सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/वाजिनां साम (आविर्म)

विकिस्रोतः तः
वाजिनां साम

(४३५।१) ॥ वाजिनाꣳसाम। वाजिनोष्णिक् सविता॥

आ꣢꣯वि꣡र्माऽ२३४र्या꣥:॥ आ꣡꣯वा꣯जंवा꣯जिनो꣯अग्मान् । दे꣢व꣯स्य꣡स꣢ ॥ वितु꣡स्साऽ२३४वाम् ।। स्व꣡र्गाꣳअ꣪र्वाऽ२३४५न्ताऽ६५६:॥ ज꣡यताऽ२३꣡४꣡५꣡ ॥

(दी० ६ । प० ६ । मा० ६ ) ३०(कू । ७६३)

आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवं ।
स्वर्गां अर्वन्तो जयत ।। ४३५ ।।

[सम्पाद्यताम्]

टिप्पणी

वाजपेयः - यदि त्वध्वर्यव आजिञ्जापयेयुरथ ब्रह्मा तीर्थदेशे मयूखे चक्रं प्रतिमुक्तं तदारुह्य प्रदक्षिणमावर्त्त्यमाने वाजिनां साम गायादाविर्मर्या आ वाजं वाजिनो अग्मन् । देवस्य सवितुः सवे स्वगाँ अर्वन्तो जयतः स्वगाँ अर्वतो जयतीति वा ८ यदि साम नाधीयात्त्रिरेतामृचं जपेत् । - आश्व.श्रौ.सू. ९.९.८

वाजपेये ब्रह्मौदुम्बरं रथचक्रमारोहति......तस्मिन्नुपविश्याविद्धे रथचक्रेऽसंप्रेषितस्त्रिः साम गायति ।४ ।अपि वा जपेत्त्रिः। ५ ।आविर्मर्या आ वाजं वाजिनो अग्मन्। देवस्य् सवितुः सवे स्वर्गाँ अर्वन्तो जयत । इति च ।६। तेनैव मन्त्रेण प्रत्यवरोहति ।७।- शाङ्खायनश्रौ.सू. १६.१७.७

आर्षेयकल्पे वाजपेयप्रकरणे अस्य साम्नः उल्लेखं नास्ति। श्रौतकोशेपि उल्लेखं नास्ति।