सामग्री पर जाएँ

मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः ९

विकिस्रोतः तः
← सर्गः ८ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १० →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओमत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ प्रतिष्ठामलमागतम् ।

यल्लोके तद्वद ब्रह्मन् दैवमेवं किमुच्यते ॥ २,९.१ ॥

हे "भगवन्" । "ब्रह्मन्" वसिष्ठ । कथंभूत । "सर्वधर्मज्ञ" । त्वम् "वद" । "यत्दैवं लोके एवं प्रतिष्ठाम्" प्रसिद्धिम् । "आगतं" । "तत्" पण्डितैः "किं"रूपं कथ्यते । न हि असिद्धं वस्तु प्रसिद्धिमायाति इति भावः ॥ २,९.१ ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।

फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥ २,९.२ ॥

हे "राघव" । "पौरुषं सर्वकार्याणां कर्तृ" भवति । "इतरत्" अन्यत्दैवादि । कर्तृ "न" भवति । न केवलं कर्त्रेव । किं तु "फलभोक्तृ च" भवति । स्वाविष्टपुरुषद्वारेणेति भावः । "दैवं तत्र कारणं न" भवति । अतो दैवं नास्तीति भावः ॥ २,९.२ ॥

 

 

दैवं न किंचित्कुरुते न च भुङ्क्ते न विद्यते ।

न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥ २,९.३ ॥

"ईदृशी" दैवमेव सर्वं करोतीत्येवंरूपा । न च कल्पनायाः सत्यत्वमिति भावः ॥ २,९.३ ॥

 

 

 

सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् ।

शुभाशुभा वा संपत्तिर्दैवशब्देन कथ्यते ॥ २,९.४ ॥

पण्डितैः "फलशालिनां" फलभाजाम् । "पौरुषेण" शुभाशुभेन पौरुषेण । "सिद्धस्य फलस्य शुभा अशुभा वा संपत्तिः दैवशब्देन कथ्यते" । "अज्ञव्यवहारार्थम्" इति शेषः ॥ २,९.४ ॥

 

 

पौरुषोपरता नित्यमिष्टानिष्टस्य वस्तुनः ।

प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ॥ २,९.५ ॥

पण्डितैः "पौरुषे उपरता" निष्ठां गता । "इष्टानिष्टस्य वस्तुनः इष्टा अनिष्टा वा प्राप्तिः दैवशब्देन कथ्यते" । "अपि"शब्दः पादपूरणार्थः ॥ २,९.५ ॥

 

 

 

भावी त्ववश्यमेवार्थः पुरुषार्थैकसाधनः ।

यः सोऽस्मिंल्लोकसंघाते दैवशब्देन कथ्यते ॥ २,९.६ ॥

"भावी" भवनशीलः । "पुरुषार्थः" पौरुषम् "एकं साधनं" यस्य । तादृशः । "लोकसंघाते" लोकसमूहे ॥ २,९.६ ॥

 

 

न तु राघव लोकस्य कस्यचित्किंचिदेव हि ।

दैवमाकाशकल्पं हि करोति न करोति वा ॥ २,९.७ ॥

"हि" यस्मादर्थे । "आकाशकल्पम्" आकाशवदत्यन्ततुच्छम् । न हि वन्ध्यासुतः "कस्यचित्किंचित्" "करोति न करोति वे"ति भावः । द्वितीयो "हि"शब्दः निश्चये ॥ २,९.७ ॥

 

 

 

पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये

इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ॥ २,९.८ ॥

 

 

"उक्तेः" स्वरूपं कथयति । "इदमित्थं स्थितम्" " इती"ति । "सिद्धम्" संपन्नम् ॥ २,९.८ ॥

 

 

 

इत्थं ममाभवद्बुद्धिरित्थं मे निश्चयो ह्यभूत् ।

इति कर्मफलावाप्तौ योक्तिस्तद्दैवमुच्यते ॥ २,९.९ ॥

"इत्थं" कर्मफलसाधनरूपा । "कर्मफलस्यावाप्तौ" प्राप्तौ । "उक्ति"मात्रमेव "दैवम्" इति भावः ॥ २,९.९ ॥

 

 

इष्टानिष्टफलप्राप्तावेवमित्यर्थवाचकम् ।

आश्वासनामात्रवचो दैवमित्येव कथ्यते ॥ २,९.१० ॥

"आश्वासनामात्रवचः" कथंभूतम् । "एवम्" । "इति" यः "अर्थः" । तस्य "वाचकम्" नियमवाचकमित्यर्थः ॥ २,९.१० ॥

 

 

श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ प्राग्यत्कर्मोपसंचितम् । ।     तदेतद्दैवमित्युक्तमपमृष्टं कथं त्वया ॥ २,९.११ ॥

