वाचस्पत्यम्/य

विकिस्रोतः तः
← वाचस्पत्यम्/म वाचस्पत्यम्/य
तारानाथ भट्टाचार्य
वाचस्पत्यम्/व →
पृष्ठ ४७६७

यकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात्

अन्तःस्थवर्णभेदः तस्योच्चारणस्थानं तालु जिह्वाग्रेख
तालुन ईषत्स्पर्शेनोच्चारणादस्योच्चारणे ईषत्स्पर्श आभ्य-
न्तरप्रयत्नः “अचोऽस्पृष्टायणस्त्वीषत्” शिक्षोक्तः । वाह्य-
प्रयत्नाः संवारनादघोषा अल्पप्राणश्च । वर्णाभिधानेऽस्य
वाचकशब्दा उक्ता यथा “यो वाणी वसुधा वायुर्विकृतिः
पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रोधूमार्च्चिः प्राणिसेवकः ।
शङ्का भ्रमो जटी लोला वायुवेगी यशस्करी । सङ्कर्षणः
क्षपा बालो हृदयम् कपिला प्रभा । आग्नेयोव्यापकस्त्यागो
मोहोयाता प्रमा सुखम् । चण्डः सर्वेश्वरी धूम्रा चामु-
ण्डा सुमुखेश्वरी । त्वगात्मा मलयोमात्रा हंसिनी
भृङ्गिनायकः । ङे नमः शोषकोमीनोधनिष्ठानङ्गवेदिनी ।
शिष्टः सोमः पङ्क्तिनामा पापहा प्राणसंज्ञकः” ।
अस्याधिष्ठातृदेवताध्यानं यथा “धूम्रवर्णां महारौद्रीं
षङ्भुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां नानालङ्कार-
भूषिताम् । महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् ।
एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत्” । अस्य
ध्येयस्वरूपं यथा “यकारं शृणु चार्वङ्गि! चतुष्कोण-
मयं सदा । पुलालधूमसङ्काशं स्वयं परमकुण्डलीम् ।
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा । त्रिशक्तिसहितं
वर्णं त्रिविन्दुसहितं तथा । प्रणमामि सदा वर्णं
मूर्त्तिमन्मोक्षमव्ययम्” कामधेनुतन्त्रम् । मातृकन्यासे
अस्य हृदयन्यास्यता । काव्यादौ अस्य प्रथमप्रयोगे
लक्ष्मीलाभः फलम् “यो लक्ष्मीं रस्तु दाहम्” वृ० र० टी० ।

पु० या--ड । १ वायौ २ यशसि ३ योगे, ४ गतौ च ५ यातरि

त्रि० शब्दरत्ना० । यम--ड । ६ संयमे । ७ आदिलघु-
शेषगुरुके जलदैवते लक्ष्मीफलके यगणे च ।

यकार पु० य + स्वरूपे कार । यस्वरूपे वर्णे ।

यकृत् न० यं संयमं करोति कृ--क्विप् तुक् च । १ कुक्षौ दक्षिण-

भागस्थे मांसपिण्डे अमरः । २ तद्वर्द्धके रोगभेदे च
“अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तु
रञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र० ।
तद्रोगनिदानादि तत्रोक्तं यथा “प्लीहामयस्य हेत्वादि
समस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिण-
पार्श्वयोः” । अस्य शमादौ भत्वे च यकन्नादेशः ।
पृष्ठ ४७६८

यकृदात्मिका स्त्री यकृतैवात्मा स्वरूपं यस्याः कप् ।

तैलपायिकायाम् (तेलापोका) शब्दच० ।

यकृद्वैरिन् पु० यकृतो रोगभेदस्य वैरी हन्तृत्वात् । रोहितकवृक्षे शब्दच० ।

यक्ष पूजायां चु० आ० सक० मेट् । यक्षयते अययक्षत ।

यक्ष पु० यक्ष्यते यक्ष--कर्मणि घञ् । १ देवयोनिभेदे २ तदीश्वरे

कुवेरे मेदि० ३ इन्द्रगृहे सारस्वतः । भावे घञ् ४ पूजने च ।

यक्षकर्द्दम पु० यक्षप्रियः कर्दम इव । “कुङ्कुमागुरुकस्तूरी-

कर्पूरं चन्दनं तथा । महामुगन्धमित्युक्तं नामतो
यक्षकर्दम” इत्युक्ते समभागेन मिश्रिते कुङ्कुमादौ धन्व-
न्तरिः । कुङ्कुमस्थाने कक्कोलमुक्तम् । यक्षवृक्षादयोऽप्यत्र ।

यक्षतरु पु० यक्षाणां वासयोग्यस्तरुः । वटवृक्षे राजनि० यक्षवृक्षादयोऽप्यत्र ।

यक्षधूप पु० यक्षे पूजने योग्यो धूपः । (धुना) सर्ज्जरसे अमरः

यक्षराज पु० यक्षाणां राजा टच् समा० । कुवेरे । यक्षेषु

राजते राज--क्किप् । यक्षराड़प्यत्र पु० ।

यक्षरात्रि त्रि० यक्षप्रिया रात्रिः शा० त० । कार्त्तिकपूर्णिमा-

रात्रौ त्रिका० ।

यक्षामलक न० यक्षाणामामलकमिव । प्रिण्डखर्ज्जूरफले शब्दमा० ।

यक्षावास पु० ६ त० । यक्षाणामावासः । वटवृक्षे राजनि० ।

यक्षोडुम्बुरक न० यक्षाणामुडुम्बरमिव इवार्थे कन् ।

अश्वत्थफले त्रिका० ।

यक्ष्मघ्नी स्त्री० यक्ष्माणं हन्ति हन--टक् ङीप् । द्राक्षायाम् शब्दमा० ।

यक्ष्मन् पु० यक्ष--मनिन् । रोगभेदे अमरः । तन्निदानादि यथा

“वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् । त्रिदोषो
जायते यक्ष्मा गदो हेतुचतुष्टयात्” । येगोऽत्र वातमूत्र
पुरीषाणां । “वातमूत्रपुरीषाणि निगृह्णाति यदा
नरः” इति चरकवचनात् । क्षयात् क्षीयतेऽनेनेति
क्षयः तेनातिव्यवायानशनेर्ष्यादयो धातुक्षयहेतवः क्षय
शब्देनोच्यन्ते । साहसात् बलवता समं मल्लयुद्धा
दितः । शिषमाशनात् “बहु स्तोकमकाले वा तद्भक्तं
विषमाशनम्” तस्मात् । त्रिदोषः सान्निपातिकः । हेतु-
चतुष्ठयात् अन्येपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति ।
यक्ष्मणः पर्य्यायाः राजयक्ष्मक्षयशोषाः । यक्ष्मादीनां
शब्दानां निरुक्तिमाह “वैद्यो व्याधिमतां यस्मात्
व्याधेयंत्नेन यक्ष्यते । स यक्ष्मा प्रोच्यते लोके शब्द
शास्त्रविशारदैः” । यक्ष्यते पूज्यते । “राज्ञश्चन्द्रमसो
यस्मादभूदेष किलामयः । तस्मात्तं राजयक्ष्मेति
केचिदाहुर्मनीषिणः । क्रियाक्षयकरत्वात्तु क्षय
इत्युच्यते बुधैः । संशोषणाद्रसादीनां शोष इत्यमि-
धीयते” । संप्राप्तिमाह “कफप्रधानैर्दोषैस्तु रुद्धेषु रस
वर्त्मसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः ।
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः” ।
कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेसु अनन्तराः सर्वे धातवः
क्षीयन्ते ततो मानवः शुष्यति । कारणभूतस्य रसस्य क्षये
कार्य्याणां रक्तादीनामनुक्रमेण क्षीयमाणत्वात्” भावप्र० ।

यज देवपूजने, दाने, सङ्गकृतौ च भ्वा० उभ० यजादि०

अनिट् । यजति ते अयाक्षीत् अयष्ट इयाज ईजतुः ।

यजति पु० यज--अतिच् । यागमदे । “यजतिषु ये

यजामहे नानुयाजेषु” श्रुतिः । तल्लक्षणमुक्तं कात्या० श्रौ०
१ । २ । ६ “तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोऽनु-
वाक्यावन्तो यजतयः” सू० । “उच्यन्त इति शेषः । तिष्ठता
होमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते
वषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तस
ये ते यजतयः उच्यन्ते” कर्कः ।

यजत्र न० यज--अत्र । १ अग्निहोत्रे उणादि० २ तद्वति त्रि० ।

यजन न० यज--ल्युट् होत्रादिना पशुक्षीराज्यादिभिः मन्त्र-

पूर्वकं वह्णौ प्रक्षेपरूपे यागे ।
यजनञ्च श्रा० वि० देवलोक्तं यथा “पशुक्षीराज्यपुरो-
डाशसोमौषधिचरुप्रभृतिर्हविर्भिः खदिरपलाशाश्वत्थ-
न्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखल-
मूषलकुठारखनित्रयूपदारुदर्भचर्मग्रावपवित्रभाजनादिभि-
र्द्रव्योपकरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिः ऋत्विग्भिः
काम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां
समापनं यजनम्” । ल्यु । उत्तरपदस्थः समभिव्या-
हृतदेवादेर्यष्टरि त्रि० आधारे ल्युट् । ३ यागाधिकरणे न० ।
यथा देवयजनम् ।

यजमान पु० यज--शानच् । होत्रादेर्नियोक्तरि प्रधानकर्मफलयुते । ३ महादेवमूर्त्तिभेदे च ।

यजि पु० यज--इन् । १ यष्टरि उणा० । २ यागे ३ यजधातौ च ।

यजुर्वेद पु० यजुषां ऋक्साममिन्नानां मन्त्राणां प्रतिपादको

वेदः । वेदभेदे स च शुक्लकृष्णभेदेन द्विधा तद्विवरणं
चरणव्यूहे भाग० १२ । ६ अध्याये च दृश्यम् ।

यजुस् न० यज--उसि । ऋकसामभिन्ने पदच्छेदरहिते

मन्त्रभेदे अमरः । तल्लक्षणम् “वृत्तगीतिवर्जितत्वेन
प्रश्लिष्टपठिता मन्त्रा यजूंषि” सा० भा० उक्तम् ।

यज्ञ पु० यज--भावे न । यागे अमरः । स त्रिविधः “अफला-

काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः
समाधाय स सात्त्विकः १ । अभिसन्धाय तु फलं दम्भार्ष-
पृष्ठ ४७६९
मपि चैव यत् । इज्यते भरतश्रेष्ठ! तं यज्ञं विद्धि
राजसम् २ । विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं ३ परिचक्षते” गीता १७ अ० ।
स च नानाविधः । “द्रव्ययज्ञास्तपोयज्ञा योगयज्ञा-
स्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः”
गीता ४ अ० । पञ्चगृहस्थकर्त्तव्या यज्ञा यथा “अध्यापनं
ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो
नृयज्ञोऽतिथिपूजनम्” गारुड़े ११५ अ० । २ विष्णौ च

यज्ञपति पु० ६ त० । विष्णौ “यज्ञो यज्ञपतिर्यज्वा” विष्णुस० ।

यज्ञपशु पु० इज्यते हविर्दीयतेऽत्र यागार्थकयजेर्भावे आघारे

वा न यज्ञः यज्ञार्थः पशुः । १ अश्वे २ छागादौ च ।

यज्ञपात्र न० ६ त० । यागसाधने पात्रे तद्भेदस्वरूपादि

कात्या० श्रौ० उक्तं पात्रशब्दे ४३०० पृ० दर्शितम् ।

यज्ञपुरुष पु० यज्ञरूपः पुरुषः । वराहरूपे विष्णौ हेमच० ।

क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम् ।

यज्ञभूषण पु० यज्ञम् भूषयति भूष--णिष्ट्--ल्यु । श्वेतदर्भे राजनि० ।

यज्ञयोग्य पु० यज्ञे योग्यः । १ उडुम्बरवृक्षे राजनि० ।

तत्समिदादिभिर्हि यज्ञः साध्यते । २ यागार्हे विपादौ च ।

यज्ञवल्ली स्त्री० यज्ञार्था वल्ली । सोमवल्ल्याम् राजनि० ।

यज्ञवराह पु० यज्ञरूपो वराहः । आदिवराहे भगवदव-

तारभेदे । क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम् । वराहदे-
हस्य शिवेन विदारणेन यज्ञभेदरूपत्वं सम्पादितं यथोक्तं
कालिकापु० ३० अ० “विदारिते वराहस्य काये भर्गेण
तत्क्षणात् । ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः
सह । निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति ।
तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः । तस्याङ्ग
सन्धितो यज्ञाजातास्ते वै पृथक् पृथक् । यस्माद् यस्माच्च
ये यज्ञास्तत् शृण्वन्तु महर्षयः । भ्रूनासासन्धिना
जातो ज्योतिष्टोमो महाध्वरः । हनुश्रवणसन्ध्योस्तु
वह्निष्टोमो व्यजायत । चक्षुर्भ्रुवोः सन्धिना तु व्रात्य-
स्तोमो व्यजायत । आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठ
सन्धिना । वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत ।
अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् । अध्यापनं
ब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम् । होमो दैवो वलिभौतो
नृयज्ञोऽतिधिपजतम् । स्नानं तर्पणपर्व्यन्तं नित्य-
यज्ञाश्च सांशः । कण्ठसन्धेः समुत्पन्ना, जिह्वातो
विधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च ।
प्राणिहिंसाकरा येऽन्ये ते क्षाताः पादसन्धितः ।
राजसूयोऽथ कारीरी वाजपेयस्तथैवच । पृष्ठसन्धौ
समुत्पन्ना ग्रहयज्ञास्तथैव च । प्रतिष्ठोत्सर्गयज्ञाश्च
दानश्राद्धादयस्तथा । हृत्सन्धितः समुत्पन्ना सावित्री-
यज्ञ एव च । सर्वेषां साधका यज्ञाः प्रायश्चित्तकराश्च
ये । ते मेढृसन्धितो जाता यज्ञास्तस्य महात्मनः ।
रक्षःसत्रं सर्पसत्रं सर्वञ्चैवाभिचारिकम् । गोमेधो
वृक्षजापश्च खुरेभ्यो ह्यभवन्निमे । मायेष्टिः परमेष्टिश्च
गोष्पतिर्भोगसम्भवः । लाङ्गूलसन्धौ संजाता अग्निष्टोम
स्तथैवच । नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी-
र्त्तिताः । लाङ्गूलसन्धौ ते जातास्तथा द्वादशवार्षिकम् ।
तीर्थप्रयोगसामौथः यजुः सङ्कर्षणस्तथा । आर्कमाथर्वण-
श्चैव नाभिसन्धेः समुद्गताः । सत्रोत्कर्षः क्षेत्रयज्ञः
पञ्चमार्गोऽतियोजनः । लिङ्गसंस्थानहैरम्बयज्ञा जाताश्च
जानुनि । एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः! ।
यज्ञानां सततं लोकायैर्भाव्यन्तेऽधुनापि च । स्रुशस्य
पोत्रात् संजाता नासिकायाः स्रुवोऽभवत् । अन्ये
स्रुक्स्रुवमेदा ये ते जाताः पोत्रनासयोः । ग्रीवा-
भागेन तस्याभूत प्राग्वंशो मुनिसत्तमाः! । इष्टा-
पूर्त्तं यजुर्धर्मा जाताः श्रवणरन्ध्रतः । दंष्ट्राभ्योह्यभवन्
यूपाः कुशा रोमाणि चाभवन् । उद्गाता च
तथाध्वर्य्युर्होता समिध एव च । अग्रदक्षिणवामाङ्ग
पश्चात्पादेषु सङ्गताः । पुरोडाशाः सचरवो जाता
मस्तिष्कसञ्चयात् । कर्षूर्नेत्रयुगाज्जाता यज्ञकेतु-
स्तथा खुरात् । मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजा-
यत । रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः ।
यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च । तदात्मा
यज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः । एवं यावन्ति
यज्ञानां भाण्डानि च हवींषि च । तानि यज्ञवराहस्य
शरीरादेव चाभवन् । एवं यज्ञवराहस्य शरीरं यज्ञता-
मगात् । यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ।”

