सामग्री पर जाएँ

मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १७

विकिस्रोतः तः
← सर्गः १६ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १८ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्



फलितं कथयति

एवमात्तविवेको यः स भवानिव राघव ।

योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीः ॥ २,१७.१ ॥

हे "राघव" । "एवं" सति । "यः" पुरुषः । "आत्तविवेको" भवति । "सः" । "भवानिव" । "ज्ञानगिरः श्रोतुं योग्यो" भवति। क इव । "राजा इव" यथा "राजा नयभारतीः" नीतिवाक्यानि "श्रोतुं योग्यः" भवति । तथेत्यर्थः ॥ २,१७.१ ॥

 

 

 

अवदातोऽवदातस्य विज्ञानस्य महाशयः ।

जडसङ्गोज्झितो योग्यः शरदीन्दोर्यथा नभः ॥ २,१७.२ ॥

"अवदातः" शमादिसेवनेन रागादिमलरहितः निर्मलश्च । "अवदातस्य" शुद्धचिन्मात्रविषयत्वेन शुद्धस्य सितस्य च । "जडसङ्गेन" मूढसङ्गेन्"ओज्झितः" त्यक्तः । तमकुर्वाण इत्यर्थः । जडानां लक्षणया मेघानां "सङ्गेन उज्झितः" इति च ॥ २,१७.२ ॥

 

 

त्वमेतयाखण्डितया गुणलक्ष्म्या समाश्रितः ।

मनोमोहहरं वाक्यं वक्ष्यमाणमिदं शृणु ॥ २,१७.३ ॥

स्पष्टम् ॥ २,१७.३ ॥

 

 

पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः ।

मुक्तये जायते जन्तोस्तस्येदं श्रोतुमुद्यमः ॥ २,१७.४ ॥

"इदम्" एतत्शास्त्रम् ॥ २,१७.४ ॥

 

 

पावनानामुदाराणां परबोधैकदायिनाम् ।

वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥ २,१७.५ ॥

"भव्यः" दिव्यप्रकृतिः ॥ २,१७.५ ॥

 

 

 

मोक्षोपायाभिधानेयं संहिता सारसम्मिता ।

त्रिंशद्द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥ २,१७.६ ॥

"संहिता" शास्त्रम् । "सारसम्मिता" सारतुल्या । "ज्ञाता" सम्यक्विचारिता ॥ २,१७.६ ॥

 

 

ननु किमनया सेत्स्यतीत्य् । अत्राह

दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते ।

आलोकोऽनिच्छतोऽप्येवं निर्वाणमनया भवेत् ॥ २,१७.७ ॥

"यथा दीपे" प्र"ज्वलिते" । "अनिच्छतः अपि" आलोकानाकाङ्क्षिणोऽपि । अर्ध"निद्रस्या"र्धप्रबुद्धस्य । "आलोकः संप्रवर्तते" । "एवमनया" संहितया । "निर्वाणम्" ब्रह्मण्यात्यन्तिको लयो । "भवेत्" ॥ २,१७.७ ॥

 

 

 

स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैव सौख्यदा ।

आप्तोक्तिवर्णिता सद्यो यथामृततरङ्गिणी ॥ २,१७.८ ॥

"आप्तोक्तिवर्णिते"ति "श्रुते"त्यस्य विशेषणद्वारेण हेतुः ।८॥ २,१७.

यथा रज्ज्वामहिभ्रान्तिर्विनश्यत्यवलोकनात् ।

तथैतत्प्रेक्षणाच्छान्तिमेति संसारदुःखिता ॥ २,१७.९ ॥

"एतस्याः" संहितायाः "प्रेक्षणम्" विचारणम् "एतत्प्रेक्षणम्" । तस्मात् ॥९॥ २,१७.

युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक्पृथक् ।

दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥ २,१७.१० ॥

मया "षट्प्रकरणानि अस्यां कल्पितानि" विहितानि। कथंभूतानि । अर्थसहितानि वाक्यानि "अर्थवाक्यानि" । "युक्तियुक्तानि" अर्थवाक्यानि येषु । तानि। पुनः कथंभूतानि । "दृष्टान्तैः सारम्" श्रेष्ठम् "सूक्तं" येषु । तानि ॥१०॥ २,१७.

