सामग्री पर जाएँ

वाचस्पत्यम्/म

विकिस्रोतः तः
← वाचस्पत्यम्/भ वाचस्पत्यम्/म
तारानाथ भट्टाचार्य
वाचस्पत्यम्/य →
पृष्ठ ४७१२

मकारः पवर्गस्य पञ्चमवर्णः । अस्योच्चारणस्यानमोष्ठौ नासिका

च जिह्वाग्रेण ओष्ठयोः स्यर्शेनोच्चारणम् आभ्यन्तरः
प्रयत्नः अतएवास्य स्पर्शवर्णता अशुनासिकता च । बाह्य-
प्रयत्नाश्च संवारनादघोषाः अस्त्रप्राणश्च । अस्य ध्येव-
स्वरूपसुक्तं कामधेनुत० “मकारं शृणु चार्वङ्गि! स्वयं
परमकुण्डली । तरुणादित्यसङ्काशं चतुर्वर्गप्रदाघकम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा” ।
वर्णाभिधानेऽस्य पर्य्यावा उक्त्रा यथा “मः कासी क्लेशितः
कालो महाकालो महान्तकः । वैकुण्ठो बसुधा चन्द्रो-
रविः पुरुषराजकः । कासभद्रो जया मेधा विश्वदा
दीप्तसंज्ञकः । जठरञ्च भ्रमो मानं सक्ष्मीर्मातोग्रबन्धनी ।
विषं शिवो महावीरः शशिप्रभा जनेश्वरः । प्रमतः
प्रियसृ रुद्रः सर्वाङ्गो वह्निमण्डलम् । मातङ्गमालिनी
विन्दुः श्रवणा भरयो वियत्” । तदधिष्ठानृदेवताध्यानं
यथा “कृष्णां दशभुजां भीमां पीतलोहिमसोचनाम् ।
कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम् । एवं
ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत्” । मातृका-
न्यासेऽस्य जठरे न्यास्यता । काव्यादौ प्रथमं प्रयोगे दुःखं
फलं “सुखभयमरणं क्लेशदुःखं पवर्गः” वृ० र० टी० उक्तेः ।

पु० मा--क । १ शिवे २ चन्द्रे ३ चतुर्मुखे ब्रह्मणि एकाक्ष० ।

४ यमे ५ समये ६ विषे ७ विष्णौ च मेदि० । छन्दःशास्त्रोक्ते
८ त्रिगुरुके गणे “मो भूमिस्त्रिगुरुः श्रियं दिशति यः”
वृ० र० टी० । तस्य देवता भूमिः काव्यादौ प्रथमप्रयोगे
श्रीलाभः फलम् ।

मक भूषणे गतौ च भ्वा० आ० सक० सेट् इदित् । मङ्कते अमङ्किष्ट ममङ्के ।

मक पुंन० म इव कायति कै--क अर्द्धर्चादि । शिवादितुल्ये ।

मकर पुंस्त्री० मं विषं किरति कॄ--अच् । १ जलजन्तुभेदे

अमरः स्त्रियां जातित्वात् ङीष् । स च गङ्गावाहनं
कामस्य ध्वजश्च । मकराकरत्वात् २ मेषादितो दशमे
राशौ । तद्राशिश्च उत्तराषाढाशेषपादययसहितं श्रवणं
धनिष्ठार्द्धञ्चेति नवपादात्मकः । तद्राशिस्वरूपादिकं
नी० ता० उक्तं यथा “मृगश्चरः क्ष्माऽर्द्धरवो यमाशा
स्त्री पिङ्गरूक्षः शुभभूमिशीतः । स्वल्पप्रजासङ्गसमीर-
रात्रिरादौ चतुष्पात् विषमोदयो विट् । मकि--घञ्
पृषो० मकं भूषणं राति ददाति रा--क । ३ निधिभेदे
निधिशब्दे ४६८ पृ० दृश्यम् ।

मकरकुण्डल पु० मकराकृति कुण्डलं कर्णभूषणम् । मकराकारे कर्णभूषणे ।

मकरकेतन पु० मकरः मकरचिह्नितं केतनं ध्वजो यस्य ।

कन्दर्पे हेमच० मकरकेत्वादयोऽप्यत्र ।

मकरध्वज पु० मकरो ध्वजोऽस्य । कामदेवे अमरः ।

मकरन्द पु० मकरमपि द्यति कामजनकत्वात् दो--अवखण्डने

क पृषो० मुम् । १ पुष्पमधौ अमरः । २ कुन्दवृक्षे च ३ किञ्ज-
ल्के न० राजनि० ।

मकरन्दवती स्त्री मकरन्द + बाहुल्ये मतुप् मस्य वः ङीप् ।

१ पाटलायाम् शब्दच० २ मधुविशिष्टे त्रि० ।

मकरन्दिका स्त्री “रसैः षड्भिर्लोकैर्ममनसजजा गुरुर्मक-

रन्दिका” वृ० र० टीकोक्ते ऊनविंशत्यक्षरपादके छन्दोभेदे ।

मकरव्यूह पु० मकर इव व्यूहः । मकराकारे सैन्यनिवेशनभेदे भा० भी० ६९ अ० ।

मकरसंक्रान्ति स्त्री ७ त० । मकरे राशौ रवेः १ संक्रमणे

२ तदुपलक्षितपुण्यकालोपलक्षिते च दिने ।

मकराकर पु० ६ त० । समुद्रे हेमच० ।

मकराकार पु० मकरस्येवाकारः फले यस्य । (काँटाकरमचा) करञ्जभेदे शब्दच० ।

मकराक्ष पु० रावणपक्षस्थे राक्षसभेदे रामा० लङ्का० १७ अ० ।

मकराङ्क पु० मकरोङ्को यस्य । १ कामदेवे २ मनुभेदे अजयपालः

मकरालय पु० ६ त० । समुद्रे मकरावासादयोऽप्यत्र ।

मकरासन न० रुद्रयामलोक्ते पूजाङ्गे आसनभेदे “मकरा-

सनमावक्ष्ये वायूनां स्तम्भकारणात् पृष्ठे । पादद्वयं बद्ध्वा
हस्ताभ्यां पृष्ठबन्धनम्” ।

मकरीप्रस्थ पु० मकर्य्या उपलक्षितः प्रस्थः । यदा कदाचित्

मकरीसम्बद्धे प्रस्थे सानौ कर्क्या० अस्य नाद्युदात्तता ।

मकष्टु पु० ऋषिभेदे तस्यापत्यं शुभ्रा० ढक् । माकुष्टवेय

तदपत्ये पुंस्त्री० ।

मकार पु० म + स्वरूपे कार । मस्वरूपे वर्णे । मकारादिर्वर्ण

आद्यक्षरेऽस्त्यस्य अच् । मद्यमत्स्यमांसमैथुनमुद्रारूपे
मकारादिवर्णयुक्ते तन्त्रोक्ते पदार्थपञ्चके ।

मकुट न० मकि--भूषणे उट पृषो० । शिरोभूषणे मुकुटे द्विरूपको० ।

मकुति स्त्री मकि--उति पृषो० । शूद्रशासने त्रिका० ।

मकुर पु० मकि--उरच् पृषो० । १ दर्पणे २ बकुलवृक्षे ३ कुलाल-

दण्डे ४ कलिकायाञ्च हेमच० ।

मकुल पु० मकि--उलच् पृषो० । १ मुकुले २ बकुलवृक्षे शब्दरत्ना० ।

मकुष्टक पु० मकि--भूषायां उ--पृषो० मकुं भूषां स्तकति प्रतिहन्ति

स्तक--अच् सुषामा० षत्वम् । वनसुद्गे (मुगानि) राजनि० ।

मकुष्ठ पु० मीयते मा--ड कुत्सितं तिष्ठति स्था--क अम्बष्ठा०

षत्वम् कर्म० । १ ब्रीहिभेदे “मकुष्ठो वातलो ग्राही कफपित्त-
हरो लघुः । वान्तिकृन्मधुरः पाके कृमिकृज्ज्वरनाशनः”
भावप्र० । २ मृदुगामिनि त्रि० । स्वार्थे क । ३ वनमुद्गे

मकूलक पु० मकि--ऊलच् पृषो० संज्ञायां कन् । १ दन्तीवृक्षे

अमरः । २ मुकुले रमानाथः ।

मक्क गतौ भ्वा० आ० सक० सेट् । मक्कते अमक्किष्ट ममक्के ।

मक्कल्ल पु० शूलरोगभेदे “प्रजातायाश्च नार्य्या रूक्षशरीराया-

स्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगेनातिसंरुद्धं
नाभेरधःपार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति ।
ततश्च नाभिवस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तु-
द्यते भिद्यते दीर्य्यत इव च पक्वाशयः । समन्तादाध्मान-
मुदरे सूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम्” सुश्रुतः ।

मक्कूल न० मक्क--ऊलच् । शिलाजतुनि शब्दर० ।

मक्कोल पु० मक्क--बा० ओल । खटिकायां त्रिका० ।

मक्ष रोधे संघाते च भ्वा० पर० अक० सेट् । मक्षति अमक्षीत् ।

मक्षवीर्य्य पु० मक्षं संहतं वीर्य्यं यस्मात् । ५ ग० पियालवृक्षे

राजनि० ।
पृष्ठ ४७१३

मक्षिका स्त्री मश--सिकन् । कीटभेदे वंभरालीकीटे

(मौमाछि) उज्वल० पृषो० दीर्घः तत्रार्थे राजनि० ।

मक्षिकामल न० ६ त० । सिक्थके (मोम) राजनि० ।

मक्षिकासन न० ६ त० । (मौचाक) सिक्थकाधारे राजनि०

पाठान्तरम् ।

मक्षु न० मक्ष--उन् । १ शीघ्रे निघण्टुः २ शीघ्रगतियुते त्रि० ऋ० ८ । २६ । ६

मख सर्पणे भ्वा० पर० सक० सेट् । मखति अमाखीत् अमखीत्

ममाख मेखतुः ।

मख सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्खति अमङ्खीत् मङ्ख्यते ।

मख पु० मख--संज्ञायां घ । यज्ञे अमरः ।

मखत्रातृ पु० मखं विश्वामित्रर्षिमखं त्रायते त्रै--तृच् । श्रीरामे

शब्दर० ।

मखद्विष् पु० मखाय द्वेष्टि द्विष--क्विप् । १ राक्षसे २ यज्ञद्वेषिणि त्रि० ।

मखाग्नि पु० ६ त० । यज्ञे संस्कृताग्नौ जटा० । मखान-

लादयोऽप्यत्र ।

मखान्न न० मखे तत्काले भोज्यमन्नं मुन्यन्नत्वात् शा० त० ।

(माखना) १ जलजाते मूलजे फलभेदे “मखान्नं पद्मवीजस्य
गुणैस्तुल्यं विनिर्दिशेत्” भावप्र० । ६ त० । २ यज्ञान्ने च ।

मखासुहृत् पु० ६ त० । दक्षयज्ञस्य नाशके महादेवे हेमच०

मग सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्गति अमङ्गीत् ।

मगध पु० मङ्ग्यते अधोगम्यतेऽनेन मगि--क पृषो० भगं

दोषं पापं वा दधाति धा--क । १ देशभेदे २ तद्देशस्थे
जने ब० व० । स च कीकटेतिसंज्ञः अङ्गदेशस्थश्च । कीकटेषु
गया पुण्या नदी पुण्या पुनःपुना” इत्युक्तेः गयादी-
नामेव पुण्यत्वम् । अन्येषामपुण्यत्वं प्रत्युत पापजनक-
त्वम् “अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति” मिता०
देवलोक्तेः । “तीर्थयात्रा व्यतिरेकेणैतान् गत्वा तत्रैव
चिरसुषित्वा गङ्गागमनं प्रायश्चित्तम् । तदशक्तौ पुनरुप-
नयनं अतिचिरवासे तु पुनरुपनयनं कृत्वा चान्द्रायणं
कर्त्तव्यम्” प्रा० वि० । अतस्तस्य पापजनकत्वात्
तथात्वम् । ततः भवार्थे गहा० छ । मगधीय तत्र भवे त्रि०

मगधा स्त्री मगध उत्पत्तिस्थानत्वेनास्त्यस्या अच् । पिप्पल्यां

रत्नमा० ।

मगधेश्वर पु० ६ त० । १ जरासन्धनृपे हेम० । २ तद्देशपतिमात्रे च ।

मगधोद्भवा स्त्री मगधदेशे बाहुल्येनोद्भवति अच् । पिप्प-

ल्याम् राजनि० । तद्देशे तस्याः प्रचुरभवत्वात्तथात्वम् ।

मगध्य परिवेष्टने कण्ड्वा० प० सक० सेट् । मगध्यति

अमगध्यी(धी)त् ।

मगन्द पु० मगं पापं ददाति दा ड पृशो० मुमृ च । कुशीदिनि

निरु० ६ । २२ ।

मगण पु० छन्दःशास्त्रोक्ते सर्वगुरुके वर्णत्रये ।

मगल पु० गोत्रप्रवरर्षिभेदे प्रवरा० ।

मग्न त्रि० मस्ज--क्त । (डोवा) जलादौ कृतमज्जने ।

मघ कैतवे द्यूतक्रीड़ादौ अक० गतौ निन्दायां आरम्भे च

सक० भ्वा० आ० सेट् इदित् । मङ्घते अमङ्घिष्ट ।

मघ भूषणे भ्वा० पर० सक० सेट् इदित् । मङ्घति अमङ्घीत् ।

मघ पु० मघि--अच् पृषो० । १ द्वीपभेदे मेदि० । (मग)नामके

२ म्लेच्छदेशभेदे । ३ पुष्पभेदे न० शब्दरत्ना० ।

मघवन्(त्) पु० मह--कनिन् नि० हस्य घः “मथवा बहुलम्”

पा० वा तृच् । १ इन्द्रे अमरः २ तन्नामनामके पेचके
च । तृचि मघवान् अतृचि मघवा । एवं
मघवानौ मघवन्तावित्यादिरूपद्वयम् । भत्वे अन्नन्तस्य सम्प्र० ।
मघोनः तृजन्तस्य न मघवतः इत्यादि ङीपि मघोनी
मघवतीत्यादि तद्धिते न सम्प्र० । माघवनम् इत्यादि
भाष्ये तु मघशब्दात् मतुपिरूपं साधयित्वा शब्दान्तर-
मित्युक्त्वा न तृजित्युक्तम् ।

मघा स्त्री मह--घ हस्य घत्वम् । अश्विन्यवधिके दशमे नक्षत्रे

तस्याश्च पञ्चतारात्मकत्वात् बहुत्वमपि “पितरः स्पृहय-
न्त्यन्नमष्टकासु मघासु च” स्मृतिः । “मघां मूलञ्च वर्जये-
दिति “मघायां पिण्डदानञ्चेति” स्मृतिस्तु समुदायस्येक-
त्वाभिप्रायेण । अस्या योगतारादिकमश्लेषाशब्दे ४९७
पृ० उक्तम् । २ औषधभेदे धरणिः ।

मघात्रयोदशी स्त्री मघानक्षत्रेण युक्ता त्रयोदशी शा० त० ।

भाद्रकृष्णत्रयोदश्यां तत्रैव मघानक्षत्रसंयोगसम्भवात् ।
तत्र श्राद्धमावश्यकं यथोक्तं ति० त०
“प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदश्यां मधायुक्तायामनिषिद्ध
यत्किञ्चिद्द्रव्येण श्राद्धमावश्यकं शङ्खादिविधिवाक्ये
नक्षत्रविशिष्टतिथेः श्रुतेः । ततश्च केवलत्रयोदशीकेवल-
मघाश्राद्धार्थवादा अपि क्लप्तविशिष्टविधिप्राप्तकर्मणो
नित्यत्वबोधकाः न तु केवलबिध्यन्तरकल्पना गौरवात् ।
तथाच शङ्खः “प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयो-
दशीम् । प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च”
मनुः “यत्किञ्चित् मधुना मिश्रं प्रपद्यात्तु त्रयोदशीम् ।
तदप्यक्षयमेव स्यात् वर्षामु च मघासु च” । विष्णु-
धर्मोत्तरम् “पौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” । शाता-
पृष्ठ ४७१४
तपः “पितरः स्मृहयन्त्यन्नमष्टकासु मघासु च । तस्मा-
द्दद्यात् सदोद्युक्ता विद्वत्सु ब्राह्मणेषु च” । अत्रान्न-
मात्रश्रुतेः मनुवचने यत्किञ्चिदिति श्रुतेश्च शङ्खोक्त-
पायसः फलातिशयार्थः । “गुणविशेषे फकविशेषः स्यात्”
इति न्यायात् । व्यक्तं विष्णुवर्मोत्तरे “मधायुक्ता च
तत्रापि शस्ता राजंस्ययोदशो । तत्राक्षयं भवेच्छ्राद्धं
मधुना पाडसेन च” । तत्राश्वयुक्कृष्णपक्षे । अत्र यत्
श्राद्धं तन्मधुयोगेन पायसयोगेन बाऽक्षयं भवेत् । एवं
मनुवचने यत्किञ्चिन्मधुना मिश्रम् इत्यगेन मधुनात्र-
युक्तत्वसुक्तम् । अतोऽत्र सुतरां शूद्रस्याप्यधिकारः ।
अत्र गगच्छायायोगे फलातिशयः । तथाच कृत्यचिन्ता
मणौ स्मृतिः “कृष्णपक्षे त्रयोदव्यां मघास्मिन्दुः करे
रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाष्यते ।
करे हस्तानक्षत्रे कम्यादशकांशोपरि सपादत्रयोविंशांशं
यावत् । अविभक्तानानप्यत्र पृथक् श्राद्धमावश्यकम्” ।
यथा श्राद्धचिन्तामणौ स्मृतिः “विभक्ता अविभक्ता
बा कुर्युः श्राद्धमदैविकम् । मथासु च तधान्यत्र नाधि-
कारः पृथन्विना” । अदैविकं प्रत्याब्दिकैकोद्दिष्टम्
अन्यत्रं कृष्णवक्षादौ नाधिकारः न नित्याषिकारः ।
“सपिण्डीकरणान्मानि यानि श्राद्धानि षोड़श । पृथक्
नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचित्” इत्यत्रापिना
समुच्चितानामघृथम्द्रव्याणां पुंसां संपिण्डीकरणान्ता-
नीति विशेषणात् तदुन्नरं श्राद्धानां पृथक्करणमपि
प्रतीयते । मथात्रयोदशीनिमित्तकश्राद्धे पुत्रवता पिण्डा
ग देयाः । “भौजङ्गीं तिषिमासाद्य यावच्चन्द्रार्क सङ्ग-
मम् । तत्रापि महती पूजा कर्त्तव्या पितृदैवते । ऋक्षे
पिण्डप्रदानन्तु ज्येष्ठपुत्री विवर्जयेत्” इति देवीपुराणात्
भोजङ्गीं पञ्चनीं चन्द्रार्कसङ्गमम् अमावास्यां पितृदैवते
ऋणे मघायाम । शातातषः “पिण्डनिर्वापरहितं यत्तु श्राद्धं
विधीयते । स्मधावाचनमोपोऽत्र विकिरस्तु न लुप्यते ।
अक्षय्यदक्षिणा स्मस्ति लौमनस्यं तथाण्विति” रघु० ।

मघाभू पु० मघासन्निकृष्टे ऋक्षे भवति भू--क्विप् । पूर्वफल्गुनी

जाते शुक्रग्रहे त्रिका० । भगदैवतशब्दे ४६३१ पृ० दृश्यम्

मघी पु० मधानक्षत्रमुत्पत्तिकापत्येनास्त्यस्य अच् गौरा०

ङीष् । मघानक्षत्रस्त्ररविभुज्यमानयुक्ते काले
सौरमाद्रमासे जायमाने (आउस) धान्यभेदे मेदि० ।

मङ्कलक पु० १ ऋषिभेदे भा० व० ८३ अ० । २ यक्षभेदे तत्रैव ।

मङ्कि पु० मकि--इन् । धनेच्छुवणिग्भेदे भा० शा० १७७ अ० ।

मङ्कु पु० मकि--उन् । सञ्चलद्गतिके शत० ब्रा० ५ । ५ । ४ । ११ ।

मङ्कुर पु० मकि--उरच् । दर्पणे भरतः ।

मङ्क्षण मङ्क्ष--ल्युट् । जङ्घात्राणे हारा० ।

मङ्क्षु(ङ्खु) अव्य० मखि--उन् । १ शैव्य्रे २ मृशार्थे च । पृषो०

खस्य क्षत्वमपि ।

मङ्ग पु० मगि--घञ् । नौकाशिरसि हेम० ।

मङ्गल पु० मगि--अलच् । १ भूमिसुते ग्रहभेदे २ प्रशस्ते

३ अभीष्टार्थसिद्धौ च । ४ तद्वति त्रि० अमरः । स्त्रियां
ङीप् “सुमङ्गलीरियं बधूः” सि० कौ० । ५ दुर्गायां ६
हरिद्रायां ७ दूर्वायां ८ पतिव्रतायाञ्च स्त्री शब्दरत्ना०
९ करञ्जभेदे स्त्री शब्दच० । १० वृत्तार्हन्मातृभेदे स्त्री हेम०
११ योनिनीदशाभेदे “मङ्गला पिङ्गलेति” दशाशब्दे दृश्यम् ।
अभिप्रेतसिद्धिर्मङ्गलं तद्धे तुत्वात् गोरोचनादेरपि
तघात्वम् । मङ्गसद्रव्याणि च मत्स्यसूक्ते ४२ प० उक्तानि यथा
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । एतानि
सततं पश्येन्नमस्येदर्चयेत्ततः । प्रदक्षिणन्तु कुर्वीत
तथाचायुर्प हीयते । दूर्वां दथिं सर्पिरथोदकुम्भं धेतुं सवत्-
सां वृषगं सुवर्णम् । मृद्गोमयं स्यस्तिकमक्षतानि साजा
मधु ब्राह्मणकन्यकाश्च । श्वेतानि पुष्पाणि तधा शमीस”
हुताशनं चन्दनमर्कविम्बम् । अश्वत्थवृक्षञ्च समालभेत
ततश्च कुर्य्याद्द्विजजातिधर्मम्” दधिमित्यार्षम् । १२ विष्णौ
न० “पवित्रं मङ्गलं परम्” विष्णुस० । कुजशब्दे २०६६ पृ०
मङ्गसग्रहकक्षादि दृश्यम् । “प्रशस्तचरणं नित्यमप्रशस्त-
विवर्जनम् । एतच्च मङ्गलं प्रोक्तनृषिभिर्मन्त्रदर्शिभिः”
अत्रि० उक्ते १३ प्रशस्ताचरणे निन्द्यवर्जने ।

मङ्गलचण्डी स्त्री मङ्गले चण्डी दक्षा । १ देवीभेदे स्वार्थे क ।

मङ्गलचण्डिकाव्यत्र तन्नामनिरुक्तिः ब्रह्मवै० प्र० ४१ अ०
उक्ता यथा “दक्षायां वर्त्तते चण्डी कस्याणेषु च मङ्ग-
लम् । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ।
पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः । मङ्गला-
भीष्टदेवी या सा वा मङ्गलचण्डिका । मङ्गलो
भषुवंशश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेन
मङ्गलचण्डिका” ।

मङ्गलच्छाय पु० मङ्गला प्रशस्ता छाया यस्य । वटवृक्षे राजनि० ।

मङ्गलपाठक पु० मङ्गलार्थं स्तुतीः पठति पठ--ण्वुल् ।

स्तुतिपाठके हेमच० । “आ वृथामङ्गलपाठक ।” वेणी० ।

मङ्गलागुरु न० नित्यक० । अगुरुभेदे राजनि० ।

पृष्ठ ४७१५

मङ्गल्य न० मङ्गलाय हितं यत् । १ चन्दने २ मङ्गलागुरुणि

३ स्वर्णे ४ सिन्दूरे राजनि० ५ दध्नि च । ६ रुचिरे त्रि० हेम०
७ मङ्गलकरे त्रि० मेदि० । “सर्वमङ्गलमङ्गल्ये” इति
देवीमा० । ८ षश्वत्थे ९ बिल्वे १० जीरके० ११ मसूरके च पु०
मेदि० १२ नारिकेले १३ कपित्थे १४ रीठाकरञ्जे च पु०
राजनि० । १५ त्रायमाणौषधौ पु० धरणिः ।

मङ्गल्यक पु० मङ्गलग्रहस्य प्रियः तद्दोषनिवारणार्थं

दीयमानत्वेन शास्त्रविधानात् । मसूरे अमरः ।

मङ्गलकुसुमा स्त्री मङ्गल्यं कुसुमं यस्याः । शतपुष्प्याम् भावप्र० ।

मङ्गल्यतामधेया स्त्री ६ ब० । जीवन्त्यामोषधौ जटा० ।

मङ्गल्या स्त्री मङ्गलाय हिता यत् । १ मल्लिकागन्धयुक्ता-

गुरुणि अमरः २ रोचनायाम् ३ अवाक्पुष्प्याम् ४ शम्यां
२ शुक्लवचायां मेदि० ६ प्रियङ्गौ ७ माषपर्ण्यां हेमच०
८ शतपुष्प्याम् ९ जीवन्त्याम् १० ऋद्धिनामौषधौ ११ हरिद्रायां
१२ दूर्वायां राजनि० १३ दुर्गायाञ्च स्त्री रत्नमा० ।
“मङ्गल्याऽगुरुशिशिरा गन्धाणा दोषवाहिका” राजनि०

मङ्गिनी स्त्री मङ्गी नौकाशिरः अस्त्यस्या इनि ङीप् ।

नौकायां हेमच० ।

मङ्गुष पु० नृपभेदे तस्यापत्यं कुर्वा० ण्य । माङ्गुष्य तदपत्ये पुंस्त्री

मच दम्भे शाठ्ये च अक० भ्वा० आ० सेट् । मचते अमचिष्ट मेचे ।

मच उच्चताकरणे धारणे पूजायां च सक० दीप्तौ अक० भ्वा०

आत्म० सेट् इदित् । मञ्चते अमञ्चिष्ट । मञ्च्यते ।

मचक्रुक न० कुरुक्षेत्रान्तर्गते तीर्थभेदे । कुरुक्षेत्रशब्दे दृश्यम्

मचर्चिका स्त्री चर्च--धात्वर्थनिर्देशे ण्वुल् मस्य शम्भोरिव

चर्चिका ध्यानम् । प्रशस्ते अमरः अव्युत्पन्नोऽयमित्येके
“मतल्लिकादयो नियतलिङ्गा न तु विशिष्यनिघ्नाः” सि०
कौ० “प्रशंसावचनैश्च” पा० अस्य विशेषणत्वेऽपि परनिपातः
गोमचर्चिका गोतमल्लिका इत्यादि ।