यज्ञवाट पु० ६ त० । यज्ञस्थाने हेमच० ।

यज्ञवृक्ष पु० यज्ञार्थः वृक्षः । वटवृक्षे राजनि० ।

यज्ञश्रेष्ठा स्त्री यज्ञेषु तत्साघनेषु श्रेष्ठा । सोमवल्ल्याम् राजनि० ।

यज्ञसार पु० यज्ञेषु यज्ञसाघनेषु सारः श्रेष्ठः ।

यज्ञोडुम्बरवृक्षे राजनि० ।

यज्ञसूत्र न० यज्ञार्थं योग्यं संस्कृतं वा सूत्रं शाक० त० ।

यज्ञोपवीते जटा० । तत्स्वरूपादि यथा
“ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रय-
पृष्ठ ४७७०
मधोवृत्तं यज्ञसूत्रं विदुर्वुधाः । त्रिगुणं तद्ग्रन्थियुक्तं
वेदप्रवरसम्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्ध
परिमाणकम् । यजुर्विदां नाभिमितं सामगानामयं
विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं वलप्रदम्”
कालिकापु० ४ अ० । “उपवीतमाह गोभिलः “यज्ञोपवीतं
कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्ज्वुमेव” । यज्ञोप-
वीतं विशिष्टविन्यासधारणकर्मतया कुरुते । किं
तत्सूत्रं विशेषयति छन्दोगपरिशिष्टम् “ऊर्द्धन्तु त्रिवृतं
कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको
ग्रन्थिरिष्यते” । वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा
दक्षिणावर्तवलितं कार्य्यम् एवं त्रिवृतं त्रिवृतम् उपवीतं
स्यात् एकोग्रन्थिरिति नानात्वनिषेधार्थम् । तथा च
बोधायनः “कौषां सूत्रं त्रिस्त्रिवृतं यज्ञोपवीमानाभेः” ।
कौषं कृंमकाषोद्भवं पट्टसूत्रादिमयमित्यथैः । सौत्रं
कार्पासोद्भवम् । तथाच मनुः “कार्पासमुपवीतं स्यात्
विप्रस्योर्द्धवृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या-
विकसौत्रिकम्” । त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि
त्रिवृन्मात्रं त्रिरावृत्तत्वेन विशेष्यम् । यत्तु पैठीनसिवच-
नम् “कार्पासमुपधीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य । क्षौमं
राजन्यस्य आविकं वैश्यस्य” । तन्नवतन्त्वसम्भवे षट्तन्तु
विधायकम् । नवतन्तुत्वं व्यक्तमाह देवलः “यज्ञोपवीतं
कुर्वीत सूत्राणि नवतन्तुभिः । एकेन ग्रन्थिना तन्तुर्द्वि-
गुण स्त्रगुणोऽथवा” । एकेन ग्रन्थिना युक्त इति शेषः ।
द्विगुणश्त्रीगुणोऽथ वेति तन्तुवलेन द्विसवो स्त्रिसवो वा
कर्त्तव्यः । द्विसवत्वं त्रिसवत्वासम्भवे । गोभिले वा
शब्दो विकल्पार्थः । अपिशब्दो वस्त्रकुशरज्ज्वोः
सूत्रानुकल्पत्वप्रदर्शनार्थः । एवकारोऽत्रिसवत्वव्यव-
छेदार्थः । द्वितीयो वाशब्दोऽनुक्तमौञ्जवालादिसमुच्च-
यार्थः । तथा च निगमपरिशिष्टम् “वाससा यज्ञोपवीतानि
कुरुते तदमावे त्रिवृता सूत्रेण कुशमुञ्जवालप्रतिसव
रज्जुभिर्वा । वालोऽत्र गोवालः यथाह देवलः “कार्पास
क्षौमगोवाल वररज्जुतृणोद्भवम् । सदा सम्भवतो धार्य्य
मुपवीतं द्विजातिभिः” । तदभाव इतिकरणाद्वस्त्राभावे
कुशरज्जुभिरिति वोद्धव्यम्” । श्रा० वि० ।

यज्ञाङ्ग पु० यज्ञस्याङ्गं साधनत्वेनास्त्यस्य अच् । १ यज्ञोडुम्बरे

अमरः । २ खदिरे राजनि० । ३ ब्रह्मयष्टिकायाञ्च शब्दच०
ते हि समिन्पत्त्रादिना यज्ञं सम्पादयन्ति । ४
सोमवल्ल्यां स्त्री राजनि० टाप् । ६ त० । ५ यागाङ्गमात्रे न० ।

यज्ञान्त पु० ६ त० । १ अवभृथे यज्ञसमाप्तौ स्नानादिक्रियाभेदे

२ यज्ञशेषे च हेम० ।

यज्ञायज्ञीय न० यज्ञायज्ञा इत्यनेन शब्देन युक्तायामृचि गेयम्

छ । १ अग्निष्टोमे गेये सामभेदे ताण्ड्य० ब्रा० ४ । ३ । २०
ज्योतिष्टोमे गेये २ सामभेदे च सा० स० भा० उपेद्घाते ।

यज्ञिक पु० यज्ञः यज्ञाङ्गं साध्यत्वेनास्त्यस्य ठन् । पलाशे

जटा० । तत्समिदादिभिर्हि यज्ञोनिष्पाद्यते ।

यज्ञिय त्रि० यज्ञाय हितः घ । १ यज्ञकर्मयोग्ये अमरः ।

२ द्वापरयुगे पु० त्रिका० ।

यज्ञियदेश पु० कर्भ० । यज्ञकर्मयोग्यदेशे “कृष्णसारस्तु चरति

मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियोदेशः” मनूक्ते
देशे ।

यज्ञीय पु० यज्ञाय हितः तस्येद वा छ । १ यज्ञोडुम्बरे राजनि० । २ यागसम्बन्धिनि त्रि० ।

यज्ञीयब्रह्मपादप पु० कमे० । विकङ्कतवृक्षे (वैचि)

राजनि० । “वैकङ्कतीं स्रुवमादत्ते” इति श्रुतौ तदीयस्रुव-
विधानात् तस्य तथात्वम् ।

यज्ञेश्वर पु० यज्ञस्य प्रवर्त्तयिता ईश्वरः । विष्णौ ।

यज्ञेष्ट न० ७ त० । १ दीर्घरोहिततृणे राजनि० । ६ ब० । २ इष्टयज्ञके त्रि०

यज्ञोडुम्बर पु० यज्ञार्थ उडुम्बरः । स्वनामख्याते वृक्षे शब्दर०

यज्ञोपवीत न० यज्ञेन संस्कृतमुपवीतम् । यज्ञसूत्रे

उपनयनसंस्कारेण पवित्रीकृते त्रिवृति उर्द्धवृते बःमस्कन्धात्
दक्षिणकुक्षितो लम्बमानतया धृते सूत्रभेदे । यज्ञसूत्र-
शब्दे दृश्यम् ।

यज्वन् पु० यज--भूते क्वनिप् । बिधानेन १ कृतयागे अमरः । २ विष्णौ च यज्ञपदिशब्दे दृश्यम् ।

यत ताडने उपस्करे च चु० स० सेट् । यातयति ।

अयीयतत् त । निर् + परीवर्त्ते प्रतीरूपशोधने च ।

यत यत्ने भ्वा० आत्म० अक० सेट् । यतते अयतिष्ट

ईदित् निष्ठायामनिट् यत्तः ।

यतम त्रि० एषां मध्ये यः यद् + डतमच् । एषां मध्ये

यैत्यर्थे ।

यतर त्रि० । अनयोर्मध्येयः यद् + डतरच् । अनयोर्मध्ये यैत्यर्थे ।

यतस् अव्य० यद् + तसिल् । “यस्मादित्यर्थे १

यति पु० यतते मोक्षाय यत--इन् । १ परिव्र जके संन्यासिनि

अमरः । यम्यते जिह्वा यत्र यम--क्तिन् । २ छन्दोग्रन्थविख्याते
जिह्वाया २ विश्रामस्थाने उच्चारणकालविच्छेदे स्त्री ।
सा च “क्वचित् छन्दस्यास्ते यतिरभिहिता पूर्वकृतिमिः
पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च” इत्याद्यु-
क्त्यासुप्तिङन्तपदान्ते एव छन्दोग्रन्थानुसारेण जिह्वाया-
पृष्ठ ४७७१
विश्रामरूपाच्चारणाभावरूपा । ३ विधवायां ४ रागे ५ सन्धौ
च शब्दच० ६ पाठविच्छेदे मेदि० । ७ निकारे ८ विष्णौ
हेमच० । ९ वाद्याङ्गप्रबन्धभेदे सङ्गीतदा० । यद् +
परिमाणे--डति । १० यत्परिमाणे त्रि० ब० व० ।

यतिचान्द्रायण न० यतिनेव कर्त्तव्यं चान्द्रायणं व्रतभेदः ।

“अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने गते ।
नियतात्मा हविव्याशी यतिचान्द्रायणं चरन्” मनूक्ते
व्रतभेदे ।

यतिन् पु० यम--भावे क्त यतं यमनं यतमनेन इनि । १

संन्यासिनि परिव्राजके अमरः । २ विधवायां स्त्री ङीप्
शब्दरत्ना० ।

यतु(तू)का स्त्री यत--उक ऊक वा । जिनपत्रिकावृक्षे शब्दर० ।

यत्न पु० यत--भावे नङ् । १ आयासे २ उद्योगे वैशेषिकोक्ते प्रवृत्ति-

निवृत्तिजीवनयोनिरूपत्रैविध्यापन्ने ३ गुणभेदे च । स च
आत्मगुणः इति नैयाविकादयः चित्तगुण इति सांख्यवै-
दान्तिकाः ।

यत्र अव्य० यद् + त्रल । यस्मिन्नित्यर्थे ।

यत्र सङ्कोचने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

यन्त्रयति ते यन्त्रति अययन्त्रत् त अयन्त्रीत् ।

यथा अव्य० यद् + प्रकारे थाल् । १ येन प्रकारेणेत्यर्थे २ सादृश्ये

३ योग्यतायाम् ४ आनुरूप्ये ५ पदार्थानतिवृत्तौ च सि० कौ० ।

यथाकाम अव्य० काममनतिक्रम्य अव्ययी० । १ स्वाच्छन्द्ये

२ यथेष्टतायाञ्च ।

यथाकामिन् त्रि० यथाकामं स्वाच्छन्द्यमस्त्यस्य इनि । स्वेच्छाचारिणि जने स्त्रियां ङीप् ।

यथाक्रम अव्य० क्रमस्य आनुरूप्यं तस्वानतिक्रमो वा अव्य-

यी० । १ क्रमानुरूप्ये २ क्रमानतिक्रमे च ।

यथाजात त्रि० जातं समयविशेषमनतिक्रम्य यथाजातं

तदस्वास्ति अच् । १ मूर्णे अमरः । २ नीचे जटा० ।

यथातथ अप्य० तथानतिक्रम्य अनतिवृत्तौ अव्ययी० ।

याथार्थ्ये यस्थ वस्तुनो यद्रूपं भवितुमुचितं तथारूपभावे
हारा० यथायथमव्यत्रार्थे ।

यथार्थ अव्य० अर्थमनतिक्रम्य अव्ययी० । १ सत्यतायाम् अर्थ-

स्याव्यभिचारे सत्यस्वरूपे । अर्श आद्यच् । २ सत्ये त्रि० ।

यथार्ह अव्य० अर्हं योग्यतामनतिक्रम्य अव्ययी० । १

यथायोग्यत्वे ततः अर्श आद्यच् । २ सत्यभूते पदार्थे त्रि० ।

यथार्हवर्ण पु० यथार्हं यवायोग्यं वर्णयति वर्ण--अण् ।

चरे अमरः ।

यथाशक्ति अव्य० शक्तेरानुरूप्यम् अव्ययी० । १ शक्तेरानुरूप्ये २ शक्त्यनुसारे ।

यथाशास्त्र अव्य० शास्त्रस्यानुरूप्यम् अनतिक्रमो वा

अव्ययी० । १ शास्त्रानुसारे २ शास्त्रानतिक्रमे च ।

यथास्थित अव्य० यथा येन रूपेण स्थातुं योग्यं तथास्थितम्

योग्यतायाम् अव्ययी० । १ सत्यतायाम् हेमच० अर्श आद्यच् ।
२ सत्ये त्रि० ।

यथास्व अव्य० स्वस्यानतिक्रमः अव्ययी० । १ याथार्थ्ये । अर्श आद्यच् । २ यथार्थे त्रि० अमरः ।

