ।

भर्गादि पु० तद्राजार्थे प्रत्ययस्य स्त्रियां लुगनिमित्ते शब्दगणे

स च गणः “भर्ग करूष केकय कश्मीर साल्व सुस्थल
उरस् कौरव्य” ।

भर्गायण पु० प्रवरर्षिभेदे प्रवराध्यायः ।

भर्ग्य पु० भ्रम्ज--ण्यत् भर्जादेशे कुत्वम् । शिवे रायसु० ।

भर्जन न० भ्रसज--भावे ल्युट् भर्जादेशः (भाजा) तण्डुलादेः

पाकभेदे शब्दमा० ।

भर्णस् त्रि० भृ--असुन् नुगागमः । भरणकारके ऋ० ९ । ६० । २

भर्तृ पु० भृ--तृच् । १ स्वामिनि २ अधिपतौ अमरः । ३ राजनि

४ पोषके ५ धातरि च त्रि० मेदि० याजका० षष्ठ्या
समासः । ६ विष्णौ पु० “सवनो भावनो भर्त्ता” विष्णु स०
तस्य सत्त्वगुणेन पालनात् तथात्वम् ।

भर्तृघ्नी स्त्री भर्त्तारं हन्ति हन--टक् ङीप् । पतिघातिन्यां

पाणिरेखायां “पाषण्ड्यानाश्रितास्तेनाभर्तृघ्न्यः
कामगादिकाः” याज्ञ० । आर्षत्वात् मनुष्यकर्तृकत्वेऽपीह टक् ।

भर्तृदारक पु० भर्तुरधिपस्य राज्ञः दारकः पुत्रः । नाट्यो-

क्तौ १ राजकुमारे । २ तत्कन्यायां स्त्री । भर्तृदारिका०
अमरः ।

भर्तृस्थान न० तीर्थभेदे भा० व० ८४ अ० ।

भर्तृहरि पु० भर्त्ता हरिरिव । वाक्यपदीयादि ग्रन्थकर्त्तरि

विक्रमादित्यस्य ज्येष्ठे भ्रातरि राजभेदे!

भर्त्स अधिक्षेपे चुरा० उभ० सक० सेट् । भर्त्सयति ते अबभर्त्सत् त ।

भर्त्सन न० मर्त्स--ल्युट् । अपकारवचने अधिक्षेपे

तिरस्कारायापकारार्थकवाक्योक्तौ । युच् । भर्त्सनाप्यत्र स्त्रा

भर्त्स्यपत्रिका स्त्री भर्त्स्यं भर्त्सनीयं पत्रमस्याः कप

कापि अत इत्त्वम् । महानीलीवृक्षे राजनि० ।

भर्भ हिंसायां भ्वा० पर० सक० सेट् । भर्भति अभर्भीत् ।

भर्म(न्) न० भृ--मन् मनिन् वा । १ स्वर्णे अमरः । २ भृतौ

३ नाभौ ४ धुस्तूरे च हेमच० । नान्तः अदन्तश्च द्विरूपकोषः

भर्मण्या स्त्री भर्मणि साधु यत् । भृतौ हेमच० ।

भर्माश्व पु० भरतवश्ये नृपभेदे भाग० ९ । २१ । २४ ।

भर्व हिंसायां भ्वा० पर० सक० सेट् । भर्वति अभर्वीत । भोजने

निघण्टुः ।

भल बधे दाने निरूपणे च भ्वा० आ० सक० सेट् । भलते अभलिष्ट बभले ।

भल निरूपणे चु० आ० सक० सेट् । भालयते अबोभलत ।

भलता स्त्री भाति--भा--क कर्म० । राजवलालतायाम् शब्दर०

भलन्दन पु० १ दिष्टवंश्ये नृपभेदे भाग० ९ । २ । १६ । २ कान्य-

कुब्जदेशीये नृपभेदे ब्रह्मवै० प्रकृ० ख० १७ अ० ।

भलानस् त्रि० भद्रमुखे ऋ० ७ । १८ । ७ ।

भल्ल दाने बधे निरूपणे च भ्वा० प० सक० सेट् । भल्लति अभल्लीत् ।

भल्ल पु० भल्ल--अच् । १ भल्लूके । २ अस्त्रभेदे पुंन० । स्वार्थे क

भल्लूके पुंस्त्री० वा गौरा० ङीष् पक्षे टाप् । भल्लकाप्यत्र ।
ततः सङ्कला० निर्वृत्तार्थे अण् । भाल्ल भल्लकृते त्रि०
चतरर्थ्यां सख्या० ठञ् । भाल्लिक तस्यादूरदेशादौ त्रि० ।
वृ० स० १४ उक्ते ऐशान्यां स्थिते ३ देशभेदे पु० । ४ तद्देशभवे च
ब० व० । स्वार्थे क । भल्लक तत्रार्थे ततः स्वार्थे छ । भल्ल-
कीय तदर्थे तस्यापत्यं छ । भल्लकीय तदपत्यादौ त्रि० ।