"प्राक्" पित्रन्तर्गतबीजतावस्थायाम् । "अपमृष्टम्" नाशितम् ॥ २,९.११ ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।

दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥ २,९.१२ ॥

स्पष्टम् ॥ २,९.१२ ॥

 

 

तदेव कथयति

या मग्ना वासना पूर्वं बभूव किल भूरिशः ।

सैवेयं कर्मभावेन नॄणां परिणतिं गता ॥ २,९.१३ ॥

"पूर्वम्" पित्रन्तर्गतबीजतावस्थायाम् । "भूरिशः" भूरिप्रकारेण । वर्तमाना "या वासना" शुभाशुभा वा भावना । "मग्ना" । "बीजे" इति शेषः भवति । "सा एवेयं नॄणां कर्मभावेन" कर्मरूपेण । "परिणतिं" रूपान्तरम् । "गता" । तदनुरूपमेव सर्वे कर्म कुर्वन्तीति भावः ॥ २,९.१३ ॥

 

 

जन्तुर्यद्वासनो नाम तत्कर्मा भवति क्षणात् ।

अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥ २,९.१४ ॥

"अन्यभावः" अन्यवासना ॥ २,९.१४ ॥

 

 

ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् ।

यो यो यद्वासनस्तत्तत्स स प्रयतते तथा ॥ २,९.१५ ॥

"ग्रामगस्य च " ग्रामगमनवासना स्फुटा एवान्यथा न यायात् ॥ २,९.१५ ॥

 

 

यदेव तीव्रसंवेगादिह कर्म कृतं पुरा ।

तदेव दैवशब्देन पर्यायेण हि कथ्यते ॥ २,९.१६ ॥

"इह" इहलोकपरलोकतया द्विरूपे संसारे । "पुरा" पित्रन्तर्गतबीजतावस्थायाम् । "कर्म"करणं चात्र पितृद्वारेणैव ज्ञेयम् ॥ २,९.१६ ॥

 

 

उपसंहारं करोति

एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना ।

वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥ २,९.१७ ॥

"एवम्" अनेन प्रकारेण । "स्वकर्माणि" प्राक्कृतानि निजकर्माणि । "दैवं" भवति । "प्रौढा वासना कर्म" भवति । तदनुसारेणैव तस्य प्रकृतत्वात् । "वासना मनसः अन्या न" भवति । "हि" निश्चये । "मनः पुरुषः" भवति । अतः दैवस्य पुरुषाद्व्यतिरिक्ता सत्ता नास्तीति भावः ॥ २,९.१७ ॥

 

 

 

पुनरप्येतदेव कथयति

यद्दैवं तानि कर्माणि कर्म साधो मनो हि तत् ।

मनो हि पुरुषस्तस्माद्दैवं नास्तीति निश्चयः ॥ २,९.१८ ॥

"कर्मे"त्यत्र यच्छब्दाध्याहारः । "यत्" "कर्म" । "तत्मनो" भवति ॥ २,९.१८ ॥

 

 

एकमेव मनो जन्तोर्यथा प्रयतते हि यत् ।

नूनं तत्तदवाप्नोति स्वत एव न दैवतः ॥ २,९.१९ ॥

स्पष्टम् ॥ २,९.१९ ॥

 

 

मनश्चित्तं वासना च कर्म दैवं स्वनिश्चयः ।

राम पुंनिश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ॥ २,९.२० ॥

"पुंनिश्चयस्य" पुंरूपस्य निश्चयस्य । पुरुषस्येति यावत् ॥ २,९.२० ॥

 

 

 

एवंनामा हि पुरुषो दृढभावनया यथा ।

नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ॥ २,९.२१ ॥

"एवंनामा" मन इत्यादिनामयुक्तः ॥ २,९.२१ ॥

 

 

उपसंहारं करोति

एवं पुरुषकारेण सर्वमेव रघूद्वह ।

प्राप्यते नेतरेणेह तस्मात्स शुभदोऽस्तु ते ॥ २,९.२२ ॥

"सः" पुरुषकारः । "शुभदो" जीवन्मुक्ताख्यशुभफलप्रदः । "ते" इत्युपलक्षणम् । तेन सर्वेषां शुभफलप्रदः भवतु इत्यर्थः ॥ २,९.२२ ॥

 

 

 

श्रीरामः पृच्छति

प्राक्तनं वासनाजालं नियोजयति मां यथा ।

मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥ २,९.२३ ॥

अतः पौरुषं किंचिदपि नास्तीति भावः ॥ २,९.२३ ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् ।

स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥ २,९.२४ ॥

"हि" निश्चये । "अत एव" पूर्वोक्तात्कारणादेव । "पौरुषेण" कथंभूतेन । "स्वप्रयत्नोपनीतेन" । राहोः शिर इतिवदयं प्रयोगः ॥ २,९.२४ ॥