मच्छ पुंस्त्री० माद्यति मद--क्विप् तथा सन् शेते शी--ड ।

मत्स्ये शब्दर० । स्त्रियां जातित्वात् ङीष् ।

मजिर पु० ऋषिभेदे तस्यापत्थं शिवा० अण् । माजिर

तदपत्ये पुंस्त्री० ।

मज्जकृत् न० मज्जानं करोति कृ--क्विप् । १ देहस्थे अस्थि-

रूपे पदार्थे हेमच० अन्नादिषु भुक्तेषु रसादिपरिपा-
केन क्रमेणशोणितमांसत्वगस्थिशुक्राणामुत्पत्तेः अस्थ्नः
मज्जाकृत्त्वम् ।

मज्जत् पु० मस्ज--कनिन् । १ अस्थिजाते अस्थिमध्यस्थे स्नेहा-

कारे पदार्थे २ वृक्षादेः सारांशे च अमरः । फलमज्ज-
गुणाः “यस्य यस्य फलस्थेह वीर्य्यं भवति यादृशम् ।
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत्” राजवल्लभः
“अस्थि यत्स्वाग्निना पक्वं तस्य सारो द्रवो घनः ।
यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते” । मज्ज-
स्थानमाह “स्थूलादिषु विशेषेण मज्जा त्वभ्यन्तरे
स्थितः” भावप्र० ।

मज्जन न० मस्ज--भावे ल्युट् । १ स्नाने (डोवा) जटाध० ।

कर्त्तरि ल्यु । २ मज्जायां शब्दर० अस्थिभध्यमज्जना-
त्तस्यास्तथात्वम् । ३ कुमारानुचरगणभेदे भा० श० ४६ अ० ।

मज्जसमुद्भव न० मज्ज्ञः समुद्भवति सम् + उद् + भू--अच् ५ न० ।

शुक्रे तस्य मज्जजातत्वम् मज्जनच्छब्दे द्रष्टव्यम् ।

मज्जा स्त्री मस्ज--अच् टाप् । १ अस्थिसारे २ वृक्षादेः सारांशे

च हेम० । “भल्लातकी मूलकशिग्रुसिद्धैः प्रियालमल्ला-
सहितैः” सुश्रुतः ।

मज्जाज न० मज्जातो जायते जन--ड । १ भूमिजे गुग्गुलौ राजनि० २ शुक्रधातौ न०

मज्जारस मज्जायाः रसः परिपाकः । शुक्रे राजनि० ।

तस्य मज्जासम्भवत्वं मज्जकृच्छब्दे उक्तम् ।

मज्जासार न० मज्जायां सारोऽस्य । जातीफले राजनि० ।

मज्जूषा स्त्री मस्ज--ऊषन् । मञ्जूषायां रायमुकुटः ।

मज्मन् न० मस्ज--मनिन् पृषो० । बले निघण्टुः ।

मञ्च पु० मचि--उच्छ्राये घञ् । १ खट्वायाम् अमरः (मांचा)

वंशनिर्मिते २ उच्चासने ३ उच्चमण्डपमेदे हारा० “मञ्चस्थं
रघुनन्दनम्” पुराणम् । स्वार्थे क । तत्रैव “वृद्धोऽन्धः
पतिरेष मञ्चकगतः” इति सा० ३ प० ।

मञ्चकाश्रय पु० ६ ब० । मत्कुणे (छारपोका) राजनि० ।

मञ्चमण्डप पु० मञ्च इव मण्डपः । शस्यरक्षार्थे उच्चे पत्रा-

दिकुटीरे (टङ्) हारा० ।

मञ्जर न० मन्ज--अरच् । १ तिलकवृक्षे २ मुक्तायाञ्च ३ बल्ल्याञ्च शब्दरत्ना० ।

मञ्जरि(री) स्त्री मञ्जु ऋच्छति ऋ० इन् शक० पररूपं वा

ङीप् । अभिनवोद्गतायां सुकुमारायां पल्लवाङ्कुररूपायां
१ वल्लर्य्याम् अमरः ङीबन्तस्तु तत्र २ मुक्तायां ३ तिलक-
लतायां शब्दरत्ना० । ४ तुलस्याम् राजनि० ततः तारका०
इतच् । मञ्जरित जातमञ्जरीके त्रि० । ङीबन्तः “सजसा
यलौगिति शरग्रहैर्मञ्जरी” व० र० टी० उक्ते चतुर्दशा-
क्षरपादके छन्दोभेदे ।

मञ्जरीनम्र पु० मञ्जर्य्यां तदवस्थायामपि नम्रः । वेतसे । राज न० ।

मञ्जा स्त्री मजि--अच् । १ छाग्यां त्रिका० । २ मञ्जर्य्यां हेमच० ।

मञ्जि(ञ्जी) स्त्री मन्ज--इन् वा ङीप् । मञ्जर्य्याम् त्रिका० ।

पृष्ठ ४७१६

मञ्जिका स्त्री मजि--ण्वुल् टाप् अत इत्त्वम् । वेश्यायां

हारा० ।

मञ्जिफला स्त्री मञ्जिः मञ्जरी फले यस्याः । कदल्याम् त्रिका०

मञ्जिष्ठा स्त्री अतिशयेन मञ्जीमती इष्ठन् मतुपो लोपः ।

स्वनामख्यातायां लतायाम् अमरः । “मञ्जिष्ठा मधुरा
तिक्ता कषाया स्वर्णवर्णकृत् । गुरूष्णा विषश्लेष्मघ्नी
शोथयोन्यक्षिकर्णरुक् । रक्तातीसारकुष्ठास्रविसर्पव्रण-
मेहनुत्” भावप्र० । मञ्जिष्ठया रक्तम् अण । माञ्जिष्ठ
तत्क्वाथेन रक्ते त्रि० ।

मञ्जिष्ठामेह पु० सुश्रुतीक्ते मेहभेदे तल्लक्षणं तत्रोक्तं यथा

मेहतीत्यनुषङ्गे “मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही” ।

मञ्जिष्ठाराग पु० मञ्जिष्ठेव रागः । “मञ्जिष्ठारागमाहुस्तं

यन्नापैत्यतिशोभते” सा० द० उक्ते पूर्वानुरागभेदे ।

मञ्जीर न० मन्ज--ध्वनौ ईरन् । १ नुपूरे अमरः । “मञ्जु-

मणिमञ्जीरे कलगम्भीरे” इति सा० १० प० । २ दधिमन्यन-
दण्डबन्धस्तम्भे पु० हेमच

मञ्जीरक पु० मञ्जीर इव कायति शब्दायते कै--क । नुपूर-

ध्वनितुल्यध्वनियुते ततः शिवा० अपत्ये अण् । माञ्जीर
तदपत्ये पुंस्त्री० ।

मञ्जु त्रि० मन्ज--उन् । मनोहरे अमरः । सिध्मा० लच् । मञ्जुल तद्वति त्रि० ।

मञ्जुकेशिन् पु० कर्म० प्राशस्त्ये इनि । १ श्रीकृष्णे हला०

२ सुन्दरकेशयुते त्रि० स्त्रियां ङीप् ।

मञ्जुगमना स्त्री ६ व० । १ हंस्यां राजनि० २ सुन्दरगतियुते त्रि० ।

मञ्जुघोष पु० । तन्त्रोक्ते १ उपास्यदेवभेदे तन्त्रसारे दृश्यम् ।

२ पूर्वजिनभेदे त्रिका० । कर्म० । ३ मनोहरशब्दे पु० ।

मञ्जुपाठक पुंस्त्री० मञ्जु पठति पठ--ण्वुल् । १ शुकखगे

राजनि० स्त्रियां जातित्वात् ङीष् । २ मनोहरपाठके त्रि०

मञ्जुप्राण पु० ६ ब० । चतुर्मुखे ब्रह्मणि जटा० सर्वव्यापि-

त्वेन विधातृप्राणस्य महाप्राणत्वात् तस्य तथात्वम् ।

मञ्जुभद्र पु० जिनभेदे त्रिका० ।

मञ्जुभाषिन् त्रि० मञ्जु भाषते माष--णिनि । १ सुन्दरभा-

षके स्त्रियां ङीप् सा च “सजसाजगौ भवति मञ्जु-
भाषिणी” वृ० र० उक्ते २ त्रयोदशाक्षरपादके छन्दोभेदे ।

मञ्जुल त्रि० मन्ज--सिध्मा० लच् मजि--उलच् वा । १ मनो

हरे २ निकुञ्जे मेदि० ३ शबले न० विश्वः । ४ जसरष्ठणगे
पुंस्त्री० मेदि० स्त्रियां ङीष् ।

मञ्जुश्री पु० ६ ब० । १ मञ्जुघोपे २ पूर्वजिनभेदे त्रिका० । ३ सुन्दरश्रीके त्रि० ।

मञ्जुहासिनी स्त्री “जतो सजौ गो भवति मजुहासिनी”

वृ० र० टी० उक्ते १ त्रयोदशाक्षरपादके २ छन्दोभेदे । ३
सुन्दरहासयुते त्रि० ।

मञ्जूषा स्त्री मन्ज ऊषन् (पेटरा) १ पेटिकायाम् अमरः ।

२ मञ्जिष्ठायाञ्च राजनि० ३ पाषाणे उणा० को० ।

मट सादे भ्वा० प० सक० सेट् । मटति अमटीत् अमाटीत् मेटतुः

मटची स्त्री मट--बा० अचि ङीप् । १ पाषाणवृष्टौ “मटचीहतेषु

कुरुषु” छन्दोग्यश्रुतिः । २ रक्तवर्णक्षुद्रखगभेदे गोविन्दः ।

मटस्फटि पु० दर्पारम्भे जटा० ।

मठ वासे अक० मर्दने सक० भ्वा० पर० सेट् । मठति अमठीतमाठीत् मेठतुः ।

मठ आध्याने आ० सक० सेट् इदित् । मण्ठते अमण्ठिष्ट ।

मठ पुंन० अर्द्धर्चा० मठत्यत्र मठं--घञर्थे क । १ छात्राद्यावासे

२ देवागारे अमरः । मठप्रतिष्ठातत्त्वे तत्प्रतिष्ठाविधि-
र्दृश्यः । देवगृहशब्दे चात्र दृश्यम् । ३ गन्त्रीरथे हारा० ।

मठर पु० मठ--अरन् । १ मुनिभेदे २ शौण्डे त्रि० उज्ज्वल० ।

राजद० परनिपातः राजमठरः । गर्गा० यञ् । माठर्य्य
तन्मुनेरपत्ये पुंस्त्री० स्त्रियां ङीप् यलोपः । शौण्डार्थ-
कस्यापत्ये विदा० अञ् । माठर तदपत्ये पुंस्त्री० ।

मड मोदे चु० उभ० अक० सेट् इदित् । भण्डयति--ते

अममण्डत् त । विभागे भ्वा० आत्म० । मण्डते ।

मड भूषणे चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । मण्ड-

यति ते मण्डति अममण्डत्--त अमण्डीत् ।

मडक पु० मडि--क्वुन् पृषो० नलोपः । धान्यभेदे (मेडुया) जटा० ।

मडर पु० मडि--षा० अरन् पृषो० नलोपः । शिल्पिभेदे

कन्धाशब्दे परे अस्याद्युदात्तता ।

मडार पु० मडि--वा० आरन् पृषो० । भूषके ततः चतु

रर्थ्यां प्रगद्या० ञ्य । माडार्य्य तेन र्निर्वृत्तादौ त्रि० ।

मड्डु पु० मज्जन्ति अन्ये शब्दा अत्र मस्ज + उन् पृषो० ।

वाद्यभेदे अमरः स्वार्थे क मड्डुक तत्रार्थे । मड्डुक-
स्तवादनं शिल्पमस्य वा ठक् पक्षे अण् । माड्डुकिक-
माड्डुक तद्वादनशिल्पयुते त्रि० ।

मण अव्यक्तशब्दे भ्वा० प० अक० सेट् । मणति अमाणीत् अभणीत् मेणतुः ।

मणि(णी) पुंस्त्री० मण--इन् स्त्रीत्वपक्षे वा ङीप् ।

सुक्तादौ रत्ने “मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् ।
चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः ।
“मणिहारावसिरामणीयकमिति” “नृपनीलमणी-
गृहत्विषेति च” नैषधम् । २ मृण्मयपात्रभेदे अलिञ्जरे
(जाला) ३ लिङ्गाग्रे ४ नागभेदे जटा० ५ मणिवन्धे हेमच०
स्वार्थे संज्ञायां कन् वा । मणिक व्यलिष्मरे न० प्रमरः ।
अजागलस्तने मेदि० योन्यग्रे शब्दरत्ना०
पृष्ठ ४७१७

मणिकर्ण पु० १ कामरूपस्थे २ शिवलिङ्गभेदे मणिकूटशब्दे दृश्यम् ।

मणिकर्णिका स्त्री मणिकर्णः मणिमयकर्णभूषणमस्त्यस्यां

ठन् । विष्णुतपस्यादर्शनात् विस्मयेन शिवस्य मणिमय-
कुण्डलपतनस्थाने काशीस्थे १ तीर्थभेदे ।
तन्नामनिरुक्तिः काशी० २६ अ० यथा
विष्णुं प्रति शिववाक्यम् “त्वदीयस्वास्य तपसो
महोचयदर्शनात् । यन्मयान्दोलितो मौलिरहिश्रवण-
भूषणः । तदान्दोलनतः कर्णात् पपात मणिकर्णिका ।
मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका । चक्र-
पुष्करिणीतीर्थं पुराख्यातमिदं शुभम् । त्वया चक्रेण
स्वननाच्छङ्खचक्रगदाधर! । मम कर्णात् पपातेयं यदा
च मणिकर्णिका । तदा प्रभृति लीकेऽत्र ख्यातास्तु
मणिकर्णिका” मणिकर्णीत्यप्यत्र । २ मणिमयकर्णभूषणे च ।

मणिकर्णीश्वर न० काशीस्थे शिवलिङ्गभेदे काशीख० १०० अ०

मणिकर्णेश्वर न० कामरूपस्थे शिवलिङ्गभेदे कालिपु० ८१ अ० ।

मणिकानन न० मणिकमिवाननं यत्र । कण्ठे शब्दर० ।

मणिकार पु० मणिमयं भूषणं करोति कृ--अण् । (जहरि)

१ माणमयभूषणकारके २ प्रत्यक्षादिचतुःखण्डात्मकतत्त्वचि-
न्तामणिनामकग्रन्थकारे गङ्गेशोपाध्याये च । कृ--क्विप्
६ त० । मणिकृदादयोऽप्यत्र ।

मणिकुट्टिका स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ० ।

मणिकूट पु० मणिमयः कूटोऽस्य । कामरूपस्थे पर्वतभेदे यथोक्तम्

“भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः ।
मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः” कालिकापु० ८१ अ० ।

मणिकेतु पु० केतुभेदे वृ० स० ११ अ० केतुशब्दे दृश्यम् ।

मणिगणनिकर पु० “वसुहययतिरिह मणिगणनिकरः”

वृ० र० उक्ते पञ्चदशाक्षरपादके छन्दोभेदे द्विगुणहय
लघुरित्यस्यात्रानुवृत्तिः ।

मणिग्रीव पु० कुवेरपुत्रभेदे शब्दर० ।

मणिच्छिद्रा स्त्री मणिरिव छिद्रमस्याम् । १ मेदानामौषधौ

२ ऋषभानामौषधौ च मेदि० ।

मणिजला स्त्री मणिप्रचुरं जलमस्याम् । नदीभेदे भा० च० ११ अ० ।

मणित न० मण--क्त । रतिकाले स्त्रीणामव्यक्तशब्दभेदे हेम०

मणितारक पुंस्त्री० मणिरिव तारकास्य । सारसखगे

राजनि० स्त्रियां जातित्वात् ङीष् ।

मणिद्वीष पु० मणिमयः मणिप्रचुरो वा द्वीपः । क्षीरसमुद्र-

मध्यस्थे श्रीविद्यापीठरूपे द्वीपभेदे “सुधासिन्धोर्मध्ये
सुरविटपिवाटीपरिसरे मणिद्वीपे लीलोपवनचिन्ता-
मणिगृहे” आनन्दल० ।

मणिनाग पु० नागभेदे भा० आ० ३५ अ० ।

मणिपर्वत वृ० मणिप्रचुरः पर्वतः शा० त० । पर्वतभेदे हरिवं० १५८ अ० ।

मणिपालि त्रि० मणिं पालयति पालि--इनि । मणिपालके

तस्य धर्म्यं महिष्या० अण् । मणिपाल तस्य धर्म्ये त्रि० ।
तस्यापत्यम् रेवत्या० ठक् । माणिपालिक तदपत्ये पुंस्त्री०

मणिपुच्छी स्त्री मणिरिव पुच्छं यस्याः नित्यं ङीष् ।

मणितुल्यपुच्छयुतायां स्त्रियाम् ।

मणिपुष्पक पु० सहदेवस्य शङ्खे गीता १ । १६ ।

मणिपुर न० पौरस्त्ये देशभेदे ।

मणिपूर न० सुषुम्णान्तर्गते षट्चक्रमध्ये नाभिस्थे पद्मभेदे

“तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं
विद्युदाभञ्च बहुतेजोमयं ततः । म णवद्भिन्नं तत्पद्मं
मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ता-
क्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वलोकनकारणम्”

मणिबन्ध पु० मणिर्बध्यतेऽत्र बन्ध--आधारे घञ् । प्रकोष्ठ-

पाण्योर्मध्यस्थे १ करग्रन्थौ तस्य शुभाशुभलक्षणं गरु० पु०
६६ अ० उक्तं यथा “मणिबन्धैर्निगूढ़ैश्च सुश्लिष्ट-
शुभसन्धिभिः । नृपा हीनैः करच्छेदसशब्दैर्धनवर्जिताः”
२ सैन्धवलवणाकारे पर्वतभेदे च ।

मणिबी(वी)ज पु० मणिरिव बी(वी)जमस्य । दाड़िमवृक्षे राजनि० ।

मणिभद्र पु० यक्षभेदे भा० स० ३० अ० ।

मणिभूमि स्त्री ६ त० । मणीनामाकरे ।

मणिमञ्जरी स्त्री “इनाश्वैः स्यात् यभनयजजगाः कीर्त्तिता

मणिमञ्जरी” वृ० र० टीकोक्ते ऊनविंशत्यक्षरपादके
छन्दोभेदे ।

मणिमण्डप पु० मणिमयः मणिप्रचुरो वा मण्डपः । १

मणिखचिते मण्डपे २ देवतापीठस्थानभेदे तन्त्रसारः ।

मणिमत् त्रि० मणिरस्त्यस्य मतुप् । १ मणियुते त्रि० स्त्रियां

ङीप् । २ यक्षभेदे पु० भा० अ० १ अ० । वृत्रासुरांश-
जाते द्वापरयुगीये ३ नृपभेदे पु० भा० अ० ६७ अ० ।
४ नागभेदे भा० स० ९ अ० । ५ राक्षसभेदे भा० व० १६० अ० ।
६ दैत्यभेदे हरिवं० ३ अ० । ७ पश्चिमस्थे देशभेदे वृ० स० ११ अ० ।

मणिमध्य न० “स्यान्मणिमध्यं चेद्भमसाः” छन्दोम० उक्ते

नवाक्षरपादके छन्दोभेदे ।

मणिमन्थ न० मणिरिव मथ्यते मन्थ--कर्मणि घञ् । सैन्धवलवणे अमरः ।

पृष्ठ ४७१८

मणिमाला स्त्री ६ त० । “त्यौ त्यौ मणिमाला छिन्ना गुह-

वक्त्रैः” छन्दो० उक्ते द्वादशाक्षरपादके १ छन्दोभेदे । २ हारे
३ दन्तक्षतभेदे मेदि० । ४ लक्ष्म्यां शब्दर० । ५ दीप्तौ शब्दमा०

मणिराग न० मणेरिव रागो वर्णोऽस्य । १ हिडुले रांजनि०

६ त० । २ मणिवर्णे पु० ।

मणिल त्रि० मणि + सिध्मा० अस्त्यर्थे अच् । मणियुते ।

मणिव पु० मणि--अस्त्यर्थे व । नागभेदे सि० कौ० ।

मणिवाल पु० मणिरिव शुद्धत्वात् वालः केशोऽस्य । अश्वि-

दैवत्ये पशुभेदे यजु० २२४ । ३ ।

मणिवाहन पु० नृपभेदे भा० अ० ६३ अ० ।

मणिशैल पु० मन्दराचलस्य पूर्वस्थे पर्वतभेदे मार्कपु० ५५ ।

मणिसर पु० मणीन् सरति कारणत्वेन गच्छति सृ--अच्

६ त० । मणिखचिते हारभेदे ।

मणिस्कन्ध पु० नागभेदे भा० आ० ५७ अ० ।

मणीचक न० मणेः ईं शोभां चकते प्रतिहन्ति चक--अच्

६ त० । १ चन्द्रकान्तमणौ त्रिका० । २ मत्स्यरङ्गखगे पुंस्त्री०
हारा० स्त्रियां ङीष् ।

मणीवक न० मणीव कायति कै--क । पुष्पे हारा० ।

मणीवती स्त्री मणि + अस्त्यर्थे मतुप् नि० मस्य वः शरा०

दीर्घः । मणियुक्तनदीभेदे ।

मण्टपी स्त्री मण्टं पाति पा--क गौरा० ङीष् । क्षुद्रोपद । क्याम् राजनि० ।

मण्टि पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

मण्ठ(ठ) पु० मठ--अच् पृषो० वा । (भाठ) कृतान्नभेदे राजनि० ।

“समितां मर्दयदाज्यैर्जलेनापि च सन्नयेत् । अस्यास्तु
वटकं कृत्वा पचेत् सर्पिषि नीरसम् । एलालवङ्गकर्पूर-
मरिचाद्यैरलङ्कृते । मज्जयित्वा सितापाके ततस्तञ्च
समुद्धरेत् । अय प्रकारः संसिद्धो मण्ठ इत्यभिधीयते” ।
अस्य गुणाः “मण्ठस्तु वृंहणा वृष्यो बल्यः सुमधुरो
गुरुः । पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः”
भावप्र० मठ इति पठितम् कृतान्नशब्दे २१८३ पृ० दृश्यम्

मण्ड पुंन० मन--ड तस्य नेत्त्वम् । १ सर्वान्नानामग्ररसे (माड)

२ सारे ३ पिच्छे च । ४ आमलक्यां ५ सुरायाञ्च स्त्री
६ दधिमण्डे (मात्) न० मेदि० । ७ एरण्डवृक्षे ८ शाकभेदे
भूषायां च पुंन० हेमच० अर्द्धर्चादि
भावप्र० तद्विधानं यथा
“तण्डुलानां सुसिद्धानां चतुर्दशगुणे गले । रसः
सिक्थैर्विरहितो मण्ड इत्यभिधीयते । सैन्धव-
संयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक्सिद्ध्यात्र
ज्ञेया मण्डस्य सिद्धता । पेय यूपपवागूनां विलेपी
भक्तयोरपि” । तस्य गुणाः “मण्डी ग्राही लघुः शीतो
दीपनो धातुसाम्यकृत् । जरघ्नस्तर्पणो बल्यः पित्त-
श्लेष्मश्रमापहः” । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः
शोणितवर्द्धनश्च । ज्वरापहारी कफापत्तहन्ता बायुं
जयेदष्टगुणो हि मण्डः । लाजमण्डोऽग्निजननो
दाहतृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः ।
वाट्यमण्डोऽग्निजनः शूलानाहविनाशनः । पाचनो
दीपनो हृद्यः पित्तश्लेष्मानिलापहः” राजवल्लभः ।
वाट्यमण्डो भृष्टयममण्डः ।

मण्डक पु० भाव० उक्ते पिष्टकभेदे कृतान्नशब्दे २१८१ पृ०

दृश्यम् सङ्गीतदामो० उक्ते गीताङ्गभेदे यथा
“जयप्रियः कलापश्च कमलः सुन्दरस्तथा । मङ्गलो वल्लभ-
श्चेति मण्डकाः षट् प्रकीर्त्तिताः । जयप्रियो हंसताले
सघुमध्ये यदा गुरुः । ऊनविंशाक्षरैर्युक्तो रसे वीरे स
वर्त्तते । लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते १ । कलापो
रङ्गतालेन युक्तो रौद्ररसेहि सः । द्वाविंशत्यक्षरैर्युक्ता
लघुरादौ गुरुद्वयम् । लघुरादौ गुरुद्वन्द्वं रङ्गताल
इतीरितः २ । लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र सगणा-
त्मकः । पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ३ ।
गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके । अष्टाविंशत्यक्ष-
रैस्तु शृङ्गारे सुन्दरे मतः ४ । आदौ गुरुर्लघुर्मध्ये
प्लुतोऽन्ते भृङ्गतालके । एकरिंशत्यक्षरैस्तु वीरे मङ्गल-
मण्डकः ५ । षड्मितापुत्रके ताले गलसागजगात्मके ।
चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ६ ।”

मण्डन पु० मण्डयति मडि--ल्यु । १ अलङ्कारके २ प्रसिद्धमीमां-

सकभेदे पु० “शिष्यप्रशिष्यैरुपगीयमानमवेहि तत् मण्डन-
मिश्रधाम” । शङ्करदिग्विजयः तेन सह शङ्कराचार्य्यता
विचारकथा तत्र दृश्या । भावे ल्युट् । ३ भूषायाम् न०

मण्डप पुंन० मडि--घञ् मण्डं भूषां पाति रक्षति पा--क

मडि--कपन् वा । १ जनविश्रामस्थाने २ देवादिगृहे च
अमरः । यथा चण्डीमण्डप विष्णुमण्डप इत्यादि ।
३ मण्डपानकर्त्तरि त्रि० शब्दरत्ना० । ४ निष्पाव्यां (शूक-
शिम्बीभेदे) स्त्री राजनि० ।