यथेप्सित अव्य० ईप्सितस्यानतिक्रमः अव्ययी० । १ खाच्छन्द्ये

अमरः । अर्श आद्यच् । २ यथाभीष्टे त्रि० यथेष्टमप्यत्र ।

यथोचित अव्य० उचितस्यानतिक्रमः अव्ययी० । १ औचित्ये

अमरः । अर्श आद्यच् । २ उचिते त्रि० ।

यद् त्रि० यज्--अदि डिच्च । (ये) १ इत्येवं बुद्धिविशेषविषये । अस्य

उक्तार्थे सर्वनामता । अयञ्च शब्दः तच्छब्दार्थनित्यापेक्षी
उत्तरवाक्यस्थस्तु न तदपेक्षी इति काव्यप्र० । यत्तच्छब्दयो-
रन्वये च न समानविभक्तेस्तन्त्रतेत्याकरे स्थितम् ।
२ यस्मादित्यर्थे अव्य० । ३ गर्हायाम् ४ अवधृतौ च मेदि० ।

यदा अव्य० यद् + काले दाच् । यस्मिन् काले इत्यर्थे ।

यदि अव्य० यद् + णिच्--इन् णिलोपः । १ पक्षान्तरे अमरः ।

२ सम्भावनायाम् ३ गर्हायां ४ विकल्पे च मेदि० ।

यदु पु० ययातिनृपतेः १ ज्येष्ठपुत्रे यस्य वंशे श्रीकृष्णवतारः ।

तस्य गोत्रापत्यमण् बहुषु तस्य लुक् । २ यदुवंश्ये
३ दर्शार्हदेशे च व० व० हेमच० ।

यदुनाथ पु० यदूनां नाथो रक्षकत्वात् । श्रीकृष्णे हेमच० । यदुपत्यादयोऽप्यत्र ।

यदृच्छा स्त्री यद् + ऋच्छ--अ--टाप् । १ स्वातन्त्र्ये, २ स्वैर-

तायाम् अमरः । “यदृच्छालाभसन्तुष्टः” इति गीता ।

यदृच्छाशब्द पु० जात्याद्यवाचके डित्थादिसंज्ञाशब्दे

“असम्मादयतः कञ्चिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्
पुंसःसज्ञायै जन्म केवलम्” मावः ।

यद्युवा अव्य० यदि च उ च वा च द्व० । यद्यर्थे पक्षान्तर-

द्योतने “यद्युबाल्पतरसम्भारस्तर्हि पशुनैव” इति “यद्युवा-
उभयं चिकीर्षेदिति” च गोभिलः ।

यद्वा अव्य० यच्च वा च द्व० । १ पक्षान्तरे “यद्वान्थ्युदययोग्यता”

भर्तृहरिः २ बुद्धौ संक्षिप्तसा० ।

यन्तृ पु० यम--तृच् । १ सारथौ २ हस्तिपके च अमरः । ३ सयमयुक्ते त्रि० हेमच०

यन्त्र न० यत्रि--अच् । १ संयमने तन्त्रोक्ते देवाद्यधिष्ठाने

२ चक्रभेदे ३ औषधपाकार्थपात्रभेदे, ज्योतिश्चक्राद्यवेक्षण-
साधने ४ पदार्थभेदे, ५ सूत्रथारादेर्दारुवेधकादौ (तुरविन्)
(भमर) पदार्थे । ६ अग्न्यादेः क्षपणसाधने पदार्थे अग्नि-
यन्त्रम् (कामान धनुक) ।
पृष्ठ ४७७२
औषधपाकपात्रं च नानाविर्ध भावप्र० दर्शितं यथा
  • वालुकायन्त्रम् “भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके ।
कूपिकाकण्टपर्य्यन्तं वालुकाभिश्च पूरिते । भेषजं कूपि-
कासंस्थं वह्निना यत्र पच्यते । वालुकायन्त्रमेतद्वि यन्त्र-
तन्त्रवुधैः स्मृतम्” ।
  • दोलायन्त्रम् “निघद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे ।
रसपोटलिकां काष्ठे दृढ़ं बद्ध्वा गुणेन हि । सन्धान-
पूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् । अधस्ताज्ज्वा-
लयेदग्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं
स्वेदनाख्यं तदेव हि” । सन्धानं काञ्जिकादि ।
  • विद्याधरयन्त्रम् “साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय
च । पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं परम् ।
अधःस्थाल्यां रसं क्षिप्त्वा संनिदध्यान्मुखोपरि । स्थाली-
मूर्द्धमुखीं सम्यक् निरुध्य मृदुमृत्सया । ऊर्द्धस्थाल्यां
जलं क्षित्वा चुल्ल्यामारोप्य यत्नतः । अधस्तात् ज्वालये-
दग्निं यावत् प्रहरपञ्चकम् । स्वाङ्गशीतं ततो यन्त्रात्
गृह्णीयाद्रसमुत्तमम् । विद्याधराभिधं यन्त्रमेतत्तज्ज्ञै-
रुदाहृतम्” ।
  • भूधरयन्त्रम् “वालुकासु समस्ताङ्गं गर्त्ते मूषाः रसान्विताः ।
दीप्तोपलैः संवृणुयाद्यन्त्रं भूधरनामकम्” ।
  • डमरुयन्त्रम “यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्योर्मुद्रिते मुखे”
कालज्ञानार्थे सू० सि० उक्ते ६ पदार्थभेदे यथोक्तं
“कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् । एकाकी
योजयेद्बीजं यन्त्रे विस्मयकारिणि । शङ्कुयष्टिधनुश्चक्रै-
श्छायायन्त्रैरनेकधा । गुरूपदेशाद्विज्ञेयं कालज्ञानमत-
न्द्रितैः” मू० । “शङ्कुयष्टिधनुश्चक्रैः प्रसिद्धैश्छायायन्त्रैश्छा-
यासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरूपदेशात्
स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमैः पुरुषैः
कालज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम् ।
एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्थैः स्पष्टीकृतम्
  • शङ्कुयन्त्रत् “समतलमस्तकपरिधिर्भ्रमसिद्ध्यै दन्तिदन्तजः शङ्कुः ।
तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्” ।
  • यष्टियन्त्रम् “त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र ।
दत्त्वाऽग्रां प्राक्पश्चात् द्विज्यावृत्तं च तन्मध्ये ।
तत्परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे । त्रिज्याङ्गुला
निधेया यष्ट्याग्राग्रान्तरं यावत् । यावत्या मौर्व्या
यद्द्वितीयवृत्ते धनुर्भवेत् तत्र । दिनगतशेषा नाड्यः प्राक्
पश्चात् स्युः क्रमेणैवम्” ।
  • चक्रयन्त्रम् “चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिका-
धारम् । धात्री आधारात् कल्प्या भार्धेऽत्र खार्धं च ।
तन्मध्ये सूक्ष्माक्षं क्षित्वार्काभिमुखनेमिकं धार्यम् ।
भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः । तत्खार्धान्तश्च
नता उन्नतलवसङ्गुणं द्युदलम् । द्युदलौन्नतांशभक्तं
नाड्यः स्थूलाः परैः प्रोक्ताः” ।
  • धनुर्यन्त्रम् “दलीकृतं चक्रमुशन्ति चापम्” इति ।
अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादि-
विचारश्चोपेक्षित इति मन्तव्यम् । अथ घटीयन्त्रादिभि-
श्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साथयेदिति
कालसाधनमुपसंहरति” रङ्ग० । “तोययन्त्रकपालाद्यै-
र्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसा-
धयेत्” मू० । “तोययन्त्रं च तत् कपालं च कपालाख्यं
जलयन्त्रं वक्ष्यसाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालु-
कायन्त्रप्रभृतिभिः सापेक्षवटीयन्त्रैर्मयूरनरवानरै ।
मय्राख्यं खयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं
छायायन्त्रं पूर्वोद्दिष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतैः
ससूत्ररेणुगर्भैः सूत्रसहिता रेखवो घूलयो गर्भे मध्ये
येषां तैः सूत्रप्रोताः षष्टिसङ्ख्याका मृद्घटिका मयूरो-
दरस्था मुखाद् घटिकान्तरेण स्वत एव निःसरन्तीति
लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्राकारेण
रेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुका
यन्त्रं प्रसिद्धम् । तेन सहितैर्मयूरादियन्त्रैर्मथूराद्युक्त-
यन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः । चकारस्तोययन्त्र-
कपालाद्यैरित्यनेन समुच्चयार्थकः । कालं दिनगतादिरूपं
सम्यक् सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्म-
त्वेनेत्यर्थः । जानीयादित्यर्थः । ननु मयूरादिस्वयं-
वहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारा बहवो
दुर्नमाश्च सन्तीत्याह रङ्ग० ।
“शारदाराम्बुसूत्राणि शुल्वतैलक्षनि च । बीजानि
पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः” भू० । “तेषु मयूरादिय-
न्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः । प्रक-
र्षस्तु यावदभिमतसिद्धेः । ते के इत्यत आह । पारदारा-
म्बुसूत्राणीति । पारदयुक्ता आराः । तथाच सिद्धान्त-
शिरोमणौ “लघुकाष्ठजसमचक्रे समसुषिराराः
समान्तरा नेम्याम् । किञ्चिद्वक्रा योज्याः सुषिरस्यार्धे पृथक्
तासाम् । रसपूर्णे तच्चक्रं ह्माधाराक्षस्थितं स्वयं भ्रमति” ।
अम्बु जलस्य प्रथोगः । सूत्राणि सूत्रचासाधनप्रयोगः ।
पृष्ठ ४७७३
शुल्बं शिल्पनैपुण्यम् । तैलजलानि तैलयुक्तजलस्य
प्रयोगः । चकारात् तयोः पृथक् प्रयोगोऽपि । तथाच
सिद्धान्तशिरोमणौ “उत्कीर्यनेमिमथ वा परितो
यदनेन संलग्नम् । तदुपरि तालदलाद्यं कृत्वा सुषिरे
रसं क्षिपेत् तावत् । यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो
याति । पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं
जलाकृष्टम् । ताम्रादिमलस्याङ्कुशरूपनलस्याम्बुपूर्णस्य । एकं
कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः । युगप-
ग्मुक्तं चेत् कं नलेन कुण्डाद्वहिः पतति । नेम्यां बद्ध्वा
षटिकाश्चक्रं जलयन्त्रवत् तथा धार्यम् । नलकप्रच्युत-
सलिलं पतितं यथा तद्वटीमध्ये भ्रमति । ततस्तत् सततं
पूर्णघटीभिः समाकृष्टम् । चक्रच्युतं स्वयमुदकं कुण्डे
याति प्रणालिलया” । इति । बीजानि केवलं तुङ्गबीज
प्रयोगः । पांसवो धूलिप्रयोगास्तैर्युक्ताः प्रयोगाः ।
अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः । दुर्लभाः
असाधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः । अन्यथा
प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः । इयं स्वयंवह-
विद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यग-
भ्यस्तेति । कुहकविद्यात्वादत्र विस्तारानुद्योग इति
संक्षेपः” रङ्ग० ।
  • अथ कपालाख्यं जलयन्त्रम्
“ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि । षष्टिर्मज्ज-
त्यहोरात्रे स्फुटं यन्त्रं कपालकम्” मू० “यत् ताम्रघटितं
पात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत् । अमलाम्भसि
निर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डे
न्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टि-
वारमेव न न्यूनाधिकं मज्जति । अधश्छिद्रमार्गेण
जलागमनेन जलपूर्णतया निमग्नं भवति । तत् कपालकं
घटखण्डानां कपालपड़वाच्यत्वात् घटाधस्तनार्धाकारं
यन्त्रं षटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु “शुल्बस्य
दिग्भिर्विहितं पलैर्यत् षड़ङ्गुलोच्चं द्विगुणायतास्यम् ।
तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी
स्यात् । सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका
चतुरङ्गुला स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते
नाड़िकथाम्बुभिस्तत्” मू० । इति व्यक्तम् । भगवता तु
सूक्ष्ममुक्तम् । अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्य
देत्याह रङ्ग० । “नरयन्त्रं तथा साधु दिवा च विमले
रकौ । छावासंसाधनैः प्रोक्तं काससावनसुत्तमम्” मू० ।
देवताभेदे पूजाधारयन्त्राणि धारणयन्त्राणि च तन्त्रसा-
रोक्तानि दृश्यानि । तल्लेखनद्रव्याणि तत्रोक्तानि यथा
“काश्मीररोचनालाक्षामृगेभमदचन्दनैः । बिलिखे-
द्धेमलेखन्या यन्त्राण्येतानि देशिकः । सौवर्णे राजते
पत्रे भूर्जे वा सम्यगालिखेत् । अथ वा ताम्रपत्रे वा
गुटिकीकृत्य धारथेत् । यावज्जीवं सुवर्णे स्यात् रौप्ये
विंशतिवार्षिकम् । भूर्जे द्वादशवर्षाणि तदर्द्धं ताम्र-
पट्टके” । द्रव्यभेदस्पर्शे तत्र तस्याधार्य्यतोक्ता यथा
“भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्माल्यसङ्गतम् ।
विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत्” ।

यन्त्रक न० यन्त्रमिव इवार्थे कन् (कुंद) दारुभ्रामकयन्त्रभेदे

यन्त्रगृह न० ६ त० । तैलिकयन्त्रालये (चानिघर) हेमच० ।

यन्त्रगोल पु० यन्त्रमिव ज्योतिश्चक्राकृतिनोलयन्त्रमिव

नोलःवर्त्तुलः । कलायभेदे (मटर) शब्दच० ।

यन्त्रण न० यत्रि--ल्युट् । १ नियमने २ रक्षणे ३ बन्धने च मेदि०

युच् । ४ पीडायाम् स्त्री टाप् ।

यन्त्रपेषणी स्त्री यन्त्रेणेव पिष्यतेऽनया पिष--करणे ल्युट्

ङीप् । (याँता) पेषणयन्त्रे जटा० ।

यभ मैथुने भ्वा० पर० सक० अनिट् । यमति अया(य)सीत् ।

यम उपरतौ भ्वा० पर० सक० अनिट् यच्छति अयंसीत्

उदित् क्त्वा वेट् । यमित्वा यत्वा यत्तः ।
आ + दीर्घीकरणे आत्म० । उप + विवाहे आत्म० ।