प्रकरणषट्कं विशेषतो निर्दिशति

वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् ।

वैराग्यं वर्धते येन सेकेनेव मरौ तरुः ॥ २,१७.११ ॥

ननु किं तेन संपद्यत इत्य् । अत्राह । "वैराग्यम्" इति ॥११॥ २,१७.

कियत्प्रमाणं तत्कृतमित्यपेक्षायामाह

सार्धं सहस्रं ग्रन्थस्य यस्मिन् हृदि विचारिते । ।

प्रकाशा शुद्धतोदेति मणाविव विमार्जिते ॥ २,१७.१२ ॥

"ग्रन्थस्ये"ति जातावेकवचनम्। तत्वैराग्यप्रकरणं "ग्रन्थस्य" श्लोकानां "सार्धं सहस्रं" भवति। तत्किम् । "यस्मिन् हृदि विचारिते" सति । "प्रकाशा" प्रकटा । "शुद्धता" रागादिमलराहित्यं "उदेति" । कस्मिन्निव । "मार्जिते" शोधिते "मणौ इव" । यथा "विमार्जिते मणौ शुद्धतोदेति" । तथेत्यर्थः ॥१२॥ २,१७.

मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् ।

सहस्रमात्रं ग्रन्थस्य सूक्तिग्रन्थेन सुन्दरम् ॥ २,१७.१३ ॥

"सूक्ति"रूपः यः "ग्रन्थः" वाक्यम् । तेन "सुन्दरम्" । तद्युक्तमित्यर्थः ॥१३॥ २,१७.

ननु किं तत्र कथ्यते इत्य् । अत्राह

स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते ।

एवंस्वभावो मोक्षस्य योग्य इत्यवगम्यते ॥ २,१७.१४ ॥

ननु वर्णनेन किं सेत्स्यतीत्य् । अत्राह । "एवंस्वभाव" इति ॥१४॥ २,१७.

अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ।

पञ्चग्रन्थसहस्राणि विज्ञानप्रतिपादनम् ॥ २,१७.१५ ॥

"विज्ञानप्रतिपादनम्" विज्ञानप्रतिपादकमित्यर्थः ॥१५॥ २,१७.

जागती द्रष्टृदृश्यश्रीरहं त्वमितिरूपिणी ।

अनुत्थितैवोत्थितेव यत्रेति परिवर्ण्यते ॥ २,१७.१६ ॥

स्पष्टम् ॥१६॥ २,१७.

यस्मिञ्श्रुते जगदिदं श्रोत्रान्तर्बुध्यतेऽखिलम् ।

सास्मद्युष्मत्सविस्तारं सलोकाकाशपर्वतम् ॥ २,१७.१७ ॥

पिण्डग्रहविनिर्मुक्तं निर्भित्तिकमपर्वतम् ।

पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् ॥ २,१७.१८ ॥

"यस्मिन्" यस्मिनुत्पत्तिप्रकरणे । "सास्मद्युष्मत्" अहंत्वंयुक्तम् । "बुध्यते" इत्य् । अत्र "श्रोत्रे"ति कर्तृत्वेनाध्याहार्यम्। कीदृशं बुध्यते इत्यपेक्षायामाह । "पिण्डग्रहे"त्यादि । "संकल्पे" हि "पत्तनम्" ईदृगेव भातीति दृष्टान्तत्वेनोपात्तम् ॥१७१८॥ २,१७.

पुनः कीदृग्बुध्यते इत्य् । अत्राह

स्वप्नोपलब्धभावाभं मनोराज्यवदाततम् ।

गन्धर्वनगरप्रख्यमर्थशून्योपलम्बनम् ॥ २,१७.१९ ॥

"स्वप्नोपलब्धभावाभं" स्वप्नदृष्टपदार्थसदृशमित्यर्थः । गन्धर्वाः स्वावासार्थं कल्पनयाकाशे नगरं कल्पयन्ति । तदेव "गन्धर्वनगरम्" । "अर्थशून्यं" सत्यभूतघटाद्यर्थरहितम् । "उपलम्बनं" ज्ञानं यस्मिन्  ॥१९॥ २,१७.

द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवत्ततम् ।

नौयानलोलशैलाभं सत्यलाभविवर्जितम् ॥ २,१७.२० ॥

स्पष्टम् ॥२०॥ २,१७.