भल्लपाल पु० भल्लं पालयति पालि--अण् उप० स० । भल्ल-

पालके ततः सख्या० चतुरर्थ्याम् ठञ् । भाल्लपालिक तेन
निर्वृत्तादौ ।

भल्लपुच्छी स्त्री भल्लस्य पुच्छमिव पुष्पमस्याः ङीप् । (गोरक्षतण्डुला) क्षुपभेदे शब्दच० ।

भल्लवि पु० ऋषिभेदे तस्यापत्यमिञ् । भाल्लवि तदपत्ये

तस्यापत्यं ढकञ् । भाल्लवेय तदपत्ये पुंस्त्री० । इन्द्रद्युम्ने
ऋषिभेदे पु० छा० उ० ।

भल्लाक्ष पु० भल्लस्येवाक्षि यस्य षच्समा० । मन्ददृष्टौ हंसभेदे छा० उ० ।

भल्लाट पु० १ शशिध्वजराजपुत्रे कल्किपु० २२ अ० । २ ब्रह्म-

दत्तवंश्ये ३ नृपभेदे हरिवं०२० अ० ।

भल्लात पु० न० भल्लं भल्लास्त्रमिवातति स्पर्शिनम् अत--अच् ।

(भेला) वृक्षभेदे स्वार्थे क । तत्रैव पुंस्त्री० गौ० ङीष् । भल्ला-
तक्यप्यत्र रत्नमा० । “भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करो-
पृष्ठ ४६४५
ऽग्निकः । तथैवाग्नीमुखी भल्ली वीरवृक्षश्च शोफहृत् ।
भल्लातकफलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं
स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् । मेध्यं वह्निकरं हन्ति
कफवातव्रणोदरम् । कुष्ठार्शोग्रहणीगुल्मशोफनाह-
ज्वरक्रिमीन् । तन्मज्जा मधुरो वृष्यो वृंहणो
वातपित्तहा । वृन्तमायुष्करं स्वादु पित्तघ्नं केश्य-
मग्निकृत् । भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः ।
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् । हन्ति गुल्म-
ज्वरं चित्रवह्निमान्द्यकृमिव्रणान्” भावप्र० । गुड़भल्लातक-
शब्दे भल्लातकीगुड़पाकविधिर्दृश्यः ।

भल्लातकतैल सुश्रुतोक्ते भल्लातकफलच्यवनजाते तैलभेदे

“दुरूढ़त्वात् तु शुक्लानां कृष्णकर्म हितं भवेत् । भल्ला-
तकान्वासयेत् तु क्षीरे प्राङ्मूत्रभावितान् । ततो द्विधा
छेदयित्वा लौहे कुम्भे निधापयेत् । कुम्भेऽन्यस्मि-
न्निखाते तु तं कुम्भमथ योजयेत् । मुखं मुखेन
सन्धाय गोमयैर्दाहयेत् ततः । यः स्नेहश्च्यवते तस्मा-
द्ग्राहयेत् तं शनैर्भिषक् । ग्राम्यानूपशफान्दग्धान्
सूक्ष्मचूर्णानि कारयेत् । तैलेनानेन संसृष्टं शुक्लमालेप-
येद् व्रणम् । मल्लातकविधानेन सारस्नेहांस्तु
कारयेत् । ये च केचित् फलस्नेहा विधानं तेषु कीर्त्तितम् ।
दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् । सप्तरात्रं
स्थितं क्षीरे छागले रोहिणीफलम् । तेनैव पिष्टं
सुश्लष्णं सवर्णकरणं हितम्” ।