मण्डयन्त त्रि० मडि--झच् । १ अलङ्कारके सि० कौ० । २ योषिति स्त्री त्रिका० ङीप् ।

मण्डर त्रि० मडि--अरन् । १ भूषणे ततः अङ्गुल्या० स्वार्थे

ठक् । माण्डरिक तत्रार्थे । २ घुर्घुर्य्यां स्त्री हारा० ङीप् ।
पृष्ठ ४७१९

मण्डल न० मडि--कलच् । १ चक्राकारेण वेष्टने अमरः यथा

सूर्य्यमण्डलं भूमण्डलम् । उभयतोविंशतियोजनमिते
२ देशभेदे ३ सूर्य्यचन्द्रयोः परिवेषे ४ द्वादशनृपचक्रे
५ कोठरोगे च मेदि० । ६ गाले अनेकतीर्थको० । ७ समूहे हेम०
“अर्थमण्डपमण्डलम्” इति वोपदेवः । ८ चक्रे त्रिका० ।
“मण्डलाकारपादाख्यं मण्डलं स्थानमीरितम्” इत्युक्ते
९ धन्विनां स्थानभेदे शब्दर० । “मण्डलं सर्वतो वृत्तिः”
इत्युक्ते १० सैन्यव्यूहभेदे कामन्द० । कृत्रिमरेखासन्नि-
वेशेन रचिते ११ पदार्थे च यथा ग्रहमण्डलं सर्वतो-
भद्रमण्डलमित्यादि । १२ विम्बे त्रि० अमरः स्त्रियां
गौरा० ङीष् । सा च १३ दूर्वायाम् हारा० १४ कुक्कुरे
पु० मेदि० १५ सर्पभेदे पु० विश्वः १६ व्याघ्रनखाख्यगन्धद्रव्ये
शब्दच० । ततः स्वार्थे क । विम्बे कुष्ठभेदे आदर्शे च ।
कृत्रिममण्डलविधानमुक्तं देवोपु० यथा
“चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत् । मण्डलं
तत्र कर्त्तव्यमत ऊर्ध्वं न कारयेत् । विमलं १ विजयं २
भद्रं ३ विमानं ४ शुभदं ५ शिवम् ६ । वर्द्धमानञ्च ७ दैवञ्च ९
लताक्षं १० कामदायकम् । रुचकं ११ स्वस्तिकाख्यञ्च १२ द्वि-
दशमिति मण्डलम् । सितादिहरितान्ताश्च रागाः कार्य्याः
सुशोभनाः । शालिषष्टिककौसुम्भरजनीहरिपत्रजाः ।
मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः । सितसर्षप
धूपाढ्यं रजः कृत्वा तु पातयेत् । अस्त्रवीजं
न्यसेन्मन्त्री सम्भवति पदं च वा । समोत्यानं शुभं
कृत्वागोमये नोपलेपितम् । चन्दनागुरुकर्पूरक्षोदधूपाधि-
वासितम् । भूभागं सुमितं सिद्धं पूर्वपश्चिमकोत्तरम् ।
याम्यं स्वस्तिकमत्स्याद्यैः सूत्रैर्वोर्णाण्डपत्रजैः । पद्म-
पत्राष्टकं मध्ये द्विगुणं त्रिगुणञ्च वा । द्वाराणि समसू-
त्राणि कर्णिकाकेसरोज्ज्वलम् । पद्मं तथावशेषानि स्वस्ति-
कान्युत्पलानि च । सव्यावलम्बहस्तस्तु रजःपातं
समाचरेत् । मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेप्सया ।
अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः । समा
रेखा तु कर्त्तव्याऽविच्छिन्ना पुष्टिवर्जिता । अङ्गुष्ठपर्व-
वैपुल्या समा कार्य्या विजानता । संसक्तं विषमं स्थूलं
विच्छिन्नं कृषरावृतम् । पर्य्यन्तमर्पितं ह्रस्वमालिखेन्न
कदादन । संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम् ।
अतिस्थाने भवेद्व्याधिर्नित्यं पीड़ा विमिश्रिते । दुन्दुभे-
र्भयमाप्नोति शत्रूपक्षान्न संशयः । कृशायाञ्चार्थहानिः
स्यात् विच्छिन्ने मरणं ध्रुवम् । वियोगात्तु भवेत्तस्य
इष्टद्रव्यसुतस्य वा । अविदित्वा लिखेद्यस्तु मण्डलन्तु
यथेप्सया । सर्वदोषानवाप्नोति ये दोषाः पूर्वभा-
षितः” । भोजनमण्डलं यथा “यातुधानाः पिशा-
चाश्च असुरा राक्षसास्तथा । घ्नन्ति केवलमन्नस्य
मण्डलस्य विवर्जनात् । आदित्यावसवो रुद्रा ब्रह्मा
चैव पितामहः । मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति
मण्डलम् । चतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य
तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा”
वह्नि पु० । भोजनशब्दे आह्निकत० वाक्यं दृश्यम् ।
व्यूहभेदलक्षणं कामन्दकीये उक्तं यथा “मण्डलो-
ऽसंहतो भोगो दण्डश्चेति मनीषिभिः । कथिताः
प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः । सन्ततं व्यूह्य
मतिमान् काले स्थाने प्रकल्पयेत् । तिर्य्यग्वृत्तिश्च दण्डः
स्याङ्गोगः स्याद् वृत्तिरेव च । प्रदरो दृढ़कोऽसह्यश्चापो
वै तद्विपर्य्ययः । प्रतिष्ठः सुप्रतिष्ठश्च श्येनौ विजब०
सञ्जयौ । विशालविजयः सूची स्थूणाकर्णञ्च
भूमुखः । सुखाख्यो बलयश्चैव दण्डभेदाः सुदुर्जयाः ।
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः ।
अतिक्रान्तश्च पक्ष भ्यां ततोऽन्यस्तु विपर्य्ययः । स्थूणापक्षो
धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः । द्विगुणान्तस्त्वति-
क्रान्तपक्षोऽन्योऽस्य विपर्य्ययः । द्विचतुर्दण्ड इत्येवं
ज्ञेयो लक्षणतः क्रमात् । गोमूत्रिकाऽहिसञ्चारी
शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा
परिपतन्तकः । दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः ।
मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः । मण्डल-
व्यूहभेदौ च सर्वतो भद्रदुर्जयौ । गजानीको द्वितीयस्तु
प्रथमः सर्वतोमुखः । अर्द्धचन्द्रक उद्धारो वज्रभेदा-
स्त्वसंहताः । तथा कुक्कुटशृङ्गी च काकपादी च
गोधिका । त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः ।
इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः । एते
सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा । तथा व्यूहद्वयञ्चैव
मण्डलस्य प्रयोक्तृभिः । असंहतास्तु षड्व्यूहा
भोगव्यूहाश्च पञ्चधा । व्यूहा एते प्रयोज्याः स्युर्युद्धकाल
उपस्थिते ।”

मण्डलनृत्य न० मण्डलाकारेण नृत्यम् । चक्राकारेण परिभ्रमणरूपे नृत्ये शब्दमाला ।

मण्डलपत्रिका स्त्री मण्डलाकारं पत्त्रमस्याः । रक्तपुन-

र्णवायाम् राजनि० ।

मण्डलपुच्छक पु० कीटभेदे सुश्रुतः कीटशब्दे दृश्यम् ।

मण्डलब्राह्मण न० शत० ब्रा० १० अध्याये पठिते “यदेतत्मण्डलं

तपतीत्यादिके” ब्राह्मणे मण्डलाध्यायोऽप्यत्र ।
पृष्ठ ४७२०

मण्डलाग्र पु० मण्डल इवाग्रमस्य । खड्गभेदे अमरः ।

मण्डलाधिप पु० ६ त० । मण्डलेश्वरे नृपभेदे चतुर्योजन-

पर्य्यन्तो ह्यधिकारो नृपस्य च । यो राजा तच्छतगुणः
स एव मण्डलेश्वरः” ब्रह्मवै० ज० ख० ८६ अ० । मण्डलाधीश
मण्डलेश्वरादयोऽप्यत्र ।

मण्डलाकृत त्रि० मण्डल + क्यङ् कर्त्तरि--क्त । वर्तुलाकारे शब्दर० ।

मण्डलिन् पु० मण्डलं कुण्डलनमस्त्यस्य इनि । १ सर्पे २

विड़ाले शब्दमाला । ३ जाहके (खट्टाश) हेमच० । ४
वटवृक्षे त्रिका० ५ गोनससर्पे च राजनि० ।

मण्डहारक पु० मण्डं हरति सृ--ण्वुल् । शौ । डके अमरः

मण्डा स्त्री मण्डःकारणत्वेनास्त्यस्या अच् । सुरायां हारा०

मडि--अच् टाप् । २ आमलक्यां मेदि० ।

मण्डित त्रि० मडि--क्त । १ भूथिते २ बौद्धभेदे पु० हेमच० ।

मण्डु पु० ऋषिभेदे तस्यापत्यं गर्गा० यञ् । माण्डव्य

तदपत्ये ऋषिभेदे ।

मण्डूक पुंस्त्री० मण्डयति वर्षासमयम् मडि--ऊक । १ मेके

अमरः स्त्रियां जातित्वात् ङीष् । २ शोणके ३ मुनिभेदे च
पु० मेदि० ४ बन्धभेदे विश्वः । ५ गाढ़तेजस्के त्रि० शब्दर० ।

मण्डूकपर्ण पु० मण्डूक इव पर्णमस्य । १ श्योनाके अमरः

२ शोणके मेदि० । ३ मञ्जिष्ठायां स्त्री टाप् ङीप् वा ।
४ ब्राह्म्यां (वामनहाटि) ५ ओषधिभेदे (थुलकुड़ी) रत्नमा० ।
स्त्री ङीप् मेदि० । ६ आदित्यभक्तायां स्त्री ङीप् राजनि० ।
स्वार्थे क । मण्डूकपर्णिका तत्रार्थे “मण्डूकपर्णिका
लज्वी स्वादुपाका सरा हिमा” । “मण्डूकपर्णिका
लज्वी रूक्षा वातविबन्धनुत्” राजवल्लभः ।

मण्डूकमातृ स्त्री मण्डुकस्य मातेव पोषकत्वात् । ब्राह्म्यां

(वामनहाटी) राजनि० ।

मण्डूकसरस न० मण्डूकप्रचुरं सरः जातौ अच्समा० । सरोवरभेदे अमरः ।

मण्डूर न० मडि--ऊरच् । लौहमले अमरः ।

मण्डूरवज्र पु० चक्रदत्तोक्ते वज्रकभेदे

“पञ्चकोलं समरिचं देवदारु पलत्रिकम् । विड़ङ्ग-
सस्तयुक्ताश्च भागास्त्रिप्रलसम्मिताः । यावन्त्येतानि
चूर्णानि मण्डूरं द्विगुणं ततः । पक्त्वा चाष्टगुणे मूत्रे
धनीभूते तदुद्धरेत् । ततोऽक्षमात्रान् गुड़कान् पिबेत्
माकेण तक्रभुक् । पाण्डुरोगं जयत्येष मन्दाग्नित्व
मरोचकम् । अर्शांसि ग्रहणीदोषमुरस्तम्भमथापि वा ।
किमिं प्लीहानमुदरं गररोगञ्च नाशयेत् । मण्डूरवज्र-
नामायं शोमानीकविनाशनः ।”

मण्डूरवटक पु० चक्रदत्तोक्ते मण्डूरादिघटिते वटकभेदे

“त्र्यूषणं त्रिफलामुस्तं विड़ङ्गचव्यचित्रकौ । दार्वी
त्वग्माक्षिको धातुर्ग्रन्थिकं देवदारु च । एषां द्विपलि-
कान् भागांश्चूर्णं कृत्वा पृथक् पृथक् । मण्डूरं द्विगुणं
चूर्णं शुद्धमञ्जनसन्निभम् । मूत्रे चाष्टगुणे पक्त्वा
तस्मिंस्तु प्रक्षिपेत् ततः । उडुम्बरसमान् कुर्याद्वटकां-
स्तान् यथाग्नितः । उपयुञ्जीत तक्रेण सात्म्यं
जीर्णे च भोजनम् । मण्डूरवटका ह्येते प्राणदाः
पाण्डुरोगिणाम् । कुष्ठान्यजवकं शोथमुरुस्तम्भकफा
मयान् । अर्शांसि कामलां मेहान् प्लीहानं ग्राह-
वच्च ते । ग्राहयन्त्यष्टगुणितं मूत्रं मण्डूरचूर्णतः ।”

मण्डोदक न० मण्ड इवोदकं यत्र । १ आतर्पणे (आलिपोना)

२ चित्ररागे ३ चित्रवर्णे मेदि० । सुश्रुतोक्ते सुराकल्पान्त-
र्गतक्वाथभेदे “वैरेचनिकमूलानां क्वाथे माषान् सुभावि-
तान् । सुधौतांस्तत्कषायेण शालीनाञ्चापि तण्डूलान् ।
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् ।
शालितण्डुलचूर्णञ्च तत्कषायोष्णसाधितम् । तस्य पिष्टस्य
भागांस्त्रीन् किण्वभागविमिश्रितान् । मण्डोदकार्थे
क्वाथञ्च दद्यात्तत् सर्वमेकतः । निदध्यात् कलसे तान्तु
सुरां जातरसां पिबेत् । एष एव सुराकल्पो वसनेष्वपि
कीर्त्तितः ।”

मत त्रि० मन--क्त । १ सम्मते २ अभिप्रेते ३ ज्ञाते ४ अर्चिते च ।

भावे क्त । ५ सम्मतौ ६ अभिप्राये ७ ज्ञाने ८ अर्चायाञ्च न० ।
९ समीकृते त्रि० मत्यशब्दे दृश्यम् । ततः ऋश्या०
चतुरर्थ्यां क । मतक तत्समीपादौ त्रि० । स्वार्थे क । मत
शब्दार्थे ।

मतङ्ग पु० माद्यति अनेन मद--अङ्गच् दस्य तः । १ मेघे उणा०

दिकोषः । २ मुनिभेदे भा० स० ८ अ० । ३ दानवभेदे
हरिवं० २४२ अ० । ४ राजर्षिभेदे आ० ७१ अ० ।
ब्राह्मण्यां नापितेन जाते ५ चण्डामभेदे च तत्कथा भा०
आनु० २९ अ० ।

मतङ्गज पुंस्त्री० मतङ्गः मेघ इव जायते जन--ड । १ गजे

अमरः तस्य मेघाकृतित्वात् तथात्वम् । स्त्रियां ङीष् ।
ग्रीष्मे गजानामूष्मणा कुष्ठादिरोगो भवति यथोक्तं कामन्द०
“ऋते त्वम्भो ग्रीष्मकृतात् प्रतापाद्भवन्ति कुष्ठानि
मतङ्गजानाम् । स्वस्थक्रियाणामपि कुञ्जरणामूष्मा
शरीरेष्वभिजाज्वलीति । आयासयोगेन हि सम्प्रवृद्धः
प्रसह्य हन्ति द्विरदान् प्रतापः । सर्वाणि गत्त्वानि
पृष्ठ ४७२१
खलूष्मकाले बिनाम्बुना यान्ति परामवस्थाम् । अन्धत्व-
मुष्णप्रवितप्तकायाः प्रयान्ति सद्यः करिणोऽपिबन्तः ।”

मतङ्गवापी स्त्री तीर्थभेदे भा० अनु० ३० अ० ।

मतल्लिका स्त्री मतं मतिमलति भूषयति ण्वुल् पृषो० । प्रशस्ते

अमरः । अव्युत्पन्नोऽयमित्येके नियतलिङ्गोऽयम् सि० कौ० ।

मतस्न पु० पार्श्वस्थे आम्रफलाकृतिवृक्वे ऋ० १० । १६३ । ३ भा०

मतानुज्ञा स्त्री निग्रहस्थानभेदे गौ० सू० तल्लक्षणमुक्तं यथा

“स्मपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतामुज्ञा”
“यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानुद्धृत्य वदति
भवत्पक्षे समानो दोष इति स स्वपक्षे दोषाभ्युप-
गमात् परपक्षे दोषं प्रसन्जयन् परमतमनुजानातीति
मतानुज्ञां नाम निग्रहस्थानमापद्यते” भा० ।

मति स्त्री मन--भावे क्तिन् । १ ज्ञाने अमरः । २ इच्छायां

३ स्मृतौ च । कर्त्तरि क्तिच् । ४ आर्य्ये मेदि० ५ शाकभेदे
अजयपालः । ६ मेधाविनि निघण्टुः । ७ मतिकरौषधं
गरु० १९८ अ० उक्तं यथा
“पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचात्रि-
कटुकञ्चैव लवणं चूर्णमुत्तमम् । ब्राह्मीरसे भावितञ्च
सर्पिर्मधुसमन्वितम् । सप्ताहभक्षितं कुर्य्यान्तदैश्वर्य्यं
मतिं पराम् ।”

मतिदा स्त्री मतिं द्यति दो--क । १ ज्योतिष्मतीलतायाम्

(शिमुड़ी) राजनि० । दा--क । २ बुद्धिदातरि त्रि० ।

मतिनीर पु० नृपभेदे भा० आ० ९४ अ० ।

मतिभ्रम पु० मतेर्भ्रमः अयथार्थविषयत्वेन भ्रमणम् । १ बुद्धि-

भ्रंशे भ्रान्तौ अमरः । भ्रम--भावे क्तिन् । मतिभ्रान्ति-
रप्यत्र स्त्री ।

मतिविभ्रम पु० मतेर्बिभ्रमोऽत्र । उन्मादरोगे राजनि० । मतिभ्रंशादयोऽप्यत्र ।

मतुख त्रि० १ मतगाथके ऋ० ९ । ७१ । ५ । २ मेधाविनि निघ० ।

मत्क पु० मद--क्विप् स्वार्थे क । १ मत्कुणे (छारपोका)

ममेदम् कन् मदादेशः । २ मत्सम्बन्धिनि “नैतन्मतं
मत्कमिति ब्रुवाणः” भट्टिः ।

मत्कुण पु० मद--क्विप् कुणति कुण--अच् कर्म० । १ कीटभेदे

(छारपोका) राजनि० । २ निर्दन्तगजे ३ श्मश्रुशून्यपुरुषे
४ नारिकेले मेदि० ५ जङ्घात्राणे हेम० । ६ अजातलोम-
भगायां स्त्रियां स्त्री शब्दर० ।

मत्कुणारि पु० ६ त० । (सिद्धि) भङ्गायां शब्दमाला ।

तत्सम्पर्केण हि तस्य नाशः ।

मत्कुणिका स्त्री कुमारानुचरमातृभेदे भा० श० १७ अ० ।

मत्त पु० मद--क्त । १ दुर्मदे गजे अमरः । २ क्षीवे ३ मदयुक्ते

४ हृष्टे च त्रि० । ५ धुस्तूरे ६ कोकिले ७ महिषे पु०
राजनि० मत्तं मदोऽस्त्यस्याम् अच् । ८ मदिरायां स्त्री
राजनि० । “ज्ञेया मत्ता मभनगयुता” वृ० र० उक्ते
९ दशाक्षरपादके छन्दोभेदे स्त्री ।

मत्तकाशि(सि)नी स्त्री मत्तेव क्षीवेव काशते कसति गच्छति

वा णिनि पृषो० ह्रस्वः । उत्तमयोषिति अमरः ।

मत्तकीश पु० मत्तः कीश इव । गजे शब्दमा० स्त्रियां

जातित्वात् ङीष् ।

मत्तमयूर पु० मत्तो मयूरो यस्मात् । १ मेघे “वेदैरन्ध्रैर्म्तौ

यसगा मत्तमयूरम्” वृ० र० उक्ते त्रयोदशाक्षरपादके
२ छन्दोभेदे च ।

मत्तवारण पु० कर्म० । १ मत्तहस्तिनि । मत्तं वारयति वृ--णिच्

ल्यु । २ प्रासादवरण्डे न० (वारेण्डा) हेमच० । ३ पूगचूर्णे
शब्दमा० ।

मत्ताक्रीड़ा स्त्री “मत्ताक्रीड़ा मौ त्नौ नौ नल्गिति भवति

वसुशरदशयतियुता” वृ० र० उक्ते त्रयोविंशत्यक्षरपादके
छन्दोभेदे ।

मत्तालम्ब पु० मत्तैरालम्ब्यते आ + लवि--कर्मणि घञ् । (वारेण्डा) प्रासादवरण्डं हेमच० ।

मत्तेभविक्रीड़ित न० “सभरा न्मौ यलगास्त्रयोदशयतिर्मत्तेभ-

विक्रीडितम्” वृ० र० टी० उक्ते एकविंशत्यक्षरपादके
१ छन्दोभेदे । ६ त० । २ मत्तगजक्रीड़ायाञ्च ।

मत्य न० मते समीकरणे साधु यत् । कृष्टक्षेत्रस्य समीकरण-

साधने १ फलकभेदे (मै) “सप्तास्थितेन मत्येन
मतीकरोति” ताण्ड्य० ब्रा० २ । ९ । २ । “यथा लोके सप्ता-
स्थितेन सप्तभिरनडुद्भिः सप्तभिस्तौक्ष्णमागैः शङ्कुभिर्वा
अधिष्ठितेन मत्येन मत्यन्नाम कृष्णस्य क्षेत्रस्य समीकरणा-
दिसाधनं फलकम् । तेन मतीकरोति समीकरणार्थं कर्षकः
प्रव्रजति क्षेत्रम्” भा० २ दात्रादिमुष्टौ हेम०

मत्र गुप्तभाषणे चु० आ० सक० सेट् इदित् । मन्त्रयते अममन्त्रत ।

मत्स पुंस्त्री० मद--स । मत्स्ये उणा० ।

मत्सगण्ड पु० मत्सेन गण्डो लेपोऽत्र (माछेरथण्ट)

व्यञ्जनभेदे शब्दच० ।

मत्सर पु० मद--सरन् । १ अन्यशुभद्वेषे परसम्पत्त्यसहने

२ क्रोधे च ३ तद्वति ४ कृपणे च त्रि० अमरः । ५ कीटभेदे
मक्षिकायां स्त्री विश्वः । मत्सरश्च
“निन्दन्ति मां सदा लोका धिनस्तु मम जीवनम् ।
इत्यात्मनि भवेद्यस्त धिक्कारः स श्च मत्सरः” किया-
योगसारोक्तः । “स्वप्रयोजनप्रतिसन्धानं विना पराभिगत-
निवारणेच्छा ।” गौ० वृ० उक्तश्च बोध्यः ।
पृष्ठ ४७२२

