मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः २०
← सर्गः १५ | मोक्षोपायटीका/मुमुक्षुप्रकरणम् भास्करकण्ठः |
सर्गः १७ → |
मोक्षोपायटीका/मुमुक्षुप्रकरणम् |
---|
मुमुक्षोर्व्यवहारं संगृह्य कथयति
आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् ।
ततो महापुरुषता महापुरुषलक्षणैः ॥ २,२०.१ ॥
पुरुषः "आदौ आर्यसंगमयुक्त्या" साधुसंगाख्येनोपायेन । बुद्धिं "वृद्धिं" विवेकक्षमत्वं "नयेत्" । "ततः" बुद्ध्यासाधितैः "महापुरुषलक्षणैः महापुरुषता" भवेत् ॥ २,२०.१ ॥
ननु महापुरुषगुणैर्विना महापुरुषता कथं सिध्यतीत्यपेक्षायां तद्गुणाहरणमेव कर्तव्यत्वेन कथयति
यो यो येन गुणेनेह पुरुषः प्रविराजते ।
शिक्षेत तं तमेवाशु तस्माद्बुद्धिविवृद्धये ॥ २,२०.२ ॥
"बुद्ध्या विवृद्धये"ति वा पाठः । आर्यसंगमयुक्त्या विवृद्धया बुद्ध्या इत्यर्थः । अन्यथा बुद्धिवृद्ध्यभावे कथं परगुणग्रहणसामर्थ्यं स्यात् ॥ २,२०.२ ॥
ननु तर्हि गुणग्रहणं सुषममेवेति महापुरुषतापि सुसाध्यैव स्याद् । इत्यत्राह
महापुरुषता त्वेषा शमादिगुणशालिनी ।
सम्यग्ज्ञानं विना राम सिद्धिमेति न कस्यचित् ॥ २,२०.३ ॥
अतः "सम्यग्ज्ञानम्" एवार्यसंगमयुक्त्या प्रथमं साध्यमिति भावः ॥ २,२०.३ ॥
ननु सम्यग्ज्ञानेन किं सेत्स्यतीत्य् । अत्राह
ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् ।
श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः ॥ २,२०.४ ॥
"ज्ञानात्" कथम्भूतात् । "सत्पुरुषक्रमात्" । न त्वसत्पुरुषक्रमात् । "क्रमः" परिपाटी । "आदि"शब्देन दमादीनां ग्रहणम् । "वृष्टेर्" इति पञ्चमी ॥ २,२०.४ ॥
ननु शमादिभिरपि किं स्यादित्यपेक्षायामाह
शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् ।
अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा ॥ २,२०.५ ॥
"उत्तमम्" परमात्मविषयत्वेन सर्वेभ्यो ज्ञानेभ्यः श्रेष्ठम् ॥ २,२०.५ ॥
फलितमाह
गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता ।
परस्परं विवर्धेते एतेऽब्दसरसी यथा ॥ २,२०.६ ॥
अतः "ज्ञानाच्छमादयः" । "शमादिभ्यो" "ज्ञानं" । "यथा अब्देभ्यो" मेघेभ्यः सरः । सरसः मेघा इति पिण्डार्थः ॥ २,२०.६ ॥
पुनरप्येतदेव कथयति
ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः ।
परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥ २,२०.७ ॥
"सत्पुरुषाचारात्" शमादेरित्यर्थः ॥ २,२०.७ ॥
ननु ज्ञानशमयोः संपत्तौ पुरुषस्य केन यत्नेनोत्तमपदप्राप्तिर्भवतीत्य् । अत्र सदृष्टान्तमुत्तरं कथयति
यथा कमलरक्षिण्या गीत्या वितततारया ।
खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते ॥ २,२०.८ ॥
ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा ।
तथा पुंसा निरिच्छेन सममासाद्यते पदम् ॥ २,२०.९ ॥