भल्लातकलौह न० चक्रदत्तोक्ते भल्लातकादिपक्वे लौहरूपे औषधभेदे

“चित्रक त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता । हस्ति-
पिप्पल्यपाभाण्टण्डोत्पलकुठेरकाः । एषां चतुप्पलान्
भागान् जलद्रोणे विपाचयेत् । भल्लातकसहस्रे द्वे
छित्त्वा तत्रैव दापयेत् । तेन पादावशेषेण लौहपात्रे
पचेद्भिषक् । तुलार्द्धं तीक्ष्णलौहस्य घृतस्य कुड़वद्वयम् ।
त्र्यूषणं त्रिफलावह्निसेन्धवं विड़मौद्भिदम् । सौवर्च-
लविडङ्गानि पलिकांशानि कल्पयेत् । कुडवं वृद्धदारस्य
तालमूल्यास्तथैव च । शूरणस्य पलान्यष्टौ चूर्णं कृत्वा
विनिः क्षिपेत् । सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् ।
प्रातर्भोजनकाले च ततः स्वादेद् यथाबलम् । अर्शांसि
ग्रहणीदोषं पाण्डुरोगमरोचकम् । क्रिमिगुल्मा-
श्मरीमेहान् शूलञ्चाशु व्यपोहति । करोति शुक्रोप-
चयं बलीपलितनाशनम् । रसायनमिदं श्रेष्ठं सर्व-
रोगहरं परम्” ।

भल्लातकविधान सुश्रुतोक्ते सहस्रतत्फलसेवनप्रकारभेदे

“अत ऊर्द्ध्वं भल्लातकंविधानमुपदेक्ष्यामः । मल्लातकानि
परिपक्वान्यनुपहतान्याहृत्यैकमादाय द्विधा त्रिधा चतुर्द्धां
वा छेदयित्वा कषायकल्पेन विपाच्य कषायस्य शुक्तिमनुष्णां
घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत ततोऽपराह्णे
क्षीरं सर्पिरोदन इत्याहार एवमेकैकं वर्द्धयेत् तावद्-
यावत्पञ्चेति ततः पञ्च पञ्चाभिवद्धयद्यावत् सप्ततिरिति
प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत्पञ्चेति
पञ्चभ्यश्चैकैकं यावदेकमिति । एवं भल्लातकसहस्र-
मुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलबानरोगः शतायु-
र्भवति । द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्यु-
तितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत
जीर्णे पूर्ववदाहारः फलप्रकर्षश्च । भल्लातकमज्जभ्यो
वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमा-
गारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं चोपयुञ्जीत ।
तस्मित् जीर्णे क्षीरं सर्पिरोदन इत्याहारः” ।

भल्ली स्त्री भल्ल हिंसे अच् गौरा० ङीष् । भल्लातके शब्द-

रत्ना० तत्फलस्य स्पर्शिनां व्रणकारितया हिंसकत्वा-
त्तस्यास्तथात्वम् । स्वार्थे क भल्लिका तत्रार्थे शब्दच० ।

भल्लु(ल्लु)क पु० स्त्री भल्ल--उ(ऊ) क । (भालूक) १ जन्तुभेदे

अमरः स्त्रियां ङीष् । २ श्योनाकभेदे राजनि० । स च
वीरभल्लादिगणे सुश्रुते उक्तः । द्रव्यगणशब्दे दृश्यम् ।
३ कोषस्थे जलजन्तुभेदे “शङ्खशङ्खनखशुक्तिशम्बूकभल्लूक-
प्रभृतयः कोशस्थाः” सुश्रुतः ।

भव पु० भवत्यस्यात् भू--अपादाने अप् । १ महादेवे तस्य

तन्नामनिरुक्तिः शत० ब्रा० ६ । १ । ३ । १५ । “तमब्रवीद्भवो-
ऽसीति । तद्यदस्य तन्नामाकारोत्पार्जन्यन्तद्रूपमभवत्
पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्या-
यान् वाऽतोऽस्मि धेह्येव मे नामेति” जलस्य पर्जन्यहेतु-
कत्वात् तस्य जलमूर्त्तित्वम् । अतएवास्याष्टमूर्त्तिमध्ये
जलरूपेण भवनाम्ना तस्यार्चा । भावे अप् । २ जन्मनि
३ उत्पत्तौ ४ प्राप्तौ ५ संसारे मेदि० । कर्त्तरि अच्
(चालता) ६ फले न० राजनि० ।

