सामग्री पर जाएँ

हितोपदेशम् 04

विकिस्रोतः तः

--ओ)०(ओ--
तृतीयः कथा-संग्रहः
इइइ. विग्रहः
अथ पुनः कथारंभ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम्। तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति। विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि। विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः-
हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे। विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मंदिरे॥हित्_३.१॥
राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-
अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः। तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति। स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येभिषिक्तः। यतः-
यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा। अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव॥हित्_३.२॥अपरं च- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम्। वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत्॥हित्_३.३॥
एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यंके सुखासीनः परिवार-परिवृतस् तिष्ठति। ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः। राजोवाच-दीर्घमुख ! दशांतराद् आगतो सि। वार्तां कथय।
स ब्रूते-देव ! अस्ति महती वार्ता। ताम् आख्यातुकाम एव सत्वरम् आगतो हम्। श्रूयताम्-
अस्ति जंबूद्वीपे विंध्यो नाम गिरिः। तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति। तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरंन् अवलोकितः। पृष्टश् च-कस् त्वम् ? कुतः समागतो सि ?
तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो हं, कौतुकाद् देशांतरं द्रष्टुम् आगतो स्मि। एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ?
ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अंतरम्। यतः कर्पूरद्वीपः स्वर्ग एव। राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते। अत्र मरुस्थले पतिता यूयं किं कुरुथ। अस्मद्-देशे गम्यताम्।
ततो स्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः। तथा चोक्तम्- पयः-पानं भुजंगानां केवलं विष-वर्धनम्। उपदेशो हि मूर्खाणां प्रकोपाय न शांतये॥हित्_३.४॥अंयच् च- विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन। वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः॥हित्_३.५॥
राजोवाच-कथम् एतत् ?
दीर्घमुखः कथयति-

अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः। तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसंति। अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले। धारा-सारैर् महती वृष्टिर् बभूव। ततो वानरांश् च तरु-तलेवस्थितान् शीताकुलान् कंपमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत-- अस्माभिर् निर्मिता नीडाश् चञ्चु-मात्राहृतैस् तृणैः। हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ॥हित्_३.६॥
तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणो स्मान् निंदंति। तद् भवतु तावद् वृष्टेर् उपशमः।
अनंतरं शांते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अंडानि चाधः पातितानि। अतो हं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि।
राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ?
बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ?
ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ?
एतच् छ्रुत्वा ते पक्षिणो मां हंतुम् उद्यताः। ततो मयापि स्व-विक्रमो दर्शितः। यतः- अंयदा भूषणं पुंसः क्षमा लज्जेव योषितः। पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव॥हित्_३.७॥
राजा विहस्याह- आत्मनश् च परेषां च यः समीक्ष्य बलाबलम्। अंतरं नैव जानाति स तिरस्क्रियतेरिभिः॥हित्_३.८॥
सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुढिमान्। द्वीपि-चर्म-परिच्छंनो वाग्-दोषाद् गर्दभो हतः॥हित्_३.९॥
बकः पृच्छति-कथम् एतत् ?
राजा कथयति-

अस्ति हस्तिनापुरे विलासो नाम रजकः। तस्य गर्दभो तिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत्। ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः। ततो दूरात् तम् अवलोक्य व्याघ्र-बुढ्या क्षेत्र-पतयः सत्वरं पलायंते।
अथैकदा केनापि सस्य-रक्षकेण धूसर-कंबल-कृत-तनु-त्राणेन धनुष्कांडं सज्जीकृत्यानत-कायेनैकांते स्थितम्। तं च दूराद् दृष्ट्वा गर्दभः पुष्टांगो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो यम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः। ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो यम् इति निश्चित्य, लीलयैव व्यापादितः। अतो हं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि।
दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरंन् अस्माकं स्वामिनम् अधिक्षिपसि। तन् न क्षंतव्यम् इदानीम्। इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः। तस्य राज्याधिकारो नास्ति। यत एकांत-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः। स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मंडूकः। तेन तद्-आश्रयम् उपदिशसि। शृणु-
सेवितव्यो महा-वृक्षः फल-च्छाया-समंवितः। यदि दैवात् फलं नास्ति च्छाया केन निवार्यते॥हित्_३.१०॥अंयच् च- हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः। पयो पि शौंडिकी-हस्ते वारुणीत्य् अभिधीयते॥हित्_३.११॥अंयच् च- महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः। आधाराधेय-भावेन गजेंद्र इव दर्पणे॥हित्_३.१२॥किंतु- अजा सिंह-प्रसादेन वने चरति निर्भयम्। रामम् आसाद्य लंकायां लेभे राज्यं विभीषणः॥हित्_३.१३॥
विशेषतश् च- व्यपदेशेपि सिढिः स्याद् अतिशक्ते नराधिपे। शशिनो व्यपदेशेन शशकाः सुखम् आसते॥हित्_३.१४॥
मयोक्तम्-कथम् एतत् ?