 

 

द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।

प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥ २,९.२५ ॥

"वासनाव्यूहः" वासनासमूहः । "अथ वा" पक्षान्तरे । "द्वयोः" मध्ये । "एकतरः" शुभः अशुभो वा अस्ति ॥ २,९.२५ ॥

 

 

वासनौघेन शुद्धेन तत्र चेदद्य नीयसे ।

तत्क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम् ॥ २,९.२६ ॥

"नीयसे" स्वानुसारेण कर्म कार्यसे । "पदम्" मोक्षाख्यं स्थानम् ॥ २,९.२६ ॥

 

 

 

अथ चेदशुभो भावस्त्वां योजयति सङ्कटे ।

प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥ २,९.२७ ॥

"अशुभो भावः" अशुभा वासना । "बलात्" हठात् ॥ २,९.२७ ॥

 

 

नन्वन्यः चेतनारूपः कश्चिन्मां प्रेरयति । तत्कथमहं स्वयं किंचित्कर्तुं शक्नोमीत्य् । अत्राह

प्राज्ञ चेतनामात्रस्त्वं न देहस्त्वं जडात्मकः ।

तदेव चेतस्यन्येन चेत्तत्त्वं क्वेव विद्यसे ॥ २,९.२८ ॥

हे "प्राज्ञ" । अस्मिञ्श्लोके वक्ष्यमाणे उपदेशे योग्यत्वम् । "चेतनामात्रः" असि "त्वम्" । "जडः देहः ना"सि । "तदेव" चेतनामात्रमेव सन् । "त्वमन्येन" हेतुकर्तृभूतेन कृत्वा । "चेत्" यदि । "चेतसि" चितिक्रियां प्रति कर्तृत्वं भजसि । "तत्" तदा । "त्वम्" न "विद्यसे" नासि । तस्यैव सत्त्वात् । न हि द्वयोः सत्ता युक्ता व्यर्थत्वात् ॥ २,९.२८ ॥

 

 

 

पुनरपि पूर्वश्लोकोत्तरार्धनिश्चितमर्थमेव कथयति

अन्यस्त्वां चेतयति चेत्तत्त्वय्यसति कोऽपरः ।

कमिमं चेतयेत्तस्मादनवस्था न वास्तवी ॥ २,९.२९ ॥

"अन्यः त्वां चेत्चेतयति" चितिक्रियाकर्तृत्वं प्रेरयति । "तत्" तदा । "त्वयि असति" पूर्वोक्तयुक्त्या सत्तामभजति सति । स इति "कमिमम्" किंरूपम् । इदन्तास्पन्दं त्वाम् । "चेतयेत्" चितिक्रियाकर्तृत्वं प्रति प्रेरयेत् । न ह्यसतः प्रेरणं युक्तमिति भावः । अतः अन्यः कश्चित्प्रेर्यः कल्पनीयः । सोऽपि त्वत्समानयोगक्षेम एवेति कुत्रापि प्रेर्यतया विश्रान्तिर्न स्याद् । अतः त्वमेव प्रेर्यप्रेरकभावेन स्थितोऽसीत्यभिप्रायेणोपसंहारं करोति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनवस्था" प्रेर्यानवस्थितिः । "वास्तवी" परमार्थभूता । "न" भवति । तवैव प्रेर्यप्रेरकत्वाभ्यां स्थितत्वात् । अतो न कश्चित्तवान्यः प्रेरकः अस्तीति भावः ॥ २,९.२९ ॥

 

 

 

प्रकृतमनुसरति

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।

पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ २,९.३० ॥

"योजनीया" प्रवर्तनीया । भोगत्यागपरामर्शाख्यं शुभानुसन्धानमेव सततं कार्यमिति भावः ॥ २,९.३० ॥

 

 

अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ।

स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ २,९.३१ ॥

"समाविष्टम्" संलीनम् । "अवतारयेत्" नयेत् ॥ २,९.३१ ॥

 

 

अशुभाच्चलितं याति शुभं तस्मादपीतरत् ।

जन्तोश्चित्तं तु पशुवत्तस्मात्तत्पालयेद्बलात् ॥ २,९.३२ ॥

"अशुभात्" भोगार्जनपरामर्शरूपातशुभानुसन्धानात् । "तस्मादपि" शुभादपि । "पालयेद्" अशुभात्रक्षेत् ॥ २,९.३२ ॥

 

 

 