भवक त्रि० भू--ल्वु । १ उत्पन्ने २ आशीर्वादके संक्षिप्तसा० ।

भवकेतु पु० केतुभेदे वृ० स० ११ अ० वेतुशब्दे दृश्यम् ।

भवघस्मर पु० ६ त० । दावानले शब्दमा० ।

पृष्ठ ४६४६

भवत् त्रि० भा--डवतु । १ युष्मदर्थे, सर्वनामता चास्य । भवान्

भवत्याः पुत्रः भवत्पुत्रः । भू--शतृ । २ वर्त्तमानकालाथ
३ भवनकर्त्तरि च । भवन् स्त्रियामुभयत्र ङीप् शत्रन्तस्य
नुम् । ङीवन्तः ४ विषाक्तबाणे शब्दरत्ना० ।

भवदा स्त्री स्कन्दानुचरमातृभेदे भा० श० ४७ अ० ।

भवदादि पञ्चमीसप्तमीतरविभक्त्यान्तादपि “इतराभ्योऽपि

दृश्यते” पा० तसिलादिप्रत्ययनिमित्ते शब्दगणे तत्र “दृशि-
ग्रहणात् भवदादियोग एव” वार्त्ति० । स च गणः
“भवान दीर्घायुः देवानांप्रियः आयुष्मान्” । तेन स
भवान् ततो भवान् तत्रभवान् तत्रभवन्तम् इत्यादि एवम्
सदीर्घायुः ततो दीर्घायुरित्यादि ।

भवदारु पुंन० भवप्रियं दारु । देवदारुवृक्षे राजनि० ।

भवदीय त्रि० भवतोऽयम् छम् सित्त्वात् पदत्वे तस्य दः ।

त्वत्सम्बन्धिनि ।

भवन न० भ--आधारे ल्युट् । १ गृहे अमरः भावे ल्युट् । २ भावे ३ जन्मनि ४ सत्तायाञ्च मेदि० ।

भवनपति पु० ६ त० । १ गृहखामिनि २ राश्यधीशे च

भवननाथादयोऽप्यत्र ।

भवन्त पु० भू--झच् । काले उज्ज्वल० संक्षिप्तसा० ।

भवन्ति पु० भू--झिच् अस्य स्त्रीत्वमपि । वर्त्तमानकाले जन्मादौ

स्त्रीत्वे ङीप् । “अस्तिर्भवन्तीपरः प्रयोक्तव्यः” महामाष्यम् ।

भवभूत न० भवरूपे अविततस्वरूपे परमेश्वरे “विश्वरूपं

भवभूतमीड्यम्” श्वेता० उ० ।

भवभूति पु० ६ त० । १ महादेवविभूतौ । महावीरचरितो-

त्तररामचरितमालतीमाधवादिनाटककर्त्तरि २ विद्वद्भेदे ।

भवरुत् पु० भव जन्मान्ते रोदित्यनेन रुद--करणे क्विप् ।

प्रेतपदहे त्रिका० ।

भवाचल पु० ६ त० । मन्दरस्य पूर्ववर्त्तिनि शैलभेदे कैलासे ।

“शीतार्त्तश्चक्रसुञ्जश्च कुलीरोऽथ सुकङ्कवान् । मणिशैलो-
ऽथ वृषवान् महानालो भवाचलः । सविन्दुर्मन्दरो
वेणुस्तामसी निषधस्तथा । देवशैलश्च पूर्वेण मन्दरस्य
महाचलाः” मार्कपु० ५५ अ० ।

भवात्मज पु० ६ त० । १ कार्त्तिकेये २ गणेशे च ३ मनसादेव्या स्त्री शब्दमा०

भवादृक्ष(श)श् त्रि० भवतस्तवेव दर्शनमस्य भवत् + दृश--क्विप्

ढक् कस् क्विप् वा सर्वनामत्वात् आत् । भवत्तुल्ये जने ।
टकि क्विपि च ङीप् भवादृशी ।

भवानी स्त्री भवस्य पत्नी भव + ङीप् आनुक् च ।

शिवभार्य्यायाम् दुर्गायाम् अमरः ।

भवानीगुरु पु० ६ त० । हिमाचले तस्य तदुत्पादकत्वेन तद्गुरुत्वात् तथात्वम् ।

भवानीपति पु० ६ त० । महादेवे तत्पदस्य काव्ये प्रयोगे

भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धार्थद्योतकत्वं काव्यदोषः ।

भवान्तकृत् पु० ६ त० । १ वेधसि तस्य स्वल्पकाले सर्वभूतानां

जन्मविनाशकत्वात् तथात्वम् । “यदा स्वपिति शान्तात्मा
तदा सर्वं प्रलीयते” मनुः । २ संसारनाशके ज्ञाने च ।