चित्तभ्रमपिशाचाभं निर्बीजमपि भासुरम् ।

कथार्थप्रतिभानाभं व्योममुक्तावलीनिभम् ॥ २,१७.२१ ॥

"निर्बीजं" कारणरहितम् । "कथायाः" यः "अर्थः" वर्णनीयः पदार्थः । तस्य यत्"प्रतिभानं" पुर इव स्फुरणम् । तेन्"आभा" यस्य । तत् । कथायां हि वर्णनीयः पदार्थः पुरःस्थ इव प्रतिभाति । "व्योमे"ति । भ्रमेण हि व्योम्नि "मुक्तावली" दृश्यते ॥२१॥ २,१७.

कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।

यथा नभसि नीलत्वमसदेवोत्थितं तथा ॥ २,१७.२२ ॥

"कटका"दि "यथा हेम्नि असदेवोत्थितं" भवति "तथासदेवोत्थितं" जगद्बुध्यते इति पूर्वेणैव सम्बन्धः ॥२२॥ २,१७.

अभित्ति रङ्गरहितमुपलब्धिमनोहरम् ।

स्वप्ने वा व्योम्नि वा चित्रमकर्म चिरभासुरम् ॥ २,१७.२३ ॥

"वा"शब्दद्वयं पक्षान्तरद्योतकम् । "स्वप्ने" दृष्टं "चित्रम्" "वा" बुध्यते । "व्योम्नि" भ्रमेण दृष्टं "चित्रम्" "वा" बुध्यते । चित्रं कथंभूतम् । "अभित्ति" भित्तिरहितम् । तथा "रङ्गरहितम्" रङ्गद्रव्यरहितम् । पुनः कथंभूतम् । "अकर्म" अनिर्मिति । तथा चिरं भास्वरम् "चिरभासुरम्" । एतैः विशेषणैश्च चित्रस्य लोकोत्तरत्वमुक्तम् ॥२३॥ २,१७.

अवह्निरेव वह्नित्वं धत्ते चित्रानलो यथा ।

तथा दधज्जगच्छब्दरूपार्थमसदात्मकम् ॥ २,१७.२४ ॥

"तथा" तद्वत् । "असदात्मकम्" असत्स्वरूपम् । "जगच्छब्दरूपार्थम्" भावप्रधानो निर्देशः । जगदिति यच्छब्दरूपं तस्यार्थत्वं "दधत्" बुध्यते "तथा" । कथम् । "यथा चित्रानलः अवह्निः" अदाहकता अनग्निः सन् । "असदात्मकं वह्नित्वं धत्ते" धारयति ॥२४॥ २,१७.

तरङ्गोत्पलमालाढ्यदृषत्पत्त्रमिवोत्थितम् ।

चक्रशूत्कारचूर्णस्य मलराशिमिवोदितम् ॥ २,१७.२५ ॥

"तरङ्गोत्पलमालाभिः आढ्यं" यत्"दृषत्पत्त्रम्" शिलापत्त्रम् । तद्"इवोत्थितं" बुध्यते । शिलापत्त्रे हि तरङ्गाकारः उत्पलाकाराश्च रेखाः भवन्ति । ता एवात्र "तरङ्गोत्पलमालाः" ज्ञेयाः । पदार्थाश्चात्र "तरङ्गोत्पलमालास्थानीयाह्" । पुनः कीदृग्बुध्यते इत्य् । अत्राह । "चक्रे"ति । "चक्रस्य" भ्राम्यमाणस्य चक्रस्य । यत्"शूत्कारचूर्णम्" । तस्य "मलराशिमिव उदितं" बुध्यते । भ्राम्यमाणेन चक्रेण हि सशूत्कारं भूमेः रजः उत्तिष्ठति ॥२५॥ २,१७.

शीर्णपर्णं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् ।

मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम् ॥ २,१७.२६ ॥

"शिलास्त्रीहास्य"वत्"हासदम्" ॥२६॥ २,१७.

अन्धकारगृहैकैकनृत्तमुन्मत्तचेष्टितम् ।

प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ॥ २,१७.२७ ॥

"अन्धकारगृहे" यत्"एकैकस्य नृत्तम्" तद्रूपं बुध्यते । सर्वथा चासत्यतरमेव बुध्यते इति इह तावदभिप्रायः । इतः परं चिन्मात्रमयं चिन्मात्रस्थं च बुध्यत इत्यभिप्रायेणाह । "प्रशान्ते"ति । श्रोत्रा अस्मिन्नुत्पत्तिप्रकरणे श्रुते सति इदं "प्रशान्ताज्ञाननीहारं ज्ञानशरदम्बरं" बुध्यते ॥२७॥ २,१७.