पक्षिणः कथयंति-

कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को भ्युपायो स्माकं जीवनाय ? नास्ति क्षुद्र-जंतूनां अपि निमज्जन-स्थानम्। वयं च निमज्जन-स्थानाभावान् मृताः। अंधा इव किं कुर्मः ? क्व यामः ?
ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान्। ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः। अनंतरं शिलीमुखो नाम शशकश् चिंतयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागंतव्यम्। ततो विनष्टम् अस्मत्-कुलम्।
ततो विजयो नाम वृढ-शशको वदत्-मा विषीदत। मयात्र प्रतीकारः कर्तव्यः। ततो सौ प्रतिज्ञाय चलितः। गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम्। यतः-
स्पृशंन् अपि गजो हंति जिघ्रंन् अपि भुजंगमः। पालयंन् अपि भूपालः प्रहसंन् अपि दुर्जनः॥हित्_३.१५॥
अतो हं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि। तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ?
स ब्रूते-शशको हम्। भगवता चंद्रेण भवद्-अंतिकं प्रेषितः।
यूथपतिर् आह-कार्यम् उच्यताम्।
विजयो ब्रूते- उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नांयथा। सदैवावध्य-भावेन यथार्थस्य हि वाचकः॥हित्_३.१६॥
तद् अहं तद्-आज्ञया ब्रवीमि, शृणु। यद् एते चंद्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम्। ते शशकाश् चिरम् अस्माकं रक्षिताः। अत एव मे शशांक इति प्रसिढिः।
एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम्। पुनर् न तत्र गमिष्यामि।
दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कंपमानं भगवंतं शशांकं प्रणम्य, प्रसाद्य च गच्छ।
ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चंद्र-बिंबं दर्शयित्वा स यूथप्तिः प्रणामं कारितः। उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः। ततः क्षम्यताम्। नैवं वारांतरं विधास्यते। इत्य् उक्त्वा प्रस्थापितः। अतो वयं ब्रूमः-व्यपदेशेपि सिढिः स्यात् इति।
--ओ)०(ओ--
ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो तिस्मर्थः। त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति। तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः। ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम्। एष दुष्टो स्मद्-देशे चरंन् अपि देव-पादान् अधिक्षिपति।
राजाह-को यम् ? कुतः समायातः ?
ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः।
अथाहं गृध्रेण मंत्रिणा पृष्टः-कस् तत्र मुख्यो मंत्री ? इति।
मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः।
गृध्रो ब्रूते-युज्यते। स्व-देशजो सौ। यतः-
स्वदेशजं कुलाचार-विशुढम् उपधाशुचिम्। मंत्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम्॥हित्_३.१७॥अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम्। अर्थस्योत्पादकं चैव विदध्यान् मंत्रिणं नृपः॥हित्_३.१८॥
अत्रांतरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जंबूद्वीपांतर्गता एव। तत्रापि देव-पादानाम् एवाधिपत्यम्। ततो राज्ञाप्य् उक्तम्-एवम् एव। यतः-
राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः। अप्राप्यम् अपि वाञ्छंति किं पुनर् लभ्यतेपि यत्॥हित्_३.१९॥
ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिढ्यति। तदा जंबूद्वीपेप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति। शुको ब्रूते-कथम् अत्र निर्णयः ?