भवाभीष्ट पु० भवस्य महादेवस्याभीष्टः । १ गुग्गुलौ राजनि०

७ त० । २ भवेऽभीप्सिते त्रि० ।

भवायनी स्त्री भवे महादेवशिरसि अयनं स्थानमस्याः

गौरा० ङीष् । १ गङ्गायाम् शब्दर० २ शिवतत्पर शैवे त्रि० ।

भविक न० भवोभूतिरुत् पाद्यत्वेनास्त्यस्य टन् । १ कुशले

कुशलस्य भूतिहेतुत्वात्तथात्वम् । अर्श० अच् २ तद्वति त्रि०
अमरः ।

भवित त्रि० भवो जातोऽस्य तार० इतच् । भूते अतीतोत्पत्तिके जटा० ।

भवितव्य न० भू--भविष्यति कर्त्तरि च नि० तव्यत् । अवश्य

भव्ये “भवितव्यं भवत्येव यद्विधेर्मनसि स्थितम्” ।

भवितव्यता स्त्री भवितव्यस्य भावः तल् । १ अवश्यम्भावे ।

२ भाग्ये च जटाधरः ।

भविन त्रि० भू--चिन्तायाम् बा० इन । काव्यस्य कर्त्तरि त्रिका०

भविल पु० भू--भविष्यति इलच् । १ भव्ये भविष्यति उज्ज्वल

२ जारे पु० त्रिका० ।

भविष्णु त्रि० भू--इष्णुच् । भवनशीले अमरः ।

भविष्य(त्) पु० भू--“ऌटः सद्वेति” शतृ--स्यट् च पृषो०

वा तलीपः । भाविनि १ काले २ तत्कालवर्त्तिनि
पदार्थे त्रि० स्त्रियां ङीप् नुम् च “अव्याक्षेपो
भविष्यन्त्याः” रघुः । तलोपपक्षे क्लीवता । उत्तर-
पदस्थः त्रि० । “यद्भविष्यो विनश्यति” पञ्चत० ३
भविष्यमधिकृत्य कृते पुराणभेदे न० । तच्च महापुराणान्त-
र्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु० ४ पा०
१०० अ० उक्तं यथा
“अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यं
भवतः सर्वलोकाभीष्टप्रदायकम् । तत्राहं सवदवाना-
मादिकर्त्ता समुदातः । सृष्ट्यर्थं तत्र सञ्जातो मनुः
स्वायम्भुवः पुरा । स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थ-
साधकम । अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहि-
ताम् । पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः ।
तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः ।
अथोरकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्” । तत्र प्रथम-
पूर्वणि । तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युप-
क्रमः । सूतशौनकसंवादै पुराणप्रश्नसंक्रमः । आदित्य-
चरितः प्रायः सर्वाख्यानसमाचितः । सृष्ट्यादिलक्षणी-
पृष्ठ ४६४७
येतः शास्त्रसर्वसरूपकः । पुस्तलेखकलेखानां लक्षणञ्च
ततः परम् । संस्काराणाञ्च सर्वेषां लक्षणञ्चात्र
कीर्त्तितम् । पक्षत्यादितिथीनाञ्च कल्पाः सप्त च
कीर्त्तिताः । अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः ।
शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः । प्रति
सर्गाह्वयं पश्चान्नानाख्यानसमाचितम् । पुराणस्योप-
संहारसहितं षर्व पञ्चमम् । एषु पञ्चषु पूर्वस्मिन्
ब्रह्मणो महिमाधिकः” । द्वितीयतृतीयचतुर्थपञ्चमपर्वसु
“धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च । द्वि-
तीये च तृतीये च सौरो वर्गचतुष्टये । प्रतिसर्गा-
ह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम् । एतत् भविष्यं
निर्दिष्टं पर्ब व्यासेन धीमता । चतुर्दशसहन्तु पुराणं
परिकीर्त्तितम् । भविष्यं सर्वदेवानां साम्यं यत्र प्रकी-
र्त्तितम् । गुणानां तारतम्येन समं ब्रह्मेति हि
श्रुतिः” । तत्फलश्रुतिः । “तल्लिखित्वा तु यो दद्यात् पौष्यां
विद्वान् विमत्सरः । गुड़धेनुयुतं हेमवस्त्रमाल्यविभू-
षणैः । वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः ।
गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् । यो वै
जितेन्द्रियो भूत्वा सोपबासः समाहितः । अथ वा यो
नरो भक्त्या कीर्त्तयेच्छृणुयादपि । स मुक्तः पातकैर्घोरैः
प्रयाति ब्रह्मणः पदम् । योऽप्यनुक्रमणीमेतां भविष्यस्य
निरूपिताम् । पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्च
विन्दतः” । ४ (चालता) फलमेदे राजनि० । तान्तं ५ जले
निघण्टुः । भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्व-
मिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इति
सांख्यादयः । ४ हरिवंशपर्वभेदे न० ।