समतासान्त्वनेनाशु न द्रागिति शनैः शनैः ।

पौरुषेण प्रयत्नेन पालयेच्चित्तबालकम् ॥ २,९.३३ ॥

"समता" सर्वमिदं ब्रह्मेत्येवंरूपा बुद्धिः । तया यत्"सान्त्वनम्" समाश्वासनं तेन । "न द्रागिति" न झटिति । एतस्यार्थं स्वकण्ठेन कथयति । "शनैः शनैर्" इति सम्यग्विचारेण । न तु प्राणरोधनादिरूपेण हठेनेत्यर्थः ॥ २,९.३३ ॥

 

 

 

वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः ।

शुभो वाप्यशुभो राम शुभमद्य घनीकुरु ॥ २,९.३४ ॥

"अद्य" । "मदुपदेशेने"ति शेषः ॥ २,९.३४ ॥

 

 

प्रागभ्यासवशाद्याता यदा ते वासनोदयम् ।

तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥ २,९.३५ ॥

"अभ्यासस्य" समस्तस्याभ्यासस्य ॥ २,९.३५ ॥

 

 

इदानीमपि ते याति घनतां वासनानघ ।

अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ॥ २,९.३६ ॥

"इदानीम्" अस्मिन् जन्मनि । "उपाहर" आनय ॥ २,९.३६ ॥

 

 

पूर्वं चेद्घनतां याता नाभ्यासात्तव वासना ।

वर्धिष्यते तु नेदानीमपि तात सुखी भव ॥ २,९.३७ ॥

वासनाराहित्यमात्रस्यैव परमे पदे यतत्वातिति भावः ॥ २,९.३७ ॥

 

 

 

संदिग्धायामपि भृशं शुभमेव समाहर ।

अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥ २,९.३८ ॥

"अस्यां वासनावृद्धौ संदिग्धायाम्" किमभ्यासाद्वर्धते न वेति सन्देहविषयायाम् "अपि" सत्याम् । त्वं "भृशं शुभमेव समाहर" अभ्यासविषयीकुरु । यतः "शुभात्कश्चन दोषो न" भवति ॥ २,९.३८ ॥

 

 

 

सन्देहस्यायुक्ततां कथयति

यद्यदभ्यस्यते लोके तन्मयेनैव भूयते ।

इत्याकुमारं प्रज्ञेषु दृष्टं सन्देहवर्जितम् ॥ २,९.३९ ॥

"लोके" संसारे । "पुरुषेणे"ति शेषः ॥ २,९.३९ ॥

 

 

 

शुभवासनया युक्तस्तदत्र भव भूतये ।

परं पौरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥ २,९.४० ॥

"भूतये" जीवन्मुक्ताख्यसंपत्प्राप्तये ॥ २,९.४० ॥

 

 

 

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।

गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ २,९.४१ ॥

"अव्युत्पन्नमनाः" ज्ञानरहितः । अत एव्"आज्ञाततत्पदः" अज्ञातब्रह्माख्योत्कृष्टस्थानः । "निर्णीतम्" तत्पदनिर्णयम् । भावे क्तप्रयोगे "निर्णीतम्" इति सिद्धम् ॥ २,९.४१ ॥

 

 

ततः कषायपाकेन नूनं विज्ञातवस्तुना ।

शुभोऽप्यसौ त्वया त्याज्यो भावनौघो निराधिना ॥ २,९.४२ ॥

"कषायपाकेन" लक्षणया परकोटिप्राप्त्या । "भावनौघः" निर्णयरूपः वासनासमूहः । "निराधिना" शुभवासनाख्यचित्तपीडारहितेन ॥ २,९.४२ ॥

 

 

सर्गान्तश्लोकेन श्रीरामस्यावस्थानमनुष्ठेयत्वेनोपदिशति

यदतिसुभगमार्यसेवितं तच्

छुभमनुसृत्य मनोज्ञभावबुद्ध्या ।

अधिगमय पदं सदाविशोकं

तदनु तदप्यवमुच्य साधु तिष्ठ ॥ २,९.४३ ॥

त्वम् । "यततिसुभगम्" अत एव्"आर्यसेवितम्" भवति । "तच्छुभं" पौरुषम् । "मनोज्ञभावा" शुभवासना या मतिः । तया करणभूतया । "अनुसृत्य" सततानुष्ठानविषयतां नीत्वा । "अविशोकं" दुःखरहितम् । "पदं" जीवन्मुक्तिरूपं स्थानम् । "अधिगमय" प्राप्नुहि । आर्षः स्वार्थे णिच् । "तदनु" कालान्तरे । "तदपि" जीवन्मुक्तिपदमपि "अवमुच्य" । "साधु" सम्यक् । "तिष्ठ" विदेहमुक्तौ स्थिरीभवेत्यर्थः । इति शिवम् ॥ २,९.४३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे नवमः सर्गः ॥ २,९ ॥