मत्स्य पु० मद--स्यन् । (माछ) १ मीने २ जलचरभेदे स्त्रियां

ङीष् यलोपः मत्सी । तद्भेदगुणादि भावप्र० उक्तं यथा
तत्र मत्स्येषु रोहितस्य “रक्तोदरो रक्तमुखो रक्षाक्षो
रक्तपक्षतिः । कृष्णपुच्छो झषश्रेष्ठो रोहितः कथितो
बुधैः । रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितार्त्ति-
जित् । कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत् ।
ऊर्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम् ।”
(सिलन्धा) “सिलन्धः श्लेष्मलो बल्यो विपाके मधुरो
गुरुः । वातपित्तहरो हृद्य आमवातकरश्च सः ।”
(अथ भांगन) “भङ्कुरो मधुरः शीतो वृष्यः श्लेष्मकरो
गुरुः । विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः” ।
(मोमाचिका) “मोचिका वातहृद्बल्या वृंहणी मधुरा
गुरुः । पित्तहृत् कफकृद्रुच्या वृष्या दीप्ताग्नये हिता ।
(वोदाल) “पाठीनः श्लेष्मलो वल्यो निद्रालुः पिशिताशनः ।
दूषयेद्रुधिरंपित्तकुष्ठरोगं करोति च ।” (अथ सीङ्गी)
“शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपनी । रसे तिक्ता
कपाया च लघ्वी रुच्या स्मृता बुधैः ।” (अथ हीलसा)
“इल्लसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः । पित्तहृत्-
कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः ।” (अथ सौल) “शष्कुली
ग्राहिणी हृद्या मधुरा तु वरा स्मृता ।” अथ (गर्गरा)
“गर्गरः पित्तलः किल्लिद्वातजित् कफकोपनः ।” अथ
(कवै) “कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी ।
किञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी ।”
अथ(वर्मी) “वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो राधुः ।”
अथ (दण्डारी) “दण्डमत्स्यो रसे तिक्तः पित्तरक्तं सफं
हरेत् । वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः ।”
(व्यथ आड़ि) “एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो
लवुः ।” (अथ पावता) “महाशफरसंज्ञस्तु तिक्तः पित्त-
कफापहः । शिशिरो मधुरो रुच्यो वातसाधारणः
स्मृतः ।” अथ (गरुइ) “गरघ्नी मधुरा तिक्ता तुवरा
बातपित्तहत् । कफघ्नी रुचिकृल्लध्वी दीपनी बलवीर्य्य-
क्वत् ।” अथ (मागुर) “मद्गुरो वातहद्वल्यो वृष्यः
कफकरो लघुः । अथ टेङ्गरा “सपादमत्स्यो
कत् श्लेष्मक्षयकरश्च सः । वातपित्तकरश्चापि
परमो मतः ।” अथ शफरी (पोठी) “प्राष्ठी
तिक्ता कटुः स्यादुः शुक्रघ्नी कफवातजित् । स्तिग्धास्य
कण्ठरीगघ्नी रोचनी च लघुः स्मृतः ।” अथ क्षुद्र-
मत्स्याः “क्षुद्रा मत्स्याः स्वादुरसाः दोषत्रयविनाशनाः ।
लथुपाका रुचिकरा बलदास्ते हिता मताः ।”
अथातिक्षुद्रमत्स्याः “अतिसूक्माः पुंस्त्वहरा रुच्याः कासा-
निलापहाः ।” अथ मत्स्याण्डः “मत्स्यगर्भो भृशं
वृष्यः स्निग्धः पुष्टिकरो लघुः । कफमेहप्रदो बल्यो
ग्लानिकृन्मेहनाशनः ।” अथ (शुक्टी) “शुष्कमत्स्याः
नवा बल्याः द्जराः विड्विबन्धिनः ।” अथ दग्ध-
मत्स्याः “दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्बलबर्द्धनः ।
अथ कूपजादिमत्स्यगुणाः “कौपमत्स्याः शूक्रमूत्र
कुष्ठश्लेष्म विवर्द्धनाः । सरोजा मधुराः स्निग्धा बल्या
वातविनाशंनाः । नादेया वृंहणा मत्स्या गुरवोऽनिल-
नाशनाः । रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्प-
वर्चसः । चौञ्जाः पित्तकराः स्निग्धा मधुरा लघबो
हिमाः । ताड़ागा गुरवो वृष्याः शीतलाः
बलमूत्रदाः । ताड़ागावक्षिप्तजाताः बलायुर्मतिदृक्कराः ।”
चथर्त्तुविशेषे मत्स्यविशेषगुणाः “हेमन्ते कूपजा मत्स्याः
शिशिरे सारसा हिताः । वसन्ते ते तु नादेया ग्रीष्मे
चौञ्जसमुद्भवाः । तड़ागजाता वर्षासु तास्यपथ्या
नदीभवाः । नैर्झराः शरदि श्रेष्ठा विशेषोऽवसुदाहृतः ।”
तद्भक्षणनिषेधादिकम्
“यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः
सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत्” मनुः ।
“जलस्थलचरा ये च प्राणिनस्तान् मृतानपि । न
भक्षेन् मानवो ज्ञानी हन्ता तेषां मवेन्नहि । हत्वा हत्वा
तु मत्स्याशी सर्वेषां यो विशेषतः । मांसादः प्राणिनां
गोऽपि तस्मान् मत्स्यं परित्यजेत्” । पाद्मोत्तरखण्डे
१०५ अ० । वर्जनीया मत्स्या यथा । “शृणु देवि!
प्रवक्ष्यामि मांसभेदान् निवोध मे । नादेयं तिक्तकमठं
पशुं शृङ्गिणमेव च । गोमीनं चक्रशकुलं वड़ालं
राघवं तथा । वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव
च । भूबिलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्जयेत्”
मत्स्यंसूक्तमहातन्त्रम् । रविवारे मत्स्यभक्षणे निषेधो
यथा “आमिषं रक्तशाकश्च यो भुङ्क्ते च रवेर्दिने ।
सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते” भविष्यपु० ।
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद् यो
रवेर्वारे सप्तजन्मान्यपुत्रकः” ति० त० । “कार्त्तिके मत्स्य-
भक्षणनिषेधो यथा “न मत्स्यं भक्षयेन्तांसं न कौर्म्यं
पृष्ठ ४७२३
गान्यदेव हि । चण्डालो जायते राजन्! कार्त्तिके
मांसभक्षणात्” नारदीयपु० । माघवैशाखयोर्हविष्य
ब्रह्मचर्य्यविधानात् मत्स्यभक्षणं नितरां निषिद्धमिति
कृत्यतत्त्वम् । “नाभक्ष्यं नैवेद्यार्थे भक्ष्येष्वजामहिषी-
क्षीरं वर्जयेत् पञ्चनखमत्स्यवराहमांसानिच” आह्नि० त०
विष्णुसूत्रम् । जन्मतिथौ मत्स्यभक्षणनिषेधो यथा
“आमिषं कलहं हिंसां वर्षवृद्धौ विकर्जयेत्” “भुङ्क्ते
यस्तु निरामिषं स हि भवेज्जन्मान्तरे पण्डितः” ति० त० ।
शैवस्य मत्स्यभक्षणनिषेधो यथा
“क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्व शिवाचनम् ।
मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः” काशीख० ।
विन्ध्यपर्वतस्य पश्चिमे मत्स्यभक्षणनिषेधो यथा
“विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितो नरः”
पुराणम् । कामतो मत्स्यभक्षणप्रायश्चित्तं यथा
“मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” अज्ञा-
नतस्तदर्द्धम्” प्रा० वि० । मत्स्यभक्षणनिषेधे प्रतिप्रसवो यथा
“मत्स्यान् सशल्कान् भुञ्जीत मांसं रौस्वमेव च ।
निवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा । शफसं सिंह-
तुण्डञ्च तथा पाठीनरोहितौ । मत्स्यास्त्वेते समुद्दिष्टा
भक्षणाय तपोधनैः । प्रोक्षितं भक्षयेदेषां मांसञ्च द्विज-
काम्यया । यथाविधि नियुक्तश्च प्राणानामपि चात्यये”
कौर्मे पु० १६ अ० । “पाठीनरोहितावाद्यौ नियुक्तौ
हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव
सर्वशः” मनुः । “अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च
यद्भवेत् । अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम्”
आ० त० । प्रेतश्राद्धे मत्स्यदानविधिर्यथा
“सपिण्डीकरणं यावत् प्रेतश्राद्धानि षोड़श । पक्वान्ने
बैव कर्त्तव्यं साभिषेण द्विजातिभिः” श्राद्ध० त० ।
२ विराटदेशे पु० सोऽभिजनोऽस्य तस्य राजा वा
अण् । मात्स्य प्रित्रादिक्रमेण तद्देशवासिनि तस्य
नृपे च बहुषु अणो लुक् । ३ तद्देशवासिषु ब० व० ।
४ मेषादितोद्वादशराशौ मीनराशौ । ५ भागवतः प्रथमावतारे
तत्कथा मत्स्यपु० २ अ० । भा० व० १८७ अ० च । मत्स्यं
भगवदवतारभेदमधिकृत्य कृतो ग्रन्थः अण् । मात्स्य
महापुराणभेदे तत्प्रतिपाद्यविषयाश्च तत्रैव २९० अ० उक्ता यथा
“सूत उवाच । एतद्वः कथितं सर्वं यद्क्तं विश्वरू-
पिणा । मात्स्यं पुराणमखिलं धर्मकामार्थसाधनम् ।
यत्रादौ मनुसंवादो व्रह्माण्डकथनन्तथा । साङ्ख्यं
शारीरकं प्रोक्तं चतुर्मुखमुखोद्भवम् । देवासुराणा
मुत्पत्तिर्मारुतोत्पत्तिरेव च । मदनद्वादशी तद्वल्लोक-
पालाभिपूजनम् । मन्वन्तराणामुद्देशो वैन्यराजाभि-
वर्णनम् । सूर्य्याद्वैवस्वतोत्पत्तिर्बुधस्याममनं तथा ।
पितृवंशानुकथनं श्राद्धकालस्तथैव च । पितृतीर्थप्रवा-
सश्च सोमोत्पत्तिस्तथैव च । कीर्त्तनं सोमवंशस्य ययाति-
चरितं तथा । कार्त्तवीर्य्यस्य माहात्म्यं वृष्णिवंशानु-
कीर्त्तनम् । भृगुशापस्तथा विष्णोर्दैत्यशापस्तथैव च ।
कीर्त्तनं पुरुषेशस्य वंशो हौताशनस्तथा । पुराण-
कीर्त्तनं तद्वत् क्रियायोगस्तथैव च । व्रतं नक्षत्रसंख्याकं
मार्कण्डशयनं तथा । कृष्णाष्टमीव्रतं तद्वद्रोहिणी
चन्द्रसंज्ञितम् । तड़ागविधिमाहात्म्यं पादपोत्सर्ग
एव च । सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ।
तथानन्ततृतीया तु रसकल्याणिनी तथा । आर्द्रा नन्द-
करी तद्वद् व्रतं सारस्वतं पुनः । उपरागाभिषेकश्च
सप्तमीस्नपनं पुनः । भीमाख्या द्वादशी तद्वदनङ्ग-
शयनं तथा । अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् ।
सप्तमीसप्तकं तद्वद्विशोकद्वादशी तथा । मेरुप्रदानं
दशधा ग्रहशान्तिस्तथैव च । ग्रहस्वरूपकथनं तथा
शिवचतुर्दशी । तथा सर्वफलत्थागः सूर्य्यवारव्रतं
तथा । संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ।
षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः । प्रयागस्य
तु माहात्म्यं सर्वतीर्थानुकीर्त्तनम् । पैलाश्रमफलं
तद्वद्द्वीपलोकानुकीर्त्तनम् । तथान्तरिक्षचारश्च ध्रुव-
माहात्म्यमेव च । भवनानि सुरेन्द्राणां त्रिपुरायोधनं
तथा । पितृपिण्डदमाहात्म्यं मन्वन्तरविनिर्णयः । वज्रा-
ङ्गस्य तु संभूतिः तारकोत्पत्तिरेव च । तारकासुरमा-
हात्म्यं ब्रह्मदेवानुकीर्त्तनम् । पार्वतीसम्भवस्तद्वत् तथा
शिवतपोवनम् । अनङ्गदेहदाहस्तु रतिशोकस्तथैव च ।
गौरीतपोवनं तद्वद्विश्वनाथप्रसादनम् । पार्वत
ऋषिसंवादस्त्रथैवोद्वाहमङ्गलम् । कुमारसम्भवस्तद्वत् कुमार-
विजयस्तथा । तारकस्य वधो घोरी नरसिंहोपवर्ण-
नम् । पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् । वारा-
णस्यास्तु माहात्म्यं नर्मदायास्तथैव च । प्रवरानुक्रम-
स्तद्वत् पितृनाथानुकीर्त्तनम् । तथोभयमुखीदानं दानं
कुष्णाजिनस्य च । तथा सावित्र्युपाख्यानं राजथर्मा-
स्तथैव च । यात्रानिमित्तकथनं स्वप्नमाङ्गल्यकीर्न्त-
नम् । वामनस्य तु माहात्म्यं तथैवादिवराहकम् ।
पृष्ठ ४७२४
क्षीरोदमयनं तद्वत् कालकूटाभिशासनम् । प्रासाद-
लक्षणं तद्वन्मण्डपानान्तु लक्षणम् । पुरुबंशे तु
संप्रोक्तं भविष्यद्राजवर्णनम् । तुलादानादि बहुशो
महादानानुकीर्त्तनम् । कल्पानुकीर्त्तनं तद्वद् ग्रन्थानु-
क्रमणी तथा । एतत्पवित्रमायुष्यमेतत् कीर्त्तिविव-
र्धनम् । एतत् पवित्रं कल्याणं महापापहरं शुभम् ।
अस्मात् पुराणादपि पादमेकं पठेत्तु यः सोऽपि
विमुक्तपापः । नारायणाख्यं पदमेति नूनमनङ्ग-
वद्दिव्यसुखानि भुङ्क्ते ।”
तद्दानविधिः मत्स्यपु० “श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं
जनार्दनः । मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ।
अधिकृत्याब्रवीत् सप्तकल्पवृत्तमनुव्रताः! । तन्मानमिति
जातीध्वं सहस्राणि चतुर्दश । विष्णवे हेममत्स्येन
धेन्वा चै । समन्वितम् । यो दद्यात् पृथिवी तेन दत्ता
भवति चाखिला” ।

मत्स्यकरण्डिका स्त्री मत्स्यानां करण्डिकेवाधारः ।

(खालुइ) मत्स्यरक्षणाधारे पात्रभेदे जटा० ।

मत्स्यगन्धा स्त्री मत्स्यस्येव गन्धोऽस्याः । १ व्यासमातरि सत्य-

वत्याम् भा० आ० ६३ अ० । २ जलपिप्पल्याञ्च जटा०

मत्स्यघण्ट पु० स्वनामख्याते व्यञ्जनभेदे शब्दच० ।

मत्स्यजाल न० मत्स्यधारणं जालम् शा० त० । मत्स्यधार-

णार्थे जालभेदे हेलच० ।

मत्स्यजीविन् पु० मत्स्येन तद्धारणविक्रयादिना जीवति

जीव--णिनि । निषादे “मत्स्यघातो निषादानाम्” मनुना
तस्य तज्जीविकोक्तेस्तस्य तथात्वम् ।

मत्स्यण्डी स्त्री (राव) ख्याते गुड़विकारभेदे भावप्र० “इक्षो

रसो यः संपक्वो धनः किञ्चिद्द्रवान्वितः । मदवत्
स्यन्दते यस्मान्मत्स्यण्डीति निगद्यते” । अस्या गुणाः
“मत्स्यण्डी भेदिनी बल्या लष्वी पितानिलापहा ।
मधुरा वृंहणी वृष्या रक्तदोषापहा पाता” ।

मत्स्यद्वीप पु० मत्स्यप्रधानो द्वीपः शा० त० । द्वीपभेदे विष्णुपु०

मत्स्यधानी स्त्री मत्स्या धीयन्तेऽस्यां धा--आधारे ल्युट्

ङीप् । मत्स्यरक्षणाधारे (खालुइ) पात्रभेदे अमरः ।

मत्स्यनाशन पुंस्त्री० मत्स्यान् नाशयति ल्यु । १ कुररखगे

हेमच० । स्त्रियां जातित्वात् ङीष् ण्वुल् । मत्स्यनाश-
कोऽपि तत्रार्थे उभाद्वपि २ मीनधातके त्रि० ।

मत्स्यपित्ता स्त्री मत्स्यस्य पित्तनिव रसोऽस्त्यस्याः अच् ।

कटुरोहिण्याम् (कट्की) अमरः ।

मत्स्यबन्धक त्रि० मत्स्यान् बध्नाति बन्ध--ण्वुल् । १ मीनधा-

रके “नृपायामेव तस्यैव जातो मत्स्यवन्धकः”
उशनसोक्ते सङ्कीर्णजातिभेदे २ धीवरे पुंस्त्री० । स्त्रियां
जातित्वात् ङीष् । णिनि । मत्स्यबन्धिन् तत्रार्थे मत्स्य-
धान्यां स्त्री ङीप् हला० ।

मत्स्यमुद्रा पूजाङ्गे मुद्राभेदे

“दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् । अङ्गुष्ठौ
चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी । मत्स्यमुद्रा च
कूर्म्माख्या लेलिहा मुण्डसंज्ञिकाः । महायोनिरिति
ख्याता सर्वसिद्धिसमृद्धिदा” तन्त्रसारः ।
“श्यामादौ मुण्डमुद्रिका । “मत्स्यकूर्मलेलिहाख्या मुद्रा
साधरणी मता” तत्रोक्तम् ।

मत्स्यरङ्ग पुंस्त्री० मत्स्ये रजति रन्ज--कर्त्तरि संज्ञायां

घञ् । (माछराङ्गा) पक्षिभेदे हारा० “त्रिभुवनविदितो
हा भत्स्यरक्ते कलङ्कः” उद्भटः । स्त्रियां ङीष् ।

मत्स्यराज पु० ६ त० । १ रोहितमत्स्ये त्रिका० । २

विराटनृपे “नगरं मत्स्यराजस्य” भा० व० ७२ अ० ।
तस्य मत्स्यदेशाधिपत्वात् तथात्वम् ।

मत्स्यविन्ना स्त्री विद--लाभे क्त मत्स्यो मत्स्यरसो विन्नो

यया तुल्यतिक्तत्वात् । कटुक्याम् वैद्यकम् ।

मत्स्यवेधन न० मत्स्यो विध्यतेऽनेन विध--करणे ल्युट् ।

१ वडिशे अमरः स्त्रीत्वमपि जटा० ङीप् । कर्त्तरि ल्यु ।
२ मद्गुपक्षिणि (पानकौड़ि) स्त्री जटा० ।

मत्स्यसन्तानिक पु० व्यञ्जनभेदे “दग्धाऽङ्गारे सलवणा

वेशबारैरुपस्कृतः । सार्द्रकः कटुतैलेन मत्स्यसन्तानिको
मवेत्” शब्दच० ।

मत्स्याक्षी स्त्री मत्स्यस्याक्षीवाकारोऽस्याः षच्समा० ङीष् ।

१ गण्डदूर्वायां राजनि० २ सोमलतायाम् ३ हिलमोचि-
कायाम् ४ ब्राह्मीशाके रत्नमाला ।

मत्स्याङ्गी स्त्री मत्स्यः तत्पित्तमिवाङ्गं तिक्तत्वात् यस्याः

ङीष् । हिलमोचिकायाम् त्रिका० ।

मत्स्यादनी स्त्री मत्स्य इवाद्यते आस्वाद्यते अट--कर्मणि

ल्युट् । जलपिप्पल्याम् राजनि० ।

मत्स्याशन पुंस्त्री० मत्स्यमश्नाति अश--ल्यु । (माछराङ्गा)

खगे त्रिका० स्त्रियां ङीष्

मत्स्यासन न० रुद्रयामलोक्ते आसनभेदे “अथ मत्स्या-

मनं पृष्ठे हस्तोपरिकराङ्गुलि । पादयुगलमानेन
वृद्वाङ्गुष्ठस्य योजनम्” ।
पृष्ठ ४७२५

मत्स्योदरी स्त्री मत्स्यगन्धयुक्तमुदरमस्याः । १ व्यासमातरि

मत्स्यगन्धायां २ काशीस्थे तीर्थभेदे च काशी० ६९ अ०
“दुर्गाणि तैः कृतानीह सप्त स्वर्गसमानि च । सद्वाराणि
सयन्त्राणि कवाटविकटानि च । कोटिकोटिभटा-
द्यानि सर्वर्द्धिसहितान्यपि । ततः शैलमहादुर्गं
तैः काशीं परितः कृतम् । परिखा च कृतालिन्दा
मत्स्योदर्य्या जलाबिला । मत्स्योदरी द्विधा जाता
वहिरन्तश्चरा पुनः । तस्य तीर्थं महत् ख्यातं मिलितं
गाङ्गवारिणि । यदा संहारमार्गेण गङ्गाम्भः प्रसरे-
दिह । तदा मत्स्वोदरीतीर्थं लभ्यते पुण्यगौरवात् ।
सूर्य्याचन्द्रमसोः पर्व तदा कोटिगुणं शतम् । सर्वपर्वाणि
तत्रैव सर्वतीर्थानि तत्र वै । तत्रैव सर्वलिङ्गानि गङ्गा-
मत्स्योदरी यतः । मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि
मानवाः । कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः ।
अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् । परितः
स्वर्धुनीवारिसंहारे परितोवृते । मत्स्योदर्य्यां
कृतस्नाना ये नरास्ते नरोत्तमाः । कृत्वापि बहुपापानि
नेक्षन्ते भास्करेः पुरीम् । किं स्नात्वा बहुतीर्थेषु किं
तखा दुष्करं तपः । यदि मत्स्योदरीस्नाताः कुतो
गर्भभयं ततः । यत्र यत्र हि लिङ्गानि नृदेवर्षि-
कृतान्यपि । तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्ष-
भाजनम् । सन्ति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ।
न समानि परं तानि कोट्यंशेनापि निश्चितम् । इत्थं
तीर्थं कृतं तेन विभो! कैलासवासिना । सणाधिपेन
सुमहत् सुमहोदारकर्मणा ।”

मथ विलोडने भ्वा० पर० सक० सेट् । मथति पदित् अमथीत्

ज्वला० वा ण । मथः माथः । ऋदित् चङि न ह्रस्वः ।

मथ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । मन्थति

अमन्थीत् मन्थ्यते ।

मथन न० मथ--ल्युट् । १ बधे २ क्लेशे ३ विलोड़ने च । “क्षीरोद-

मथनोद्भूता” चन्द्रस्तवः । ४ गणिकारिकावृक्षे पु० रत्नमा० ।

मथित न० मथ--क्त । १ निर्जलतक्रे २ पीड़िते ३ हते च त्रि० ।

मथु(थू)रा स्त्री मथ--उ(ऊ)रच् । स्वनामख्यातायां नगर्य्याम ।

“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काशी० ख० ।
तन्माहात्म्यं विष्णुपु० ६ अंशे ८ अ० । वराहपु० २७ अ० ।
ततः चतुरर्थ्यां वरणा० अण् । माथुर तत्पुर्य्यदूरभवे
त्रि० । मथूराप्यत्र द्विरूपको० ।

मथुरेश पु० ६ त० । श्रीकृष्णे शब्दर० । मथुरानाथादयोऽप्यत्र

मद हर्षे दिवा० पर० अक० सेट् शमा० । माद्यति इरित्

अमदत् अमादीत् अमदीत् । ईदित् निष्ठायामनिट् पुषदिरयं
तेन अमददित्येवेति पाणिनीयाः । घटा० मदयति जीत्
मत्तोऽस्ति । प्र + अनवधाने ।

मद गर्वे दैन्ये च भ्वा० पर० अक० सेट् । मदति अमादीत्--अमदीत् घटा० मदयति ।

मद तर्षणे चु० आ० सक० सेट् । मादयते । अमीमदत ।

मद जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक०

सक० च भ्वा० आत्म० इदित् । मन्दते अमन्दिष्ट ।
तत्र स्तुतौ “मन्दमानः सुमन्मभिः” ताण्ड्य० ब्र० १ । ७ । ६ ।
“मन्दमानः स्तूयमानः मदि--स्तुतौ कर्भणि यकि प्राप्ते
व्यत्ययेन शप्” भा० ।

मद पु० मद अच् । १ हस्तिगण्डादिस्नुतजले दानजले अमरः

२ गर्वे हर्षे ३ रेतसि ४ मृगमदे मेदि० ५ मत्ततायाम् हेमच० ।
४ नदे ५ कल्याणकरे वस्तुनि च धरणिः ।

मदकट पु० मदेन कटति कट--अच् षण्डे (षांड़) हेमच० ।

मदकल त्रि० मदेन कलते कल अच् । १ मत्तहस्तिनि

मदोतकटे अमरः । २ अव्यक्तशब्दकारिणि त्रि० शब्दरत्ना० ।
मदेन कलो यस्य । ३ मदाव्यक्तभाषिणि त्रि० मेदि० ।

मदगन्ध पु० मदस्य हस्तिदानस्येव गन्धोऽस्य । १ सप्नच्छदवृक्षे

२ मदिरायां स्त्री टाप् । ३ अतस्याञ्च राजनि० ।

मदघ्नी स्त्री मदं मदिरामत्ततां हन्ति हन--ट ङीप् ।

पूतिकायाम् जटा० ।

मदधार पु० मदप्रधाना धारा यत्र । पर्वतमेदे भा० स० २९ अ० ।

मदन पु० माद्यत्यनेन मद करणे ल्युट् । १ कामदेवे अमरः ।

२ सुरायां हेमच० । ३ वसन्ते काले ४ सिक्थके ५ धुस्तूरे च
पु० मेदि० । (मयना) ६ वृक्षभेदे रत्नमाला । ७ भ्रमरे
जटा० माषे ८ कलायभेदे हेमच० । ९ खदिरवृक्षे शब्दच०
१० अङ्कोटकवृक्षे ११ बकुलवृक्षे (मयनफल) १२ वृक्षभेदे च
राजनि० । १३ आलिङ्गनभेदे कामशास्त्रम् ।

मदनक पु० मदयति मद--णिच्--ल्युट् स्वार्थे क । दमनक-

वृक्षे राजनि० ।

मदनकण्टक पु० मदननिमित्तः कण्टक इव । १ सात्त्विके २ रोमाञ्चे त्रिका० ।

मदनकाकुरव पुंस्त्री० मदनेन हेतुना काकुरवोऽस्य ।

पारावते स्त्रियां जातित्वात् ङीष् ।

मदनगृह न० ६ त० । १ स्त्रीचिह्नभेदे सुरतगृहादयोऽप्यत्र ।

२ लग्नावधिके सप्तमस्थाने ज्यो० ।

मदनगोपाल पु० मदन इव गोपालः । श्रीकृष्णे ।

पृष्ठ ४७२६

मदनचतुर्दशी स्त्री मदनपूजार्था चतुर्दशी शा० त० । चैत्र-

शुक्लचतुर्दश्याम् तत्र दमनवक्षे मदनपूजाविहितेति तस्या-
स्तथात्वम् । ति० त० दृश्यम् ।

मदनत्रयोदशी स्त्री मदनपूजार्था त्रयोदशी । चैत्रशुक्ल-

त्रयोदश्याम् ति० त० दृश्यम् ।

मदनद्वादशी स्त्री मदनपूजार्था द्वादशी । चैत्रशुक्लद्वादश्याम् मत्स्यपु० ७ अ०

मदनपक्षिन् पु० माद्यति मद--ल्यु कर्म० । खञ्जनखगे शब्दच०

मदनपाठक पु० मदनोद्दीपनार्थं पठति पठ--ण्वुल् । स्मरो-

द्दीपनशब्दकारके कोकिले राजनि० ।

मदनमोहन पु० मदनमपि मोहयति सौन्दर्य्येण मुह--णिच्

ल्यु । श्रीकृष्णे ।

मदनललिता स्त्री “वेदाङ्गाऽङ्गैर्मदनललिता मो भो नम

लसाः” वृ० र० टीकोक्ते षोड़शाक्षरपादके छन्दोभेदे ।

मदनलेख पु० मदनज्ञापनार्थं लेखः । स्वकीयानुरागज्ञाप-

नार्थे नायकयोः परस्परं प्रति प्रेष्ये लेखे पत्रभेदे ।
यथा शकुन्तलायाम् “तुज्झ ण आणे हिअअम्” इत्यादि ।

मदनवीज न० तन्त्रोक्ते (क्लीम्) इति बीजे

मदनशलाका स्त्री मदनोद्दीपिका शलाका तथाभूत शलाकेव

वा । १ स्मरोद्दीपकौषधे २ सारसखगे मेदि० ३ कोकिले शब्दर० ।

मदनसदन न० ६ त० । १ स्त्रीचिह्नभेदे । ज्योतिषोक्ते लग्ना-

बधिके २ सप्तमे स्थाने च ।

मदनसारिका स्त्री मदनोद्दीपिका सारिका शा० त० ।

(सालिक) पक्षिभेदे जटा० ।

मदनाग्रक पु० भदनं मादकमग्रमस्य कप् । कोद्रये (कोदो) धान्यभेदे राजनि० ।

मदनाङ्कुश पु० मदनस्याङ्कुश इव । १ पुरुषचिह्ने लिङ्गे

त्रिका० २ मैथुनकाले नखाघाते च ।

मदनायुध न० ६ त० । स्त्रीचिह्ने शब्दच० ।

मदनायुष पु० मदनस्यायुर्यत्र अच्समा० । वृद्धिकरक्षुपभेदे राजनि० ।

मदनालय पु० ६ त० । २ स्त्रीचिह्ने ज्योतिषोक्ते लग्नाबधिके

सप्तमस्थाने मदनभवनादयोऽप्यत्र ।

मदनावस्था स्त्री मदनकृतावस्था शा० त० । कामिनां स्मरकृते

उन्मादादौ दशाभेदे दशाशब्दे दृश्यम् ।

मदनी स्त्री माद्यत्यनया मद--ल्युट् ङीप् । १ सुरायाम् हारा०

२ मृगनाभौ ३ अतिमुक्तके च राजनि० ।

मदनेच्छाफल पु० मदनेच्छां फलति फल--अच् ६ त० ।

बद्धरसाले राजनि० ।

मदनोत्सव पु० मदननिमित्त उत्सवः । १ होलाकोत्सवे

७ ब० । २ स्वर्वेश्यायाम् स्त्री शब्दर० ।

मदप्रयोग पु० ६ त० । गजानां मदोद्गमे त्रिका० ।

मदभञ्जिनी स्त्री मद भञ्जति भन्ज--णिनि । शतमूल्याम् शब्दच० ।

मदयन्ती स्त्री मद--णिच्--झच् गौरा० ङीष् । वनमल्लिका-

याम् (काठमल्लिका) राजनि० । स्वार्थे क ह्रस्वः ।
मदयन्तिका तत्रैवार्थे शब्दरत्ना० ।

