महाभारतम्-16-मौसलपर्व-004

विकिस्रोतः तः
← मौसलपर्व-003 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-004
वेदव्यासः
मौसलपर्व-005 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009


द्वारकायां वृष्ण्यन्तकादिभिरनर्थसूचकदुस्स्वप्नानुभवः।। 1 ।।
ततः कृष्णाज्ञाया सस्त्रीबालवृद्धैः प्रभासक्षेत्रगमनम्।। 2 ।।
तत्र नृत्तगानादिमहोत्सवानुभवपूर्वकं मद्यादिपानम्।। 3 ।।
तत्र सभायां सात्यकिना स्यमन्तकमणिहरणादिमर्मोद्धाटनपूर्वकं कृतवर्मगर्हणम्।। 4 ।।
मणिवृत्तान्तश्रवणखि***सत्यभामामनःप्रसादनाय सात्यकिना खड्गेन कृतवर्मणः सिरश्छेदनम्।। 5 ।।
ततः कृतवर्मसात्यकिपक्षीयैर्मौसकतृचैः परस्परप्रहारेण परस्परमारणम्।। 6 ।।

वैशंपायन उवाच। 16-4-1x
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति।।
16-4-1a
16-4-1b
अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः।।
16-4-2a
16-4-2b
अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः।।
16-4-3a
16-4-3b
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम्।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा।।
16-4-4a
16-4-4b
युक्तं रथं दिव्यमादित्यवर्णं
हयाऽहरन्पश्यतो दारुकस्य।
ते सागरस्योपरिष्टादगच्छ-
न्मनोजवाश्चतुरो वाजिमुख्याः।।
16-4-5a
16-4-5b
16-4-5c
16-4-5d
तालः सुपर्णश्च महाध्वजौ तौ
सुपूजितौ रामजनार्धनाभ्याम्।
उच्चैर्जह्रुरप्सरसश्च दिव्या
देवा ऊचुर्गम्यतां तीर्थयात्राः।।
16-4-6a
16-4-6b
16-4-6c
16-4-6d
`भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः।
दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः।।'
16-4-7a
16-4-7b
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः।।
16-4-8a
16-4-8b
ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च।
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः।।
16-4-9a
16-4-9b
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः।।
16-4-10a
16-4-10b
ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम्।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा।।
16-4-11a
16-4-11b
निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित्।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः।।
16-4-12a
16-4-12b
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः।।
16-4-13a
16-4-13b
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः।
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी।।
16-4-14a
16-4-14b
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम्।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम्।।
16-4-15a
16-4-15b
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम्।
अवर्तत महापानं प्रभासे तिग्मतेजसाम्।।
16-4-16a
16-4-16b
कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च।।
16-4-17a
16-4-17b
ततः परिषदो मध्ये युयुधानो मदोत्कटः।
अब्रवीत्कृतवर्माणमवहास्यावमत्य च।।
16-4-18a
16-4-18b
कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम्।।
16-4-19a
16-4-19b
इत्युक्ते युयुधानेन पूजयामास तद्वचः।
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व।।
16-4-20a
16-4-20b
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत्।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना।।
16-4-21a
16-4-21b
भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया।
वधेन सुनृशंसेन कथं वीरेण पातितः।।
16-4-22a
16-4-22b
इति तस्य वचः श्रुत्वा केशवः परवीरहा।
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स मन्युमान्।।
16-4-23a
16-4-23b
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम्।।
16-4-24a
16-4-24b
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्।।
16-4-25a
16-4-25b
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्। 16-4-26a
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः।
एष गच्छामि पदवीं सत्येन च तथा शपे।।
16-4-27a
16-4-27b
सौप्तिके ये च निहताः सुप्ता येन दुरात्मना।
द्रोणपुत्रसहायेन पापेन कृतवर्मणा।।
16-4-28a
16-4-28b
समाप्तमायुरस्याद्य यशश्चैव सुमध्यते।
इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः।।
16-4-29a
16-4-29b
16-4-29c
तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा।।
16-4-30a
16-4-30b
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः।
भोजान्धका महाराज शैनेयं पर्यवारयन्।।
16-4-31a
16-4-31b
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम्।।
16-4-32a
16-4-32b
ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा।।
16-4-33a
16-4-33b
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः।
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम्।।
16-4-34a
16-4-34b
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह।
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ।
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः।।
16-4-35a
16-4-35b
16-4-35c
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः।
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः।।
16-4-36a
16-4-36b
तदभून्मुसलं घोरं वज्रकल्पमयोमयम्।
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन्।।
16-4-37a
16-4-37b
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः।।
16-4-38a
16-4-38b
यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो।।
16-4-39a
16-4-39b
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव।।
16-4-40a
16-4-40b
आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्।।
16-4-41a
16-4-41b
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम्।।
16-4-42a
16-4-42b
पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः।
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित्।।
16-4-43a
16-4-43b
तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम्।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः।।
16-4-44a
16-4-44b
सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत।।
16-4-45a
16-4-45b
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगंदाधरः।।
16-4-46a
16-4-46b
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः।
दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत्।।
16-4-47a
16-4-47b
भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः।।
16-4-48a
16-4-48b
।। इति श्रीमन्महाभारते
मौसलपर्वणि चतुर्थोऽध्यायः ।।

[सम्पाद्यताम्]

16-4-1 मुष्णन्ती स्त्रीणां मङ्गलसूत्रादिकं चोरयन्ती।। 16-4-12 निश्मम्य दृष्ट्वा। अर्थविशारदः मोक्षपण्डितः।। 16-4-15 ब्राह्मणार्थद्रव्यस्यान्यत्र विनियोजनमायुःक्षयकरमित्यर्थः।। 16-4-41 आविध्य विद्ध्वा।। 16-4-44 तत्र यन्मुसलमपस्यत्तदेवावष्टभ्य तस्थावित्यन्वयः।।

मौसलपर्व-003 पुटाग्रे अल्लिखितम्। मौसलपर्व-005