सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/वैखानसम्(नकिष्टं)

विकिस्रोतः तः


न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।
इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ २४३ ॥ ऋ. ८.७०.३

 

(२४३।१) ॥ वैखानसम् । वैखानसा बृहतीन्द्रः ॥ ..
नकिष्टाऽ३०कर्मणानशात् ॥ यश्चाकारा । सदावृधाऽ२३म् । सदावृधाम् । इद्रान्नया । ज्ञैर्विश्वगू । तमाऽ२र्भ्वसाऽ२३म् । तमृभ्वसाम् ॥ अधार्ष्टंधा । ष्णुमोजसाऽ२३ ॥ ष्णुमोजसाऽ३४३ । ओऽ२३४५इ ॥ डा
( दी० ८ । प० १३ । मा० ६ ) २० (डू । ४०८ )

(२४३।२) ॥पौरुहन्मनं प्राकर्षं वा। पुरुहन्मा बृहतीन्द्रः॥
नकिष्टंकर्मणानशत् । होऽ३४इ । यश्चकाऽ३रासदावृधाम् ॥ आइन्द्राऽ२न्नायाऽ२ । ज्ञैर्विश्वगूर्तामृभ्वासाऽ२म् ॥ अधाऽ२हो१ । ष्टाऽ२३०धृऽ३४॥ हाओवा॥ ष्णुमोजसाऽ२३४५॥
( दी० ६ । प० ९ । मा०६) २१ (धू । ४०९)


[सम्पाद्यताम्]

टिप्पणी

वैखानसम् (ऊहगानम्)