सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/वैश्वदेवम् (उदुब्रह्मा)

विकिस्रोतः तः
वैश्वदेवम्(उदुब्रह्मा)

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि ॥ ३३० ॥ ऋ. ७.२३.१


(३३०।१) ॥ वैश्वदेवम् । विश्वेदेवास्त्रिष्टुबिन्द्रः ॥
दिवया । ओवा । औऽहोऽ३वा । उदुब्रह्मा । णीऽ३ऐर । तश्रवस्या॥ इन्द्रꣳसमा । र्येऽ३मह । यावसिष्ठा ॥ आयोविश्वा । नीऽ३श्रव । सातताना ॥ दिवया । ओवा । औऽ३होऽ३वा । उपश्रोता । मईव । तोऽ३४३ । वाऽ३चाऽ५ꣳसाऽ६५६इ ॥
(दी० ७ । प० १९ । मा० ३ )३३ (झि । ५६१)


[सम्पाद्यताम्]

टिप्पणी

वसिष्ठ व्रते द्वे (आरण्यकगेयः)