समुत्कीर्णमिव स्तम्भे चित्रं भित्ताविवाहितम् ।

पङ्कादिवाभिरचितं सचेतनमचेतनम् ॥ २,१७.२८ ॥

"स्तम्भे" चिन्मात्राख्ये स्तम्भे । "समुत्कीर्णमिव" बुध्यते । तथा "भित्तौ" चिन्मात्राख्यायां भित्तौ । "चित्रमिवाहितं" कृतं बुध्यते । "पङ्को"ऽत्र चिन्मात्रस्वरूपं ज्ञेयम् । "सचेतनं" चिन्मात्रसारत्वात् । "अचेतनं" ग्राह्यत्वात् ॥२८॥ २,१७.

ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् ।

त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम् ॥ २,१७.२९ ॥

शोभनाख्याः "आख्यानाख्यायिकाः" । तन्"मयम्" ॥२९॥ २,१७.

ननु स्थितिप्रकरणे किमुक्तमित्य् । अत्राह

इत्थं जगदहंभावरूपं स्थितिमुपागतम् ।

द्रष्टृदृश्यक्रमप्रौढमित्यत्र परिवर्णितम्  ॥ २,१७.३० ॥

"अहंभावरूपस्य" "जगतः" "स्थितिर्" एवात्र प्रायशो निर्णीयते इति भावः ॥३०॥ २,१७.

दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः ।

इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् ॥ २,१७.३१ ॥

"चिरम्" बहुकालम् । बाहुल्येनेति यावत् ॥३१॥ २,१७.

उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् ।

पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम् ॥ २,१७.३२ ॥

"मुनिसन्ततिभिः" दृष्टान्ततया वक्ष्यमाणाभिः मुनिसन्ततिभिः । "सुन्दरम्" रमणीयम् ॥३२॥ २,१७.

नन्वत्र किं वर्ण्यत इत्यपेक्षायामाह

इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता ।

इत्यसौ शाम्यतीत्यस्मिन् कथ्यते श्लोकसङ्ग्रहे ॥ २,१७.३३ ॥

"इदं जगतहं त्वं च सः" । "इति" एवंरूपा । "भ्रान्तिः उत्थिता" । इति सती एव । "शाम्यति" । "इति" एवम् । "अस्मिन्" उपशान्तिप्रकरणे "कथ्यते" । "अस्मिन्" कथंभूते । "श्लोकानां सङ्ग्रहः" यस्मिन् सः । तादृशे । "स" इति परमकारणपरामर्शः ॥३३॥ २,१७.

नन्वेतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह

उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ।

प्रस्पष्टा विभ्रमेणैव किंचिल्लभ्योपलम्भना ॥ २,१७.३४ ॥

"संसृतिः" कथंभूता । "विभ्रमेणैव" विपर्ययज्ञानेनैव "प्रस्पष्टा" । पुनः कथंभूता । "किंचित्" लेशेन । "लभ्यमुपलम्भनं" स्पर्शः यस्याः सा । अन्यथा निर्वाणप्रकरणं व्यर्थं स्यातिति भावः ॥३४॥ २,१७.

ननु ततः संसृतिः कीदृशी तिष्ठतीत्यपेक्षायामाह

शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी ।

अन्यसंकल्पचित्तस्था नगरश्रीरिवासती ॥ २,१७.३५ ॥

स्पष्टम् ॥३५॥ २,१७.

अलभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् ।

शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् ॥ २,१७.३६ ॥

संकल्पे दृष्टं मत्ताभ्रम् "संकल्पमत्ताभ्रम्" । "शान्तं" यत्"संकल्पमत्ताभ्रम्" । तस्य यः "भीषणः अशनिशब्दः" । तद्"वत्" ॥३६॥ २,१७.

विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा ।

भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका ॥ २,१७.३७ ॥

"विस्मृतौ" यौ "स्वप्नसंकल्पौ" । तयोः "निर्माणं" यस्य । तादृशं यत्"नगरं" । तेन्"ओपमा" यस्याः सा । तथा "भविष्यन्नगरोद्याने सोत्सवा" समदना । या "श्यामला" श्यामाख्या स्त्री । तद्वत्"अङ्गं" स्वरूपं यस्यां सा । तादृशी ॥३७॥ २,१७.

नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमम् ।

अनुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः ॥ २,१७.३८ ॥

पुनः कथंभूता । "नश्यज्जिह्वेन" । न तु नष्टजिह्वेन । "उच्यमाना" या "उग्रकथा" । तस्याः यः "अर्थः" । तस्य यः "अनुभवः" । तेन्"ओपमा" यत्र तत् । ताद्र्शम् । का इव । "अनुल्लिखितानि" "चित्तस्थानि" च तानि चित्रकृच्"चित्तस्थानि" च यानि "चित्राणि" । तैः "व्याप्ता भित्तिभूरिव" ॥३८॥ २,१७.

परिविस्मार्यमाणाच्छकल्पनानगरीनिभा ।

सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः ॥ २,१७.३९ ॥

"परिविस्मार्यमाणा" । न तु विस्मारिता । या "अच्छा" भित्तिरहिता । "कल्पनानगरी" । तस्याः "निभा" सदृशी । "सर्वासामृतुमतीनामनुत्पन्नस्य" "वरस्य मर्दः" मर्दनम् । तद्वत्"अस्फुटा आकृतिः" यस्याः सा । निकटवर्तित्वेन बुद्धावारूढत्वज्ञापनार्थमृतुमतीनामित्युक्तम् ॥३९॥ २,१७.

भाविपुष्पवराकारवसन्तरसरञ्जना ।

अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ॥ २,१७.४० ॥

"भावी पुष्पा"ख्यो "वराकारः" यस्य सः । तादृशो यः "वसन्तरसः" । तद्वत्"रञ्जना" यस्याः सा । तत्सदृशीत्यर्थः । "अन्तर्लीनः तरङ्गौघः" यस्याः सा "अन्तर्लीनतरङ्गौघा" । तादृशी चासौ "सौम्यवारिसरित्" सौम्यवारियुक्ता नदी । तया "समा" सदृशी । एतैर्विशेषणैश्चोपशान्तिप्रकरणश्रवणानन्तरं बुद्ध्यारोहमात्रस्वरूपा सृष्टिस्तिष्ठतीति सूचितम् ॥४०॥ २,१७.

निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् ।

शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम् ॥ २,१७.४१ ॥

"ततः" उपशान्तिप्रकरणानन्तरम् । "शिष्टः ग्रन्थः" सार्धषोडशसहस्राणि "परीमाणम्" ॥४१॥ २,१७.

ननु किं तच्छ्रवणेन सेत्स्यतीत्य् । अत्राह

बुद्धे तस्मिन् भवेच्छ्रोता निर्वाणः शान्तकल्पनः ।

अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ॥ २,१७.४२ ॥

"निर्वाणः" ब्रह्मणि लीनः । "विज्ञानात्मा" शुद्धज्ञानस्वरूपः । "निरामयः" दृश्याख्यामयरहितः ॥४२॥ २,१७.

परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ।

निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः  ॥ २,१७.४३ ॥

"निर्वाहिता" अवसानं नीता "जगद्यात्रा" येन सः । तादृशः । "कृतं" समाप्तम् । कर्तव्यं येन "कृतकर्तव्यः" । तादृशश्चासाव् । अत एव "सुस्थितश्" च ॥४३॥ २,१७.

समस्तविततारम्भवज्रस्तम्भो नभोनिभः ।

विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान् ॥ २,१७.४४ ॥

"समस्ताः" ये "विततारम्भाः" । तेषु "वज्रस्तम्भः" अविचल इत्यर्थः । "नभोनिभः" शरीरयात्रार्थं कृतैरपि कर्मभिरलिप्तत्वाताकाशसदृशः । "विनिगीर्णं" चित्स्वरूपे स्वात्मनि लीनीकृतम् । यत्"जगज्जालं" । तेन्"आतितृप्तिमान्" निरपेक्ष इत्यर्थः ॥४४॥ २,१७.

आकाशीभूतनिःशेषरूपालोकमनस्कृतिः ।

कार्यकारणकर्तृत्वहेयादेयदशोज्झितः ॥ २,१७.४५ ॥

"रूपम्" विषयः । "आलोकः" तद्ग्रहणोपायः । "मनस्कृतिः" मनस्कारः । आलोकेन गृहीतस्य रूपस्य मनसि अनुसन्धानमिति यावत् ॥४५॥ २,१७.

