मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १६
← सर्गः १५ | मोक्षोपायटीका/मुमुक्षुप्रकरणम् भास्करकण्ठः |
सर्गः १७ → |
मोक्षोपायटीका/मुमुक्षुप्रकरणम् |
---|
ओमेवं संतोषस्वरूपं निर्णीय चतुर्थं सत्संगं निरूपयति
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ २,१६.१ ॥
स्पष्टम् ॥ २,१६.१ ॥
साधुसंगतरोर्जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ २,१६.२ ॥
"फलश्रियः" मोक्षाख्यफललक्ष्म्याः ॥ २,१६.२ ॥
शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।
आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ २,१६.३ ॥
"शून्यं" शून्यदेशः । "आकीर्णताम्" लोकभरितदेशताम् ॥ २,१६.३ ॥
हिममापत्सरोजिन्या मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन् साधु साधुसमागमः ॥ २,१६.४ ॥
"साधु" सम्यक् ॥ २,१६.४ ॥
परं विवर्धनं बुद्धेरज्ञानतरुनाशनम् ।
समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ २,१६.५ ॥
"समुत्सारणम्" नाशनम् ॥ २,१६.५ ॥
विवेकः परमो दीपो जायते साधुसंगमात् ।
मनोहरोज्ज्वलो नूनमशोकादिव गुच्छकम् ॥ २,१६.६ ॥
स्पष्टम् ॥ २,१६.६ ॥
निरामयां निराबाधां निर्वृतिं नित्यपीवरीं ।
अनुत्तमां प्रयच्छन्ति साधुसंगविभूतयः ॥ २,१६.७ ॥
स्पष्टम् ॥ २,१६.७ ॥
अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।
मनागपि न संत्याज्या मानवैः साधुसंगतिः ॥ २,१६.८ ॥
स्पष्टम् ॥ २,१६.८ ॥
साधुसंगतयो लोके सन्मार्गशुभदीपकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ २,१६.९ ॥
स्पष्टम् ॥ २,१६.९ ॥
यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ २,१६.१० ॥
स्पष्टम् ॥ २,१६.१० ॥
नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥ २,१६.११ ॥
"गलितग्रन्थयः" नष्टकामाख्यग्रन्थयः ॥ २,१६.११ ॥
विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥ २,१६.१२ ॥
स्पष्टम् ॥ २,१६.१२ ॥
सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥ २,१६.१३ ॥
"कमला" लक्ष्मीः ॥ २,१६.१३ ॥
तेनामलविलासस्य पदस्याग्रावचूलता ।
ग्रथिता येन भव्येन न त्यक्ता साधुसंगतिः ॥ २,१६.१४ ॥
"तेन" पुरुषेण । "अमलविलासस्य" शुद्धस्फुरणयुक्तस्य । "पदस्य" चिन्मात्राख्यस्य स्थानस्य । "अग्रावचूलता" शिरोभूषणता । "ग्रथिता येन भव्येन" दैवप्रकृतिकेन । "साधुसंगतिः न त्यक्ता" साधुसंगतिः कार्यैव चिन्मात्राख्ये पदे राजते इति भावः ॥ २,१६.१४ ॥
विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसम्मताः ।
सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ ॥ २,१६.१५ ॥
स्पष्टम् ॥ २,१६.१५ ॥
त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ॥ २,१६.१६ ॥
स्पष्टम् ॥ २,१६.१६ ॥
दारिद्र्यं मरणं दुःखमित्यादिविषमो भ्रमः ।
संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः ॥ २,१६.१७ ॥
स्पष्टम् ॥ २,१६.१७ ॥
सर्वानुपायान् संकल्पयति
संतोषः साधुसंगश्च विचारोऽथ शमस्तथा ।
एत एव भवाम्भोधावुपायास्तरणे नृणाम् ॥ २,१६.१८ ॥
स्पष्टम् ॥ २,१६.१८ ॥
संतोषः परमो लाभः सत्संगः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥ २,१६.१९ ॥
अतः परं लाभादि नास्तीति "पर"पदाभिप्रायः ॥ २,१६.१९ ॥
चत्वार एते विमला उपाया भवभेदने ।
यैरभ्यस्तास्त उत्तीर्णा मोहवारेर्भवार्णवात् ॥ २,१६.२० ॥
"मोहवारेः" मोहाख्यजलयुक्तात् ॥ २,१६.२० ॥
एकस्मिन्नेव चैतेषामभ्यस्ते विमलोदये ।
चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥ २,१६.२१ ॥
स्पष्टम् ॥ २,१६.२१ ॥
एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिव ।
सर्वसंसिद्धये तस्माद्यत्नेनैकं समाश्रयेत् ॥ २,१६.२२ ॥
"प्रसवभूः" उत्पत्तिस्थानम् ॥ २,१६.२२ ॥
सत्समागमसंतोषविचारास्त्वविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वहनानीव सागरे ॥ २,१६.२३ ॥
"वहनानि" जलस्पन्दाः । "अविचारितम्" असन्देहम् ॥ २,१६.२३ ॥
विचारसंतोषशमाः सत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥ २,१६.२४ ॥
स्पष्टम् ॥ २,१६.२४ ॥
विचारशमसत्संगाः संतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥ २,१६.२५ ॥
स्पष्टम् ॥ २,१६.२५ ॥
सत्संगसंतोषशमा विचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥ २,१६.२६ ॥
"मन्त्रिणां" मन्त्रज्ञानाम् । "वरे" श्रेष्ठे ॥ २,१६.२६ ॥
फलितमाह
तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ॥ २,१६.२७ ॥
"तस्मातेतेषां" चतुर्णां मध्ये । "एकतमं गुणं" संतोषादिरूपं गुणम् । "अभ्याहरेत्" अर्जयेत् ॥ २,१६.२७ ॥
परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।
यावदेको गुणो नाप्तस्तावन्नास्त्युत्तमा गतिः ॥ २,१६.२८ ॥
स्पष्टम् ॥ २,१६.२८ ॥
पौरुषेण प्रयत्नेन दन्तैर्दन्तान् विचूर्णयन् ।
यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥ २,१६.२९ ॥
देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।
तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ॥ २,१६.३० ॥
"गुणार्जने" संतोषाद्यर्जने ॥ २,१६.२९३० ॥
एकस्मिन्नेव फलिते गुणे बलमुपागते ।
क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः ॥ २,१६.३१ ॥
"दोषाः" रागादयः ॥ २,१६.३१ ॥
गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥ २,१६.३२ ॥
स्पष्टम् ॥ २,१६.३२ ॥
मनोमहावने ह्यस्मिन् वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥ २,१६.३३ ॥
स्पष्टम् ॥ २,१६.३३ ॥
सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु ॥ २,१६.३४ ॥
"हि" निश्चये । "सा" वासनासरित् ॥ २,१६.३४ ॥
सर्गान्तश्लोकेनैतत्समापयति
पुरुषयत्नजवेन मनोवने
शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदीम्
इह हि तेन मनागपि नोह्यसे ॥ २,१६.३५ ॥
"पुरुषयत्नजवेन" पौरुषवेगेन । "निजभावनदीं" स्ववासना"महानदीं" । ननु किमर्थं तां तटगतां करोमीत्यपेक्षायामाह । "इह ही"ति । "हि" यस्मात् । "तेन" तस्याः "शुभतटानुगमनेन" । तया निजभावमहानद्या त्वम् "न उह्यसे" विवशतया यत्र तत्र न नीयसे । तटगतया च नद्या न किंचितुह्यते । इति शिवम् ॥ २,१६.३५ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे षोडशः सर्गः ॥ २,१६ ॥