सामवेदः/कौथुमीया/संहिता/ऊहगानम्
दिखावट
१ दशरात्रपर्व 1.1--6.1
२ संवत्सरपर्व 6.2--9.3
३ एकाहपर्व 10.1---13.2
४ अहीनपर्व 14.1--17.1
५ सत्रपर्व 18.1--20.2
६ प्रायश्चित्तपर्व 21.1--21.3
७ क्षुद्रपर्व 22.1--23.3
सामवेदः | सङ्गीतशास्त्रः |
---|---|
क्रुष्ट * | पञ्चमः |
प्रथमः १ | मध्यमः |
द्वितीयः २ | गान्धारः |
तृतीयः ३ | ऋषभः |
चतुर्थः ४ | षड्जः |
मन्द्रः(पञ्चमः) ५ | धैवतः |
अतिस्वार्यः ६ | निषादः |
यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।। यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। नारदपु. १.५०-५९ ।। चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।। षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।।
क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ।। ५०-१०६ ।। पशवस्तु द्वितीयेन गंधर्वाप्सरसस्त्वनु ।। अंधजाः पितरश्चैव चतुर्थस्वरजीविनः ।। ५०-१०७ ।। मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ।। अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ।। ५०-१०८ ।।
टिप्पणी