हितोपदेशम् 02क

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अपरं च- अंयथैव हि सौहार्दं भवेत् स्वच्छांतरात्मनः। प्रवर्ततेंयथा वाणी शाठ्योपहत-चेतसः॥हित्_१.१०१॥
मनस्य् अंयद् वचस्य् अंयत् कर्मण्य् अंयद् दुरात्मनाम्। मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम्॥हित्_१.१०२॥
तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं संतोष्य विवरं प्रविष्टः। वायसो पि स्व-स्थानं गतः ततः-प्रभृति तयोः अंयो ंयाहार-प्रदानेन कुशल-प्रश्नैः विश्रंभालापैश् च कियत्-कालो तिवर्तने। एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम्। तद् एतत् परित्यज्य स्थानांतरं गंतुम् इच्छामि।
हिरण्यको ब्रूते- स्थान-भ्रष्टा न शोभंते दंताः केशा नखा नराः। इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत्॥हित्_१.१०३॥
काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत्। यतः-
स्थानम् उत्सृज्य गच्छंति सिंहाः सत्-पुरुषा गजाः। तत्रैव निधनं यांति काकाः कापुरुषा मृगाः॥हित्_१.१०४॥
अंयच् च- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम्। यद् दंष्ट्रानख-लांगुल-प्रहरणः सिंहो वनं गाहते तस्मिंन् एव हत-द्विपेंद्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः॥हित्_१.१०५॥
हिरण्यको ब्रूते-मित्र क्व गंतव्यम् ? तथा चोक्तम्-
चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुढिमान्। नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत्॥हित्_१.१०६॥
वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम्।
हिरण्यको वदत्-किं तत् ?
वायसः कथयति-अस्ति दंडकारण्ये कर्पूरगौराभिधानं सरः। तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मंथराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति। पश्य मित्र !
परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्। धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः॥हित्_१.१०७॥
स च भोजन-विशेषैर् मां संवर्धयिष्यति। हिरण्यको प्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः-
यस्मिन् देशे न संमानो न वृत्तिर् न च बांधवः। न च विद्यागमः कश्चित् तं देशं परिवर्जयेत्॥हित्_१.१०८॥
अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः। पञ्च यत्र न विद्यंते तत्र वासं न कारयेत्॥हित्_१.१०९॥
अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता। पञ्च यत्र न विद्यंते न कुर्यात् तत्र संस्थितिम्॥हित्_१.११०॥
अंयच् च- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम्। ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी॥हित्_१.१११॥
अतो माम् अपि तत्र नय।
वायसो वदत्-एवम् अस्तु।
अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ। ततो मंथरो दूराद् एव लघु-पतनकम् अवलोक्य उठाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार। यतः-
बालो वा यदि वा वृढो युवा वा गृहम् आगतः। तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः॥हित्_१.११२॥
तथा- गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः॥हित्_१.११३॥
अपरं च- उत्तमस्यापि वर्णस्य नीचो पि गृहम् आगतः। पूजनीयो यथा-योग्यं सर्व-देव-मयो तिथिः॥हित्_१.११४॥
वायसो वदत्-सखे ! मंथर ! स-विशेष-पूजाम् असमि विधेहि, यतो यं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः। एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान्। ततो मंथरः सादरं हिरण्यकं संपूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ?
हिरण्यको वदत्-कथयामि, श्रूयताम्।

कथा ४[सम्पाद्यताम्]