मयोक्तं-संग्राम एव।
राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु।
तदा मयोक्तम्-स्व-दूतो पि प्रस्थाप्यताम्।
राजोवाच-कः प्रयास्यति दौत्येन ? यत एवंभूतो दूतः कार्यः-
भक्तो गुणी शुचिर् दक्षः प्रगल्भो व्यसनी क्षमी। ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान्॥हित्_३.२०॥
गृध्रो वदति-संत्य् एव दूता बहवः, किंतु ब्राह्मण एव कर्तव्यः। यतः,
प्रसादं कुरुते पत्युः संपत्तिं नाभिवाञ्छति। कालिमा कालकूटस्य नापैतीश्वर-संगमात्॥हित्_३.२१॥
राजाह-ततः शुक एव व्रजतु। शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि।
शुको ब्रूते-यथाज्ञापयति देवः। किंत्व् अयं दुर्जनो बकः। तद् अनेन सह न गच्छामि। तथा चोक्तम्-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु। दशाननो हरत् सीतां बंधनं स्यान् महोदधेः॥हित्_३.२२॥अपरं च- न स्थातव्यं न गंतव्यं दुर्जनेन समं क्वचित्। काक-संगाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः॥हित्_३.२३॥
राजोवाच-कथम् एतत् ?
शुकः कथयति-

अस्त्य् उज्जयिनी-वर्त्म-प्रांतरे प्लक्ष-तरुः। तत्र हंस-काकौ निवसतः। कदाचित् ग्रीष्म-समये परिश्रांतः कश्चित् पथिकस् तत्र तरु-तले धनुष्कांडं संनिधाय सुप्तः। तत्र क्षणांतरे तन्-मुखाद् वृक्ष-च्छायापगता। ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता। ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रांतेन पांथेन मुख-व्यादानं कृतम्।
अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जंयेन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः। ततो यावद् असौ पांथ उठायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः कांडेन हतो व्यापादितः। अतो हं ब्रवीमि-न स्थातव्यम् इति।
--ओ)०(ओ--
देव ! वर्तक-कथाम् अपि कथयामि। श्रूयताम्-

एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः। एकदा भगवतो गरुडस्य यात्रा-प्रसंगेन सर्वे पक्षिणः समुद्र-तीरं गताः। ततः काकेन सह वर्तकश् चलितः। अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भांडाद् वारं वारं तेन काकेन दधि खाद्यते। ततो यावद् असौ दधि-भांडं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ। ततस् तेन दृष्टः काकः पलायितः। वर्तकः स्वभाव-निरपराधो मंद-गतिस् तेन प्राप्तो व्यापादितः। अतो हं ब्रवीमि-न गंतव्यम् इत्य् आदि।
--ओ)०(ओ--
ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि। शुकेनोक्तम्-अस्त्व् एवम्। किंतु,
दुर्जनैर् उच्यमानानि संमतानि प्रियाण्य् अपि। अकाल-कुसुमानीव भयं संजनयंति हि॥हित्_३.२४॥
दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम्। यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम्। पश्य-
प्रत्यक्षेपि कृते दोषे मूर्खः सांत्वेन तुष्यति। रथ-कारो निजां भार्यां सजारां शिरसाकरोत्॥हित्_३.२५॥
राज्ञोक्तम्--कथम् एतत् ?
शुकः कथयति-

अस्ति यौवन-श्री-नगरे मंद-मतिर् नाम रथकारः। स च स्व-भार्यां बंधकीं जानाति। किंतु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति। ततो सौ रथकारः अहम् अंयं ग्रामं गच्छामीत्य् उक्त्वा चलितः। स कियद् दूरं गत्वा पुनर् आगत्य पर्यंक-तले स्व-गृहे निभृतं स्थितः। अथ रथकारो ग्रामांतरं गत इत्य् उपजात-विश्वासः स जारः संध्या-काल एवागतः। पक्सचात् तेन जारेण समं तस्मिन् पर्यंके निर्भरं क्रीडंती, पर्यंक-तल-स्थितस्य भर्तुः किञ्चिद् अंग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषंणाभवत्।
ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम्।
अथ तयोक्तम्-अनभिज्ञो सि। यो सौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो द्य ग्रामांतरं गतः। तेन विना सकल-जन-पूर्णो पि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति। किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते।
जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ?