यम परिवेषणे चु० उ० सक० सेट् वा घटा० । यमयति

यामवति अयीयमत् त अययामत् त ।

यम पु यम--घञ् । “अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता ।

अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च” इत्युक्ते
१ अहिंसादौ तच्च देहमात्रसाध्यम् आवश्यकमवश्यकार्य्यं
नित्यं कार्य्यमिति अमरः इन्द्रियादीनां २ संयमने च ।
यमयति अच् । प्राणिनां शुभाशुभकर्मानुसारेण दण्ड-
विधायक ईश्वरनियुक्ते दक्षिणस्थे ३ देवभेदे पु० अमरः ।
तत्स्वामिकत्वात् ४ काके च । भ्रातृत्वेन यमसम्बन्धिनि
५ शनौ ६ एकगर्भजायमाने यमजे त्रि० मेदि० । ७ द्वित्व-
संख्यायां ८ यमदेवताके भरणोनक्षत्रे ज्यो० ।
दिक्पालयमभेदाः चतुर्दश भविष्यपु० उक्ता यथा
“यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवखताय
कालाय सर्वभूतक्षयाय च । औड़म्बराय दघ्नाय नीलाय
परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः” ।
थोगाङ्गयमाक्ष पात० सू० भा० उक्ता यथा
पृष्ठ ४७७४
“यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो-
ऽष्टावङ्गानि” मू० । “यथाक्रमं एतेषाम् अनुष्ठानं स्वरूपञ्च
वक्ष्यामः भा० । तत्र “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा-
यमाः” मू० । “तत्राहिंसा सर्वथो सर्वदा सर्वभूतानामनतिद्रो-
हः । उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतया
तत्प्रतिपदानाय प्रतिपाद्यन्ते तदवदातकरणायैवोपादीयन्ते ।
तथाचोक्तं “स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि
समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो
निवर्त्तमानस्तामेवावदातरूपामहिंसां करोति” । सत्यं यथार्थे
वाङ्मनुसे यथादृष्टं यथानुमितं यथाश्रुतं तथा वाङ्मन-
श्चेति स्वबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिता
भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेत् इत्येषा सर्वभूतोप
कारार्थं प्रवृत्ता न भूतोपघाताय यदि चैवमप्यमिधीय
माना मूतोपघातपरैव स्यान्न सत्यं भवेत् पापमेव भवेत्
तेन पुण्याभासेन पुण्यप्रतिरूपकेन कष्टं तमः प्राप्नुयात्
तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् । स्तेयमशास्त्र
पूर्वकं द्रव्याणां परतः स्वीकरणं तत्प्रतिषेधः
पुनरस्पृहारूपमस्तेयमिति । ब्रह्मचर्य्यं गुप्तेन्द्रियस्योपस्थस्य
संयमः । विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शना
दस्वीकरणमपरिग्रह इत्येते यमाः” भा० ।
गारुड़े तु तस्य दशविधत्वमुक्तं यथा “ब्रह्मचर्य्ये
दयाक्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसाऽस्तेय माधुर्य्यं
दमश्चैते यमाः स्मृताः” १०५ अ० ।

यमक न० शब्दालङ्कारभेदे अलङ्कारशब्दे ३८९ पृ० दृश्यम् ।

यमकोटि पुंस्त्री० भूगोलस्य चतुर्थपादान्तरिते लङ्कातः

पूर्वस्यां स्थितायां देवनिर्मितायां पुर्य्याम् “लङ्का कुमध्ये
यमकोटिरस्याः प्रागिंति सिद्धान्तशिरोमणिः ।

यमघण्ठ पु० योगविशेषे । “द्वे मथापूर्वफल्गुन्यौ पुण्य-

श्लेषार्कचन्द्रयोः । ज्येष्ठानुराधा भरणी चाश्विनी
कुजवासरे । हस्तार्द्रा चन्दजे मूला पूर्वाषाढ़ा च रेवती ।
जीवे ह्युत्तरभाद्रश्च शुक्राहे स्वातिरोहिणी । शनिवारे
शतभिषा श्रवणा यमघण्ठकः” सारसंग्रहः ।

यमदग्नि पु० जमदग्नौ मुनिभेदे ।

यमज त्रि० द्वि० व० । यमौ एकदा एकत्र गर्भे सहचरौ

सन्तौ जागेते जन--ड । एकदा एकगर्भजातयोः मेदि० ।

यमदशन पु० ब० व० । यमस्य दशना इव चर्वणसाधनत्वेन

हिंसकत्वात् । “कार्त्तिकस्य दिनान्यष्टौ चाष्टाग्रहा-
पणस्य च । यमस्य दशना एत लध्वाहारी स जीवति”
वैद्यकोक्ते सौरदिनषोड़शके । यमदन्तशब्दोऽप्युक्ते अर्थे ।

यमदूतिका स्त्री यमस्य दूतीव इवार्थे कन् । १ तिन्तिडीवृक्षे

अमरः । यमस्य दूत इव कायति कै--क । यमदूतक
२ काके पुंस्त्री० शब्दरत्ना० स्त्रियां ङीष् ।

यमद्रुम पु० यमस्य द्रुमः इव । यमद्वारस्थद्रुमतुल्ये

शाल्मलिवृक्षे तत्तुल्यलौहमयकीलाकीर्णवृक्षेण हि
नारकिपीडनात्तस्य यमद्रुमत्वम् ।

यमद्वितीया स्त्री ६ त० । कार्त्तिकशुक्लद्वितीयायाम् “तथा

यमद्वितीयायां यात्रायां मरणम्” ति० त० ।

यमधार पु० यमसंख्याका धाराऽस्य । उभयपार्श्वे धारायुक्ते

अस्त्रे (किरीच) ।

यमन न० यम--ल्युट् । १ बन्धने २ उपरमे च मे द० । यमयति ल्य । ३ यमे पु० मेदि०

यमप्रिय पु० ६ त० । वटवृक्षे शब्दर० ।

यमराज पु० यमानां चतुर्दशानां राजा यमनियामको राजा

वा टच्समा० । प्रेतानां राजनि धर्मराजे हमच० ।
यमेषु राजते राच--क्विप् । यमराडप्यत्र अमरः ।

यमल न० यमं योगं लाति ला--क । १ युग्मे अमरः वृन्दा-

वनस्थे २ वृक्षभेदे च । “तञ्च कृष्णःपदा बभञ्च” हरिवं० ।

यमलपत्त्र पु० यमलानि युग्मानि पत्त्राणि यस्य । १ अश्म-

न्तकवृक्षे २ कोविदारवृक्षे राजनि० ।

यमवाहन पु० यमं वाहयति स्यानात् स्वानान्तरं नयति

वह--स्वार्थे णिच्--ल्यु । महिषे हेमच० ।

यमानी स्त्री यच्छति षन्धिमान्द्यमनया यम--करणे ल्युट्

पृषो० आत्त्वम् । १ अजमोदायाम् शब्दमा० स्वार्थे क ।
यमानिका तत्रैव स्त्री ।

यमुना स्त्री यम--उनन् । १ कालिन्द्यां नद्यां २ यमभगिन्याम्

सूर्य्यसुतायाम् अमरः । ३ दुगायाञ्च देवीपु० ।

यमुनाभ्रातृ पु० ६ त० । यमे अमरः ।

ययाति पु० यस्य वायोरिव यातिः सर्वत्र रथनतिरस्य ।

नहुषात्मजे राजभेदे ।

ययु पु० या--कु द्वित्वञ्च । १ अश्वमेधीयेऽश्वे ३ अश्वमात्रे च मेदि० ।

यव पु० यु--अच् । १ स्वनामख्याते शूकधान्यभेदे अमरः ।

“वसन्ते सर्वशस्यानां जायते पत्त्रशातनम् । मदमानाश्च
तिष्ठन्ति यवाः कणिशशालिनः” इति मीमांसा । अङ्गु-
लिस्थे यवाकारे २ रेखाभेदे सामुद्रकम् तत् फलमुक्तं तत्रैव
“तर्जनीमूलसंपृक्तौ यवौ पुत्रार्थदा क्रमात् । मध्वमायां
यवश्चैवाङ्गुष्ठेऽपूर्वधनप्रदः । मध्यमायां यदि यवो दृश्यते
च सुशोभनः । तदान्यसञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके
पृष्ठ ४७७५
यवे । यस्यापि चक्रमङ्गष्ठे यवपूर्णञ्च दृश्यते । तदा
पितामहादीनामर्जितं लमते धनम्” इति सामुद्रकम् ।
३ षट्सर्षपात्मके परिमाणभेदे शब्दच० ।

यवक्य न० यवानां भवनं क्षेत्रं यत् कुक् च । यवभवने क्षेत्रे अमरः ।

यवक्षार पु० यवजातः क्षारः । यवजातक्षारे लवणभेदे शब्दर०

यवज पु० यवात् जायते जन--ड । ३ यवक्षारे रत्नमा०

२ यवान्याञ्च राजनि० ।

यवतिक्ता स्त्री यवाकारं तिक्तं फलं यस्याः । शङ्खिन्यां राजनि० ।

यवन पु० यु--यु । १ देशभेदे सोऽभिजनोऽस्य तस्य राजा वा

अण् बहुषु तस्य लुक् । २ तद्देशस्थेषु जनेषु ३ तन्नृपेषु
ब० व० । ४ वेगे ५ अधिवेगयुताश्वे मेदि० ६ गोधूमे ७ गर्जर-
तृणे ८ तुरष्कजातौ राजनि० ययातिशप्तम्य तत्पुत्रस्य
तुर्वसोर्षश्ये जातिभेदे च पुंस्त्री० स्त्रियां ङीष् ।
१० वेगवति त्रि० ।

यवनद्विष्ट पु० यवनैर्द्विष्टः द्विष--क्त । गुग्गुलौ राजनि०

यवनप्रिय न० ६ त० । मरिचे हेमच० ।

यवनाचार्य्य पु० ताजकादिज्योतिःशास्त्रकारके पण्डितभेदे

यवनानी स्त्री यवनानां लिविः ङीप् आनुक् च । यवनानां

लिप्याम् सि० का० ।

यवनारि स्त्री यवनस्यारिः । श्रीकृष्णे त्रिका० ।

यवनाल पु० यवस्येव नाला (नाडा) यस्य । (देधान)

धान्यभेदे हेमच० ।

यवनालज पु० यवस्य नालात् काण्डात् जायते जन--ड । यवक्षारे हेमच० ।

यवनिका स्त्री यवन्त्यस्यां यु--ल्युट् ङीप् स्वार्थे क अत

इत्त्वम् (कानात्) जवनिकायाम् अमरः ।

यवनी स्त्री यु--ल्युट् ङीप् । १ यवानीनामकोषधौ मेदि० ।

ङीष् । २ यवनभार्य्यायाञ्च । “यवनीमुखपद्मानाम्” रघुः ।

यवनेष्ट न० ६ त० । १ सीसके हेमच० । २ मरिचे ३ गृञ्जने

४ लशुन ५ राजपलाण्डौ ६ निज्ये च पु० । खर्जूर्य्यां
स्त्री राजनि० टाप् ।

यवफल पु० यव इव फलमस्य । १ वंशे अमरः २ कुटजे यस्य

फलमिन्द्रयवः । ३ जटामांस्याञ्च मेदि० ४ प्लक्षवृक्षे शब्दर० ।

यवमध्य न० यव इव षध्यं यस्य । चान्द्रायणभेदे प्रथम-

दिनादापञ्चदशदिनमेकैकग्रासवृद्ध्या, तदुत्तरं च आपञ्च-
दशदित क्रमेणेकैकग्रासहान्या माससाध्ये व्रते तस्य
मध्यदिवसानां हि बहुलग्रासबत्त्वेन यवमध्यतुल्यत्वम

यवलास पु० यवेन लस्यते सज्ञायां कर्त्तरि घञ् । यवक्षारे

शब्दच० ।

यवशूक पु० यवानां शूकः कारणत्वेनास्त्यस्यः श्वच् । यव

क्षारे त्रिका० यवशूकजादयोऽप्यत्र राजनि० ।

यवस न० यु--असच् । १ घासे २ तृणे च अमरः ।

यवागू स्त्री यूयते मिश्र्यते यु--आगू । षड्गुणजलपक्वे

द्रवभेदे (याउ) अमरः । “मण्डश्चतुर्दशगुणे यवागूः
षड्गुणेऽम्भसि” वैद्यकषरिभाषा ।

यवाग्रज पु० यवस्याग्रात् शूकात् जायते जन--ड । १

यवक्षारे अमरः । २ यवान्याञ्च राजनि० ।

यवानी स्त्री दुष्टो यवः ङीप् आनुक् च । (जोयानि) पदार्थे

राजनि० । “यवानी पाचनी रुच्या तीक्ष्णोग्रा कटुका
लघुः । दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् ।
वातश्लेष्मोदरानाहगुल्मप्लीहक्रमिप्रणुत्” भावप्र० ।

यवापत्य न० यवस्यापत्यमिव तज्जातत्वात् । यवक्षारे राजनि०

यवाम्लज न० यवजातादम्लाज्जायते जन--ड । सौवीरके

काञ्जिकभेदे राजनि० ।

यवास पु० यु--आस । १ दुरालभायाम् अमरः । २ खदिरभेदे

च शब्दमा० ३ मुण्डासिनी तृखे स्त्री राजनि० टाप् ।
स्वार्थे क । यवासक तत्रैव ।

यविष्ठ त्रि० अतिशयेन युवा युवन्--इष्ठन् यवादेशः । अतितरुणे ।

यवीयस् त्रि० अतिशयेन युवा युवन् + ईयसुन् यवादेशः ।

१ अतितरुणे २ कनिष्ठे च “अंशमंशं यवीयांसः” स्मृतिः ।
स्त्रियां ङीप् ।

यवोत्थ न० यवादुत्तिष्ठति उद् + स्था--क । सौवीरके राजनि० ।

यव्य न० यवानां भवनं क्षेत्रं यत् । यवभवनयोग्ये क्षेत्रे

अमरः । युतश्चन्द्रार्कावत्र यत् । २ चान्द्रे मासे पु० ।
“यव्यद्वय श्रावणादि सर्वा नद्यो रजस्वलाः” प्रा० त० ।