सदेह एव निर्देहः ससंसारोऽप्यसंसृतिः ।

चिन्मयो ॥हनपाषाणजठरजठरोपमः ॥ २,१७.४६ ॥

"सदेहः" सत्त्वशेषं तावत्शरीरस्य स्थितत्वात् । "निर्देहः" शरीरेऽभिमानाभावात् । "चिन्मयः" चित्स्वरूप अहमिति निश्चयात् । "घनपाषाणस्य" यत्"जठरम्" । तस्य यत्"जठरम्" । तेन्"ओपमा" यस्य सः । तादृशः अचेत्यचिन्मयत्वात् ॥ २,१७.४६ ॥

 

 

 

चिदादित्यस्तपंल्लोकेऽप्यन्धकारोदरोपमः ।

परप्रकाशरूपोऽपि परमान्ध्यमिवागतः ॥ २,१७.४७ ॥

"चिदादित्यः" चिदादित्यस्वरूपः । अत एव "लोके तपन्नपि" । न हि चित्स्पर्शरहितः कश्चित्भावः संभवति । सत्त्वेऽपि तस्य असंकल्पत्वप्रसङ्गात् । "अन्धकारोदरोपमः" अन्धकारस्य यतुदरम् । तेनोपमा यस्य । तादृशः पदार्थविभागरहितत्वात् । न हि अन्धकारोदरे पदार्थविभागः भवति । "परप्रकाशरूपोऽपि" उत्तीर्णचित्प्रकाशरूपोऽपि । "परमान्ध्यम्" "आगतः इव" न किंचिद्द्रष्टृत्वात् ॥ २,१७.४७ ॥

 

 

 

रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकाः ।

नष्टाहंकारवेतालो देहवानकलेवरः ॥ २,१७.४८ ॥

स्पष्टम् ॥ २,१७.४८ ॥

 

 

कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते ।

जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥ २,१७.४९ ॥

"कश्मिंस्चित्" अतिसूक्ष्मतया वक्तुमशक्ये "स्वप्नवद्" इति शेषः । स्वप्ने हि पुरुषस्य कस्मिंश्चिदंशे स्वप्नजगद्"अवतिष्ठते" ॥ २,१७.४९ ॥

 

 

परमाणौ परमाणौ चिदाकाशस्य कोटरे ।

जगल्लक्ष्मीसहस्राणि धत्ते कृत्वा च पश्यति ॥ २,१७.५० ॥

"चिदाकाशस्य" स्वरूपभूतस्य चिन्मात्राकाशस्य । "कोटरे" मध्ये स्थिते । "परमाणौ परमाणौ जगल्लक्ष्मीसहस्राणि कृत्वा धत्ते" धारयति । न केवलं धत्ते । किं तु साक्षितया स्थितत्वात्"पश्यति च" ॥ २,१७.५० ॥

 

 

ननु कथमसौ जगल्लक्ष्मीसहस्राण्यन्तर्वर्तयतीत्य् । अत्र सर्गान्तश्लोकेनाह

प्रवितता हृदयस्य महामते

हरिहराब्जजलक्षशतैरपि ।

तुलनमेति न मुक्तिमतो बत

प्रविततास्ति न नूनमवस्तुनः ॥ २,१७.५१ ॥

"बत" निश्चये । हे "महामते" । "मुक्तिमतः" निर्वाणप्रकरणश्रवणद्वारेण मुक्तियुक्तस्य पुरुषस्य । "हृदयस्य प्रविततः" भावप्रधानो निर्देशः । तेन "हृदयस्य प्रवितते"ति अर्थः । सा "हरिहराब्जजलक्षशतैरपि तुलनं" मापनविषयतां "न एति" । यतः "अवस्तुनः" अवस्तुभूतस्य हरिहराब्जादिरूपस्य भाववृन्दस्य "प्रवितता" । "नूनं" निश्चये । "नास्ति" । न चावस्तुना वस्तुमापनं युक्तम् । तथा च नोक्तदेशप्रसङ्ग इति भावः । इति शिवम् ॥ २,१७.५१ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे सप्तदशः सर्गः ॥ २,१७ ॥