बंधक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु-
परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा। सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम्॥हित्_३.२६॥अपरं च- नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः। यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥हित्_३.२७॥अंयच् च- भर्ता हि परमं नार्या भूषणं भूषणैर् विना। एषा विरहिता तेन शोभनापि न शोभते॥हित्_३.२८॥
त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-तांबूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च। स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः। किं बहुना ? तस्मिन् जीवति जीवामि। तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते। यतः-
तिस्रः कोट्यो र्ध-कोटी च यानि लोमानि मानवे। तावत् कालं वसेत् स्वर्गे भर्तारं यो नुगच्छति॥हित्_३.२९॥अंयच् च- व्याल-ग्राही यथा व्यालं बलाद् उढरते बिलात्। तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते॥हित्_३.३०॥अपरं च- चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः। कृत्वापि पापं शत-लक्षम् अप्य् असौ पतिं गृहीत्वा सुर-लोकम् आप्नुयात्॥हित्_३.३१॥यतः- यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः। तं शुश्रूषेत जीवंतं संस्थितं च न लंघयेत्॥हित्_३.३२॥
एतत् सर्वं श्रुत्वा मंद-मतिः स रथकारः-धंयो हं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानंदं ननर्त। अतो हं ब्रवीमि प्रयक्षेपि कृते दोषे इत्य् आदि।
--ओ)०(ओ--
अतो हं तेन राज्ञा यथा-व्यवहारं संपूज्य प्रस्थापितः। शुको पि मम पश्चाद् आगच्छंन् आस्ते। एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसंधीयताम्।
चक्रवाको विहस्याह-देव ! बकेन तावद् देशांतरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम्। किंतु देव स्वभाव एष मूर्खानाम्। यतः,
शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम्। विना हेतुम् अपि द्वंद्वम् एतन् मूर्खस्य लक्षणम्॥हित्_३.३३॥
राजाह-अलम् अनेनातीतोपालंभनेन। प्रस्तुतम् अनुसंधीयताम्।
चक्रवाको ब्रूते-देव ! विजने ब्रवीमि। यतः,
वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः। अप्य् ऊहंति मनो धीरास् तस्माद् रहसि मंत्रयेत्॥हित्_३.३४॥
ततो राजा मंत्री च तत्र स्थितौ अंयेंयत्र गताः। चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम्। यतः,
वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम्। विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम्॥हित्_३.३५॥
राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम्। संप्रति यत् कर्तव्यं तन् निरूप्यताम्।
चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम्। ततस् तद्-अनुष्ठानं बलाबलं च जानीमः। तथा हि-
भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने। चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अंध एव सः॥हित्_३.३६॥
स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु। तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मंत्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति। तथा चोक्तं-
तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना। तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत्॥हित्_३.३७॥
गूढ-चारश् च-यो जले स्थले च चरति। ततो साव् एव बको नियुज्यताम्। एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु। तद्-गृह-लोकाश् च राज-द्वारे तिष्ठंतु। किंतु एतद् अपि सुगुप्तम् अनुष्ठातव्यम्। यतः-
षट्-कर्णो भिद्यते मंत्रस् तथा प्राप्तश् च वार्तया। इत्य् आत्मना द्वितीयेन मंत्रः कार्यो मही-भृता॥हित्_३.३८॥
पश्य- मंत्र-भेदे हि ये दोषा भवंति पृथिवी-पतेः। न शक्यास् ते समाधातुम् इति नीति-विदां मतम्॥हित्_३.३९॥
राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः।
मंत्री ब्रूते-देव ! संग्रामे विजयो पि प्राप्तः।