भविष्यदाक्षेप पु० “सत्यं ब्रवीमि न त्वं मां द्रष्टुं

वल्लभ! लप्स्यसे । अन्यचुम्बनसंक्रान्तलाक्षारक्तेन
चक्षषा । सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्रिनी ।
कदाचिदपराधोऽस्य भावीत्येवमरुन्ध यत्” । काव्या-
दर्शोक्ते अर्थालङ्कारभेदे ।

भवीयस् त्रि० अतिशयेन बहुः बहु + ईयसुन् “बहोर्लोपो भूश्च

वहोः” पा० भूरादेशः वेदे न ईलोपः । बहुतरे ऋ० १ । ८३ । १
लोके तु ईयसुन ईकारलोपः भूय इत्येव ।

भव्य त्रि० भू--कर्त्तरि नि० यत् । १ भाविनि “अवश्यभव्ये-

म्रनवग्रहाग्रहेति” नैषधम् । (चालता) २ फलभेदे राजनि०
“भव्यं स्वादु कषायाम्लं हृद्यमास्यस्य शोधनम् । तदेव
पक्वं दाषघ्नं गुरुग्राहि विषापहम्” राजव० । ३ अस्थ्निःमेदि०
४ शुभे ५ सत्ये ६ योग्ये च न० । ७ तद्वति त्रि० । ८ कर्मरङ्गे पु०
९ गजपिप्पल्यां १० अतस्यां च स्त्री मेदि० । ११ रसभेदे शब्दर०

भष कुक्कुरशब्दे भ्वा० पर० सक० सेट् । भषति अभषीत्--अभाषीत्

भष पुंस्त्री० भष--अच् । १ कुक्कुरे शब्दरत्ना० स्त्रियां जातित्वात्

ङीष् । ३ स्वर्णक्षीर्य्यां स्त्री रत्नमा० टाप् ।

भषक पु० स्त्री० भष--क्वुन् । कुक्कुरे अमरः । स्त्रियां ङीष् ।

भषण न० भष--भावे ल्युट् । कुक्कुरशब्दे हेमच० ।

भस दीप्तौ अक० भर्त्सने सक० जु० पर० सेट् । बभस्ति ।

अभासीत् अभसीत् बभास । वैदिकीऽयम् ।

भस भक्षणे प० सक० सेट् निघण्टुः । भसति अभा(भ)सीत् बभास ।

भसद् न० भस--अदि । १ जघने उज्ज्वल० । २ भास्करे ३ मांसे

च ४ जघने स्त्री मेदि० ५ कारण्डवखगे ६ प्लवे पु० उणादि-
को० ७ काले पु० त्रिका० ।

भसन्त पु० भस--वा० झच् । काले त्रिका० तत्र भवन्त इत्येव पाठः ।

भसन्धि पु० ६ त० । नक्षत्रभेदानां सन्ध्यात्मके कालभेदे यथोक्तम्

“सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भसन्धयः ।
तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्त्यते” सू० सि० ।
अश्लेषाज्येष्ठारेवतीनक्षत्राणामन्त्याश्चतुर्थाश्चरणाः नक्षत्र
सन्धयो भवन्ति । तदग्रभेषु तेषामश्लेषाज्येष्ठारेवतीनक्ष-
त्राणामुत्तरेषु मथामूलाश्विनीनक्षत्रेष्वित्यर्थः प्रथमचरणो
गण्डान्तं नाम प्रसिद्धमुच्यते । यद्यप्यश्लेषाज्येष्ठारेवती-
नक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणा-
मादिमं घटिकाद्वयमिति चतस्रोऽन्तरघटिका गण्डान्तम् ।
एतदतिरिक्तो नक्षत्रसन्धिः पूर्वनक्षत्रान्तघटिकोत्तरनक्षत्रा-
दिमघटिकेत्यन्तरालघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन
घटिकाः सार्द्धद्वयमिति संहिताविरुद्धं तथापि सूर्य्योक्तस्य
स्वतः प्रामाण्यान्न क्षतिः । अथविअकवाक्यतार्थं पादशब्दः
करमेत्रादिवद् द्विसङ्ख्यावाचकः । घटिका इत्यध्या-
हारश्च । तथा च द्विसङ्क्यामिता अन्त्यघटिकानक्षत्र-
सन्धिः” रङ्ग० । २ नक्षत्रयोः सन्धिकाले च तदानयनं सि०
शि० दर्शितं तच्च तिथिसन्धिशब्दे ३३०० पृ० दर्शितम् ।