यशःपटह पु० यशःख्यापकः पटहः शा० त० । ढक्कायाम्

वाद्यभेदे अमरः ।

यशःशेष त्रि० यश एव शेषोऽस्व । मृते हेमच० । कीर्त्तिशेषादयोऽप्यत्र ।

यशद न० येन वायुना शीयते शद--अच् । (दस्ता) ख्याते

धातुभेदे “यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् । यशदं
तुवरं तिक्तं शीतलं कफपित्तहृत् । चक्षुष्यं परमं
मेहान् पाण्डुं श्वासञ्च नाशयेत्” भावप्र० ।

यशस् न० अश--असुन् धातोः युट् च । शौर्य्यादिभूते

ख्यात्यपरपर्य्याये पदार्थे अमरः ।

यशस्या स्त्री यशसे हिता यशस् + यत् । १ जीवन्त्याम् २ ऋद्धि-

नामोषधौ च राजनि० । ३ यशःसाधने त्रि० । “धन्यं
यशस्यमायुष्यम्” ।
पृष्ठ ४७७६

यशस्वत् त्रि० यशस् + अस्त्यर्थे मतुप् मस्य वः । यशोविशिष्टे

यशस्विन् त्रि० यशस् + अस्त्यर्थे विनि । १ यशोयुते स्त्रियां

ङीप् । सा च २ ज्योतिष्मतीलतायां ३ यवतिक्तायां
राजनि० ४ वनकार्पास्याञ्च शब्दर० ।

यशोद पु० यशो ददाति दा--क । १ पारदे राजनि० २

यशोदातरि त्रि० । ३ नन्दगोपपत्न्यां स्त्री । “नन्दगोपगृहे जाता
यशोदागर्भसम्भवा” देवीमा० ।

यष्टृ पु० यज--तृच् । यागशीले ।

यष्टि पु० यज--क्तिन् नि० न सम्प्रसारणम् । १ ध्वजादिदण्डे

२ भुजाद्यवलम्बने दण्डे च मेदि० क्तिच् । ३ तन्तौ
शब्दर्मा० । ४ हारलतायां ५ भार्ग्यां ६ मधूकायां (यष्टिमधु)
स्त्री वा ङीप् । ७ शस्त्रभेदे च मेदि० ।

यष्टिमधु न० यष्टौ मधु यस्य । स्वनामख्याते लताभेदे हला० ।

कप् तत्रार्थे स्त्री अमरः ।

यष्टीक न० यष्ट्या कायति कै--क । यष्टीमधौ लताभेदे भावप्र०

यष्टीपुष्प पु० यष्टीव पुष्पमस्य । पुत्रजीववृक्षे भावप्र० ।

यष्टीमधु पु० यष्ट्यां मधु अस्य । (यष्टिमधु) स्वनामख्याते

लताभेदे राजनि० ।

यस यत्ने दिवा० पक्षे भ्वा० वा श्यन् पर० अक० सेट् । यस्यति

यसति संयस्यति संयसति अनुयस्यति । इरित् अयसत्
अयासीत् अयसीत् । अय पुषादिरित्यन्ये उदित् क्त्वा
वेट् । यसित्वा यस्त्वा यस्तः ।

यस्क पु० यस--क नेत्त्वम् । मुनिभेदे तस्य गोत्रापत्यं शिवा०

अण् । यास्क तदपत्ये पुंस्त्री० निरुक्तकारके मुनिभेदे
पु० । बहुषु अणो लुक् । यस्काः ।

या गतौ अदा० पर० सक० अनिट् । याति अयासीत् ययौ

याग पु० यज--घञ् । मन्त्रकरणके वह्न्याद्यधिकरणे देवोद्देशेन

हविस्त्यागरूपे यज्ञे अमरः । तद्भेदाः कात्यायनादि-
श्रौत्रसूत्रादौ दृश्याः ।

याच याचने भ्वा० उभ० द्विक० सेट् । याचति ते अयाचीत्

अयाचिष्ट । ऋदित् चङि न ह्रस्वः । द्वित् अथु
याचथुः । द्वित् याचित्रम् । गोणेऽस्य कर्मणि सकारादयः ।

याचक त्रि० थाच--ण्वुल् । याच्ञाकारके अपरः ।

याचन न० याच--ल्युट् । याच्ञायाम् । युच् । याचना

तत्रार्थे स्त्री ।

याचनक त्रि० याच--ल्यु स्वार्थे क । याचके अमरः ।

याचित न० याच--भावे क्त । याचनवृत्तौ अमरः । २ याच्-

याञ्च । कर्मणि क्त । ३ प्रार्थिते त्रि० ।

याचितक न० याचितेनाधिगतम् कन् । याच्ञया धनस्वा-

मिनो गृहीते (चाओया) द्रव्ये अमरः ।

याच्ञा स्त्री याच--नङ् । प्रार्थनायाम् अमरः ।

याजक पु० याजयति यज--णिच्--ण्वुल् । धनादिलाभाय

परार्थं यज्ञकर्तरि ऋत्विगादौ ।

याजन न० यज--णिच्--ल्युट् । दक्षिणार्थमन्यस्य यागसम्पा-

दने “यजनं याजनं तथा” मनुः ।

याज्ञवल्क्य पु० १ धर्मशास्त्रकर्त्तरि तत्संहिता चाचारव्यव-

हारप्रायश्चित्तात्मकाध्यायत्रयान्विता । २ शुल्कयजुःप्रवर्त्तके
मुनिभेदे तत्कथा भाग० १२ स्क० ।

याज्ञसेनी स्त्री यज्ञसेनस्य द्रुपदराजस्यापत्यं स्त्री अत इञ्

ङीप् । द्रौपद्यां पाण्डवभार्य्यायाम् हेमच० ।

याज्ञिक पु० यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक् ।

१ दर्भभेदे शब्दर० । २ याजके ऋत्विगादौ ३ खदिरे ४ पलाशे
५ अश्वत्थे राजनि० । ६ यजमाने च ।

याज्य न० इज्यतेऽत्र यज--बा ण्यत् । १ यागस्थाने २ देवप्रति-

मायाञ्च “याज्यं क्षेत्रमलङ्कारम्” इति स्मृतिव्याख्यायां
दायभागे “याज्यं यागस्थानं देवताप्रतिमा वेत्युक्तम् ।
३ याजनीये त्रि० । करणे ण्यत् । ४ ऋग्विशेषे स्त्री ।
तदुच्चारणविशेषः आश्व० श्रौ० १ । ४५ सू० उक्तः ।

यातना स्त्री चु० यत--युच् । तीव्रवेदनायाम् अमरः ।

यातयाम त्रि० यातो गतो याम उचितसमयो यस्य । १ जीर्ण

२ परिभुक्ते च अमरः । ३ पर्युषिते “यातयामं गतरसम्”
इति गीता । ३ उच्छिष्टे मेदि० । ४ पुनःपुनःप्रयुज्यमाने
च “संवत्सरसाध्ये गवामयने प्रत्यहं वृहद्रथन्तरसाम्नोः
पुनः पुनः प्रयोगात् तस्य तथात्वम् ता० ब्रा० ४ । ३ । १३
भाष्ये दृश्यम् ।

यातव्य पु० यायतेऽसौ या--तव्य । नृपाणां युद्धार्थमभिगम्ये १ शत्रौ २ गन्तव्ये त्रि० ।

यातायात न० यातञ्चायातञ्च या--भावे क्त । आ + या--भावे

क्त समाहार द्व० । गमनागमनयोः ।

यातु न० या--तु । १ राक्षसे अमरः । २ गन्तरि त्रि० उणा० ।

३ काले पु० ४ अध्वगे त्रि० सि० कौ० ५ वायौ संक्षिप्तसा०
यत--णिच्--उण् । ६ यातयितरि प्रवर्त्तयितरि च
“यातुर्यथेति” ताण्ड्य० ब्रा० “यातुर्यातयिता प्रवर्त्तयि-
तेति” भा० ।

यातुघ्न पु० यातं राक्षसं गन्धेन हन्ति हन--टक् । १ गुग्गुलौ राजनि० ।

यातुधान पुंस्त्री० यातु इति धीयतेऽमिधीयते धा--ल्युट् ।

राक्षसे अमरः स्त्रियां जातौ ङीष् ।
पृष्ठ ४७७७

यातृ स्त्री या--तृच् । १ देवरपत्न्याम् (या) अमरः । यातरौ

यातरः । तृन् । २ गन्तरि त्रि० । यातारौ यातारः ।

यात्रा स्त्री या ष्ट्रत् । १ जिगीषया राज्ञां गमने अमरः

२ गमनमात्रे ३ देवोद्देशेनोत्सवभेदे रथयात्रादौ ४
यापने च मेदि० । ५ उपाये विश्वः यात्रादिनादिकं मु० चि०
यात्राप्रकरणे दृश्यम् ।

यात्रिक त्रि० यात्रायै हितम् । १ उत्सवे २ उपाये ३ गमनहिते नक्षत्रादौ च ।

याथातथ्य न० तथा तद्रूपस्यौचित्यम् अव्ययी० तस्य भावः

ष्यञ् । यद्वस्तु यथा भवितुं युक्तं तस्य तथाभावे ।

याथार्थ्य न० यथार्थस्य भावः । सत्यत्वे वास्तविकत्वे ।

यादःपति पु० यादसां जलजन्तूनां पतिः । १ वरुणे २ समुद्रे अमरः

यादव पु० यदोर्गोत्रापत्यमण् । १ यदुवंश्ये स्त्रियां ङीप् ।

२ तत्प्रधाने श्रीकृष्णे पु० शब्दर० । यदूनामिदमण्
३ गोमहिषादिके धने न० अभ० । ४ दुर्गायां स्त्री त्रिका० ङीप्

यादस् न० या--असुन् दुक् च । जलजन्तुमात्रे अमरः ।

यादसांनाथ पु० ६ त० अलुक्समा० । १ वरुणे हला०

२ समुद्रे च अमरः । यादसांपत्यादयोऽप्यत्र ।

यादृक्ष(श)(श्) त्रि० यस्येव दर्शनमस्य यद् + दृश्--क्म (ट)

क्विप् वा । यत्सदृशे यथाविधे । टान्तात्तु स्त्रियां ङीप् ।

यादृच्छिक त्रि० यदृच्छया आगतः ठक् । यथेच्छया प्राप्ते ।

यान न० या--भावे ल्युट् । १ गमने उपचितशक्तेः राज्ञः

मूलराष्ट्रादिरर्क्षा कृत्वा रिपोरास्कन्दनाय २ गमने च अमरः ।
करणे ल्युट् । ३ गमनसाधने रथादौ अमरः ।

यापन न० या--णिच्--ल्युट् । १ कालादेः क्षेपणे हेमच० ।

२ निरसने च मेदि० ।

याप्य त्रि० या--णिच्--ण्यत् । १ निन्द्ये २ अधमे अमरः ।

३ क्षेपणीये मेदि० । निःशेषमप्रतिकार्य्ये उपशमनीये
४ रोगभेदे च भावप्र० तत्र तल्लक्षणादिकमुक्तं यथा
“यापनीयन्तु तं विद्यात् क्रियां धारयते हि यः ।
क्रियायान्तु निवृत्तार्या सद्यो यश्च विनश्यति । प्राप्ता
क्रिया धारयति सुस्विनं याप्यमातुरम् । प्रपतिष्य
दिवागारं स्तम्भो यत्नेन योजितः । साध्या याप्यत्व-
मायान्ति याव्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसा-
ध्यास्तु नराणामक्रियावताम्” ।

याप्ययान पु० याप्यं क्षेप्यं कुत्सितं वा पदशून्यत्वात्

इतरबाह्यत्वाद्वा यानम् । (महापाला) शिविकायाम् अमरः ।

याम पु० यम घञ् । १ समये मेदि० १ प्रहरे च अमरः ।

“यामो यातस्तथापि नायातः” इति सा० द० ।

यामघोष पुंस्त्री० यामे घोषोऽस्य । १ कुक्कुटे शब्दच० स्त्रियां

ङीष् । २ घटिकायन्त्रभेदे स्त्री त्रिका० ।

यामल न० यमल + स्वार्थेऽण् । १ युगले हेमच० । २ तन्त्र-

शास्त्रभेदे च । “सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्य-
प्रदीपनम् । क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च ।
युगधर्मश्च संख्यातो यामलस्याष्टलक्षणम्” । तत्तु
षड्विधम् “आदियामलं १ ब्रह्मयामलं २ विष्णुयामलं ३
रुद्रयामलं ४ गणेशयामलम् ५ आदित्ययामलम् ६ च इति
वाराहीतन्त्रम् । अस्य वर्म्यादित्वमपि तत्रार्थे ।

यामवती स्त्री यामाः बहवः त्रित्वसंख्यायुताः सन्त्यस्यां भूम्नि

मतुप् मख वः ङीप् । १ रात्रौ राजनि० २ हरिद्रायाञ्च

यामातृ पु० जायां माति तृच् पृषो० । जामातृशब्दार्थे शब्दर०

यामि स्त्री यम--इन् । १ कुलस्त्रियां २ भगिन्यां अन्तःस्थ-

यादौ रभसः । “या(जा)मयोयानि गेहानीति” मनुः ।
३ रात्रौ शब्दर० । ४ यमपत्नोभेदे वह्निपु० “अरुन्धती
वसुर्यामिर्लम्बा भानुर्मरुत्वती । सङ्कल्पा च मूहूर्त्ता च साध्या
विश्वा च नामतः । धर्मपत्न्यो दश त्वेतास्ताखपत्यानि
मे शृणु” ।

यामित्र न० ज्योतिषोक्ते लग्नराशिभ्यां सप्तमे स्थाने ।

यामित्रवेधः पु० यामित्रे सप्तमस्थाने वेधः पापग्रहसंयोगः ।

विवाहादौ वर्ज्ये “पापात् सप्तमनः शशी” इत्याद्युक्ते
योगभेदे उपयमशब्दे १२६७ पृ० दृश्यम् ।

यामिनी स्त्री यामाः त्रिसंख्याताः सन्त्यस्य बाहुल्ये इनि ।

१ रात्रौ २ हरिद्रायाञ्च अमरः ।

यामिनीपति पु० ६ त० । १ चन्द्रे शब्दर० २ कर्पूरे च । रजनीशादयोऽप्यत्र ।

यामी स्त्री यमस्येयम् यमो देवतास्या वा तस्येयं वां अण्

ङीप् १ दक्षिणस्यां दिशि २ यमसम्बन्धिन्यां यातनायां
३ भरणीतारायां च । यामि + वा ङीप् । ४ यामिशब्दार्थे च ।