अत्रांतरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जंबूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति।
राजा चक्रवाकम् आलोकते। चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः।
यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः। राजाह-विग्रहस् तावत् समुपस्थितः।
चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः। यतः-
स किं भृत्यः स किं मंत्री य आदाव् एव भूपतिम्। युढोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम्॥हित्_३.४०॥
अपरं च- विजेतुं प्रयतेतारीन् न युढेन कदाचन। अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः॥हित्_३.४१।
अंयच् च- साम्ना दानेन भेदेन समस्तैर् अथवा पृथक्। साधितुं प्रयतेतारीन् न युढेन कदाचन॥हित्_३.४२॥
अपरं च- सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः। अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि॥हित्_३.४३॥
किं च- न तथोठाप्यते ग्रावा प्राणिभिर् दारुणा यथा। अल्पोपायान् महा-सिढिर् एतन्-मंत्र-फलं महत्॥हित्_३.४४॥
किंतु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः-
यथा काल-कृतोद्योगात् कृषिः फलवती भवेत्। तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात्॥हित्_३.४५॥
अपरं च- दूरे भीरुत्वम् आसंने शूरता महतो गुणः। विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति॥हित्_३.४६॥
अंयच् च- प्रत्यूहः सर्व-सिढीनाम् उत्तापः प्रथमः किल। अतिशीतलम् अप्य् अंभः किं भिनत्ति न भूभृतः॥हित्_३.४७॥
बलिना सह योढव्यम् इति नास्ति निदर्शनम्। तद् युढं हस्तिना सार्धं नराणां मृत्युम् आवहेत्॥हित्_३.४८॥
अंयच् च- स मूर्खः कालम् अप्राप्य यो पकर्तरि वर्तते। कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा॥हित्_३.४९॥
किं च- कौर्मं संकोचम् आस्थाय प्रहारम् अपि मर्षयेत्। प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत्॥हित्_३.५०॥
महत्य् अल्पेप्य् उपायज्ञः समम् एव भवेत् क्षमः। समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः॥हित्_३.५१॥
अतो दूतो यं शुको त्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः-
एकः शतं योधयति प्राकार-स्थो धनुर्धरः। शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते॥हित्_३.५२॥
किं च- अदुर्ग-विषयः कस्य नारेः परिभवास्पदम्। अदुर्गो नाश्रयो राजा पोत-च्युत-मनुष्यवत्॥हित्_३.५३॥
दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम्। स-यंत्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम्॥हित्_३.५४॥
विस्तीर्णताति-वैषम्यं रस-धांयेध्म-संग्रहः। प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-संपदः॥हित्_३.५५॥
राजाह-दुर्गानुसंधाने को नियुज्यताम् ?
चक्रवाको ब्रूते-
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत्। कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो पि विमुह्यति॥हित्_३.५६॥तदाहूयतां सारसः। तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसंधेहि।
सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः। किंत्व् एतन्-मध्य-द्वीपे द्रव्य-संग्रहः क्रियताम्। यतः-
धांयानां संग्रहो राजंन् उत्तमः सर्व-संग्रहात्। निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम्॥हित्_३.५७॥
किं च- ख्यातः सर्व-रसानां हि लवणो रस उत्तमः। गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते॥हित्_३.५८॥
राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम्।
पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते। स च देव-पादान् द्रष्टुम् इच्छति।
राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स संग्राह्यः।
चक्रवाको ब्रूते-देव ! अस्त्य् एवं। किंतु अस्मद्-विपक्षः काकः स्थलचरः। तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं संगृह्यते ? तथा चोक्तम्-
आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः। स परैर् हंयते मूढो नील-वर्ण-शृगालवत्॥हित्_३.५९॥
राजोवाच--कथम् एतत् ?