भसित न० भस--क्त । भस्मनि हेम० ।

भसूचक पु० भानि नक्षत्राणि सूचयति सूचि--ण्वुल् । दैवज्ञे शब्दर० ।

भस्त्रा स्त्री भस--ष्ट्रन् । १ चर्मप्रसेविकायाम् अग्निसन्धुक्षणे

चर्मनिर्मिते यन्त्रभेदे । (याँता) अमरः । षित्त्वात् ङीष् ।
अत्रैव शब्दरत्ना० स्वार्थे क टाप न इत्त्वम् । भस्त्रा-
काप्यत्रैव । ततः उत्करा० चतुरर्थ्यां छ । भस्त्रीय
तददूरदेशादौ त्रि० ।
पृष्ठ ४६४८

भस्त्राफला स्त्री भस्त्रेव फलमस्याः ङीप् । (टेपारि) क्षुपभेदे

भस्मक न० भस्म करीति कृ--ड । (भस्मकीट) बहुभोजन-

कारके १ रोगभेदे । “कट्वादिरूक्षान्नभुजां नराणां
क्षीणे कफे मारुतपित्तवृद्धौ । अतिप्रवृद्धः पवनान्वितो-
ऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात् । तस्मादसौ
भस्मकसंज्ञकोऽभूदुपेक्षितोऽयं पचते च धातून्” । भस्मकस्य
सोपद्रवमरिष्टमाह “तुट्स्वेददाहमूर्च्छादीन् कृत्वैवात्य-
ग्निसम्भवान् । पक्त्वान्नमाशु धात्वादीन् स क्षिप्रं
नाशयेद्ध्रुवम्” भावप्र० । भस्मेव इवार्थे कन् । २ कलधौते
रूप्ये ३ विड़ङ्गे च मेदि० ।