मदयित्नु पु० मद--णिच्--इत्नुच् । १ कामदेवे २ मेघे ३

शौण्डिके च मेदि० । ४ मद्ये न० शब्दर० । ५ मादके त्रि०
त्रिका० ।

मदलेखा स्त्री “मृसौ गः स्यात् मदलेख ।” वृ० र० उक्ते सप्ता-

क्षरपादके १ छन्दोभेदे ६ त० । २ गजानां दानवारिपङ्क्तौ

मदविक्षिप्त पु० ३ त० १ मत्तगजे शब्दच० । २ मदेन क्षिप्ते त्रि० ।

मदशाक पु० मदार्थं शाकमस्य । उपोदक्यां शब्दच० ।

मदसार पु० मदं सारयति गमयति सृ णिच्--अण् उप० स० ।

तूलवृक्षे राजनि० ।

मदस्थल पु० ६ त० । १ सुरापाने शब्दरत्ना० । मदस्थाना-

दयोऽप्यत्र । ज्योतिषोक्ते लग्न वधिके २ सप्तमस्थाने च ।

मदहस्तिनी स्त्री मदेन हस्तिनीव । महाकरञ्जवृक्षे राजनि०

मदहेतु पु० ६ त० । १ मत्तताहेतौ २ धातक्यां वैद्यकम् ।

मदाघ पु० ऋषिभेदे ततः । उपका० गोत्रप्रत्ययस्य द्वन्द्वे च

अद्वन्द्वे च लुक् ।

मदाढ्य पु० मदेन मदकारणेन (ताड़ि) रसेनाद्यः ।

१ तालवृक्षे राजनि० । २ रक्तझिण्ट्याम् स्त्री शब्दच० ।
३ मदयुक्ते त्रि० ।

मदातङ्क पु० ६ त० । मदनजरोगभेदे राजनि० ।

मदात्यय पु० ६ त० । मदनिमित्ते रोगभेदे तस्य निदानादि

गरु० पु० १६० अ० उक्तं दृश्यम् । भावप्र० उक्तन्तु यथा
“विषस्य ये गुणा दृष्ठाः सन्निपातप्रकोपनाः । तएव
मद्ये दृश्यन्ते विषे तु बलवत्तराः । तस्मादविधिपीतेन
तथा मात्राधिकेन ञ्च । युक्तेन चाहितैरन्नैरकाले सेवि-
तेन च । मद्येन खलु जायन्ते मदात्ययमुखा गदाः” ।
अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयतीत्याह ।
“निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् ।
उत्पादयेत् कष्टतमान् विकारानुत्पादयेच्चापि शरीर-
भेदम्” । एकान्ततो नैरन्तर्य्येण, विकारान् मदात्यया-
दीन् । शरीरस्य भेदं नाशम् । मदात्ययादीनां हेत्व-
न्तरमप्याह “क्रुद्धेन भीतेन पिपासितेन शोकाभि-
तप्तेन बुभुक्षितेन । व्यायामभाराध्वपरिक्षतेव वेगाव-
रोधाभिहतेन वापि । अत्यम्लरूक्षावततोदरेण सा-
पृष्ठ ४७२७
जीर्णभुक्तेन तथाऽबलेन । उष्णाभिवप्तेन च सेव्यमानं
करोति मद्यं विविधान् विकारान्” । तानेव विका-
रान् विवृणोति । “पानात्ययं परमदं पानाजीर्णमथापि
वा” । पानविकारान् विवृणोति । “पानविश्रममुग्रञ्च
तेषां वक्ष्यामि लक्षणम् । तत्र मदात्ययस्य सामान्य-
लक्षणमाह “शरीरदुःखं बलवत्प्रमोहो हृदय-
व्यथा । अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ।
शिरः पार्श्वास्थिसन्धीनां वेदना विक्षते तथा । जाय
तेऽतिबलात् जृम्भास्फुरणं वेपनं श्रमः । उरोविबन्धः
कासश्च श्वासो हिक्काप्रजागरः । शरीरकम्पः कर्णाक्षि
मुखरोगास्त्रिकग्रहः । छर्दिर्विड्भेदौत्क्लेशो
वातपित्तकफात्मकः । भ्रमः प्रलापी रूपाणामसताञ्चैव
दर्शनम् । तृणभस्मलतापर्णपांशुभिश्चावपूरितम् । प्रक-
र्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते । व्याकु-
लानामशस्तानां स्वप्नानां दर्शनानि च । मदात्ययस्य
रूपाणि सर्वाण्येतानि लक्षयेत्” । अथ मदात्ययस्य
वातिकस्य निदानमाह “स्त्रीशोकभयभाराध्वकर्म-
भिर्योऽतिकर्षितः । रूक्षाल्पप्रमिताशी च यः
पिवत्यतिमात्रया । रूक्षं परिणतं मद्यं निशि निद्रां
निहन्ति च । करोति तस्य तच्छीघ्रं वातप्रायं
मदात्ययम्” । तत् मद्यम् । अथ तस्य लक्षणमाह ।
“हिक्काश्वाससिराकम्पपार्श्वशूलप्रजागरैः । विद्याद्-
बहुपलापञ्च वातप्रायं मदात्ययम्” । अथ पैत्तिकस्य
निदानमाह “तीक्ष्णोष्णं मदामम्लञ्च योऽतिमात्रं
निषेवते । अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातप-
प्रियः । तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः” ।
अथ तस्य लक्षणमाह “तृष्णादाहज्वरस्वेदमोहा-
तीपारविभ्रमैः । विद्याद्वरितवर्णस्य पित्तप्रायं
मदात्ययम्” । अथ श्लैष्मिकस्य मदात्ययस्य निदानमाह
“मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया । अव्यायाम-
दिवास्वप्नशय्यासनसुखे रतः । मदात्ययं कफवायं स
नरो लभते ध्रुवम्” । अथ तस्य लक्षणमाह “छर्द्य-
रोचकहृल्लासतन्द्रास्तैमित्यगौरवैः । विद्याच्छीतपरी-
तस्य कफप्रायं मदात्ययम्” । अथ सान्निपातिकस्य
मदात्ययस्य निदानं लक्षणञ्चाह “त्रिदोषहेतुभिः सर्वैः सर्वै-
र्लिङ्गैर्मदात्ययः” । अथ परमदलक्षणमाह “श्लेष्मोच्छ्र-
योऽङ्गगुरुता विरसास्यता च विण्मूत्रभक्तिरथ तन्त्रि
ररोचकश्च । लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा
स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः” । तन्द्रि-
स्तन्द्रा । पानाजीर्णमाह “आष्मानमुग्रमथ बोद्गिरणं
विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि” । उद्गि-
रणं वान्तिः उद्गारो वा । पीयत इति पानं मद्यम् ।
पानविभ्रममाह “हृद्गात्रतोदकफसंस्रवकण्ठधूम-
मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः । द्वेषः सुरान्नविकृ-
तेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः ।
कण्ठधूमः निर्गम इव । प्रदेहः कफेन लिप्तास्यता ।
द्वेषः सुरान्नविकृतेषु सुराविकारेषु अन्नविकारेषु च
द्वेषः । असाध्यानां मदात्ययादीनां लक्षणमाह ।
दीनोत्तरोष्ठमतिशीतममन्ददाहम् तैलप्रभास्यमतिपान-
हतं त्यजेच्च । जिह्वोष्ठदन्तभसितं त्वथ वापि नीलम्
पीते च यस्य नयने रुधिरप्रभे च । हिक्काज्वरो वमथु-
वेपथुषार्श्वशूलाः कासभ्रमावपि च पानहत त्यजेत्तम्” ।

मदाम्नात पु० मदस्यातिक्रमे आम्नातः । गजपृष्ठस्थे ढक्का-

वाद्ये हारा० ।

मदाम्बर पु० मदो दानमम्बरमिवास्य । मत्तगजे त्रिका० ।

मदार पुंस्त्री० मद आरन् । १ वराहे उज्ज्वल० स्त्रियां

ङीष् । २ धूर्त्ते ३ मत्तगजे विश्वः । ४ कामुके ५ नृपभेदे
उणादिको० ।

मदार्म्मद पु० मदजन्यमर्मं ददाति दा--क । फलकमत्स्ये त्रिका० ।

मदालस त्रि० मदेनालसः । १ मदेनालसे २ गन्धर्वराजविश्वकेतु-

कन्यायां स्त्री ।

मदालापिन् पु० मदेनालपति आ + लप--णिनि । कोकिले शब्दमाला

मदाह्व पु० मदः मृगमद आह्वा यस्य । मृगमदे कस्तूर्य्यां

त्रिका० ।

मदि स्त्री मृद्नाति कृष्टक्षेत्रलोष्ट्रम् मृद--इन् पृषो० । (मै)

ख्याते कृषिसाधने कृषकयन्त्रभेदे स्वार्थे क । तत्राथे
कृषिशब्दे २१९९ पृ० मदिकादानविधिर्दृश्यः । तल्लक्षणन्तु
२११८ पृ० तत्र शब्दे दृश्यम् ।

मदिन् त्रि० मदयतीति मदि--णिनि । तर्पके यजु० ६ । २७ ।

मदिन्तम त्रि० अतिशयेन मदी तमप् वेदे नुमागमः ।

अतिशयतर्पके यजु० ६ । २७ ।

मदिरा स्त्री मद--करणे किरच् । “माध्वीकं पानसं द्राक्षं

खार्जूरं तालमैक्षवम् । मैरेयं माक्षिकं टाङ्कं मधूक
नारिकेलजम् । मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव
तु” इत्युक्ते १ मद्यसामान्ये २ मत्तखञ्जने शब्दरत्ना० ।
३ रक्तखदिरे पु० शब्दच० । कालभेदे तद्भेदग्राह्यता यथा
पृष्ठ ४७२८
“गौडी त शिशिरे पेया पैष्टी हेमन्तवर्षयोः । शरद्-
ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा । कादम्बरी
शर्करजादिमद्यं सुशीतलं वृष्यकर मदात्मम् । माध्वीसमं
स्यात् तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणञ्च । अन्यथा
कुरुते पानं मद्यं सन्तापशोपदम् । अन्नदोषमदात्यय-
कारकं मूर्च्छनञ्च तत्” । “पर्य्युषितमल्पमेलनमल्पं वा
पिच्छिलं विगन्धं वा । दोषावहमविशेषान् मद्यं हृद्यं
विवर्जयेत् सर्वम् । मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्त्तिषु ।
द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्” राजनि० ।
अधिकं मद्यशब्दे दृश्यम् । ४ वसुदेवस्य पत्न्यां हरिवं०
३६ अ० । ५ दुर्गायां १७८ अ० । “सप्तभकारकृतावसितौ
च गुरुः कविभिः कथिता मदिरा” वृ० र० टी० उक्ते
द्वाविंशत्यक्षरपादके ६ छन्दोभेदे स्त्री ।

मदिराक्षी पु० १ विरादस्य भ्रातरि भा० वि० ३१ अ० । मदिरा-

मत्तखञ्जनाक्षीवाक्षियस्य षच्समा० । खञ्जनतुल्यनेत्रे त्रि०
स्त्रियां ङीष् ।

मदिरागृह न० मदिरसन्धानार्थं गृहम् शाक० त० । गञ्जाख्ये मद्यसन्धानार्थे गृहे अमरः

मदिराश्व पु० १ विराटनृपसेनापतिभेदे भा० आमु० २ अ० ।

हिरण्यहस्तस्य श्वशुरे २ प्राचीने नृपभेदे भा० अनु० १४७ अ०

मदिरासख पु० ६ त० टच्समा० । आम्रवृक्षे जटा० । तस्य

मदिरातुल्यास्वादत्वात् तथात्वम् ।

मदिष्ठा स्त्री अतिशयेन मदिनी मदयित्री इष्ठन् टिलोपः । मदिरायां हेमच० ।

मदेमहि पु० प्रार्थनायाम् निघण्टुः ।

मदेव पु० मद--बा० एव । मत्ते ऋ० १० । १०६ । ६ ।

मदोत्कट पु० मदेन दानवारिणा उत्कटः उद्दृप्तः । १ मत्त

गजे अमरः २ मदिरायां स्त्री राजनि० । ३ मदोद्धते त्रि० ।

मदोदग्र पु० मदेन हर्षेण दर्पेण वा उदग्रः उग्रः । १ मत्ते

“भदोदग्राः ककुद्मन्तः” रघुः । २ नार्य्यां स्त्री शब्द मा० ।

मदोद्धत त्रि० मदेन उद्धतः । नत्ते जटा० ।

मदोन्मत्त पु० “मन्त्रो वाप्यथ वा विद्या सप्ताधिकदशाक्षरः ।

फट्कारपञ्चकादिर्यो मदोन्मत्त उदाहतः” तन्त्रसारोक्ते
१ मन्त्रभेदे २ मदेनोन्मत्ते त्रि० ।

मद्गु पु० मस्ज--उ न्यङ्क्वा० । (पानिकोडि) १ पक्षिभेदे अमरः ।

“मद्गुः स्त्रिग्धो वातनाशी भेदकः शुक्रकारकः । रक्त-
पित्तविनाशी च शीतलः परिकीर्त्तितः” राजव० ।
२ मद्गुरमीने नीलकण्ठः ।

मद्गुर पुंस्त्री० मद--अरच न्यङ्क्वा० । (मागुर) १ मत्स्यमेदे । स्वार्थे

स । तत्रैव अमरा स्त्रियां ङीप् । तद्गुणाः मत्स्यशब्दे
भावप्र० उक्ताः । “निषादो मद्गुरं सूते” भा० अनु० ४८
उक्ते २ सङ्कीर्णजातिभेदे (डुबुरि) पुंस्त्री० । “मद्गूनि
मीनभेदान् लाति ला--क लस्य रः” नीलकण्ठः ।
जलमज्जनेन मीनहारित्वात् तस्य तथात्वम् । “तस्मादेते जले
मग्नाः मद्गुरा नाम विश्रुताः । ये हरन्ति सदाऽसं-
ख्यान् समुद्रोदरचारिणः” हरिवं० ९५ अ० ।

मद्गुरप्रिया स्त्री मद्गुरस्य प्रियेव । शृङ्गीमत्स्ये हेमच०

“मद्गुरस्य प्रिया शृङ्गी” अमरः ।

मद्गुरसी स्त्री मद्गोः सद्गुरस्येव रस--आस्वादोऽस्याः

गौरा० ङीष् । शृङ्गीमत्स्ये शब्दर० ।

मद्य न० माद्यत्यनेन करणे यत् । मदिराशब्दे उक्ते माध्वी-

कादिद्वादशविधे मादकद्रव्ये अमरः । मद्यभेदा वर्णभेदेन
तत्पाननिषेधादिकं प्रा० वि० उक्तं यथा
“पुलस्त्यः “पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् ।
माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् । समानानि
विजानीयान्मद्याज्येकादशैव तु । द्वादशन्तु सुरामद्यं सर्वे-
षामधमं स्मृतम्” । अनेनैकादशानां सुरात्वं निषेधयति
मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः तस्मादेव वचनान्न
तु मद्यमात्रं सुराशब्दार्थः । तथा च वृहस्पतिः
“गौड़ीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात्” । त्रयाणां
सुरात्वे क्रमेण प्रायश्चित्तं न स्यात् । यथा भविष्ये
“सुरा तु पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे” । पैष्टीति
तण्डुलविकारमात्रोपलक्षणम् । इतरे गौड़ीमाध्व्यौ
अतोऽन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा
सुरेति गौड़ीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् । तेनैतत्-
पानेऽपि महापातकत्वमतिदिशति “यथैवैका तथा सर्वेति”
पैष्ट्यां पूर्वप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्वा
गौड़ी माध्वी च पूर्ववचनोक्ता पैष्टीदृष्टान्तत्वेनात्र दर्शिता
न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः । त्रैवर्णिकपरत्वे
उत्तसपदानर्थक्यात् । न च बहुवचनानर्थक्यपरिहारार्थम्
उत्तमप्रतिपदिकानर्थक्यं युक्तं बहुवचनस्य स्वजातीयोप-
स्थापके चरितार्थत्वात् । अतो ब्राह्मणस्य त्रिविधसुरापानं
महापातकं क्षत्रियवैश्ययोस्तु “सुरा वै सलमन्नानामिति”
वचनेन पैष्ट्येवेति स्थितम् । गोविन्दराजविश्वरूपधा-
रेश्वराणामनुसतोऽयमर्थः । अतएव “एव माध्वी च
गौटी च पैष्टी च त्रिविघा सरा । द्विजातिभिर्न
पातव्या कदाचिदपि कर्हिचिदिति” यमवचनेऽपि द्विजा-
पृष्ठ ४७२९
तिपदं ब्राह्मणपरमेव । अतएव द्विविधसुरापाने क्षत्रि-
यादीनां महापातकं दूरे तावदस्तु दोषाभाबमेवाह
वृद्धयाज्ञवल्क्यः “कामादपि हि राजन्यो वैश्यश्चापि
कथञ्चन । मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” ।
तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौड़ीमाध्वीनिषेधस्तु
ब्राह्मणानामेव । ननु ब्राह्मणराजन्याविति विशेषणात्
पुंलिङ्गमत्र विवक्षितम् । अतः कथं ब्राह्मण्याः सुरापानं
महापातकम् । उच्यते निषिध्यमानक्रियाया विधेयत्वेन
तत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितं
हविरुभयत्ववत् अतस्तज्जातीयस्त्रीणामपि पाननिषेधः ।
यथा भविष्ये “तस्मान्न पेयं विप्रेण सुरामद्यं
कथञ्चनन । ब्राह्मण्यापि न पेया वै मुरा पापभयावहा” ।
“या ब्राह्मणी सुरापी स्यात् न तां देवाः पतिलोकं
नयन्ति” इति श्रुतेः । “पत्युरर्द्धशरीरेण भार्य्या यस्य सुरां
पिबेत् । पतितार्द्धशरीरस्य निष्कृतिनोपपद्यते” । न
चैबं क्षत्रियवैश्यस्त्रीणामनिषेधः, ब्राह्मणीपदस्य निषिद्ध-
सुरापानकर्त्तुर्भार्य्योपक्षक्षकत्वात् भार्य्या यस्य सुरां पिबे-
दिति सामान्यश्रवणात् । पानञ्च द्रवीभूतस्याभ्यव-
हारः स च कण्ठदेशादधोनयनं न तु वक्त्रमात्रप्रवेशः ।
निष्ठीवनाद्यर्थं कपोलधारणे पानशब्दाप्रयोगात्
यथोक्तं “जिघ्रन्नहि सुरां कश्चित् पिवतीत्यभिधीयते ।
यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम्” । तत्र
गण्डूषपरिमाणमविवक्षितं गण्डूपार्द्धपानेऽपि लोके
पानशब्दप्रयोगात् अतएव मुखप्रवेशनमत्राविवक्षितं
किन्तु येन मुखप्रवेशेन कण्ठादधोनयनं मवति अतस्त-
देवोपलक्षयति अतएवोष्ठमात्रलेपे न पाननिष्पतिः
अतस्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम् । एतेन केवलौष्ठसंयोगे
तप्तकृच्छ्रसंस्काराविति वालकस्य व्याख्यानमसङ्गतं
पानानिष्पत्तेरिति ।”
मद्यमेदगुणादिकं भावप्र० उक्तं यथा
“मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा । कादम्बरी
वारुणी च हालापि बलवल्लभा । पेयं यन्मादकं
लोकैस्तन्मद्यमभिधीयते । यथारिष्टं सुरा सीधुरासवाद्य-
मनेकथा । मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम् ।
भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम् । अम्लञ्च
दीपनं रुच्यं पाचनं चाशुकारि च । तीक्ष्णं सूक्ष्मञ्च
विशदं व्ययामि च विकाशि च” । अथारिष्टस्य लक्षणं
गुणाथ “पकोषधाम्बुसिद्धं यस्मद्यं तत्स्यादरिष्टकम्” ।
अरिष्टं मद्यमिति लोके । यथा द्राक्षारिष्टम् । दश
मूलारिष्टम् । वव्वूलारिष्टमिति । “अरिष्टं
लघुपाकेन सर्वतश्च गुणाधिकम् । अरिष्टस्य गुणा ज्ञेया
वीजद्रव्यगुणैः समाः” । अथ सुरालक्षणं गुणाश्च
“शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता । सुरा-
गुर्नी वलस्तन्यपुष्टिमेदःकफप्रदा । शोथहृत् ग्राहि
गुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्” । अथ सुराभेदी
वारुणी तस्या लक्षणं गुणाश्च “पुनर्नवाशिलापिष्टै-
र्वारुणी विहिता स्मृता । संहितैस्तालखर्जूररसैर्या
सापि वारुणी । सुरावद्वारुणी लघ्वी पीनसाघ्मान
शूलनुत्” । सुरातो भेदार्थं लघ्वीति । अथ सीघु-
द्वयस्य लक्षणं गुणाश्च “इक्षोः पक्वैः रसैः सिद्धः
सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सीधुः स च
शीतरसः स्मृतः । सीधुः पक्वरसः श्रेष्ठः स्वराग्नि-
वलवर्णकृत् । वातपित्तकरः सद्यः स्नेहनो रोचनो
हरेत् । विवन्धमेदःशीफार्शःशोथोदरकफामयान् ।
तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ।” अथासवस्य
लक्षणं गुणाश्च “यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं
स आसवः । था लोहासवादिः । “आसवस्य गुणा
ज्ञेया वीजद्रव्यगुणैः समाः ।” अथ नवपुराणमद्य-
गुणाः । “मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम् ।
अहृद्यं वृंहणन्दाहि दुर्गन्धं विशदं गुरु । जीर्णन्त-
देव रोचिष्णु कृमिश्लेष्मानिललापहम् । हृद्यं सुगन्धि-
गुणवल्लघु म्लोतोविशोधनम्” । अथ सात्त्विकानां मद्यं
पिवतां चेष्टाविशेषाः । “सात्त्विके गीतहास्यादि राजसे
साहसादिकम् । तामसे निन्द्यकर्माणि निद्राञ्च
मदिराचरेत्” । आचरेत् कुर्य्यात् “विधिना मात्रया काले हितै-
रन्नैर्यथाबलम् । प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं
यथा । किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम्” । अथ
मद्यानां गन्धनाशनोपायः । “सुस्तैलवालमदजीरक-
धान्यकैला यश्चर्वयन् सदसि वाचमभिव्यनक्ति । स्वाभा-
विकं मुखजमुज्झति पूतिगन्धं गन्धञ्च मद्यलशुनादि-
भवञ्च नूनम् ।” ओषधार्थमपि विप्रैर्मद्यं न पेयम्
मदिराशब्दे राजनि० वाक्यं दर्शितम् ।
पुराणादौ ब्राह्मणस्य मद्यनिषेधो यथा
“अदेयकाप्यपेयञ्च तथैवास्पृश्यमेव च । द्विजातीना-
मनालोच्यं नित्यं मद्यमिति
पृष्ठ ४७३०
प्रयत्नेन मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्मस्थितम् । तस्मात् सर्व-
भ्यस्त्वसम्भाष्यो द्विजोत्तमः । भक्षयित्वाप्यभक्ष्याणि पीत्वा-
पेयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावत्तन्न
जहात्यधः । तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम् । कूर्म
पु० १६ अ० । “द्विजस्य पूजादौ मद्यदानविध्यनुकल्प
निषेधो यथा । “मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु
वामतः । अवश्यं विहितं यत्र मद्यं तत्र द्विजः
पुनः । नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु ।
नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि । ऋते,
पुष्पासवादुक्तात् व्यञ्जनाद्वा विशेषतः । राजपृत्रस्तथा
मर्त्यः सचिवः सौप्तिकादयः । दद्युर्नरबलिं भूप
सम्मत्या विभवाय च । मूपालानुमते मद्यं ददत्
पापमवाप्नुयात्” कालिका पु० ६६ अ० । अथ ब्राह्मणस्य
मद्यपाननिषेधकशुक्रशापो यथा “वैशाम्पायन उवाच ।
सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञानाशं प्राप्य चैवाति-
घोरम् । दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया
मोहितेन । समन्युरुत्थाय महानुभावस्तदोशना विप्र-
हितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद
सुरापानं प्रति वै जातशङ्कः । यो ब्राह्मणोऽद्यप्रभृतीह
कश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः । अपेतधर्मो
ब्रह्महा चैव स स्यादस्मिँल्लोके गर्हितः स्यात् परे च ।
मया चेमां विप्रधर्मोक्तसीमां मर्य्यादां वै स्थापितां सर्व-
लोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवालोका-
श्चोपशृण्वन्तु सर्वे” भा० आ० ७६ अ० । “नारिकेलञ्च
खार्जूरं पानसञ्च तथैव च । ऐक्षवं मधुकं टाङ्कं
तालञ्चैव च माक्षिकम् । द्राक्षन्तु दशमं ज्ञेयं गौड़ं
चैकादशं स्मृतम् । पैष्टन्तु द्वादशं प्रोक्तं सर्वेषामधमं
स्मृतम् । मध्यमं मधुजं गौड़ं शेषञ्चोत्तममिष्यते ।
एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित् । क्षत्रि-
यादिः विवेत् सर्वं पैष्टीमेकन्तु वर्जयेत् । सुरां पीत्वा
द्विजो मोहात् कामात् तक्रादिमिश्रिताम् । त्रैवार्षिकं
व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम् । तक्रादिमिश्रितां
किञ्चित् सुरां पीत्वा ह्यकामतः । कृच्छ्राव्दपाद्यमुच्चर्य्य
पुनः संस्कारमर्हति । मुखप्रवेशमात्रे तु प्रायश्चित्तार्द्ध-
माचरेत् । अनुपनीतो देवेशि! व्रतं त्रैवार्षिकं चरेत् ।
चतुर्थकालाहारी स्याद् ब्रह्मचर्य्यमथापि वा । आपञ्च
वर्षं पतं वा ज्ञानादशं विनिर्दिशेत् । शूद्रस्य च
विशेषेण अतिकृच्छ्रद्वयं चरेत् । स्वजातिसाधिते तस्मिन्
तदर्द्धं व्रतमाचरेत् । पैष्ठीपाने व्राह्मणस्य मरणान्तिक-
सुच्यते । माध्वीगौड़ीसुरापाने द्वादशाब्दं विधी-
यते । इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु । राजन्य-
वैश्ययोश्चापि गौड़ी माध्वी न शस्वते । मोहात् क्षात्रश्च
वैश्यश्च पीत्वा कृच्छ्रद्वयं चरेत् । शूद्रोऽपि गौड़ीं
पैष्टीञ्च न पिवेद्धीनसंस्कृताम् । कामात् पीत्वा सुरां
विप्रो मरणान्तिकमाचरेत् । चरेच्चान्द्रायणं ज्ञानात्
क्षत्रियो वैश्य एव च । षैष्टीपाने तु शूद्रस्य प्राजा-
प्रत्यं विनिर्दिशेत् । ज्ञानादभ्यासयोगे तु चान्द्रायण-
त्रयं स्मृतम् । नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन
तु । क्षत्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति ।
अपक्वं पानसञ्चैव आम्रञ्च वदरं तथा । स्थापयित्वा
घटे नित्यं दद्यादामपयः पलम् । त्रैलौक्यविजयाञ्चैव
मातुलङ्गं तथैव च । समेऽहनि ततो दद्यात् सन्धा-
नात् सत्त्वमीरितम् । दधि मधु घृतञ्चापि माञ्जिष्ठं
तिक्तकं तथा । अनुपाने तु देवेशि! द्राक्षमद्यं सुनि-
श्चितम् । विड़ङ्गं शालयो मूलं समभागेन योजितम् ।
मधुना सह संस्थाप्य शेषपाकं समाचरेत् । पिप्पलीलवणं
दत्त्वा मधुना मद्यमीरितम् । पानसं पक्वखर्जूरमार्द्रं
सोमलतारसम् । पकीकृत्याग्निसन्धानात् खार्जूरं मद्यमी-
रितम् । पक्वतालं दन्तिशाकं ककुभञ्च तथैव च । एतैरेव
सुसन्धानात् तालमद्यं प्रकीर्त्तितम् । इक्षुदण्डं मरीचञ्च
बदरञ्च तथा दधि । शेषे तु लवणं दत्त्वा । इक्षुमद्यं
प्रकीर्त्तितम् । नवं मधु तथा विल्वं पक्वं शर्करया सह ।
सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम् ।
शतावरी टङ्कमूलं लक्ष्मणं पद्ममेव च । मधुना सह सन्धा-
नात् टङ्कमाध्वीकमीरितम् । मालूरमूलं वटरी शर्करा
च तथैव च । एषामेकत्र सन्धानात् मैरेयं मद्यमीरि-
तम् । इन्द्रजिह्वा पक्वनात्री नारिकेलजलन्तथा । कदली-
फलसन्धानन्मद्य तन्नारिकेलजम् । दधि त्रैलोक्यविजया
तथैव च करीकणा । गुड़ेव सह सन्धानात् गौड़ीमद्यं
प्रकीर्त्तितम् । शस्कुलीमर्द्धसिद्धान्नमुष्णोदकसमन्विवम् ।
वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम् ।
शेपेऽहनि तु संज्ञाप्ते जीवनं तत्र निःक्षिपेत् । शृङ्गवेर
मरीचञ्च मातुलङ्गं तथैव च । एतेषामेव सन्धानात्
पैष्टीमद्यं प्रकीर्त्तितम्” मत्स्यसूक्ते १६ पटले । “सिद्धमन्त्री
भवेद्वीरो न वीरी मद्यपानतः । कलौ तु भारते वर्षे लोका
पृष्ठ ४७३१
भारतवासिनः । गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति
हि” उत्पत्तितन्त्रे ६४ पटले । “दीव्यवीरमयो भावः
कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धि-
र्भवेन्नृणाम्” महानिर्वाणतन्त्रम् । “न दद्याद् ब्राह्मणो
मद्यं महादेव्यै कथञ्चन । वामकामो ब्राह्मणो हि मद्यं
मांसं न भक्षयेत्” तन्त्रम् । भैरवतन्त्रे “नारिकेलोदकं
कांस्ये ताम्रे गव्यं तथा मधु । राजन्यवैश्ययोर्देयं न
द्विजस्य कदाचन । एवं प्रदानमात्रेण हीनायु-
ब्राह्मणो भवेत्” । कलौ मद्यपानादिनिषेधो यथा
याज्ञवल्क्यदीपकलिकायां ब्रह्मपु० “नराश्वमेधौ
मद्यञ्च कलौ वर्ज्या द्विजातिभिः” निषेधविषयं
स्पष्टयति उशना “मद्यमदेयमपेयमनिर्ग्राह्यम्” ।
अनिर्ग्राह्यमस्वीकार्य्यमिति कल्पतरुः । कालिकापु० ।
“खगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् । मद्यं
दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते” ।
स्व तिः “ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम् ।
गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” । अतो
मद्यप्रतिनिधिदानमपि न युक्तम्” ति० त० रघु० । मद्य-
तुल्यं यथा “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं
मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना”
कर्मलोचनम् ।

मद्यकीट पु० मद्यजातः कीटः । सुराजाते कीटभेदे हेम० ।

मद्यद्रुम पु० मद्यहेतुर्द्रुमः शा० त० । माडवृक्षे राजनि० ।

मद्यप त्रि० मद्यं पिबति पा--क । १ मद्यपायिनि २ दानवभेदे पु०

हरिवं २४० अ० ।

मद्यपङ्क पु० मद्यस्य पङ्क इव । सुराकल्के (मेओया) हेम० ।

मद्यपाशन न० मद्यपैरश्यते अश--कर्मणि ल्युट् । मद्य-

पानरोचके अवदंशे भक्ष्ये (चाटनी) हेम० ।

मद्यपीत त्रि० पीतं मद्यं येन आहि० परनि० । सुरापान-

कर्त्तरि स्त्रियां ङीप् ।

मद्यपुष्पा स्त्री मद्यं मदसाधनं पुष्पं यस्याः शा० त० । धातक्यां

(धाइफुल) राजनि० ।

मद्यबीज न० ६ त० । किण्वादौ (वाखर्) मद्यकारणे पदार्थजाते हेमच० ।

मद्यवासिनी स्त्री मद्यस्येव वासो गन्धो विद्यते बाहुल्ये

नास्याः इनि । धातकीवृक्षे (धाइफुस) राजनि० ।

मद्यसन्धान न० मद्यस्य मद्योत्पादनार्थं सन्धानम् अभिषवः ।

मद्यात्पादनव्यापारे हेमच० ।

मद्यामोद पु० मद्यस्येव आमोदः गन्धोऽस्य । बकुलवृक्षे राजनि०

मद्र पु० मद--रक् । “विराटपाण्ड्ययोर्मध्ये पूर्वदक्षकभेण च ।

मद्रदेशः समाख्यातः” इत्युक्ते १ देशे २ हर्षे ३ मङ्गले च ।
वृ० सं० १४ अ० ।

मधु न मन--उ नस्य धः । १ मद्ये “गर्ज गर्ज क्षणं मूढ़!