यामुनेष्टक न० यमुनायां भवं यामुनं तदिवेष्टकम् । सीसके

जटा० तस्य कृष्णत्वात् यामुनजलतुल्यत्वात्तथात्वम् ।

याम्य पु० यामी दिक् निवासोऽस्य यत् । १ अगस्त्ये २ चन्दन-

वृक्षे च मेदि० । यमोदेवतास्य तस्येदं वा ण्य । ३
यमसम्बन्धिनि त्रि० ४ भरणीनक्षत्रे च ज्यो० ५ दक्षिण-
देशस्थे त्रि० ।

याम्यायन न० याम्यायाम् अयनं सूर्य्यस्य गतिः । सूर्य्यस्य

दक्षिणायने तदाधारेषु रवेः मृगसंक्रान्तितः परेषु
षट्सु मासेषु च ।

याम्योद्भूत पु० याम्ये दक्षिणदेशे उद्भूतः । श्रीतालवृक्षे राजनि० ।

पृष्ठ ४७७८

यायजूक पु० यज--यङ्--ऊक । पुनःपुनःयागशीले अमरः ।

यायावर पु० देशाद्देशान्तरं याति या--यङ्--वरच् । १ अश्व

मेधोयाश्वे जटा० तस्य नानादेशगमनत्वात्तथात्वम् २
जरत्कारुमुनौ च त्रिका० । ३ भूशवक्रगमनशीले त्रि० ।

याव पु० यु--अप् स्वार्थे अण् । १ अलक्ते अमरः स्वार्थे क ।

यावक तत्र । याव इव कन् (कुल्तीकलाइ) २ व्रीहि-
धान्यभेदे अमरः ।

यावत् त्रि० यत् परिमाणमस्य मतुप् । १ यत्परिमाणे स्त्रियां

ङीप् । या--वति । २ साकल्ये ३ अवधौ ४ व्याप्तौ ५ माने
६ अवधारणे च अव्य० अमरः । एतच्छब्दयोगे द्वितीया ।

यावत्तावत् अव्य० यावच्च तावच्च द्व० । वीजगणितप्रसिद्धे

अव्यक्तमानानयनाय कल्प्ये प्रयमे राशौ ।

यावतिथ त्रि० यावतां पूरणः यावत् + डट् इथुक् च ।

यावत् परिमाणपूरणे ।

यावन पु० यु--णिच्--ल्यु । सिह्लाख्यगन्धद्रव्ये अमरः ।

यावनाल पु० यवनाल एव स्वार्थे अण् । धान्यभेदे (जनार)

राजनि० ।

यावनालशर पु० य वनाल इव शरः । शरभेदे राजनि० ।

यावनाली स्त्री यवनालस्य विकारः अण् ङीप् ।

यवनालभवायां शर्करायाम् राजनि० ।

यावशूक पु० यवशूकस्य विकारः अण् । यवक्षारे रत्नमा० ।

याष्टीक पु० यष्टिः प्रहरणमस्य ईकक् । यष्ट्या योद्धरि

अमरः ।

यास पु० यस--कर्त्तरि संज्ञायां घञ् । १ दुरालभायाम् अमरः भावे घञ् । २ प्रयासे ।

यु मिश्रणे अमिश्रणे च अदा० पर० सक० सेट् । यौति अयावीत् ।

यु बन्धे क्र्या० उभ० सक० अनिट् । युनाति युनीते अयौषीत्

अयोष्ट ।

यु त्रि० न्दने चु० आत्म० सक० सेट् । यावयते अयीयवत् ।

युक्त त्रि० युज--क्त । १ मिणिते मेदि० । २ अभ्यासवशाद् सदा

सर्वविषयकज्ञानयुते योगिनि पु० भाषा० ३ उचिते ४ न्या-
यागतद्रव्यादौ च न० अमरः ५ (एलानी) वृक्षभेदे स्त्री
रत्नमा० ।

युक्तरसा स्त्री युक्तो रसो यस्याः । रास्नायां (काटा आमरुली) अमरः ।

युक्ति स्त्री युज--क्तिन् । १ न्याये मेदि० । २ व्यवहारे ३ अनुमाने

४ तत्साधकलिङ्गज्ञानादौ स्वपक्षसाधकविपक्षबाधकप्रमा-
णोपन्धासे तर्कप्र० व्यवहारे कानि चित् वेषाञ्चिल्लि-
ङ्गानि नारदेनोक्तानि यथा “उल्काहस्तोऽग्निदो
ज्ञेयः शस्त्रपाणिश्च पातकः । केशाकेशिगृहीतश्च युगपत्
पारदारिकः । कुद्दालवाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः । प्रत्यक्ष-
चिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया
ह्येते पारुष्ये तु परीक्षणम्” । “युक्तिरर्थावधारणम्”
सा० द० उक्ते ६ नाटकाङ्गविशेषे च । तत्र न्याये “श्रुत्यो-
र्विरोधे न्यायस्तु बलवानर्थनिर्णये । युक्तिहीनविचारे तु
धर्महानिः प्रजायते” मीमांसकाः ।

युग वर्जने भ्वा० पर० सक० सेट् इदित् । युङ्गति अयुङ्गीत् ।

युग न० युगि--अच् पृषो० नलोपः । १ युग्मे द्वित्वसंख्यान्विते

सत्यत्रेताद्वापरकलिरूपे २ कालविशेषे ३ वृद्धिनामौषधे
४ हस्तचतुष्कपरिमाणे ५ रथहलादेरङ्गभेदे पु०
(जोयाल) मेदि० ।

युगकीलक पु० ६ त० । रथाद्यङ्गयुगधारणार्थे कीलकाकारे काष्ठखण्डभेदे अमरः ।

युगन्धर पु० युनं रथस्य युगकाष्ठं धरति धृ खच् । रथस्य

युगकाष्ठासञ्जने कुवराख्ये १ काष्ठभेदे अमरः । २ पर्वतभेदे
च शब्दर० ।

युगपद् अव्य० युगमिव पद्यते पद--क्विप् । एककाले इत्यर्थे अमरः ।

युगपत्त्र पु० युगमिव संहतं पत्त्रमस्य । कोविदारवृक्षे हेमच०

वा कष् । तत्रैव । शिंशपावृक्षे स्त्री त्रिका० टाप् अत
इत्त्वम् ।

युगपार्श्वग पु० युगपार्श्वे गच्छति गम--ड । अभ्य सार्थं

लाङ्गलपार्श्वे बद्धे वृषे अमरः ।

युगल न० युगं द्वित्वं लाति ला--क । युग्मे द्वित्वसंख्यान्विते अमरः ।

युगलाख्य पु० युनलेन वरात्मकेन व्यञ्जनवर्णद्वयेनाख्यायते

आ + ख्या--क । १ वर्वरवृक्षे राजनि० । २ युगलनामके त्रि० ।

युगान्त पु० युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः ।

१ प्रलये २ तत्काले च हला० ।

युग्म न० युज--भक् पृषो० जस्य ग । १ द्वित्वसंख्यान्विते

(जोड़ा) युगले । “युम्बाग्निकृतभूतानि षण्मुन्योर्वसु-
रन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्याध पूर्णिमा ।
प्रतिपदाप्यमावस्या तिव्योर्युग्मं महाफलम्” इत्युक्ते
२ तिथिविशेषयोगे ३ समराशिषु च ४ मिथुनराशौ च ज्यो०

युग्मपत्त्र पु० युग्मानि पत्त्राण्यस्य । १ रक्तकाञ्चनवृक्षे रत्नमा०

युग्मपर्णादयोऽप्यत्र । संज्ञायां कन् । २ शिंशपावृक्षे स्त्री
शब्दर० टाप् अत इत्त्वम् ।

युग्मफला स्त्री युग्मानि फलानि यस्याः । १ इन्द्रचिर्भठ्यां २ वृश्चिफालौ च राजनि० ।

युग्य न० युगमर्हति युग + यत् । १ वाहने याने । युगं वहति

यत् । २ युगवाहकेऽश्वादौ त्रि० अमरः ।
पृष्ठ ४७७९

युच्छ प्रमादे भ्वा० पर० सक० सेट् । युच्छति अयुच्छीत् ।

युज युतौ रु० उ० सक० अनिट् । युनक्ति युङ्क्ते इरित्

अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे ।
अजन्तोपसर्गात् उदश्च परस्मात् आत्म० ।
  • अनु + प्रश्ने सक० आ० । अनुयुङ्क्ते अनुयोगः ।
  • अभि + व्यवहारेणास्कन्दने (नालिशकरा) सक० आत्म०
अभियुङ्क्ते अभियोगः ।
  • उद् + आयोजने सक० उद्यमे अक० उद्युङ्क्ते उद्योगः ।
  • उप + भोजने सक० सम्बन्धभेदे अक० आत्म० उपयुङ्क्ते
उपयोगः ।
  • नि + प्रेरणे सक० आत्म० नियुङ्क्ते । नियोगः ।
  • परि + अनु + दूषणाय प्रश्ने आत्म० सक० । पर्य्यनुयुङ्क्ते पर्य्यनुयोगः ।
  • प्र + उच्चारणे व्यवहारभेदे च सक० आत्म० प्रयुङ्क्ते प्रयोगः
  • प्रति + प्रतिरूपे योगे सक० आ० प्रतियुङ्क्ते प्रतियोगः ।
  • सम् + संयोगे सक० प० संयुनक्ति संयोगः ।

युज निन्दायां चु० आ० सक० सेट् । योजयते अयूयुजत ।

युज समाधौ दि० आत्म० अनिट् । युज्यते । युयुजे ।

युज बन्धने युतौ च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

योजयति ते योजति । अयूयुजत् त । अयोजीत् ।

युज् त्रि० दि० युज क्विप् । १ समाधिमति । युक् युजौ । रु०

युज क्विप् । २ संयोगवति त्रि० युङ् युञ्जौ युञ्जः इति भेदः
चु० युज--निन्दे भावे क्विप् । ३ निन्दायाम् अव्य० ।

युञ्जान पु० युज--शानच् । १ योगविशेषवति भावनासहकारेण

सर्वपदार्थज्ञातरि भाषा० । २ रथसारथौ ३ विप्रे च मेदि० ।

युत दीप्तौ भ्वा० आ० अक० सेट् । योतते । अयोतिष्ट ।

ऋदित् चङि न ह्रस्वः ।

युत त्रि० यु--क्त । १ संयुक्ते २ मिलिते ३ अमिलिते च । ४ हस्तचतुष्टयमाने न० मेदि० ।

युतक न० यु--क्त युत--क वा ततः स्वार्थे क । १ संशये २ युगे

३ स्त्रीवसनाञ्चले ४ चरणाग्रे ५ यौतुके धने मेदि० ।
६ मैत्रीकरणे शब्दर० । ७ संश्रवे ८ शूर्पाग्रे च नानार्थमा० ।
९ स्त्रीवस्त्रभेदे हेम० । १० संयुक्ते त्रि० ।

युतवेध पु० विवाहादौ वर्ज्ये चन्द्रेण सह पापग्रहयोगे

उपयमशब्दे १२६७ पृ० लल्लवाक्ये दृश्यम् ।

युद्ध न० युध--भावादौ क्त । १ परस्पराभिघातार्थं शस्त्रादिक्षे-

पणव्यापारे योधने २ तदाधारे संग्रामे अमरः । ज्योति-
षोक्ते ग्रहाणां गतिभेदकृते योधनरूपे ३ परस्परमिलन
विशेषे च । ग्रहयुद्धशब्दे २७६६ पृ० दृश्यम् ।

युध युद्धे दिवा० आ० सक० अनिट् । युध्यते अयुद्ध युयुधे ।

युध्(ध्य) स्त्री युध--सम्प० क्विप् वा टाप् । १ युद्धे योधने

२ संग्रामे च अमरः ।

युधाजित् पु० क्रोष्टुनृपपुत्रे माद्रीगर्भजाते नृपभेदे हरिवं० ३५ अ० ।

युधान पु० युध--उणा० कान । १ क्षत्रिये चणादिको० ।

युधिष्ठिर पु० युधि युद्धे स्थिरः “गवियुधिभ्यां स्थिरः” पा०

षत्वम् । पाण्डवश्रेष्ठे ।

युप विमोहे दिवा० पर० अक० सेट् । युप्यति इरित् अयुपत् अयोपीत् ।

युयुधान पु० युध--कानच् द्वित्वम् । १ इन्द्रे सात्यकिनामनि

यादवे क्षत्रियभेदे त्रिका० । २ क्षत्रियमात्रे च संक्षिप्तसा० ।

युवखलति स्त्री युवतिरेव खलतिः पुंवत् । (टाक्)

रोगवत्याम् युवत्याम् ।

युवगण्ड पु० ६ त० । यूनो गण्डस्थव्रणभेदे । (वयस्फोड़ा) शब्दर० ।

युव(ति)ती स्त्री युवन् + ति ङीप् वा । १ यौवनवत्यां स्त्रि-

याम् शब्दर० । युवन्--ङीप् । यूनीत्यप्यत्र । २ स्त्री-
मात्रे भागुरिः ३ हरिद्रायां शब्दच० ।

युवतीष्टा स्त्री युवतीनामिष्टा । स्वर्णयूथिकायाम् राजनि० ।

युवन् त्रि० यु--कनिन् । १ श्रेष्ठे २ निसर्गबलवति मेदि० ।

“आषोड़शाद्भवेद् बालस्तरुणस्तत उच्यते” इत्युक्तवयस्के
३ तरुणे च । “जीवति तु वंश्ये युवा” पा० सूत्रैरुक्ते
पौत्रादेरपत्ये ४ चतुर्थादौ बालादिस्वरेषु ५ स्वरभेदे ।