"यथा कमलरक्षिण्या" गोपिकया कर्त्र्या । "वितता" चासौ "तारा" चेति तादृश्या "गीत्या" करणभूतया । "खगानां" यः "उत्सादः" धान्यादपासनम् । तेन "सहितः" "गीतानन्दः प्रसाध्यते" । न हि तस्याः तत्र यत्नोऽस्ति । गीतिमात्रेणैव गीतानन्दखगोत्सादयोः सिद्धत्वात् । मृगाणां हि अयं स्वभाव एष यत्गीतिं श्रुत्वा भक्ष्यमपि त्यजन्तीति । तथा कर्त्रा नाहं कर्तेति निश्चयात्कर्तृत्वलेपरहितेन "कर्तृरूपिणा" कर्तृवद्भासमानेनेति यावत् । "पुरुषेण" कर्त्रा । "ज्ञानसत्पुरुषेहाभ्यां" ज्ञानशमादिभ्यां करणाभ्याम् । "अयत्नेन" यत्नरहितमेव । "पदम्" शुद्धचिन्मात्राख्यमुत्तमं पदम् । "समासाद्यते" प्राप्यते । ज्ञानं शमादिकं चेत्येतन्मात्रकमेवात्रोपायः । नान्यत्किंचिदिति भावः । "पुरुषेण" कथम्भूतेन । "निरिच्छेन" ज्ञानशमादिपूर्णतया पदप्राप्तावपीच्छारहितेन । अन्यथेच्छारूपस्य क्षोभस्य स्थितत्वात्पूर्णता न स्यादिति भावः ॥ २,२०.८९ ॥
मुमुक्षुव्यवहारप्रकरणाभिधेयं वस्तूपसंहरति
सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन ।
तथोपदिश्यते सम्यगयं ज्ञानक्रमोऽधुना ॥ २,२०.१० ॥
"प्रोक्तः" एतद्युक्तस्यैव वक्ष्यमाणे ज्ञानक्रमेऽधिकारित्वादिति भावः । नन्वधुना किं करोषीत्यपेक्षायामाह । "तथोपदिश्यत" इति । "तथा" सदाचारक्रमवत् । "ज्ञानक्रमः" ब्रह्मोपदिष्टा स्वात्मज्ञानपरिपाटी ॥ २,२०.१० ॥
प्रकरणमाहात्म्यं कथयति
इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् ।
तज्ज्ञादाप्तात्मशास्त्रार्थाच्छ्रोतव्यं किल धीमता ॥ २,२०.११ ॥
बाह्यदृष्टीन् संमुखीकर्तुमिति "आयुष्यम्" इति च "इदं" मुमुक्षुव्यवहाराख्यं प्रकरणम् । "पुरुषार्थफलप्रदम्" मोक्षदम् । "तज्ज्ञात्" कथम्भूतात् । "आप्तः" सम्यङ्निश्चितः । "आत्मशास्त्राणाम्" अध्यात्मशास्त्राणाम् । "अर्थः" येन । तस्मात् ॥ २,२०.११ ॥
नन्वेतच्छ्रवणेन किं स्यादित्य् । अत्राह
श्रुत्वा तु बुद्धिनैर्मल्याद्बलाद्यास्यसि सत्पदम् ।
यथा कतकसंश्लेषात्प्रसादमवशं पयः ॥ २,२०.१२ ॥
त्वमेतच्"छ्रुत्वा" । सिद्धात्"बुद्धिनैर्मल्यात्" । "बलात्" अयत्नमेव । "सत्पदं यास्यसि" । अत्रोत्तरार्धेन दृष्टान्तमाह । "यथे"ति । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः ॥ २,२०.१२ ॥
ननु कथमेतच्छ्रवणेन पुरुषः सत्पदं यातीत्य् । अत्र सर्गान्तश्लोकेनोत्तरं कथयति
विदितवेद्यमिदं हि मनो मुने
विवशमेव हि याति परं पदम् ।
यदवबुद्धमखण्डितमुत्तमं
तदवबोधदशां न जहाति हि ॥ २,२०.१३ ॥
हे "मुने" मुनिकर्मान्वितत्वात्मुनिरूपश्रीराम । "हि" यस्मात् । "विदितवेद्यं मनः विवशमेव परं पदं याति" । अतो विदितवेद्यत्वकारिणः एतच्छास्त्रश्रवणात्सत्पदप्राप्तिर्युक्तैवेति भावः । ननु विदितवेद्यमपि मनः यदि कदाचिद्विदितवेद्यतां जहाति तदा किं कार्यम् । इत्यत्राह । "यद्" इति । मनसा "यतुत्तमं" न त्वधरं भोगरूपं वस्तु । "अवबुद्धं" सम्यङ्निश्चितम् । "तत्" मनः । तद्"अवबोधदशां" तस्योत्तमस्य वस्तुनः । यो "ऽवबोधः" तस्य "दशां" । "हि" निश्चयेन । "न जहाति" । विदितवेद्यो हि कदाचिदपि विदितवेद्यतां "न जहाती"ति तात्पर्यम् । इति शिवं शिवं शिवमिति ॥ २,२०.१३ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे विंशः सर्गः ॥ २,२० ॥
श्रोतॄणां भावनावेशसत्कृतस्वान्तशालिनाम् ।
मुमुक्षुव्यवहारोक्तिव्याख्या सत्फलदास्त्वियम् ॥ १ ॥
यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् ।
भावानामस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ॥ २ ॥
स्वात्मलाभमहोदारफलयोग्यत्वभावनः ।
मुमुक्षुव्यवहारोऽयं स्फुरतान्मम मानसे ॥ ३ ॥
इति शिवम् ॥
इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणं समाप्तम् । इति शिवम् ॥