भस्मकूट पु० भस्मरूपे पर्वतभेदे कालि० ८१९० ।

भस्मगन्धा स्त्री भस्मन इव गन्धोऽस्याः । रेणुकाख्यगन्ध-

द्रव्ये भावप्र० । स्वार्थे क अत इत्त्वम् । तत्रैव जटा०

भस्मगन्धिनी स्त्री भस्मन इव गन्धोऽस्त्यस्या बाहुल्येन इनि

ङीप् । रेणुकाख्ये गन्धद्रव्ये अमरः ।

भस्मगर्भ पु० भस्म गर्भे यस्य । १ तिनिशवृक्षे राजनि०

२ कपिलशिंशपायाम् अमरः । ३ रेणुकाख्यगन्धदूव्ये स्त्री
जटाधरः टाप ।

भस्मजावाल पु० उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् ।

भस्मतूल न० भस्म तूलयति तूल--उत्क्षेप्रे क । १ ग्रामकूटे

२ पाशुघर्षणे ३ हिमे च मेदि० ।

भस्मन् न० भस--मनिन् । (छाइ) दग्धगोमयादिविकारे अमरः

अस्य शिकदेहलेपने कारणं कालिकापु० ४१ अ० उक्तं
यथा “महादेवोऽथ तद्भस्म मनोभवशरीरजम् । आदाय
सर्वगात्रेषु भूतिलेपं तदाकरोत् । लेपशेषाणि भस्मानि
समादाय तदा हरः । सगणोऽन्तर्दधे कालीं विहाय
विधिसम्मतः” । तद्धारणविधिर्यथा
“भस्मोपरि चन्दनादिकं न धार्यं तदुक्तं कौर्मे “वैदिकै-
र्मन्त्रै रहितं चन्दनागुरुकुङ्कुमम् । तिर्यक्पुण्ड्रात्मना
धार्यं कान्तिसौख्याभिलाषिभिः । पुण्ड्रोधृतश्चन्दनाद्यै-
रपि भस्म संत्यजेत् । दह्येत भस्मसंत्यागी सतीशक्रो-
धवहिवः । चन्दनाद्युपरि प्राज्ञो धारयेद्भस्य वैदिकम् ।
लौकिकं चदनाद्यं तु भस्मोपरि न धारयेत् । भस्मव-
सन्दनादीनां त्यागेनार्थो न विद्यते । चन्दनादीन्यतो
लौकिकान्येवात्र न संशयः । उपरिष्टाच्चन्दनादे-
र्धृतेऽल्पे सितभस्मनि । चन्दनाद्युत्थभूषाया फलाप्तेः
को निवारकः” । त्रिपुण्ड्रधारणं मन्त्ररहितं तूष्णीं
व कार्यम्” तदुक्तं विद्येश्वरसंहितायां “जावा-
लोक्तादिकैर्मन्त्रैर्धार्यं भस्मत्रिपुण्ड्रकम् । अन्यथा
जेज्जलं यावद्रजस्तन्नरक व्रजेदिति” । शिवधर्मे “येन भ
स्मोक्तमार्गेण न धृतं मुनिपुङ्गव! । तस्य षिद्धि मुने ।
जन्म निःफलं सूकरो यथा” । मन्त्रसारसुधानिधौ” त्रि-
पुण्ड्रकं सदा कुर्य्यात् मन्त्रपूतेन भस्मना । मन्त्रेण हीनं
यः कुर्य्यात् परभागी भवेन्नरः” । शिवापूजा तद्धारणं न
सिध्यति “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
महादेवोऽचितो येन न च तस्य फलप्रदः लिङ्गपु० ।

भस्मरोहा स्त्री भस्मनि रोहत रुह--अच् । दग्धिकायाम्

राजनि० ।

भस्मवेधक पु० भस्मन इव वेधो वेधनं यस्य कप् । कर्पूरे शब्द०

भस्मसा अव्य० डाजन्तः । चर्वणजन्यशब्दानुकारे यजु० ११ । ८०

वेददी० ।

भस्मसात् अव्य० भस्म कात्र्स्न्येन सम्पन्नं करोति भस्मन् + साति । साकल्येन भस्मरूपताकरणे ।

भस्माचल पु० कामरूपस्थे गिरिभेदे कालिकापु० ८१ अ० ।

भस्मासुर पु० असुरभेदे । इति ख्याते वृकासुरे शिववरेण स

यस्य शीर्षं करेण स्पृशति स भस्म भवतीति कथा
भाग० १० । ८८ अ० ।

भस्माह्वय पु० भस्म आह्वयते सारूप्येण स्पर्द्दते आ + ह्वे वा० श । कर्पूरे त्रिका० ।

भा दीप्तौ अदा० पर० अक० अनिट् । भाति अभासीत् बभौ ।

प्रति + बुद्धिप्राखर्य्ये । वि + अति + मिथोभासने--आ० । दीप्तिश्च
तैजसपदार्थावयवभेदः प्रकाशश्च । स च ज्ञाने विषयतया
प्रकाशः षित् । भावे अङ् । भा

भा स्त्री भा--अङ् टाप् । दीप्तौ अमरः ।

भाऋजीक पु० भास ऋजीकः । भासः प्रार्जके प्रसिद्धे ऋ० १ । ४४ । ३ भा० ।

भाकुट पु० भया दीप्त्या कुटति कुट--क । (भेट्की) मत्स्यभेदे

राजव० ।

भाकुरि पु० भां कुर्चति कुर्च--कि पृषो० । दीप्तिकारके शत० ब्रा० ९ । ४१ । ९ भा० ।

भाकूट पु० । १ पर्वतमेदे २ मत्स्यभेदे च (भेटकी) मेदि० ।

भाकोष पु० भानां दीप्तीनां कोष इव । सूर्य्ये त्रिका० ।

भाक्त त्रि० भक्तेः गौण्यावृत्तेरागतः अण् । १ औपचारिके

गौण्या वृत्त्या बोधितेऽर्थे । भक्तस्यान्नस्येदम् अण् । २ अन्न-
सम्बन्धिनि त्रि० । भक्तमन्नमस्मै नियतं दीयते वा अण् ।
३ नियतभक्तदानसम्प्रदाने त्रि० । भक्ताय हितम् अण् ।
४ भक्तसम्पादनसाधने तण्डुले ।

भाक्तिक त्रि० भक्तमस्मै नियतं दीयते ठक् । नियतभक्तदान् सम्प्रदाये ।

भाक्ष त्रि० भक्षा शीलमस्य छत्रा० अण् । भक्षणशीले ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/भ&oldid=312586" इत्यस्माद् प्रतिप्राप्तम्