युवनाश्व पु० सूर्य्यवंश्ये मान्धातृपितरि नृपभेदे ।

युवराज पु० युवैव राजा टच्समा० । राजयोग्यकियत्-

कार्य्यकरे १ राजपुत्रे अमरः । २ बुद्धभेदे त्रिका० ।

युष भजने सौ० पर० सक० सेट् । योषयति अयोषीत् । योषा युष्मद्

युष्मद् त्रि० सौ० युष--मदिक् । संबोध्यचेतने भवच्छब्दार्थे ।

उक्तार्थेऽस्य सर्वनामता त्रिषु लिङ्गेषु समरूपता च ।

यूक पुंस्त्री० यू--क्विप् क । मत्कुणे (उकुण) स्त्रीत्वे टाप् ।

यूति स्त्री यु--क्तिन् नि० दीर्घः । मिश्रीकरणे ।

यूथ न० यु--थक् वृषो० दीर्घः । सजातीयसमुदाये अमरः ।

यूथनाथ पु० ६ त० । वन्यगजादीनां प्रधाने अमरः ।

यूथपादयोऽप्यत्र ।

यूथिका स्त्री यु--थक् पृषो० दीर्घः स्वार्थे क अत इत्त्वम्

टाप् । १ अम्लानके मेदि० २ पाठायां राजनि० । २ यूथ्याञ्च
(युइ) अमरः ।

यूथी स्त्री यु--थक् पृषो० दीर्घः ङीप् । (युइ) पुष्पप्रधाने वृक्षे अमरः ।

यूप पुंन० यु--पक् पृषो० दीर्घः । १ यज्ञीयपशुबन्धनकाष्ठभेदे

तल्लक्षणं यज्ञपार्श्वे दृश्यम् । यागसमाप्तिचिह्नार्थे २ स्तम्भे
च अमरः ३ जयस्तम्भे पु० उणादिको० ।
पृष्ठ ४७८०

यूपकटक पु० ६ त० । यज्ञसमाप्तिसूचककाष्ठस्य शिरःस्थे

वलयाकारे काष्ठमये पदार्थे चषाले अमरः ।

यूपद्रु पु० यूपाय द्रुः प्रकृतिविकृतिभावात् ४ त० । खदिर-

वृक्षे यूपद्रुमादयोऽप्यत्र त्रिका० ।

यूष बधे भ्वा० पर० सक० सेट् । यूषति अयूषीत् युयूषा ।

यूष पुंन० यूष--क । १ मुद्गादिक्काथे अमरः ।

“अष्टादशगुणे नीरे शमीथान्यशृतोरसः । विरसान्ने घनः
किञ्चित् पेयातो यूष उच्यते । उक्तः स एव निर्यूहो
रुचिकृच्च विशेषतः” । यूषस्य प्रकारान्तरमाह कल्क-
द्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीं । वारिप्रस्थेन
विपचेत्तद्भवौ यूष उच्यते” ।
“यूषो बल्यो लघुः पाके रुच्यः कण्ठ्यः कफापहः” ।
अथ मुद्गयूषविधिः “मुद्गानां द्विपलं तोये शृतमर्द्धाटको-
न्मिते । पादस्थं मर्दितं पूतं दाड़िमस्य पलेन तत् ।
युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः । कणाजी-
रकयोश्चूर्णाच्छाणैकेनावचूर्णितम् । संस्कृतो मुद्गयूषोऽयं
पित्तश्लेष्महरो मतः” । अथ तस्य गुणाः “मुद्गाना-
मुत्तमो यूषो दीपनः शीतलो लघुः । व्रणोर्ध्वजत्रू-
रुग्दाहकफपित्तज्वरास्रहृत्” । अथ मुद्गामलक-
यूषगुणाः “मुद्गामलकयूषस्तु भेदी पित्तानिलापहः ।
तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः” भावप्र० ।
२ ब्रह्मदारुदृक्षे पु० शब्दर० ।

येष यत्ने भ्वा० आ० अक० सेट् । येषते अयेषिष्ट । ऋदित् चङि न ह्रस्वः ।

योक्त्र न० युज्यतेऽनेन यज--ष्ट्रन् । ईशादण्डादौ युगबन्ध-

नार्थे दामनि (योत) अमरः ।

योग पु० युज--भावादौ घञ् । संयोगे १ मेलने २ उपाये

३ वर्म्मादिधारणे ४ ध्याने ५ युक्तौ च अमरः । “योगश्चित्त-
वृत्तिनिरोधः” इति पातञ्जलोक्ते ६ सर्वविषयेम्योऽन्तःक-
रणवृत्तेर्निरोधे “संयोगं योगमित्याहुर्जीवात्मपरमा-
त्मनोः” इत्युक्ते ७ जीवात्मपरमात्मनोरैक्ये । ८ असभ्यार्थ-
लाभचिन्तायाम् ९ देहस्थैर्य्ये १० शब्दादीनां प्रयोगे
११ भेषजे १२ विश्वासघातके १३ द्रव्ये कार्मणे च मेदि० ।
१४ समुदायशब्दस्यावयवार्थसम्बन्धे “योगबलं समाख्या”
इति मीमांसकाः । “योगः कर्मसु कौशलम्” इत्युक्ते
१५ यथास्थितवस्तुनोऽन्यथारूपप्रतिपादने यथा संसार-
बन्धहेतोरपि कर्मणोऽबन्धमोक्षहेतुत्वम् । १६ ज्योति-
षोक्तेषु रविचन्द्रयोगाधीनेषु विष्कुम्भादिषु सप्त-
विंशतौ पदार्थेष । तिथिवारनक्षत्राणाम् अन्यतरान्य-
तमानां १७ सम्बन्धविशेषेषु सिद्धियोगः अमृतयोगः अर्द्धो-
दययोग इत्यादि । १८ छले च “योगाधमनविक्रीतमिति”
स्मृतिः । १९ नैयायिके २० धने हेमच० २१ चारे २४ सूत्रे
त्रिका० । चित्तवृत्तिनिरोधरूपयोगश्च द्विविधः । राजयोगो
हटयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हटयोगस्तु
तन्त्रशास्त्रोक्तः । तस्य प्रकारान्तरेण त्रैविध्यम् भाग०
११ । २० अ० उक्तं यथा “श्रीभगवानुवाच “योगास्त्रयो
मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म
च भक्तिश्च नोपायोऽन्योऽस्ति कृत्रचित् । निर्विण्णानां
ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्वनिर्विणचित्तानां
कर्मयोगश्च कामिनाम् । यदृच्छया मत्कथादौ जातश्रद्धस्तु
यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य
सिद्धिदः । तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते । स्वधर्मस्थो
यजन् यज्ञैरनाशीःकाम उद्धव! । न याति स्वर्गनरकौ
यद्यन्यन्न समाचरेत् । अस्मिल्लाँके वर्त्तमानः स्वधर्मस्यो-
ऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्भक्तिञ्च
यदृच्छया” । २३ ज्योतिषोक्ते लग्नादिगृहविशेषे ग्रहभेद-
योगे यथा राजयोगः नाभसयोग इत्यादि । यात्रायां
यात्रालग्नात् केन्द्रत्रिकोणस्थिते बुधजीवशुक्राणामेकस्मिन्
यथोक्तं मु० चि० “एकोज्ञेज्यसितेषु पञ्चमतपःकेन्द्रेषु
योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः
स्मृतः” । योगे क्षेममथाधियोगगमने “क्षेमं रिपूणां बधः”

योगक्षेम न० योगश्च क्षेमञ्च समाहारः द्व० । अलभ्यलाम-

चिन्तासहिते लब्धपरिरक्षणे “योगक्षेमं वहाम्यहम्”

योगज न० योगात् जायते जन--ड । १ अगुरुचन्दने भावप्र० ।

२ योगजातमात्रे त्रि० । ३ न्यायाद्युक्ते प्रत्यक्षसाधने
अलौकिकसन्निकर्षभेदे पु० ।

योगदान न० योगेन छलेन उपधिना वा दानम् । “योग-

दानप्रतिग्रहम्” इति स्मृत्युक्ते सोपधिके दाने ।

योगनिद्रा स्त्री योगरूपा निद्रा । प्रलये परमेश्वरस्य सर्व-

जीवसंहारेच्छया योगरूपे १ व्यापारे “योगनिद्रामुपेयुषः”
देवीमा० २ तदधिष्ठात्र्यां दुर्गायाञ्च ।

योगपट्ट न० योगाभ्यासार्थं पट्टम् । योगिधार्य्ये पट्ट-

सूत्रभेदे योगपदकमप्यत्र । “त्रिविधं योगपदकमाद्यं
व्याघ्राजिनोद्भवम् । द्वितीयं मृगचर्माढ्यं तृतीयं तन्तु-
निर्मितम् । चतुर्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत्”
सिद्धान्तशेखरः । चतुर्मात्रं चतुरङ्गलमात्रम् वीरमि० ।
पृष्ठ ४७८१

योगपीठ पुंन० योगयोग्यं पीठमासनम् । देवादीमासनभेदे

योगमाया स्त्री योग एव माया । भगवतो जगत्सर्जना-

र्थायां शक्तौ “योगमायामुपाश्रितः” इति भाग० १० स्क०
रासारम्भे तदधिष्ठात्र्यां २ दुर्गायाञ्च ।

योगरङ्ग पु० योगेन रङ्गोऽत्र । (नारङ्ग) जम्बीरभेदे राजनि०

योगरूढ़ पु० योगोऽवयवशक्तिः रूढ़िः समुदायशक्तिः एते

स्तोऽस्य अच् । अवयवशक्त्या समुदायशक्त्या च अर्थ-
बोधके पङ्कजशब्दादौ । तत्र हि उभयशक्त्या पङ्कजन्म-
कर्तृत्वरूपावयवार्थविशिष्टपद्मत्वविशिष्टस्व बोधः ।
उभयार्थबोधनाच्च पङ्कजाते कुमुदादौ स्थलजाते पद्मे च न
तत्पदप्रयोगप्रसङ्गः ।

योगरूढ़ि स्त्री योगेन सहिता रूढ़िः । शब्दस्य वृत्तिभेदे

यया पङ्कजनिकर्तृत्वविशिष्टपद्मस्य बोधः ।

योगवाहिन् पु० योगेन वहति वह--णिनि । १ पारदे २ क्षारभेदे च हेमच० ।

योगाचार पु० बौद्धभेदे तन्मतञ्च बुद्धशब्दे ४५८१ पृ० दृश्यम्

योगाधमन न० योगेन छलेनोपधिना वाऽऽधमनम् ।

सोपधिके छलहेतुके च बन्धकदाने । “योगाधमनविक्रीतम्”
इति स्मृतिः ।

योगारूढ़ पु० योगमारूढ़ः आ + रुह--क्त । “यदा तु

नेन्द्रियार्थेषु न कर्मष्वनुषज्जते । सर्वसंकल्पसन्त्यासी
योगारूढ़स्तदोच्यते” इत्युक्ते योगिभेदे “योगारूढ़स्य तस्यैव
शमः कारणमुच्यते” इति गीता ।

योगासन न० योगार्थमासनम् । १ योगशास्त्रोक्ते स्वस्तिकादौ

आसनमेदे हेमच० । “अथ योगासनं वक्ष्ये यत् कृत्वा
योगिवद्भवेत् । ऊर्वोः पादतलद्वन्द्वं स्वाङ्के बद्ध्वा करद्वयम्”
इति रुद्रजा० उक्ते २ आसनभेदे च ।

योगिन् त्रि० युज--घिनुण् । “आत्मौपम्येन सर्वत्र समं

पश्यति योऽर्जुनः । सुखं वा यदि वा दुःखं स योगी
परमो मतः” गीताद्युक्तयोगयुक्ते २ संयोगवति च त्रि०
स्त्रियां ङीप् । सा च तत्र ३ दुर्गायां ४ तच्शक्तिभेदेषु
अक्षोभ्यादिषु चतुःषष्टिप्रकारेषु देवताप्रतिमाशब्दे ३९९५
पृ० दृश्यम् । “प्रतिपन्नवमी पूर्वे रामरुद्रौ च पावके ।
शरस्त्रयोदशी याम्ये वेदमासौ च नैरृते । षष्ठी
चतुर्दशी पश्चात् वायव्यां मुनिपूर्णिमे । द्वितीया दशमी
यक्षे ऐशान्यां चाष्टमी कुहूः” इत्युक्तेषु पूर्वादिदिग्-
भेदाद् ५ तिथिभेदेषु तत्फलं वामे शुभकरी प्रोक्ता
पृष्ठे सर्वार्थसाधिनी” ज्यो० त० । आवश्यकत्वे यामार्द्ध-
भेदे तस्याः शुभत्वं समयामृते उक्तं यथा “यस्यां
दिश्युदयं याति ततो यामार्द्धभुक्तिका । भ्रमन्ती तेन
मार्गेण भवेत्तत्कालयोगिनी । तेन “प्राचीधनेश्वर-
हुताशनकौणपेयवायव्यवारुणयमाधिपशङ्करेषु । एषु
क्रमान्निवसति प्रतिपन्नवम्योः पृष्ठे स्थिता शुभकरी
गिरिराजपुत्री” । ६ मङ्गलापिङ्गलादिदशाभेदे च दशाशब्दे
३४८४ पृ० दृश्यम् ।

योगीश्वर पु० ६ त० । १ याज्ञवल्क्यमुगौ २ योगिनां श्रेष्ठे च । ३ दुर्गायां स्त्री ङीप् ।

योगेश्वर पु० ६ त० । १ श्रीकृष्णे “योगेश्वरं! ततो मे त्वं

दर्शयात्मानव्ययम्” गीता । २ दुर्गायां च ३ बन्ध्याकर्कोट्यां
स्त्री भावप्र० ङीप् ।

योगेष्ट न० योगाय योजनार्थमिष्टम् । सीसके अमरः ।

योग्य त्रि० योगमर्हति यत् युज--ण्यत् वा । १ योगार्हे

२ उचिते ३ निपुणे ४ शक्ते च । ५ पुष्यनक्षत्रे पु० मेदि० ।
६ ऋद्धिनामौषधे न० अमरः ।

योग्यता स्त्री योग्यस्य भावः तल् । १ सामर्थ्ये २ शाब्द-

बोधसाधने “पदार्थे तत्र तद्वता योग्यता परिकीर्त्तिता”
भाषा० उक्ते ३ तत्पदार्थे तत्पदार्थवत्तारूपे ४ परस्परान्वये
बाधाभावरूपे वार्थे च ।