मधु यावत् पिबाम्यहम्” देवीमा० । २ क्षौद्रे “मधु वाता
ऋतायते” इति मधुसूक्तम् । ३ पुष्परसे शब्दर० । “मधु द्विरेफः
कुसुमैकपात्रे” कुमारः । ४ जले च विश्वः ५ मधुररसे च ।
“मधुक्षरन्ति सिन्धवः” इति मधुसूक्तम् । ६ मधुरे त्रि०
७ विष्णुकर्णमलजाते दैत्यभेदे पु० । “विष्णुकर्णमलोद्भूता-
वसुरौ मधुकैटभाविति” देवीमा० कुम्भीनस्याभर्त्तरि ८ दैत्य-
भेदे पु० एवम् ९ वसन्तर्त्तौ १० चैत्रेमामि (मौल) ११ वृक्षभेदे
च मेदि० १२ अशोकवृक्षे हेम० १३ यष्टिमधौ पु० शब्दर०
१४ प्राणिनां शुभाशुभकर्मणि न० विष्णु स० भा० । १५ जीवन्त्यां
स्त्री अमरः । १६ वन्दिभेदे १७ खगभेदे च पु० विश्वः ।

मधुकण्ठ पुंस्त्री० मधुः मधुरः कण्ठोऽस्य । कोकिले त्रिका० ।

स्त्रियां ङीष् ।

मधुकर पुंस्त्री० मधूनि करोति सञ्चित्य निष्पादयति कृ अच् ।

१ भ्रमरे अमरः २ तद्योषिति स्त्री ङीप् । ३ कामिजने
धरणिः । ४ भृङ्गराजे च पु० रत्नमा० मधुभृदादयोऽपि भ्रमरे ।

मधुकर्कटी स्त्री मधुः मधुरा कर्कटी । १ जम्बीरभेदे २ मिष्ट-

खर्जूरिकायाञ्च राजनि० । स्वार्थे क ह्रस्वः टाप् ।
मधुकर्कटिका वीजपूरे ।

मधुका स्त्री मध्विव इवार्थे कन् । १ यष्टिमधौ, २ मधुपर्णीवृक्ष च मेदि० ।

मधुकोष पु० मध्वर्थं कृतः कोषः । (मौचाक) मक्षिकाकृते

कोषाकारे पदार्थे शब्दच० ।

मधुक्षीर पु० मधु मधुरं क्षीरमस्य । खर्जूरवृक्षे । स्वार्थे क तत्रैव ।

मधुखर्जूरी स्त्री मधुर्मधुरा खर्जूरी । अतिमिष्ट-

खर्जूरीभेदे राजनि० ।

मधुच्छदा स्त्री मधुर्मधुरः छदोऽस्याः । मधुरशिखायाम भावप्र०

मधुज न० मधुनो जायते जन ड । १ सिक्थके (मोम) राजनि०

मधुदैत्यमेदोजातायां २ भूमौ स्त्री शब्दच० ।

मधुजम्बीर पु० मधुर्मधुरः जम्वीरः । अतिमिष्टजम्बीरे ।

(कमलालेषु) राजनि० ।

मधुजित् पु० मधुमसुरभेदं जितवान् जि मूते क्विप् । विष्णौ

शब्दरत्ना० मधुशत्रुमधुरिपुप्रभृतयोऽप्यत्र ।

मधुतृण न० कर्म० । इक्षौ त्रिका० । पुंस्त्वं राजनि० ।

मधुत्रय न० मधूनां मधुराणाम् त्रयम् । मधुवृतसितानां त्रये

राजनि० । मधुत्रिकमप्यत्र न० ।
पृष्ठ ४७३२

मधुदूत पु० मधोर्बसन्तस्य दूत इवाग्रसरत्वात् । १ आम्रवृक्षे

त्रिका० २ पाटलायां स्त्री ङीप् भावप्र० ।

मधुद्रव पु० मधुरो द्रवोऽस्य । रक्तशिग्रौ शब्दर० ।

मधुद्रुम पु० मध्वर्थं मद्यार्थं द्रुमः । (मौल) वृक्षभेदे

अमरः । तत्पुष्पेण हि पौष्पमधुसम्भवः ।

मधुधूलि पु० मधुर्मधुरो धूलिरिव । खण्डे (खांड)

गुड़विकारादौ हेमच० ।

मधुधेनु स्त्री० दानार्थं कल्पितायां मधुप्रभृतिद्रव्यकृतधेनौ । धेनुशब्दे ३९०९ पृ० दृश्यम् ।

मधुप पु० मधु पिबति पा--क । १ भ्रषरे अमरः २ मधुप्रायिनि

त्रि० । “प्रारब्धो मधुपैरकारणमहो” इत्युद्भटः ।

मधुपर्क न० पृथ० घञ् मधुनः वर्को योगो यत्र । मधुयुते

कांस्यपात्रस्थे कांस्यपात्रान्तरेणावृते “दधि सर्पिर्जलं
क्षौद्रं सिता चैतैश्च पञ्चभिः । प्रोच्यते मधुपर्कस्तु”
इत्युक्ते दध्यादिद्रव्यपञ्चके ।

मधुपर्णी स्त्री मधु इव हितकरं पर्णं यस्याः । १ गुडूच्याम्

अमरः । २ गाम्भार्य्यां ३ नीलीवृक्षे मेदि० ४ वराहक्रान्ता-
याम् ५ मधुवीजपूरे च राजनि० ।

मधुपालिका स्त्री मधूनि पालयति पाल--ण्वुल् । गाम्भार्य्याम् शब्दमा० ।

मधुपीलु पु० कर्म० । मधुरपीलौ राजनि० ।

मधुपुरी स्त्री मधोर्दैत्यस्य पुरी । मथुरायाम् शब्दरत्ना० ।

मधुपुष्प पु० मधुप्रचुरं पुष्पं यस्य १ मधुद्रुमे (मौलं) रत्नमा०

२ शिरीषवृक्षे, ३ अशोकवृक्षे ४ बकुलवृक्षे च ५ दन्तीवृक्ष
६ नागदन्तीवृक्षे च स्त्री टाप् राजनि० ।

मधुप्रिय पु० मधु मद्यं प्रियं यस्य । १ बलरामे त्रिका० मधु

इव प्रियः । २ भूमिजम्ब्वां जटाधरः ।

मधुफल पु० मधु मद्यं फलं यस्य । १ मधुनारिकेले २

मधुखर्जूरिकायां स्त्री राजनि० टाप् ।

मधुबहुला स्त्री मधु बहुलं यत्र । माधवीलतायाम् राजनि०

मधुमक्षिका स्त्री मधुसञ्चायिका मक्षिका शा० त० (मौमाचि)

सरघायाम् अमरः ।

मधुमज्जन् पु० मधुरः मज्जा सारोऽस्य । आखोटकवृक्षे राजनि० ।

मधुमत् त्रि० मधुर्मधुररसोस्त्यस्य मतुप् । १ माधुर्य्यवति

“मधुमत् पार्थिवं रजः” इति मधुसूक्तम् । २ काश्मरीवृक्षे
३ नदीभेदे राजनि० ४ योगशास्त्रप्रसिद्धे योगिनां चित्त-
वृत्तिभेदे ५ वैदिकप्रसिद्धे “मधु वाता” इत्यादौ ऋक्त्रये
तन्त्रोक्ते ६ देवोनायिकाभेदे च स्त्री ङीप् ।

मधुमर्कटी स्त्री मधुजाता मर्कटी शाक० त० । (सिताखण्ड)

मधुजाते खण्डे ।

मधुमल्लि(ल्ली) स्त्री मल्ल--इन् वा ङीप् मधुप्रधाना मल्लिः

(ल्ली) मालत्यां शब्दमाला ।

मधुमस्तक न० “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः ।

मधुमस्तकमुद्दिष्टम्” शब्दच० उक्ते विष्टकभेदे ।

मधुमूल न० मधु मधुरं मूलम् । (मौआलु) आलुभेदे शब्दच०

मधुयष्टि स्त्री मधुरा यष्टिः काण्डम् । १ इक्षौ २ यष्टिमधौ

शब्द० स्त्री वा ङीप् ।

मधुयष्टिका स्त्री मधुः मधुरा यष्टिरिव इवार्थे कन् । यष्टिमधौ अमरः ।

मधुर पु० मधु माधुर्य्यं राति रा--क, अस्त्यर्थे र वा ।

१ गुड़ादिस्थे मिष्टरसे माधुर्य्यरसवति इक्ष्याढौ च मेदि०
“मधुरया मधुबोधितमाधवी” माघः । ३ प्रिये ४ स्वादौ
च त्रि० मेदि० । ५ रक्तशिग्रौ ६ राजाम्रे ७ रक्तेक्षौ ८ गुडे
९ शाकौ, १० जीरके च पु० राजनि० ११ वङ्गे १२ विषे
च न० मेदि० १३ शतपुष्यायां १४ वष्टिमधौ १५ मधुकर्कटि-
कायां १६ मधूल्यां १७ मेदायां १८ यथुरानगर्य्यां च स्त्री
मेदि० १९ काकोल्यां २० शतानर्य्यां २१ वृहज्जीवन्त्यां
२२ पासङ्कशाके २३ मिश्याञ्च (मौरी) स्त्री । स्वार्थे क ।
अत इत्त्रम् । मिश्याम् स्त्री अमरः ।

मधुरजम्बीर पु० कर्म० । (कमलालेवु) जम्बीरभेदे राजनि० ।

मधुरत्वच पु० मधुरा त्वचा यस्य । धववृक्षे त्रिका० ।

मधुरफल पु० मधुरं फलमस्य । राजबदरे राजनि० ।

मधुरवल्ली स्त्री कर्म० । मधुवीजपूरे जम्बीरभेदे राजनि० ।

मधुरस पु० मधुन इव रसो यस्य । १ इक्षौ भावप्र० । २ ताले

राजनि० । ३ मूर्वायाम् स्त्री अमरः । ४ द्राक्षायां ५ दुग्धि-
कायां स्त्री मेदि० । ६ गाम्भार्य्याञ्च भावप्र० ।

मधुरस्रव स्त्री मधुरं स्रवति ल्यु--अच् । पिण्डखर्जूर्य्याम् राजनि० ।

मधुराम्लक पु० कर्म० । आम्रातके शब्दच० ।

मधु(धू)लग्न पु० मधुर्मधुररसो लग्नो यत्र पृषो० वा दीर्षः ।

रक्तशोभाञ्जने रत्नमाला ।

मधु(धू)लिका स्त्री मधु माधुर्य्यं साति सा--क पृषो० वा

दीर्घः संज्ञायां कन् अत इत्त्वम् राजिकायां (राइसर्षा)
राजनि० ।

मधुलिह् पु० मधु लेढ़ि आस्यादयति सिह क्विप् । भ्रमरे अमरः णिवि । मधुलेहीत्यप्यत्र ।

मधुवन न० मधुदैत्याधिष्ठितं वनम् शा० त० । १ मथुराक्षेत्रस्थे

वनभेदे किष्किन्धास्थे मधुप्रचुरे २ वनभेदे च ।

मधुवर्ग पु० ६ त० । नानाविधमधुगणे भावप्र० दृश्यम् ।

मधुवल्ली स्त्री मधुप्रधाना वल्ली । यष्टिमधौ राजनि० ।

मधुवार पु० मधुनो मद्यस्य वारः क्रमः । पुनःपुनःमद्यपानक्रमे अमरः

पृष्ठ ४७३३

मधु(बी)वीज पु० मधु मधुरं वी(वी)जं यस्य । दाड़िमे राजनि०

मधु(बी)वीजपूर पु० कर्म० । मधुकर्कटिकायाम् राजनि० ।

मधुव्रत पुंस्त्री० मधु तत्सञ्चयो व्रतं सततानुशीलनं यस्य ।

भ्रमरे अमरः स्त्रियां ङीष् ।

मधुशर्करा स्त्री मधुजाता शर्करा शा० त० । (सिताखण्ड)

मधुजातशर्करायां राजनि० ।

मधुशाख पु० गधुर्मधुरा शाखाऽस्य (मौल) वृक्षे शब्दच० ।

मधुशिग्रु पु० मधुः मधुरः शिग्रुः । रक्तशोभाञ्जने अमरः

मधुशेष पु० न० मधुनः शेपः उच्छिष्टम् । सिक्थके (मोम) ।

राजनि० ।

मधुश्रेणी स्त्री मधुनः श्रेणीव । मूर्वायाम् अमरः ।

मधुश्वासा स्त्री मधुन इव श्वसित्यस्मात् श्वस--अपादाने घञ् ।

जीवन्तीवृक्षे राजनि० ।

मधुष्ठील पु० मधु अष्ठीले गर्भेऽस्थ पृषो० । (मौल) गुड़पुष्पवृक्षे अमरः ।

मधुसख पु० मधोर्वसन्तस्य सखा सहचरः टच्समा० ।

कामदेवे मधुसारथ्यादयोऽप्यत्र ।

मधुसूदन पु० मधुं तन्नामासुरं सूदयति, मधु, जीवानां

शुभाशुभकर्म, ज्ञानदानेन सूदयति वा सूद--ल्यु ।
१ श्रीकृष्णे । “भक्तानां कर्मणाञ्चैव सूदनान् मधुसूदनः”
तन्नामनिरुक्तेः । मधु माध्वीकं सूदयति भक्षयति ।
२ भ्रमरे जटा० पुंस्त्री० स्त्रियां ङीष् । मधु इव सूद्यते
भक्ष्यते ल्युट् ङीप् । ३ पालङ्गीशाले स्त्री हेमच० ।

मधुस्रव पु० मधूनि मद्यानि स्ववन्त्यस्मात् स्रु--अप् ।

(मौल) १ वृक्षे २ मोरटलतायां राजनि० । ३ नधुयष्टि-
कायां स्त्री जटा० ४ जीवन्त्यां स्त्री शब्दच० । ५ मूर्वायां
स्त्री राजनि० ।

मधुस्रवस् पु० मधु स्रवति स्रु--असुन् । (मौल) वृक्षे जटाधरः ।

मधुस्वर पुंस्त्री० मधुर्मधुरः खरोऽस्य । १ कोकिले शब्दर०

स्त्रियां ङीष् । २ मधुरस्वरवति त्रि० स्त्रियां टाप् ।

मधुहन् पु० मधुं तन्नामासुरं कर्मफलं वा ज्ञानद्वारा हन्ति

हन् क्विप् । विष्णौ ।

मधूक न० मह--ऊक हस्य धः । १ यष्टिमधौ अमरः ।

(मौल) २ वृक्षे पु० राजनि० ।

मधूच्छिष्ट न० मधुग उच्छिष्टमवशिष्टम् । (मोम) सिक्थके अमरः । मधूज्झितमप्यत्र ।

मधूपघ्न पु० मधुदैत्यस्योपघ्न आश्रयः । मथुरानगरे जटा० ।

मधूल पु० मधु लाति ला--क पृषो० । जलजगिरिजम-

धूशवृक्षयोः जटा० । २ मधुकर्कोञ्चाम् ३ आस्मे ४ क्लीत-
नके च स्त्री गोरा ङीप् राजनि० । सार्थे क
अत इत्त्वम् टाप् । मधूलिका मूर्वायाम् अमरः ।

मध्य पुंन० मन--यत् नस्य धः । १ देहस्यावयवभेदे । (माजा)

“मध्येन सा वेदिविलग्नमध्या” कुमारः । नृत्यादौ-
मन्दत्वशीघ्रत्वभिन्ने २ व्यापारभेदे न० अमरः । ३ पूर्वापरसी-
मयोरन्तराले ४ परार्द्ध्यसंख्यातोऽर्वाचीनायां ५ सङ्ख्यायां
न० ६ तत्संख्याते च । “अन्त्यं मध्यं परार्द्ध्यम्” लीला० ।
ज्योतिषोक्ते ग्रहाणां ७ गतिभेदे स्त्री तद्वति ८ ग्रहे पु० ।
९ न्याय्ये १० अन्तर्वर्त्तिनि च त्रि० शब्दर० । ११ त्र्यक्षरपादके
छन्दोमात्रे वृ० र० ।

मध्यगन्ध पु० मध्ये फलमध्ये गन्धो यस्य । आम्रवृक्षे शब्दच

मध्यतस् अव्य० मध्य + तसिल् । प्रथमापञ्चमीसप्तम्यर्थवृत्ते-

र्मध्यशब्दस्यार्थे ।

मध्यदेश पु कर्म० । “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशना-

दपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तित, मनूक्ते
देशभेदे ।

मध्यदिन न० मध्यं दिनस्य एकदेशिस० । १ मध्याह्ने ।

अलुक्स० । मध्यन्दिनमप्यत्र । तत्र भवे तत्र पुष्पवति
२ वन्दूकवृक्षे राजनि० ।

मध्यपञ्चमूलक न० । “बलापुनर्नवैरण्डसूर्पपर्णीद्वयेन तु ।

एकत्र योजितेनैव स्यान्मध्यं पञ्चमूलकम्” राजनि० उक्ते
पदार्थपञ्चके ।

मध्यपदलोपिन् पु० मध्यपदस्य लोपोऽस्त्यस्य इनि । व्याक-

रणप्रसिद्धे शाकपार्थिवादिके मध्यपदलोपयुते समासभेदे ।

मध्यम त्रि० मध्ये भवः म । १ मध्यभवे । २ सप्तस्वरमध्ये

क्रौञ्चस्वरतुल्ये ३ पच्चमे खरे पु० अमरः ।

मध्यमपाण्डव पु० कर्म० । अर्जुने तस्य पूर्वापरयोर्द्वयोर्द्वयो-

र्मध्यवर्त्तित्वात् तथात्वम् ।

मध्यमभृतक पु० कर्म० । ‘मध्यमस्तु कृषीबल’ इत्युक्ते मध्यमे दासे कृषीवलादौ ।

मध्यमलोक पु० कर्म० । पृथिव्याम् तस्याः पातालस्वर्ग-

लोकयोर्मध्यवर्त्तित्वात् तथात्वम् । “मध्यमलोकपालः”
इति रघुः मध्यलोकोऽप्यत्र ।

मध्यमसंग्रह पु० कर्म० । “प्रेषणं गन्धमाल्यानां धूपभूषण-

वाससाम् । प्रलोभनञ्चास्यपानैर्मध्यमः संग्रहोमतः”
व्यासोक्ते मध्यमे स्त्रीसंग्रहरूपे विवादभेदे ।

मध्यमसाहस न० कर्म० । “वासःपश्वन्नपानानां मृहोपकर-

खस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्”
इत्युक्ते परकीयवस्त्रादेर्भङ्गाक्षेपादिरूपे साहसभेदे
“वणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः
पञ्च विज्ञेयः” मनूक्ते पञ्चपणात्मके २ दण्डभेदे पु० ।
पृष्ठ ४७३४

मध्यमा स्त्री मध्य + म । १ दृष्टरजस्कायां नार्य्याम् २ तर्जन्य-

नामयोरन्तःस्थायामङ्गुलौ, ३ पद्मादीनां कर्णिकायाम्
मेदि० परादिषु मध्ये ४ हृदयोत्पन्नशब्दभेदे पश्यन्ती-
शब्दे ४२८१ पृ० दृश्यम् ५ नायिकाभेदे च ।

मध्यमेश्वर पु० काशीस्थे शिवलिङ्गभेदे ।

मध्यमाहरण न० वीजगणितप्रासद्धे अव्यक्तमानज्ञापके गणनाभेदे ।

मध्यरात्र पु० मध्यं रात्रेः एकदेशिस० अच्समा० । रात्रान्त-

त्वात् पुंस्त्वम् । निशीथे अर्द्धरात्रे हला० ।

मध्यवर्त्तिन् त्रि० मध्ये वर्त्तते वृत--णिनि । वादिप्रति-

वादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादिविषयविमर्श-
पूर्वकं १ तत्त्वनिर्णायके स्वार्थाविरोधेन परार्थसम्पादके,
कार्य्यसम्पादके च २ मध्यस्थे ।

मध्यस्थ पु० मध्ये तिष्ठति स्था--क । १ मध्यवर्त्तिनि २

उदासीने च । “माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे” इति कुमारः ।

मध्याह्न पु० मध्यमह्नः एक० स० टच्समा० अह्नादेशः ।

अह्नान्तत्वात् पुंस्त्वम् । त्रिधा विभक्तदिनस्य १ द्वितीये भागे
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्या-
ह्नस्त्रिमुहूर्त्तं स्यात्” दक्षोक्ते पञ्चधा विभक्तदिनस्य
२ तृतीये भागे च ।

मध्वालु(क) पु० मधुर्मधुर आलुः । (मौ आलु) मूलभेदे ।

स्वार्थे क । तत्रैव ।

मध्वासव पु० मधुना पुष्परसेन कृत आसवः शा० त० । (मौल) मधुद्रुमजाते मद्ये अमरः ।

मन पूजायां सक० गर्वे अक० भ्वा० पर० सेट् । मनति

अमानीत्--अमनीत् मेनतुः ।

मन गर्वे अक० चु० आ० सेट् । मानयते अमीमनत् ।

मन बोधे तना० आ० सक० सेट् । मनुते अमनिष्ट मेने ।

मन बोधे दि० आ० सक० अनिट् । मन्यते । अमंस्त मेने ।

मन धृतौ अद० चु० उ० सक० सेट् । मनयति ते अममनत् त ।

मन पु० मन--अच् । जटामांस्याम् शब्दच० ।

मन आप त्रि० मन आप्नोति आप--अण् उप० स० । मनोज्ञे त्रिका० ।

मन(ण)ड पु० नीस० ता० उक्ते वर्षकालीने ग्रहयोगभेदे

“वक्रःशनिर्वा यदि शीघ्रश्चेटात् पश्चात् पुरस्तिष्ठति
तूर्य्यदृष्ट्या । एकर्क्षसप्तर्क्षभुवा दृशा वा पश्यन्नर्थाशैरधि-
कोनकश्चेत् । तेजो हरेत् कार्य्यपदेत्थशामी स्थितोऽपि
नासौ मन(ण)डः शुभौ न” ।

मनःशिला स्त्री मनःशब्दवाच्या शिला । (मन्छल) रक्त-

वर्णे उपधातुभेदे “मनःशिलाविच्छुरिता निषेदुः”
कुमारः । पृष० वा ह्रस्वे पुंस्त्वमपि । “टङ्कैर्मनःशिल-
गुहैरविदार्य्यमाणेति भरतधृतवाक्यम् ।

मनन न० मन--ल्युट् । १ अनुमाने २ युक्त्या पदार्थनिर्णये च

मनस् न० मन्यतेऽनेन मन--करणे असुन् । सर्वेन्द्रियप्रवर्त्तके

अन्तरिन्द्रिये न्यायमतम् वेदान्तमते २ सङ्कल्पविकल्पा-
त्मकवृत्तिमदन्तःकरणे । तच्च सुखदुःखाद्याधारः “कामः
संकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भी-
रित्येतत् सर्वं मन एव” श्रुतेः । न्यायमते तज्ज्ञानादि-
साधनमिति भेदः । ३ मनःशिलायाञ्च शब्दच० ।