मंत्री कथयति-

अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपांते भ्राम्यन् नीलीभांडे निपतितः। पश्चात् तत उठातुम् असमर्थः, प्रातर् आत्मानं मृतवत् संदर्श्य स्थितः। अथ नीली-भांड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुठाप्य, दूरे नीत्वासौ परित्यक्तः। तस्मात् पलायितः।
ततो सौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिंतयत्-अहम् इदानीम् उत्तम-वर्णः। तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः। पश्यंतु मम वर्णम्। तद् अद्यारभ्यास्मद्-आज्ञयास्मिंन् अरण्ये व्यवहारः कार्यः।
शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, साष्टांग-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति। अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव। ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम्। ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः। ततो विषंणान् शृगालान् अवलोक्य केनचिद् वृढ-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः। स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम्। यतो मी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मंयंते। तद् यथायं परिचीयते तथा कुरुत। तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे संध्या-समये तत्-संनिधाने महारावम् एकदैव करिष्यथ। ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः। यतः-
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः। श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम्॥हित्_३.६०॥
ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हंतव्यः। ततस् तथानुष्ठिते सति तद् वृत्तम्। तथा चोक्तम्-
छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः। दहत्य् अंतर्गतश् चैव शुष्कं वृक्षम् इवानलः॥हित्_३.६१॥
अतो हं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि।
--ओ)०(ओ--
राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः। तत्-संग्रहे विचारः कार्यः।
चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम्। अतः शुको प्य् आनीय प्रस्थाप्यताम्। किंतु योध-बल-समंवितो भूत्वा, दूराद् एव तम् अवलोकय। यतः-
नंदं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः। तद् दूरांतरितं दूतं पश्येद् वीर-समंवितः॥हित्_३.६२॥
ततः सभां कृत्वाहूतः शुकः काकश् च। शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम। नो चेद् अवस्थातुं स्थानांतरं परिचिंतय।
राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को पि विद्यते य एनं गलहस्तयति ? तत उठाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम्।
सर्वज्ञो राजानं काकं च सांत्वयन् ब्रूते-भद्र ! मा मैवम्। शृणु तावत्-
न सा सभा यत्र न संति वृढा वृढा न ते ये न वदंति धर्मम्। धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति॥हित्_३.६३॥
यतो राजधर्मश् चैषः- दूतो म्लेच्छो प्य् अवध्यः स्याद् राजा दूत-मुखो यतः। उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नांयथा॥हित्_३.६४॥
अंयच् च- स्वापकर्षं परोत्कर्षं दूतोक्तैर् मंयते तु कः। सदैवावध्य-भावेन दूतः सर्वं हि जल्पति॥हित्_३.६५॥
ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ। शुको प्य् उठाय चलितः। पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालंकारादिकं दत्वा संप्रेषितः स्वदेशं ययौ। शुको पि विंध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान्।
तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो सौ देशः ?
शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता। संप्रति युढोद्योगः क्रियताम्। देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते। ततः सर्वान् शिष्टान् आहूय राजा मंत्रयितुम् उपविष्टः। आह च तान्-संप्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत। विग्रहः पुनर् अवश्यं कर्तव्यः। तथा चोक्तम्-
असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः। सलज्जा गणिका नष्टा निर्लज्जाश् च कुलांगना॥हित्_३.६६॥
दूरदर्शी नाम गृध्रो मंत्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः। यतः-
मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः। शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा॥हित्_३.६७॥
अंयच् च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम्। यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा॥हित्_३.६८॥
राजाह-मद्-बलं तावद् अवलोकयतु मंत्री। तदैतेषाम् उपयोगो ज्ञायताम्। एवम् आहूयतां मौहूर्तिकः। स यात्रार्थं शुभ-लग्नं निर्णीय ददातु।
मंत्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम्। यतः-
विशंति सहसा मूढा येविचार्य द्विषद्-बलम्। खड्ग-धारा-परिष्वंगं लभंते ते सुनिश्चितम्॥हित्_३.६९॥
राजाह-मंत्रिन् ! ममोत्साह-भंगं सर्वथा मा कृथाः। विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय।
गृध्रो ब्रूते-देव ! तत् कथयामि। किंतु तद्-अनुष्ठितम् एव फल-प्रदम्। तथा चोक्तम्- किं मंत्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः। न ह्य् औषध-परिज्ञानाद् व्याधेः शांतिः क्वचिद् भवेत्॥हित्_३.७०॥
राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव !
नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप। तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः॥हित्_३.७१॥बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषांवितः। मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम्॥हित्_३.७२॥पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः। रथानां पार्श्वतो नागा नागानां च पदातयः॥हित्_३.७३॥पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः। मंत्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः॥हित्_३.७४॥समेयाद् विषमं नागैर् जलाढ्यं समहीधरम्। समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः॥हित्_३.७५॥हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे। तद् अंयत्र तुरंगाणां पत्तीनां सर्वदैव हि॥हित्_३.७६॥शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम्। स्व-योधै रक्षितस्यापि शयनं योग-निद्रया॥हित्_३.७७॥नाशयेत् कर्षयेच् छत्रून् दुर्ग-कंटक-मर्दनैः। पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः॥हित्_३.७८॥यत्र राजा तत्र कोशो विना कोशं न राजता। सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते॥हित्_३.७९॥
यतः- न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते। गौरवं लाघवं वापि धनाधन-निबंधनम्॥हित्_३.८०॥अभेदेन च युध्येत रक्षेच् चैव परस्परम्। फल्गु सैंयं च यत् किंचिन् मध्ये व्यूहस्य कारयेत्॥हित्_३.८१॥पदातींश् च महीपालः पुरो नीकस्य योजयेत्। उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत्॥हित्_३.८२॥स्यंदनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा। वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले॥हित्_३.८३॥दूषयेच् चास्य सततं यवसान् नोदकेंधनम्। भिंद्याच् चैव तडागानि प्रकारारान् परिखास् तथा॥हित्_३.८४॥बलेषु प्रमुखो हस्ती न तथांयो महीपतेः। निजैर् अवयवैर् एव मातंगो ष्टायुधः स्मृतः॥हित्_३.८५॥बलम् अश्वश् च सैंयानां प्राकारो जंगमो यतः। तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे॥हित्_३.८६॥
तथा चोक्तम्- युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः। अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः॥हित्_३.८७॥प्रथमं युढ-कारित्वं समस्त-बल-पालनम्। दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते॥हित्_३.८८॥स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम्। प्रसिढ-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः॥हित्_३.८९॥यथा प्रभु-कृतान् मानाद् युध्यंते भुवि मानवाः। न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते॥हित्_३.९०॥वरम् अल्प-बलं सारं न कुर्यान् मुंड-मंडलीम्। कुर्याद् असार-भंगो हि सार-भंगम् अपि स्फुटम्॥हित्_३.९१॥अप्रसादो नधिष्ठानं देयांश-हरणं च यत्। काल-यापो प्रतीकारस् तद् वैराग्यस्य कारणम्॥हित्_३.९२॥अपीडयन् बलं शत्रूञ् जिगीषुर् अभिषेणयेत्। सुख-साध्यं द्विषां सैंयं दीर्घ-प्रयाण-पीडितम्॥हित्_३.९३॥दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम्। तस्माद् उठापयेद् यत्नाद् दायादं तस्य विद्विषः॥हित्_३.९४॥संधाय युवराजेन यदि वा मुख्य-मंत्रिणा। अंतः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः॥हित्_३.९५॥क्रूरामित्रं रणे चापि भंगं दत्त्वा विघातयेत्। अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बंधनात्॥हित्_३.९६॥स्वराज्यं वासयेद् राजा पर-देशापहरणात्। अथवा दान-मानाभ्यां वासितं धनदं हि तत्॥हित्_३.९७॥
अथवा बहुनोदितेन- आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती। तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते॥हित्_३.९८॥
राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते। किंतु,
अंयद् उच्छृंखलं सत्त्वम् अंयच् छास्त्र-नियंत्रितम्। सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः॥हित्_३.९९॥
तत उठाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः। अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः। संप्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते। दुर्ग-शोधनं प्रतिक्षणम् अनुसंधातव्यम्। यतो सौ गृध्रो महामंत्री। किं च केनचित् सह तस्य विश्वास-कथा-प्रसंगेनेतद् इंगितम् अवगतं मया। यत्-अनेन को प्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः।
चक्रवाको ब्रूते-देव ! काक एवासौ संभवति।
राजाह-न कदाचिद् एतत्। यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः। स च चिराद् अत्रास्ते।
मंत्री ब्रूते-तथाप्य् आगंतुकः शंकनीयः।
राजाह-आगंतुका अपि कदाचिद् उपकारका दृश्यंते। शृणु-
परो पि हितवान् बंधुर् बंधुर् अप्य् अहितः परः। अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम्॥हित्_३.१००॥

संबंधित कड़ियाँ

[सम्पाद्यताम्]
  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_04&oldid=57312" इत्यस्माद् प्रतिप्राप्तम्