योग्या स्त्री योगमर्हति यत् युज--ण्यत् वा कुत्वम् । १ अभ्यासे

सूर्य्यस्त्रियाञ्च मेदि० ३ शास्त्राभ्यासे हेमच० ।

योग्यानुपलब्धि स्त्री योग्यस्य प्रत्यक्षादिना उपलब्धुमर्हस्या-

नुपलब्धिरज्ञानम् । न्यायाद्युक्ते अभावग्राहके साधन-
भेदे । तथाहि घटादिसत्त्वे तत्र घटाभावो नानुप-
लभ्यते तस्य प्रतियोगिनो घटादेः सत्त्वेन तत्प्रत्यक्ष-
कारणसामग्र्यसत्त्वेन तत्प्रत्यक्षस्याभावात् किन्तु
घटास्याभावो गृह्यते पिशाचाद्यभावस्य तु न प्रत्यक्षता
तत्प्रतियोगिपिशाचादेर्दर्शनायोग्यत्वात् । वेदान्तिमते इयं
प्रमाणान्तरम् वेदान्तप० ६ प० ।

योजन न० युज--भावादौ ल्युट् । १ संयोगे णिच्--ल्युट् ।

२ संयोगकरणे । ३ चतुर्षु क्रोशेषु । “स्याद् योजनं क्रोश-
चतुष्टयेन” “प्रथममगमदह्ना योजने योजनेशः” इति च
लीला० । ४ परमात्मनि च मेदि० । ५ अङ्गुलौ निघ० ।
युज--णिच्--युच् । यस्यार्थस्य यत्रान्वयः तद्वाचक-
शब्दस्य तद्वाचकशब्देन ६ आसत्तिसम्पादने स्त्री ।

योजनगन्धा स्त्री योजनं व्याप्य गन्धो यस्याः । १ कस्तूर्य्याम्

२ सीतायां ३ व्यासमातरि सत्यवत्याञ्च मेदि० । स्वार्थे कप्
अत इत्त्वम् तत्रैवार्थे ।

योजनपर्णी स्त्री योजनं व्याप्य पर्णान्यस्याः विस्तीर्णपर्णत्वात् । मञ्जिष्ठायाम् रत्नमा० ।

पृष्ठ ४७८२

योजनवल्ली स्त्री योजनं व्याप्य वल्लीव । मञ्जिष्ठायाम् अमरः

स्वार्थे क ह्रस्वः टाप् । तत्रैव राजनि० ।

योटक त्रि० युट--ण्वुल् । १ मेलके विवाहमेलकश्च

उपयमशब्दे १२४८ पृ० दृश्यः ।

योत्र न० यु--ष्ट्रन् । योक्त्रे (योत) अमरः ।

योद्धृ पु० युध--तृच् । युद्धकर्त्तरि अमरः ।

योध पु० युध--अच् । १ युद्धकारके अमरः । भावे घञ् । २ युद्धे ।

योधन न० युध--भावे ल्युट् । १ युद्धे । करणे ल्युट् । २ अस्त्रा-

द्यायुधे । कर्त्तरि ल्यु । ३ युद्धकर्त्तरि पु० ।

योधनसंराव पु० योधनस्य युद्धाय संरावः आह्वानम् ४ अर्थे

६ त० । योधानां युद्धार्थे परस्पराह्वाने अमरः ।

योनल पु० यवस्य नल इव काण्डोऽस्य पृषो० उत्त्वम् ।

(देधान) शस्यभेदे हेमच० ।

योनि पुंस्त्री० यु--नि । १ मण्यादीनामुत्पत्तिस्थाने आकरे

मेदि० । २ कारणे ३ जले हेम० । ४ स्त्रीणामसाधारणचिह्ने
अमरः । ५ तद्देवताके पूर्वफल्गुनीनक्षत्रे ज्यो० । स्त्रीत्वे
वा ङीप् । ६ उत्पत्तिस्थानमात्रे त्रिका० ।

योनिज न० योनिस्थानात् जायते जन--ड । देहभेदे १

जरायुजे २ अण्डजे च देहे ।

योनिमुद्रा स्त्री योन्याकारा मुद्रा । तन्त्रोक्ते देवताविशेष-

पूजाङ्गे प्रदर्शनीये अङ्गुलीसन्निवेशविशेषे तल्लक्षणन्तु
“मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामि०
कोर्ध्वसंश्लिष्टे दीर्घमध्यमयोरधः । अङ्गुष्ठाग्रद्वयं न्यस्य
योनिमुद्रेयमीरिता” तन्त्रसा० । २ मूलबन्धरूपे योने-
र्बन्धभेदे तल्लक्षणमुक्तं पदार्थादर्शे “पार्ष्णिभागान्
सुसंपीड्य योनिमार्गं तथा गुदम् । अपानमूर्ध्वमाकर्षेत्
मूलबन्धो निगद्यते । गुदमेढ्रान्तरं योनिस्तामाकुञ्च्य
प्रबन्धयेत् । युवा भवति वृद्धोऽपि सततं मूलबन्धनात्” ।
(योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः) “सेयं मयोक्ता
खलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्य । अनेन
बन्धेन न साध्यते यन्नास्त्येव तत्साधकपुङ्गवस्य” ।

योनिरोग पु० ६ त० । षोडशविधे भगरोगभेदे

“उदावृत्ता १ तथा वन्ध्या २ विप्लुता ३ च परिप्लुता ४ । वातला ५
योनिजो रोगो वातदोषेण पञ्चधा । पञ्चधा पित्तदोषेण
तत्रादौ लोहिताक्षरा १ । प्रस्रंसिनी २ बामनी ३ च पुत्रघ्नी ४
पित्तला ५ तथा । अत्यानन्दा १ कर्णिनी २ च चरणा ३ नन्द-
पूर्विका ४ । अतिपूर्वापि ५ सा ज्ञेया श्लेष्मला ५ च कफादिमाः ।
षण्ड्यण्डिनी १ । २ च विकृता ३ मूचीवक्त्रा ४ त्रिदोषिणी ५ ।
पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः” । अथ तासां
लक्षणान्याह “सफेनिलमुदावृत्ता १ रजः कृच्छ्रेण मुञ्चति ।
बन्ध्या २ निरार्त्तवा ज्ञेया विप्लुता ३ नित्यवेदना । परिप्लु-
तायां ४ भवति ग्राम्यधर्भे त्वरा भृशम् । वातला ५ कर्कशा-
स्तब्धाशूलनिस्तोदपीड़िता । चतसृष्वपि चाद्यासु भवन्त्य-
निलवेदनाः” । अनिलवेदनास्तोदादयः वातलायां त्वति
वातवेदना बोद्धव्या वातलेत्यन्वयात् । “सदाहं क्षरते
रक्तं यस्याः सा लोहिताक्षरा १ । प्रस्रंसिनी २ संसूते च
क्षोभिता दुष्प्रजायिनी” । “क्षोभिता विमर्द्दिता स्रंसते
स्वस्थानाच्च्यवते दुष्प्रजायिनी दुष्टप्रजननशीला । सतत
मुद्गिरेद्वीर्य्यं वामनी ३ रजसा युतम् । स्थितं हि पातयेद्-
गर्मं पुत्रघ्नी ४ रक्तसंस्रवात्” । पुत्रशब्दोऽत्रापत्योपलक्षकः ।
“अत्यर्थं पित्तला ५ योनिर्दाहपाकज्वरान्विता । चतसृष्वपि
चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्” । अत्यानन्दा १ न सन्तोषं
ग्राम्यधर्भेण विन्दति । कर्णिन्यां २ कर्णिका योनौ श्लेष्मा-
सृग्भ्यां प्रजायते” । कर्णिका मांसस्य कर्णिकाकारो-
ग्रन्थिः । “मैथुने चरणा ३ पूर्ब पुरुषादतिरिच्यते ।
अतिरिच्यते रजोमुञ्चतीत्यर्थः । बहुशश्चातिचरणा ४ तयोर्वीर्य्यं
न तिष्ठति” । बहुशः वारंवारमतिरिच्यते तयोः चरणा-
तिचरणयोः । “श्लेष्मला ५ पिच्छला योनिः कण्डूयुक्ताति
शीतला । चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ।
अनार्त्तवाऽस्तनी षण्डी १ खरस्पर्शा च मैथुने” । अस्तनी
ईषत्स्तनौ यस्याः सा अत्र लक्ष्या षण्डी । महामेढ्र-
गृहीताया बालाया अण्डिनी २ भवेत् । महामेढ्र
पुरुषस्तेन ग्रहीतायाः बालायाः मूक्ष्मयोनिच्छिद्रायाः
अण्डिनी ३ अण्डवल्लम्बमाना योनिर्भवति” । विवृतां मूची
वक्त्राञ्चाह “विवृता ३ च महायोनिः सूचीवक्त्राति ४ संवृता ।
त्रिदोषजामाह सर्वलिङ्गसमुत्थानं सर्वदोषप्रकीपजम् ।
चतऌष्वपि च द्यासु सर्वलिङ्गनिदर्शनम्” । अयासाध्यां
योनिमाह । “पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ।
पञ्च षण्डीप्रभृतयः” अथ योनिकन्दस्य निदानमाह ।
“दिवास्वप्नादतिक्रोधात् व्यायामादतिमैथुनात् । क्षताच्च
नखदन्ताद्यै र्वाताद्याः कुपिता यथा” । यथास्वनिदानं
कुपिता वातादाः । रूपभाह “पूयशोणितसङ्काशं लकुचा-
कृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स
योनिजः” । लकुचाकृतिसन्निभं लकुचाकारं गुड़कमत्र
विशेष्यं बोघ्यम्” । वातजादिभेदेन रूप्रमाह । “रूक्षं
विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहराग-
पृष्ठ ४७८३
ज्वरयुतं विद्यात्पित्तात्मकं तु तम् । तिलपुष्पप्रतीकाशं
कण्डूमन्तं कफा प्रकम् । सर्वलिङ्गसमायुक्तं सन्नि-
पातात्मकं वदेत्” ।

योषा स्त्री युष--अच् टाप् । स्त्रियाम् गार्य्याम् अमरः ।

योषित् स्त्री युष--इति । गार्य्याम् अमरः । हलन्तत्वाद्वा टाप् ।

योषिताप्यत्र शब्दर० ।

योषित्प्रिया स्त्री ६ त० । १ हरिद्रायां भावप्र० । २ नारीप्रियमात्रे त्रि० ।

यौक्तिक त्रि० युक्तित आगतः ठक् । १ युक्तिसिद्धे २ योग्ये

च । युक्तौ अधिकृतः ठक् । ३ नर्मसचिये पु० शब्दर० ।

यौगिक त्रि० योगात् प्रकृतिप्रत्ययार्थसम्बन्धात् आगतः ठक् ।

प्रकृतिप्रत्ययलभ्यार्थवाचके शब्दे यथा पाचकादिशब्दः
पाककर्तृबाचकः । बोगाय प्रभवति ठक् । २ बोगबोम्ये

यौट संबन्धे भ्वा० पर० सक० सेट् । बौटति अयौटीत् ।

ऋदित् चङि न ह्रस्वः ।

यौड़ यौटवत् सर्वम् । यौड़ति अयौड़ीत् ऋदित् ।

यौतक न० युते विवाहकालेऽधिगतम् वुण् । विवाहकाले लब्धे

धने हला० । इति दायभागानुसारिणः । वीरमि० तु
“यु मिश्रणे इति धात्वनुसारात् विवाहकाले एकासनोप-
विष्टयोर्बधूवरयोर्यद् बन्धुभिर्दीयते तत्युतयोरिदं यौतक-
मिति व्युत्पत्त्या यौतकमित्युच्यते” इत्युक्तम् अत एव
निघण्टौ युतयोर्यौतकमित्युक्तम् । अन्ये तु विवाहे
स्त्रीपुंसावेकशरोरतया मिश्रितौ भवत इति “अस्थिभि-
रस्थीनि मांसैर्मांसानि” इत्यादिश्रुत्या तथोक्तेः विवाहेन
युतयोरिदम्” इत्याहुः । वस्तुतः विवाहकालोत्तर-
मेकासनोप्रविष्टयोरेव दत्तं धनं यौतकं लोकप्रसिद्धं
वीरमि० उक्तं साधीयः । “मातुश्च यौतकं यत् स्यात्
कुमारी भाग एव सः” मनुः ।

यौतव न० यु--तु योतुः तस्य भावः अण् । १ परिमाणे अमरः ।

यौतुक न० योतुर्योगकालस्तत्र लब्धं कण् । विवाहकाले

लब्धे धने यौतकशब्दे दृश्यम् ।

यौधाजय न० ऊहगाने १ प्र० दर्शिते सामभेदे

“रौरवयौधाजये वार्हते भवतः” श्रुतिः ।

यौधेय पु० योध एव आयुधजीविसंघत्वात् स्वार्थे ढक्

१ योद्धरि । २ उत्तरस्थदेशभेदे पु० वृ० स० १४ अ० ।
बुधायाः अपत्यम् “द्व्यचः” पा० ढक् । २ युधाया अपत्ये ।
ततःस्वार्थे अञ् शार्ङ्गर० स्त्रियां ङीन् । यौधेयी ।

यौन त्रि० योनितः योनिसम्बन्धात् आगतम् अण् । १ योनितः

प्राप्ते । योनेरयमण । २ वैवाहिकसम्बन्धे पु० ।
प्रा० वि० बौधायनः “संवत्सरेण पतति पतितेन
सहाचरन् । याजनाध्यापनाद् यौनात् सद्यो हि
शयनाशनात्” । सुमन्तुः “यश्चैतेर्यौनमौखस्रौव्यादीनां
सम्बन्धानामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव
प्रायश्चित्तं विदध्यादिति” ।

यौवत न० युवतीनां समूहः अण् । युवतिसमुदाये अमरः ।

यौवन न० यूनो भावः अण । १ तारुण्ये “आ षोडशाद्

भवेद् बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्तते-
रूर्ध्वम्” इत्युक्ते २ अवस्थाभेदे ।

यौवनकण्टक पुंन० यौवनस्य कण्टक इव चिह्नम् । (वयस् फोडा) व्रणभेदे शब्दमा०

यौवनदशा स्त्री कर्म० । तारुण्ये अवस्थाभेदे ।

यौवनलक्षण न० ६ त० । १ स्तने २ लावण्ये च मेदि० ।

यौष्माक त्रि० युष्माकमिदम् युष्मद् + अण् युष्माकादेशः ।

युष्मत्सम्बन्धिनि । खञ् । यौष्मकीनोऽप्यत्र त्रि० ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य
सङ्कलिते वाचस्पत्ये यकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/य&oldid=312689" इत्यस्माद् प्रतिप्राप्तम्