मनसा स्त्री मनं मननं स्यति सो--क । आस्तीकस्य मुने-

र्मातरि वासुकिभगिन्याम् जरत्कारुपत्न्यां नाम्ना
जरत्कारौ जटा० ।

मनसादेवी स्त्री मनसा दीव्यति दिवः करणस्य कर्मत्वात्

कर्मोपदत्वेन अण् ङीप् अलुक्स० । मनसाशब्दार्थे जटा० ।

मनसिज पु० मनसि जायत्रे जन--ड सप्तम्या वा अलुक् ।

१ कामदेवे अमरः । लुकि । मनोजोऽप्यत्र । एवं
चित्तजादयोऽप्यत्र ।

मनसिशय पु० मनसि शेते अच् अलुक्स० । कामदेवे हला०

मनस्कार पु० कृ घञ् मनसःकारोव्यापारभेदः । चित्तस्य

सुखतत्परत्वे अमरः ।

मनस्ताप पु० मनसस्तापः । १ अनुतापे २ मनःपीड़ायाञ्च ।

मनस्विन् त्रि० प्रशस्तं मनोऽस्त्वस्य विनि । १ प्रशस्तमनस्के ।

स्त्रियां ङीप् । “मनस्विनीनां प्रतिपत्तिरीदृशी” कुमारः
२ शरभे पु० राजनि० ।

मनाक् अव्य० मन--आकि । १ ईषदर्थे अमरः “कुतूहलाक्रान्त-

मना मनागभूत्” नैषधम् । २ मन्दे च मेदि० ।

मनाका स्त्री मन आक । हस्तिन्याम् उणादिको० ।

मनाक्कर न० मनाक् करोति कृ--अच् । १ मल्लिकागन्धयुक्ते

अगुरुभेदे शब्दच० । २ ईषत्करे त्रि० ।

मनावी(यी) स्त्री मनोः पत्नी वा ङीप् औङ् च । मनोः

पत्न्याम् । जटाधरमते ऐङ् । मनायीत्येव तत्रार्शे ।

मनित त्रि० भ्वा० मन--कर्मणि क्त । ज्ञाते ।

मनीक न० मन--ईक । अञ्जने उणादिको० ।

मनीषा स्त्री ईष--अङ् ईषा मनस ईषा शक० । बुद्धौ अमरः

मनीषिन् पु० मनीषा अस्त्यस्य इनि । १ पण्डिते अमरः

२ बुद्धियुक्त त्रि० ।

मनु स्त्री मन उ । १ पृक्कायाम् (पिडिङ्गशाक) राजनि० ।

२ मनुपत्न्याञ्च ३ प्रजापतिभेदे, ४ धमशास्त्रकर्त्तरि खाय-
म्भुवादौ मुनिभेदे च पु० । मनवश्च चतुर्दश ते च हरिवं०
७ अ० उक्ता दृश्याः ।
पृष्ठ ४७३५

मनुज पु० मनोः स्वायम्भुवात् जायते जन ड । मनुष्ये अमरः स्त्रियां जातौ ङीष् ।

मनुष्य पु० मनोरपत्यं यत् सुक् च । मानवे जातिभेदे ।

स्त्रियां जातौ टाप् ।

मनुष्यधर्मन् पु० मनुष्यस्येव धर्मो यस्य अनिच् समा० । कुवेरे अमरः ।

मनोगुप्ता स्त्री मनसा मनःशब्देन तच्छब्दवाचात्वात् गुप्ता ।

मनःशिलायाम् अमरः ।

मनोजव त्रि० जु--अच् मनोजवं वेगवत् नमनाय यस्मिन् ।

१ पिवृतुल्ये अमरः । मनस इव जवो यस्य । २
अतिवेगवति त्रि० ३ विष्णौ पु० । ४ अग्निजिह्वाभेदे स्त्री
जटा० । “काली कराली च मनोजवा च” शा० ति० ।
५ दुर्गाशक्तिभेदे ।

मनोजवृद्धि पु० मनोजस्य कामस्य वृद्धिर्यस्मात् ५ ब० । कामवृद्धिकरवृक्षे राजनि० ।

मनोज्ञ त्रि० मनो जानाति ज्ञापयति बोधनाय प्रवणी-

करोति अन्तर्भूतण्यर्थे ज्ञा--क । १ मनोहरे अमरः ।
२ मनःशिलायां रत्नमा० । ३ बन्ध्याकर्कोट्यां, ४ कटभ्यां,
५ जीरके ६ मदिरायाञ्च स्त्री राजनि० । ७ राजपुत्र्यां
जटा० ८ सरलकाष्ठे न० रत्नमा० ।

मनोभव पु० मनसि भवति भू--अच् । कामदेवे मनोभूप्रभृतयोऽप्यत्र ।

मनोरथ पु० मनएव रथोऽत्र, मनसो रथैव वा इष्य-

माणप्रापकत्वात् । इच्छायाम् अमरः ।

मनोरम त्रि० मनोरमयति रम--णिच् अण् उप० स० । १

मनोहरे अमरः । २ गोरोचनायां स्त्री राजनि० । ३ रुचि-
मनुभार्य्यायां स्त्री मार्कपु ।

मनोहत त्रि० मनो हतं यस्य । १ प्रतिहते अमरः २ प्रतिबद्धे च ।

मनोहर त्रि० मनो हरति स्वदर्शनाय हृ--अच् । १ रुचिरे

२ कुन्दवृक्षे पु० शब्दर० । ३ जात्यां ४ स्वर्णयूथ्यां च स्त्री ।
५ स्वर्णे न० राजनि० । णिनि । मनोहारिन् मनाहरे
त्रि० स्त्रियां ङीप् ।

मनोह्वा स्त्री० गनःशब्देनाहूयते ह्वे--घञर्थे क । मनःशिलायाम् अमरः ।

मन्ज मार्जने सक० ध्वनौ अक० भ्वा० पर० सेट् । मञ्जति

अमञ्जीत् ममजतुः ।

मन्तु पु० मन--उन् तुट् च । १ अपराधे २ मनुष्ये ३ प्रजापती च मेदि० ।

मन्त्र पु० मत्रि--अच् । १ गुप्तमाषणे, रहसि कर्त्तव्याव-

धारणार्थमुक्तौ २ देवादीनां साधनार्थं तन्त्राद्युक्ते शब्द-
भेदे, ३ वेदविभागभेदे च । वैदिकतान्त्रिकमन्त्रलक्षणादि
ऋगभेदभाव्योक्तं वह्निपु० २९ अ० उक्तञ्च दृश्यम् ।

मन्त्रकृत् त्रि० मन्त्रं तत्स्मरणं वा कृतवान् कृ--भते क्विप् ।

१ मन्त्रणाकारके २ वेदमन्त्राणां स्मरणकर्त्तरि ३ ऋषिभेदे
पु० परिशिष्टखण्डे दृश्यम् ।

मन्त्रजिह्व पु० मन्त्र एव जिह्वा आस्वादनसाधनं यस्य । अग्नौ

हेमच० । मन्त्रेण दत्तहविरास्त्रादकत्वात्तस्य तथात्वम् ।

मन्त्रणा स्त्री मन्त्रि--युच् । गुप्तभाषणे ल्युट् । तत्रार्थे न० ।

मन्त्रदातृ पु० दा--तृच् ६ त० । गुरौ ।

मन्त्रिन् पु० मन्त्रयते णिनि । धीसचिवे येन सह रहसि

कर्त्तव्यमवसीयते तस्मिन् अमात्ये अमरः ।

मन्थ क्लेशे अक० विलोड़ने सक० भ्वा० पर० सेट् । मन्थति

अमन्थीत् । मथ्यते ।

मन्थ विलोड़े क्य्रा० पर० द्विक० सेष्ट् । मथ्नाति अमन्थीत् । मथ्यते ।

मन्थ पु० मन्थ करणे घञ् । १ मन्थानदण्डे । “सक्तुभिः

सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्युष्णो नाति-
सान्द्रश्च मन्थ इत्यभिधीयते” इत्युक्ते २ पेयभेदे,
“चूर्णे चतुष्पले शीते क्षुण्णद्रव्यं पलं क्षिपेत् । मृत्पात्रे
मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत्” भावप्र० उक्ते
पेयभेदे च । ३ नेत्रमले धरणिः ४ किरणे च शब्दच० ।
भावे घञ् । ५ आलीडनादौ ।

मन्थज न० मन्थात् दधिमन्थनात् जायते जन--ड । नवनीते रत्नमा० ।

मन्थन पु० मथ्यतेऽनेन करणे ल्युट् । १ मन्थानदण्डे शब्दर० ।

भावे ल्युट् । २ विलोडनादौ न० ।

मन्थर न० मन्थ--अरच् । १ कुसुम्भ्याम् । २ कोषे ३ फले, बाधे

मन्थानदण्डे च पु० ५ वक्रे ६ पृथौ ७ मन्दे च त्रि० मेदि०
“मदर्थसन्देशमृणालमन्थरः” नैष० । ८ जड़े शब्दर० ।
९ नीचे हेम० । १० सूचके विश्वः० १ केकैय्याः दास्यां स्त्री ।

मन्थशैल पु० ६ त० । समुद्रमन्थनाय मन्थनदण्डरूपेण

कल्पिते मन्दरपर्वते ।

मन्थान पु० मन्थ--आनच् । १ मन्थनदण्डे अमरः । २ आरग्बधवृक्षे राजनि० ।

मन्द त्रि० मदि--अच् । १ मूर्खे २ मृदौ ३ अभाग्ये ४ रोगिणि

५ अल्पे ६ स्वतन्त्रे ७ खले च हेम० । ८ मदरते ९ शनिग्रहे
१० हस्तिभेदे च पु० मेदि० । ११ यमे त्रिका० । १२ प्रलये
च पु० अजयः । १३ ज्योतिषोक्ते रविसंक्रान्तिभेदे १४ ग्रह-
गतिभेदे च स्त्री ।

मन्दग त्रि० मन्दं गच्छति गम ड १ मृदुगामिनि २

शनिग्रहे पु० शनि, ज्ञानिपुरुष, वृष, हंस, गज, वरस्थियः
इत्येते स्वभावान्मन्दगतयः । णिनि । मन्दगामिन् तत्रार्थे
त्रि० स्त्रीयां ङीप् ।
पृष्ठ ४७३६

मन्दट पु० मन्दं टीकते टीक--ड । पारिभद्रवृक्षे शब्दरत्ना० ।

मन्दता स्त्री मन्दस्य भावः तल् । १ आलस्ये २ जाड्ये च

“उच्चैरस्यति मन्दतामरसतामिति” चन्द्रालोकः ।

मन्दर पु० मदि--अरन् । समुद्रमन्थाने १ पर्वतभेदे २ मन्दार-

वृक्षे मेदि० ३ स्वर्गे ४ हारभेदे हेम० ५ दर्पणे च शब्दर० ।
६ बहुले ७ मन्दे च त्रि० मेदि० ।

मन्दाकिनी स्त्री मन्दमकति अक--णिनि । १ स्वर्गगङ्गायां

“स्वर्गे मन्दाकिनी तथा” पुराणम् । २ संक्रान्तिभेदे च ।

मन्दाक्रान्ता स्त्री “मन्दाक्रान्ता जलधिषड़गैर्म्मौ नतौ

तो गुरू चेत्” वृ० र० उक्ते सप्तदशाक्षरपादके छन्दोभेदे ।

मन्दाक्ष न० मन्दं सङ्कुचितमक्षि यस्मात् षच्समा० ।

१ लज्जायाम् अमरः । ६ ब० २ सङ्कुचितनेत्रे स्त्रियां ङीष् ।

मन्दाग्नि पु० मन्दः पचने अल्पशक्तिकः अग्निः अनलः,

स यस्माह्रा । १ देहस्थे अपचनशक्तिकेऽनले २ तद्धेतौ
रीगभेदे च । तन्निदानादि यथा “मन्दस्तीक्ष्णोऽथ
विषमः समश्चेति चतुर्विधः । कफपित्तानिलाधिक्यात्
तत्साम्याज्जाठरोऽनलः । विषमो वातजान् रोगान्
तीक्ष्णः पित्तसमुन्नतान् । करोत्यग्निस्तथा मन्दो विका-
रान् कफसम्भवान् । समा समाग्नेरशिता मात्रा सम्यग्
विपच्यते । अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः”
भावप्र० ।

मन्दार पु० मदि० आरक् । १ स्वर्गस्थे देववृक्षभेदे २ पारिभद्रवृक्षे

च अमरः ३ हस्ते ४ धूर्त्ते ५ तीर्थगद ६ अर्कवृक्षे च मेदि० ।

मन्दिर न० मन्द्यतेऽत्र मदि--किरच् । १ गृहे २ पुरे च अमरः

तस्य द्विलिङ्गत्वमित्येके । ३ समुद्रे मेदि० ४ जानुपश्चाद्भागे
च पु० हेमच० ।

मन्दुरा स्त्री मदि--उरच् । १ अश्वशालायाम् अमरः । २ शयनीयकटे च (मादुर) मेदि० ।

मन्दोदरी स्त्री मयदानवकन्यायां रावणमहिष्याम् ।

मन्दोष्ण न० मन्दमीषदुष्णम् । १ ईषदुष्णस्पर्शे २ तद्वति त्रि० अमरः

मन्द्र पु० मदि--रक् । १ वाद्यभेदे शब्दर० । २ गम्भीरध्वनौ च ।

अर्श आद्यच् ३ तद्वति त्रि० अमरः ।

मन्मथ पु० मननं मत् मन--क्विप् मथति अच् ६ त० । १ कन्दर्पे

२ कपित्थवृक्षे च अमरः ३ कासचिन्तायां मेदि० ।

मन्मथालय पु० ६ त० । १ आम्रवृक्षे राजनि० २ स्त्रीचिह्नभेदे च ।

मन्या स्त्री सेट्--मन--क्यप् । ग्रीवायाः पश्चाद्देशस्थायां

सिरायाम् अमरः ।

मन्यु पु० मन--युच् न अनादेशः । १ शोके २ दैन्ये ३ क्रतौ

४ क्रोधे च अमरः ५ अहङ्कारे च शब्दर० ।

मन्वन्तर न० मनूनामन्तरमवकाशस्तदुपलक्षितकालो वा ।

१ स्वायम्भुवादिमनूनामधिकारे २ तदुपलक्षिते काले च
सत्ययुगमितवर्षाधिका एकसप्ततिचतुर्युगमिता (३११४४४-
८०००) वर्षास्तदवकाश इति पुराणम् ।

मभ्र गतौ भ्वा० पर० सक० सेट् । मभ्रति अमभ्रीत् ।

मम अव्य० भा--बा० डम । षष्ठ्यर्थवृत्तेः अस्मच्छस्यार्थे तेन ममत्व-

मिति ममतेति च सिध्यति ।

ममता स्त्री मम भावः तल् । १ दर्पे २ अहङ्कारे हेम० । ३ मत्स-

म्बन्धे च । एवं ममत्वमप्यत्र । “तथापि ममतावर्त्ते” इति
“ममत्वं मम राज्यस्य” इति च देवीमा० ।

ममापताल पु० मब आलन् धातोर्बस्य मः अपतुगागमश्च । विषये सि० कौ०

मय गतौ भ्वा० आ० सक० सेट् । मयते अमयिष्ट ।

मय पुंस्त्री० मय--अच् । १ उष्ट्रे २ अश्वतरे स्त्रियां टाप्

३ दानवभेदे च मेदि० ।

मयष्टक पु० मि + अच् मयं प्रक्षेपं स्तकते प्रतिबध्नाति स्तक-

अच् पृषो० सत्वम् । वनमुद्गे अमरः । पृषो० मपष्टक
तत्रार्थे पु० ।

मयु पु० मि--उ । १ किन्नरे अमरः २ मृगे मदि० ।

मयुष्टक पु० मिनोति मि--उ मयुः स्तक--अच् कर्म० पृषो०

षत्वम् । वनमुद्गे पृषो० । मपुष्टकोऽप्यत्र ।

मयूख पु० माङ्--ऊख मयादेशः । १ त्विषि २ किरणे ३

गिखायाम् अमरः ४ शोभायां मेदि० ५ कीले अजय० ।

मयूर पुंस्त्री० मी--ऊरन् । खनामख्याते १ स्वगभेदे स्त्रियां

ङीष् । २ मयूरशिखावृक्षे पु० अमरः । इवार्थे कन्
३ अपामार्गे अमरः । ४ तुत्थाञ्जने (तुँते) न० मेदि० ।

मयूरग्रीवक न० मयूरग्रीवेव कन् । तुत्थे (तुँते) राजनि० ।

मयूरजङ्घ पु० मयूरस्य जङ्घेव मूलमस्य । श्योनाकवृक्षे

राजनि० ।

मयूरतुत्थ न० मयूर इव तद्वर्णं तुत्थम् । तुत्थे (तुँते) राजनि० ।

मयूरविदला स्त्री मयूरैर्विदल्यते मयूर इव विशिष्टदल-

मस्या वा । अम्बष्ठायाम् (आमरुल) वैद्यकम् ।

मयूरशिखा स्त्री मयूरस्येव शिखाऽस्याः । स्वनामख्याते

क्षुपभेदे मयूरचूड़ादयोऽप्यत्र । “नीलकण्ठशिखा लघ्वी
पित्तश्लेष्मातिसारजित्” भावप्र० ।

मयूरिका स्त्री मयूरस्तदाकारी विद्यतेऽस्याः तच्चन्द्रकतुल्य-

दलत्वात् ठन् । अम्बष्ठायाम् राजनि० (आमरुक) ।

मरक पु० मृ--वुन् । १ दैविकभौतिकोपद्रवष्यन्थे प्राणिनाम

कालमरणे (मड़क) २ मारिभवे हेमच० ।
पृष्ठ ४७३७

मरकत न० मरकं मारिभयं तरत्यनेन तॄ--ड । हरिद्वर्णे-

मणिभेदे (पान्ना) अमरः । तल्लक्षणादि परिशिष्टे दृश्यम्

मरकतपत्त्री स्त्री मरकतमिव हरिद्वर्णं पत्त्रमस्याः ङीप् ।

पाच्याम् राजनि० ।

मरण न० म्रियतेऽनेन मृ--करणे ल्युट् । वत्सनाभाख्ये १ विषे

राजनि० । भावे ल्युट् । देहात्मनोर्विच्छेदरूपे, प्राणवायो-
रुत्क्रमणरूपे वा २ व्यापारभेदे ।

मरत पु० मृ--अतच् । मरणे उणा० ।

मरन्द पु० मरं मरणं द्यति भ्रमराणां जीवनहेतुत्वात्

दोक पृषो० मुम् । मकरन्दे शब्दर० ।

मराकाली स्त्री मरो मरणकालिकं दुःखमिवाकति यात्य-

नेन मराको वृश्चिकः स इवालति पर्य्याप्नोति दुःख-
दानाय अल--अच् गौरा० ङीष् । वृश्चिकालौ (विछाति)
रत्नमाला ।

मराल पु० मृ--आलच् । १ राजहंसे जटा० “तत्रामरालय-

मरालमरालकेशी” नैषधम् । २ कज्जले ३ कारण्डवे ४ अश्वे
५ मेघे ६ दाड़िमीवने च सारस्वतः । ७ चिक्वणे त्रि०
त्रिका० ।

मरि(री)च पु० मृ--इच--पृ० वा दीर्घः । १ स्वनामख्याते वृक्षे

अमरः । २ कक्कोलके राजनि० ।

मरि(री)चपत्त्रक पु० मरिचस्येव पत्त्रमस्य कप् । सरलवृक्षे राजनि० ।

मरीचि पु० मृ ईचि । सप्तर्षिमध्ये ब्रह्मणो मानसे ज्येष्ठे

पुत्रे १ मुनिभेदे २ कृपणे च हेमच० । ३ किरणे पुंस्त्री०
अमरः ।

मरीचिका स्त्री मरीचौ सूर्य्यकिरणे कमिव यत्र भ्रान्तौ ।

सूर्य्यकिरणे जलभ्रान्तौ, मृगतृष्णायाम् अमरः ।

मरु पु० मृ उ । १ पर्वते २ निर्जलदेशे च अमरः ३ कुरुवकवृक्षे

भावप्र० ४ देशभेदे च (माड़यार) हेमच० ।

मरुज पु० मरुदेशे जायते जन ड । १ नखीनामगन्धद्रव्ये

शब्दच० । २ निर्जलदेशजाते त्रि० । ३ मृगकर्कोट्याम् स्त्री
राजनि० ।

मरुत् पु० मृ उति । १ वायौ अमरः २ मरुवके भावप्र० ३ देवे

४ ग्रन्धिपर्णे न० मेदि० । ५ पृक्कायां स्त्री शब्दर० ।
स्वार्थे प्रज्ञाद्यण् । मारुतोऽप्यत्र । पृषो० ह्रस्वः ।
मरुतोऽपि देवे च वायौ च व्याडिः ।

मरुत्कर पु० मरुतमपानवायुं करोति कृ--अच् । राजमाषे शब्दच० ।

मरुत्त पु० चन्द्रवंश्ये १ नृपभेदे ।

मरुत्तक पु० मरदिव तकति तक--हासे अच् । मरुवके भावप्र०

मरुत्पथ पु० ६ त० । आकाशे । मरुद्वर्त्मादयोऽप्यत्र ।

मरुत्पाल पु० । मरुतो देवान् पालयति पाल--अण् । इन्द्रे

मरुत्वत् पु० मरुत् पाल्यत्वेन हेतुत्वेन वाऽस्त्यस्य न पदत्वम्

मस्य वः । १ इन्द्रे अमरः । २ हनूमति शब्दर० ।

मरुत्सख पु० मरुतो वायोः सखा--टच्समा० । १ इन्द्रे

धरणिः । २ वह्नौ ३ चित्रकवृक्षे च ।

मरुदान्दोल न० मरुतमान्दोलयत्यनेन करणे घञ् । व्यजने शब्दमाला ।

मरुदिष्ट पु० मरुतां देवानामिष्टः । गुग्गुलौ राजनि० ।

मरुद्भवा स्त्री मरुतो वायोर्भवति वर्द्धते मू--अच् ५ त० । ताम्र-

मूलीक्षुपे (खिराट) रत्नमा० ।

मरुद्रुम पु० मरोर्निर्जलदेशस्य द्रुमस्तत्रजातत्वात् । विट्खंदिरे रत्नमा०

मरुद्वाह पु० मरुत् वाह इव यस्य । १ धूमे त्रिका० २ वह्नौ

शब्दमा० ३ चित्रकवृक्षे च ।

मरुन्माला स्त्री मरुतो भालेव । (पिड़िङ्शाक) पृक्कायाम् अमरः ।

मरुभू पु० मरुर्भूमिर्यत्र (माड़आर) १ देशभेदे त्रिका० । कर्म० ।

२ निर्जलभुवि स्त्री ।

मरुभूरुह पु० मरुभुवि निर्जलभूमौ रोहति रुह--क । करवीरे भावप्र० ।

मरुव पु० मरुं निर्जलदेशं वाति कारणत्वेन वा क । (नाग-

दाना) (मरुआ) वृक्षभेदे । स्वार्थे क । तत्र वृक्षभेदे
(मयना) स्वल्पपत्रतुलस्याम् अमरः । त्तम्बीरभेदे भरतः
पुष्पप्रधाने (मरुयाफुल) वृक्षभेदे रत्नमा० व्याक्रे, राहौ
भयानके च जटा० ।

मरुसम्भवा स्त्री मरौ सम्भवति सम् + भू--अच् ७ त० । क्षुद्र-

दुरालभायाम् राजनि० मरुस्थादयोऽप्यत्र ।

मरूद्भवा स्त्री मरौ उद्भवति उद् + भू--अच् ७ त० । १ कार्पास्यां

२ क्षुद्रखदिरे ३ यवासे च राजनि० ।

मर्क गतौ सौ० पर० सक० सेट् । मर्कति अमर्कीत् ममर्क ।

मर्कट पुंस्त्री० मर्क--अटन् । १ वानरे अमरः । स्त्रियां ङीष्

२ उर्णनाभे (माकड़सा) ३ स्थावरविषभेदे हेमच० (हाड़-
गिला) ४ पक्षिभेदे च पुंस्त्री० त्रिका० स्त्रियां ङीष् ।
स्वार्थे क । मर्कटक तत्रैव संज्ञायां कन् । मत्स्यभेदे
दैत्यभेदे च शब्दर० ।

मर्कटतिन्दुक पु० कर्कटप्रियस्तिन्दुकः शाक० त० । कुपीलौ भावप्र० ।

मर्कटपिप्पली स्त्री० मर्कटप्रिया पिप्पली शाक० त० ।

अपामार्गे राजनि० ।

मर्कटप्रिय पु० ६ त० । क्षीरद्वक्षे (खिरुइ) शब्दमा० ।

मर्कटवासस् पु० ६ त० । (माकडसाजाल) लूतासूत्रे शब्दर०

मर्कटशीर्ष न० मर्कटस्य वानरस्य शीर्षमिव । हिङ्गुले रत्नमा०

पृष्ठ ४७३८

मर्कटास्य मर्कटस्य वानरस्यास्यमिव रक्तत्वात् । १ ताम्रवर्णे

हेम० २ तद्वति त्रि० ।

मर्कटी स्त्री मर्कटोस्त्यस्याः स्निग्धत्वेन अच् गौ० ङीष् ।

१ अपामार्गे २ अजमोदायाम् राजनि० ३ करञ्जभेदे
(माकड़करमचा) अमरः । ४ मर्कटीजाले पिङ्गलः ।

मर्कटीजाल न० छन्दोग्रन्थोक्ते मात्रावर्णप्रस्तावे लघुगुरु

स्थानविशेषज्ञानाय चक्रभेदे वृ० र० ग्रन्थटीकायां दृश्यम् ।

मर्कर पु० मर्क--अरच् । १ भृङ्गराजे (केशुरिया) २ भाण्ड च

२ सुरङ्गायां ४ बन्ध्यायां स्त्रियाञ्च स्त्री विश्वः टाप् ।

मर्च ग्रहणे चु० उभ० सक० केट् । मर्चयति--ते अममर्चत्--त

मर्जु पु० मृज--उन् । १ रजके २ पीठमर्दे च हेमच० ।

३ शुद्धौ स्त्री मेदि० ।

मर्त्त पु० मृ--तन् । १ मनुष्ये २ भूलोके च । तत्र भवः यत् ।

मर्त्त्य मनुष्ये ।

मर्द्दन न० मृद--ल्युट् । १ गात्रपादादिसंवाहने अमरः २ चूर्णने च ।

मर्द्दल पु० भृद--घञ् मर्द्दं लाति ला--क । वाद्यभेदे

(माँदल) । अमरः ।

मर्द्दित त्रि० चु० मृद--क्त । १ चूर्णिते २ ग्रन्थिते च भरतः ।

मर्ब गतौ भ्वा० पर० सक० सेट् । मर्बति अमर्बीत् ममर्ब!

मर्म्मज्ञ पु० मर्म जानाति ज्ञा--क । तत्त्वज्ञे । मर्मबिदा-

दयोऽप्यव!

मर्मन् न० मृ--मनिन् । १ जीवनस्थाने राजनि० । २ सन्धिस्थाने

३ तात्पर्व्ये च “अपि धर्मागमनर्मपारगैरि” ति नैषधम् ।
“सन्निपातः सिरास्नायुसन्धिमांसास्थिसम्भवः । मर्माणि
तेषु तिष्ठन्ति प्राणाः खलु विशेषतः” भावप्र० ।

मर्म्मर पु० मृ--अरन् मुट् च । १ वस्त्रपर्णानां शब्दे (मड़मड़)

इत्यव्यक्तशब्दे अमरः । २ पीतदारुणि ३ हरिद्रायाञ्च
स्त्री मेदि० गौरा० ङीष् ।

मर्म्मस्पृश् त्रि० मर्म्म प्राणस्थानं स्पृशति स्प्रश--क्विन् ।

अरुन्तुदे मर्मपीड़के अमरः ।

मर्माविध् त्रि० मर्म्म सन्धिस्थानं विध्यति विध--क्विप् पूर्वदीर्घश्च । ममेपीदृके ।

मर्य्या अव्य० म्रियतेऽवशिष्यतेऽत्र मृ--यत् । १ सीमायाम् स्त्री

त्वमपि राय० । कर्त्तरि यत् । २ मनुष्ये पु० । “पेशो मर्य्या
अपशमे” इति केतुमन्त्रः । “मर्य्यामनुष्या” इति भाष्यम् ।

मर्य्यादा स्त्री मर्य्यायां सीमायां दीयते दा--घञर्थे क

पर्य्यादीयते वा परि + आ--दा--अङ् पृषो० पस्य मः ।
१ न्याय्यपथस्थितौ अमरः । २ सीमायाम् जटा० ३ कूले च
हेमच० ।

मर्व पूर्त्तौ भ्वा० पर० सक० सेट् । मर्वति अमर्वीत् ममर्व ।

मल धृतौ भ्वा० आ० अक० सेट् । मलते अमलिष्ट ।

मल पु० मृज्यते शोध्यते मृज--कल--टिलोपः । १ पापे २ पुरीषे

लौहादीनां ३ किट्टे अमरः । किट्टं कलङ्को मण्डूरा-
दिर्देहजातस्वेदश्लेष्मादिश्च । “वसा शुक्र समृङ्मज्जा-
मूत्रं विट्कर्णविड्नखाः । श्लेष्माश्रु दूषिका स्वेदो
द्वादशैते नृणां मनाः” स्मृतिः । ४ कर्पूरे शब्दच०
५ वातपित्तकफेषु च माधवः । ५ दुष्टे ६ सम्बन्धे च ।

मलघ्न पु० मलं विष्ठां हन्ति रेचयति हन--क । १ शाल्मलीकन्दे

२ नागदमन्यां स्त्री ङीप् राजनि० । ३ मलनाशके त्रि० ।
क्विप् । मलहन् तत्रार्थे त्रि० ।

मलदूषित त्रि० ३ त० । मलिने अमरः ।

मलद्राविन् पु० मलं द्रावयति रेचयति द्रु--णिच्--अण् ।

जयपाले राजनि० । तत्फलस्य रेचकत्वात् तथात्वम् ।

मलपू स्त्री मलं मलस्थानं पुनाति पू--क्विप् । काकोडुम्ब-

रिकायाम् अमरः ।

मलभेदिनी स्त्री मलं भेदयति रेचयति भिद--णिच्-

णिनि । कटुकायाम् । (कट्की) राजनि० ।

मलमास पु० मलो दुष्टो मासः । “अमावस्याद्वयं यत्र

रविसंक्रान्तिवर्जितम् । मलमासः स विज्ञेयः” इत्युक्ते
रविसंक्रान्तिशून्ये शुक्लप्रतिपदादिदर्शान्तरूपे चान्द्रे मासे ।
अधिमासशब्दे १३१ पृ० दृश्यम् ।

मलय पु० मल--कयन् । दक्षिणस्थे १ पर्वतभेदे हेम० । यत्र

चन्दनजन्म तत्पर्वतान्तिकस्थे २ देशभेदे ३ उपवने ४ शैलाङ्गे
च मेदि० । ५ नन्दनवने धरणिः । अष्टादशसु द्वीपेषु
६ द्वीपभेदे शब्दमा० ७ ऋषभदेवस्य पुत्रभेदे भाग० ५ । ४ ।

मलयज पुंन० मलये पर्वते जायते जन--ड । १ चन्दने

अमरः २ मलयदेशजाते वायौ पु० । ३ तद्देशजाते त्रि० ।

मलया स्त्री मलयो देशोऽस्त्यस्याः कारणत्वेन अच् । त्रि-

वृतायां (तेओडि) मेदि० ।

मलविनाशिनी स्त्री मलं तद्दोषं विनाशयति वि +

नशणिच्--णिनि । शङ्खपुष्प्याम् राजनि० ।

मलाकर्षिन् पु० मलमाकर्षति आ + कृष--णिनि । हड्डिके

(मेतर) शब्दमा० ।

मलाका स्त्री मल--आक । १ कामिन्यां २ दूत्यां ३ हस्तिन्याञ्च सक्षिप्तमा० ।

मलारि पु० मलस्य कलङ्ककिट्टादेररिः । सर्वक्षारद्रव्ये राजनि०

मलिन त्रि० मल + अस्त्यर्थे इनन् । १ मलयुक्ते अमरः । २ द्रषिते

३ कृष्णे च मेदि० । ४ घोले न० शब्द च० । ५ दोषे हेम०
६ टङ्कणे न० राजनि० (सोहागा) । इनि । मलीत्यप्यत्र
पृष्ठ ४७३९

मलिनमुख पु० मलिनं मुखं यस्य १ वह्नौ तस्यादौ धूमाय

मानत्वेन कृष्णत्वात् २ चित्रकवृक्षे च । ३ वानरे पुंस्त्री०
मेदि० स्त्रियां ङीष् ४ क्रूरे ५ खले च त्रि० मेदि० ६ प्रेते हेम० ।

मलिम्लुच पु० मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचति

गच्छति म्लुच--क । १ मलमासे २ वायौ ३ अग्नौ ४ चौरे च
मेदि० । ५ चित्रकवृक्षे ।

मलीमस त्रि० मल--ईमसच् । १ मलिने अमरः । २ लौहे ३ पुष्पकासीसे च मेदि० ।

मल्ल धृतौ भ्वा० आ० अक० सेट् । भल्लते अमल्लिष्ट ममल्ले ।

मल्ल पु० मल्ल--अच् । १ बाहुयुद्धकारके नियोद्धरि २ पात्रे

३ वलीयसि ४ मत्स्यभेदे ५ कपोले च मेदि० ६ ब्रात्यक्षत्रि-
यात् सर्ववर्णायां जाते जातिभेदे (माल) ७ सङ्कीर्ण-
जातिभेदे लेटात् श्रीधरकन्यायां जाते सङ्कीर्णवर्णे
(माला) ब्रह्मवै० पु० ६ तन्त्रवाय्यां कुन्दकाराज्जाते सङ्कीर्ण-
जातिभेदे च पुंस्त्री० स्त्रियां जातित्वात् ङीष् । ९ देशभेदे
स्वार्थे क मल्लक तत्रार्थे । संज्ञायां कन् । दन्ते हेम० ।

मल्लक पु० मल्ल्यते ध्रियतेऽत्र मल्ल--वुन् । १ दीपाधारे पात्रे

२ नारिकेलफलजाते पात्रे च (माला) अमरः । ५ प्रदीपे
मथुरेशः ६ स्वनामपुष्पे स्त्री अमरः टाप् अत इत्त्वम् ।

मल्लज न० मल्ले देशे जायते जन--ड । मरिचे जटा० ।

मल्लभू स्त्री मल्लक्रीड़नस्य बाहुयुद्धस्य योग्या भूः स्थानम् ।

देशभेदे । मल्लभ्म्यादयोऽप्यत्र ।

मल्लयुद्ध ६ त० । बाहुयुद्धे तत्प्रकारः भा० वि० १२ अ० ।

मल्लार पु० मल्ल इव ऋच्छति ऋ--अच् । १ रागभेदे २ वसन्त-

रागस्य रागिणीभेदे स्त्री ङीप् सङ्गीतदामो० ।

मल्लि(ल्ली) स्त्री मल्ल--इन् वा ङीप् । १ मल्लिकायाम् शब्दमा०

संज्ञायां कन् । मल्लिका कृष्णवर्णदेहे आलोहितचञ्चु-
चरणे २ हंसभेदे पुंस्त्री० मल्लिकाक्षोऽप्यत्र ।

मल्लिकापुष्प पु० मल्लिकाया इव पुष्पमस्य । १ कुटजवृक्षे

राजनि० । २ करुणवृक्षे च हेमच० । ६ त० । ३ मल्लि-
कायाः कुसुमे ।

मल्लिपत्र न० मल्लिरिव पत्त्रमस्य । छत्राके त्रिका० ।

मव बन्धे भ्वा० पर० सक० सेट् । मवति अमवीत् अमाकीत् ।

मव्य बन्धे भ्वा० पर० सक० सेट् । मव्यति अमव्यीत् ।

मश ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मशति

अमशीत्--अमाशीत् मेशतुः ।

मशक पु० मश--वुन् । १ कीटभेदे (मशा) राजनि० । २ चर्म-

मयजलपात्रभेदे ३ रोगभेदे शब्दर० । तद्रोगलक्षणं यथा
“अवेदनं स्थिरं चैव यत्तु गात्रे प्रदृश्यत । माषवत्
कृष्णमुत्पन्न मलिनं मशकं दिशेत्” गरु० पु० १७५ अ० ।

मशकिन् पु० मशकोऽस्त्यस्य इनि । उदुम्बरवृक्षे हेम० ।

मशहरी स्वी मशं मशकं हरति हृ--ट । मशकनिवारणार्थे

वस्त्रनिर्मिते पदार्थे चतुष्क्याम् जटा० ।

मशि(सी) स्त्री मश(स) इन् वा ङीप् । (काली) १ पत्र-

लेखनद्रर्व्ये त्रिका० । २ नीलशेफालिकावृक्षे च शब्दर० ।

मष बधे भ्वा० पर० सक० सेट् । मषति अमषीत् अमाषीत् ।

मस परिणामे अक० परिमाणे सक० दि० पर० सेट् । मस्यति

इरित् अमसत् अमसीत् अमासीत् । पुषादिरयं तेन
अमसदित्येवेति पाणिनीयाः ।

मसन न० मस--ल्यु । सोमराजीवृक्षे शचब्द० ।

मसरा स्त्री मस--अरच् । मसूरे जटा० ।

मसिका स्त्री मसीव इवार्थे कन् । नीलशेफालिकायाम्

शब्दर० ।

मसि(सी)जल न० मसिमिश्रितं जलम् । (काली) लेखनद्रव्ये त्रिका०

मसिधान न० मसिर्धीयतेऽत्राधारे धा--ल्युट् । मस्याघारे

(दोआत) स्त्रीत्वमपि तत्र ङीप् ।

मसिपण्य पु० मसिस्तदुपलक्षितमक्षरमेव पण्यं विक्रेयं

यस्य । लेखनोपजीविनि त्रिका० ।

मसिप्रसू स्त्री मस्याः प्रसूरिव । १ मस्याधारे । मसिः

प्रसूरिव यस्याः । २ लेखन्याम् हारा० ।

मसीना स्त्री मस--ईनन् । अतस्याम् (तिसि) शब्दच० ।

मसु(सू)र पुंस्त्री० मस--उरच् ऊरच् वा । १ कलायमेदे त्रिका

स्त्रियां गौरा० ङीष् । २ वेश्यायां, ३ ब्रीहिभेदे च स्त्री
र्ठाप् मेदि० ।

मसूरविदला स्त्री मसूरस्येव विदलं यस्याः । १ कृष्णत्रिवृति

(कालतेओटी) अमरः । २ श्यामलतायां रत्नना० ।

मसूरिका स्त्री मसूरेव इवार्थे कन् । १ वसन्तरोगे २ कुट्टि-

न्याञ्च शब्दमा० “कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः ।
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः । क्रुद्धग्रहेक्षणा-
च्चापि देशे दोषाः समुद्धताः । जनयन्ति शरीरेऽस्मिन्
दुष्टरेक्ते समुद्धताः । मसूराकृतिसंस्थानाः पिड़क्राः
स्युर्मसूरिकाः” भावप्र० ।

मसूरी स्त्री मस--ऊरच् गौरा० ङीष् । १ वसन्तरोगे मेदि०

२ त्रिवृति, ३ रक्तत्रिवृति च राजनि० ।

मसृण त्रि० मस--ऋण, सम् + ऋण--क पृषो० वा । १ स्निग्धे

२ अकर्कशे च । ३ अतस्यां स्त्री मेदि० ।
पृष्ठ ४७४०

मस्क गतौ भ्वा० पर० सक० सेट् । मस्कति अमस्किष्ट ।

मस्कर पु० मस्क--अरच् । १ वंशे अमरः । २ रन्ध्रयुक्तवंशे च

राजनि० । भावे अरच् । ३ गतौ ४ ज्ञाने च ।

मस्करिन् पु० मस्करो ज्ञानं गतिर्वास्त्यस्य इनि, मा कर्त्तुं

कर्म निषेद्धुं शीलमस्य मा + कृ--इनि “मस्करमस्करिणा-
विति” निवा० । १ परिव्राजके विधानेन स्वकर्मपरित्याजके
भिक्षौ अमरः । “धारयन् मस्करिव्रतम्” मट्टिः २ चन्द्रे
च शब्दच० ।

मस्ज स्नाने तु० पर० अक० अनिट् । मज्जति

अमाङ्क्षीत् । ओदित् क्त मग्नः । ट्वित् अथु मज्जथुः ।

मस्त(क) न० मस्मति परिमात्यनेन मस--करणे त । १ उच्चे त्रि० ।

२ शिरसि च स्वार्थे क । ३ उत्तमाङ्गे पुंन० ।

मस्तकस्नेह पु० ६ त० । शिरःस्थितमज्जायाम् मस्तिष्के हेमच० ।

मस्तदारु न० मस्यति परिमात्यनेन मस्तमुच्चं कर्म० । देवदारुणि

भावप्र० ।

मस्तमूलक न० मस्तस्य मूलमिव इवार्थे कन् । शिरोधरायाम् ग्रीवार्वायाम् शब्द च० ।

मस्तिष्क न० मस--क्तिन् मस्तिं पतिणतिभेदं मुष्कति मुष्क

गतौ अच् पृषो० । मस्तकस्थे स्वेहाकारे पदार्थे (मगज)
अमरः । मांसमस्तिष्कपङ्क प्राग्भारे” प्रवोघचन्द्रोदयम् ।

मह पूजायां भ्वा० पर० सक० सेट् । भहति अमहीत् मेहतुः ।

मह वृद्धौ भ्वा० आ० अक० सेट् इदित् । भहते अमंहिष्ट ।

मह पूजने अद० चु० उभ० सक० सेट् । महयति--ते

अममहत्--त ।

मह पु० मह--घञर्थे क । १ उत्सवे सततानन्दजनकव्यापारे

अभरः । २ तेजसि मेदि० । ३ यज्ञे पु० ४ महिषे च पुंस्त्री०
हेमच० ।

महत् त्रि० मह--अति । १ विपुले २ वृद्धे च स्त्रियां ङीप्

महती ३ राज्ये न० मेदि० । ४ साङ्ख्योक्ते महत्तत्त्वे पु०
“प्रकृतेर्महानिति” श्रुतिः । “मनो महान् मतिर्ब्रह्मा”
इत्युक्ते ५ हिरण्यगर्भलिङ्गदेहे शा० भा० सर्वनामस्थाने
नुम्दीर्थौ महान् महान्तौ एकार्थशब्दे परे समासे
तस्थाने आ । महाधनम्

महती स्त्री मह--अत् + गौरा० ङीष् । १ वीणाभेदे अमरः

२ नारदवीणायाम् भरतः । “अवेक्षमाणं महतीं मुहुर्मुहुः”
माघः । ३ वृहत्यां ४ वार्त्ताक्यां ५ विपुलायां स्त्रियाञ्च
राजनि० । समासे तीस्थाने आ । महत्या० घासः
महाघासः इत्यादि ।

महत्तत्त्व न० कर्म० । सांख्योक्तप्रकृत्यादिचतुर्विंशतितत्त्वमध्ये

प्रकृतिकार्य्ये अहङ्कारादिकारणे निश्चयात्मकवृत्तिविशिष्टे
तत्त्वभेदे ।

महर् अव्य० मह--अरु । १ ऊर्ध्वस्थे चतुर्थे लोके २ व्याहृतिभेदे च ।

महर्लोक पु० कर्म० । भूरादिषु ऊर्ध्वस्थे सप्तलोकान्तर्गते

चतुर्थे लोके

महर्षि पु० कर्म० । परमर्षिशब्दार्थे वेदव्यासादौ त्रिका० ।

“ऋषिर्हंसागतौ धातुर्विद्यासत्यतपःश्रुतैः । एष सन्नि-
चयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः । विवृतिसम-
कालन्तु बुद्ध्या व्यक्तमृषिस्त्वयम् । ऋषते परमं यस्मात्
परमर्षिस्ततः स्मृतः । गत्यर्थादृषतेर्धातोर्नाम निर्वृति-
कारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता ।
तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः । विवर्द्ध-
मानैस्तैर्बुद्धा महान् परिगतः परम् । यस्मादृषिः
परत्वेन महांस्तस्मान् महर्षयः” मत्स्यपु० १२० अ० तन्निरुक्तिः

महल्लिक पु० “मुष्कशून्योऽनुपस्थो यः स्त्रीस्वभावो

महल्लिकः शब्दमालोक्ते अन्तःपुररक्षकभेदे (खोजा) ।

महस् न० मह--असुन् । १ तेजसि २ उत्सवे च मेदि० ३ यज्ञे

शब्दर० ।

महा स्त्री मह--अच् । (गोरक्षचाकलिया) १ गोपवल्ल्याम् शब्दच० । २ स्त्रीगव्यां शब्दर० ।

महाकण्टकिनी स्त्री महत् कण्टकमस्त्यस्य भूम्ना इनि ङीप्

(फणिमनसा) वृक्षभेदे शब्दच० ।

महाकन्द पु० कर्म० । १ लशुने अमरः । २ राजपलाण्डौ ३ मूलके च शब्दर०

महाकपित्थ पु० कर्म० । १ बिल्ववृक्षे त्रिका० । ३ रक्तलशुगे

४ चाणक्यमूलके राजनि० ।

महाकरञ्ज पु० कर्म० । करञ्जभेदे (काँटाकरमचा) राजनि०

महाकर्णिकार पु० कर्म० । आरग्बधे (सोंदाल) राजनि०

महाकाय पु० ६ ब० । १ शिवानुचरभेदे नन्दिनि त्रिका०

२ हस्तिनि पुंस्त्री० स्त्रियां टाप् । २ विपुलदेहयुते
त्रि० । कर्म० । ४ स्थूलदेहे पु० ।

महाकार्त्तिकी स्त्री कार्त्तिकीमधिकृत्य “प्रजापत्यं यदा{??}क्षं

तथैतस्यां नराधिप! । सा महाकार्त्तिकी प्रोक्ता”
उक्तायां रोहिणीनक्षत्रयुक्तायां कार्त्तिकपौर्णमास्याम् ।

महाकाल पु० कर्म० । १ अनवच्छिन्ने काले, २ शिवे च

“महाकालेन च समम्” कालिकाध्यानम् । (माकाल)
३ लताभेदे रत्नमा० । ४ भैरवभेदे च “महाकालं यजेद्देव्या
दक्षिणे धूम्रवर्णकम्” इति कालीतन्त्रम् ।

महाकाव्य न० कवेः कर्म काव्यं कर्म० । सर्गवन्धरूपे अष्टा-

धिकमर्गके ग्रन्थभेदे तल्लक्षणं साहित्यदर्तणे ६ प० दृश्यम्
पृष्ठ ४७४१

महाकुम्भी स्त्री महती कुम्भीव (पाना) कट्फले राजनि० ।

महाकुल न० कर्म० । “दशपुरुषविख्यातं श्रोत्रियाणां

महाकुलम्” इति मनुनोक्ते दशपुरुषावधिवेदाध्यायिवंशे ।

महाकुलीन त्रि० महाकुले भवः खच् । महाकुलोद्भवे ।

महाकोशफला स्त्री कर्म० । देवदालीलतायाम् राजनि० ।

महाकोषातकी स्त्री कर्म० । हस्तिघोषायाम् राजनि० ।

महागन्ध न० महान् गन्धोऽस्य । १ हरिचन्दने २ वोले च

राजनि० । ३ जलवेतसे वृक्षे पु० शब्दच० । ४ नागबलायां
५ कविकायां न्व स्त्री राजनि० । ६ चामुण्डायां स्त्री हेम०

महागुरु पु० कर्म० । “त्रयः पुरुषस्यातिगुरवो भवन्ति

पिता माता चाचार्य्यश्च” स्मृत्युक्ते पुरुषस्य १ पित्रादौ
“पतिरेकोगुरुः स्त्रीणा” मित्युक्ते दत्तकन्याया २ भर्त्तरि
अदत्तकन्यायाः पितरि, मातरि च । “महागुरुनिपाते च
काम्यं किञ्चिन्नचाचरेत्” स्मृतिः ।

महागुल्मा स्त्री महान् गुल्मोऽस्याः । सोभवल्ल्याम् राजनि०

महागुहा स्त्री महती गुहेव मूलमम्याः । पृश्निपर्ण्याम्

राजनि० ।

महाग्रीव पुंस्त्री० महान् ग्रीवाऽस्य ।

१ उष्ट्रे राजनि० स्त्रियां ङीष् । २ दीर्घग्रीवायुक्ते त्रि० स्त्रियां टाप् ।

महाघोषा स्त्री घष्यते कर्मणि घञ् कर्म० । १ कर्कटशृ-

ङ्ग्याम् । (काकड़शिङे) मेदि० । २ कुन्दुरुक्यां शब्दच० ।
महान् घोषोऽस्य अत्र वा । ३ विपुलशब्दवति त्रि० ।
४ हट्टे न० मेदि० ।

महाङ्ग पुंस्त्री० महदङ्गमस्य । १ उष्ट्रे स्त्रियां ङीष् ।

२ गोक्षुरके ३ रक्तचित्रके च राजनि० । ४ विपुलावयवयुते त्रि० ।
कर्म० । ५ विपुलाङ्गे न० ।

महाच्छद पु० महान् छदोऽस्य । देवताड़वृक्षे रत्नमा० ।

महाच्छाय पु० महती छाया यस्य । १ वटवृक्षे राजनि० ।

२ विपुलच्छायायुक्ते त्रि० ।

महाच्छिद्रा स्त्री महत् छिद्रमस्याः । महामेदायाम् राजनि०

महाजटा स्त्री महती जटा यस्याः । १ रुद्रजटावृक्षे

राजनि० । २ विपुलजटायुते त्रि० । कर्म० । ३ वृहत्यां,
जटायाम् स्त्री ।

महाजन पु० कर्म० । वेदवाक्येषु श्रद्धावति जने । “महा-

जनो येन गतः स पन्थाः” भा० व० यक्षप्रश्नः ।

महाज(म्बु)म्बू स्त्री कर्म० । राजजम्बाम् रत्नमा० । दीर्घान्तः

भावप्र० “राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम्” ।

महाजाली खी कर्म० । १ पीतवर्णघोषाम्भम् अमरः ।

२ राजकोषातक्या राजनि० ।

महाज्यैष्ठी स्त्री “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये

रविस्तथा । पूर्णिमा रविवारेण महाज्यैष्ठी प्रकीर्त्तिता”
उक्तलक्षणायां ज्यैष्ठपौर्णमास्याम् । “महाज्यैष्ठ्यां तु
यः पश्येत् पुरुषः पुरुषोत्तमम्” प्रा० त० लक्षणान्तरं दृश्यम्

महाज्योतिष्मती स्त्री कर्म० । (बड़मालकाङ्गिनी) लताभेदे

राजनि० ।

महाढ्य पु० महेन उत्सवेनाट्यः । १ कदम्बे राजनि० । कर्म० । २ महति प्रभौ त्रि० ।

महातरु पु० कर्म० । १ स्तुहीवृक्षे हेमच० । २ विपुलवृक्षे च ।

महातल न० कर्म० । अधःस्थेषु पातालेषु मध्ये पञ्चमे

पाताले शब्दमा० ।

महातारा स्त्री कर्म० । तन्त्रोक्ते १ तारिणीभेदे २ जिनदेव्यां हेमच० ।

महाताली स्त्री कर्म० । विपुलतालीभेदे राजताल्याम् राजनि०

महातिक्त पु० कर्म० । १ निम्बवृक्षे राजनि० । २ अतिशय-

तिक्तरसयुते त्रि० । ३ यवतिक्तायां स्त्री राजनि० ।
४ पाठायां शब्दमा० ।

महातीक्ष्णा स्त्री कर्म० । १ भल्लातवृक्षे (भेला) राजनि० २ अतितीव्रे त्रि० ।

महातेजस् पु० महत् तेजोऽस्य । १ पारदे राजनि० । २

अतितेजस्विनि त्रि० । ३ कार्त्तिकेये हला० । ४ वह्नौ पु० शब्दच० ।
५ चित्रकवृक्षे च ।

महात्मन् न० महान् आत्मा स्वभाव आशयो वा यस्य । महाशये ।

महादान न० कर्म० । विनायकादिसूक्तजपाङ्गके तुला-

पुरुषादिषोड़शदाने “अथातः संप्रवक्ष्यामि महादानस्य
लक्षणम्” इत्युपक्रम्य “आद्यन्तु सर्वदानानां तुला-
पुरुषसंज्ञकम्” इत्यादिना षोड़शदानान्यभिधाय “विना-
यकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम् । ब्रह्मा-
च्युतेशार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात् ।
जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूप-
मित्युक्तं मात्स्ये । विस्तरस्तु मत्कृततुलादानादि-
पद्धतौ ज्ञेयः ।

महादारु न० कर्म० । देवदारुणि जटा० ।

महादेव पु० कर्म० । “ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्म-

वादिनाम् । तेषां महत्त्वात् देवोऽयं महादेवः प्रकी-
र्त्तितः” इत्युक्ते “महती पूजिता विश्वे मूलप्रकृतिरी-
श्वरी । तस्याः देवः पूजितश्च महादेवस्ततः स्मृतः” इत्युक्ते
च शिवे ।

महाद्रुम पु० कर्म० । १ अश्वत्थवृक्षे शब्दच० ।

तस्य विष्णुरूपत्वात् महत्त्वम् । २ वृहद्वृक्षे च ।

महाधन न० महत् मूल्यरूपं धनमस्य । १ बहुमूल्ये अमरः ।

२ सुवर्णे ३ सिह्लके च मेदि० । ४ मनोज्ञवस्त्रे हेमच०
५ कृषौ पु० शब्दरत्नावली । ६ अतिशयधनयुते त्रि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/म&oldid=312580" इत्यस्माद् प्रतिप्राप्तम्