अस्ति चंपकाभिधानायां नगर्यां परिव्राजकावसथः। तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति। स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदंतकेवस्थाप्य स्वपिति। अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि। अनंतरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसंगावस्थितो मम त्रासार्थं जर्जर-वंश-खंडेन चूडाकर्णो भूमिम् अताडयत्। तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ंयासक्तो भवान् ? यतः-
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी। स्नेहो धिकः संभ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म॥हित्_१.११५॥
अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम्। कथा-प्रसंगेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम्॥हित्_१.११६॥
चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किंतु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति। वीणाकर्णो नागदंतम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो प्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम्।
क्षणं विचिंत्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति। यतः-
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा। प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते॥हित्_१.११७॥
ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम्। ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः संन् आसं मंदं मंदम् उपसर्पन् चूडाकर्णेनावलोकितः। ततस् तेनोक्तम्-
धनेन बलवान् लोको धनाद् भवति पंडितः। पश्यैनं मूषिकं पापं स्वजाति-समतां गतम्॥हित्_१.११८॥
किं च- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः। क्रिया सर्वा विनश्यंति ग्रीष्मे कुसरितो यथा॥हित्_१.११९॥
अपरं च- यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बांधवाः। यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पंडितः॥हित्_१.१२०॥
अपरं च- अपुत्रस्य गृहं शूंयं सन्-मित्र-रहितस्य च। मूर्खस्य च दिशः शूंयाः सर्व-शूंया दरिद्रता॥हित्_१.१२१॥
अपरं च- दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम्। अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम्॥हित्_१.१२२॥
अंयच् च- तानींद्रियाण्य् अविकलानि तद् एव नाम सा बुढिर् अप्रतिहता वचनं तद् एव। अर्थोष्मणा विरहितः पुरुषः स एव अंयः क्षणेन भवतीति विचित्रम् एतत्॥हित्_१.१२३॥
एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम्। तथा चोक्तम्- अत्यंत-विमुखे दैवे व्यर्थे यत्ने च पौरुषे। मनस्विनो दरिद्रस्य वनाद् अंयत् कुतः सुखम्॥हित्_१.१२४॥
अंयच् च- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति। अपि निर्वाणम् आयाति नानलो याति शीतताम्॥हित्_१.१२५॥
किं च- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः। सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेथवा॥हित्_१.१२६॥
यच् चांयस्मै एतद् वृत्तांत-कथनं तद् अप्य् अनुचितम्। यतः-
अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च। वञ्चनं चापमानं च मतिमान् न प्रकाशयेत्॥हित्_१.१२७॥
यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम्। यतः-
वरं विभव-हीनेन प्राणैः संतर्पितो नलः। नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः॥हित्_१.१२८॥
अंयच् च- दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते। निर्विंणः शुचम् एति शोक-फिहितो बुढ्या परित्यज्यते निर्बुढिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम्॥हित्_१.१२९॥
किं च- वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम्। वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम्॥हित्_१.१३०॥
वरं शूंया शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः। वरं वासो रण्ये न पुनर् अविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः॥हित्_१.१३१॥
अपि च- सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम्। हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति॥हित्_१.१३२॥
तत् किम् अहं पर-पिंडेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम्। अंयच् च-
रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी। यज् जीवति तन् मरणं यन् मरणं सो स्य विश्रामः॥हित्_१.१३३॥
इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम्। तथा चोक्तम्-
लोभेन बुढिश् चलति लोभो जनयते तृषाम्। तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः॥हित्_१.१३४॥
ततो हं मंदं मंदम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खंडेन ताडितश् चाचिंतयम्-लुब्धो ह्य् असंतुष्टो नियतम् आत्म-द्रोही भवति। तथा च-
धन-लुब्धो ह्य् असंतुष्टो नियतात्माजितेंद्रियः। सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम्॥हित्_१.१३५॥
सर्वाः संपत्तस्यस् तस्य संतुष्टं यस्य मानसम्। उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः॥हित्_१.१३६॥
अपरं च- संतोषामृत-तृप्तानां यत् सुखं शांत-चेतसाम्। कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम्॥हित्_१.१३७॥
किं च- तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम्। येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलंबितम्॥हित्_१.१३८॥
अपि च- असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम्। अनुक्त-क्लीब-वचनं धंयं कस्यापि जीवनम्॥हित्_१.१३९॥
न योजन-शतं दूरं वाह्यमानस्य तृष्णया। संतुष्टस्य कर-प्राप्तेप्य् अर्थे भवति नादरः॥हित्_१.१४०॥
तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान्।
को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति। कः स्नेहः सद्-भावः किं पांडित्यं परिच्छेदः॥हित्_१.१४१॥
तथा च- परिच्छेदो हि पांडित्यं यदापन्ना विपत्तयः। अपरिच्छेद-कर्तृ̄णां विपदः स्युः पदे पदे॥हित्_१.१४२॥
तथा हि- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥हित्_१.१४३॥
अपरं च- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्। विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः॥हित्_१.१४४॥
इत्य् आलोच्याहं निर्जन-वनम् आगतः। यतः-
वरं वनं व्याघ्र-गजेंद्र-सेवितं द्रुमालयः पत्र-फलांबु-भक्षितम्। तृणानि शय्या वसनं च वल्कलं न बंधु-मध्ये धन-हीन-जीवनम्॥हित्_१.१४५॥
अतः- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले। काव्यामृत-रसास्वादः संगमः सज्जनैः सह॥हित्_१.१४६॥
अपरं च- सत्-संगः केशवे भक्तिर् गंगांभसि निमज्जनम्। असारे खलु संसारे त्रीणि साराणि भावयेत्॥हित्_१.१४७॥
मंथर उवाच- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिंदु-लोल-चपलं फेनोपमं जीवनम्। धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते॥हित्_१.१४८॥
युष्माभिर् अतिसञ्चयः कृतः। तस्यायं दोषः। शृणु- उपार्जितानां वित्तानां त्याग एव हि रक्षणम्। तडागोदर-संस्थानां परीवाहैवांभसाम्॥हित्_१.१४९॥
अंयच् च- यद् अधो धः क्षितौ वित्तं निचखान मितंपचः। तद्-अधो निलयं गंतुं चक्रे पंथानम् अग्रतः॥हित्_१.१५०॥
यतः- निज-सौख्यं निरुंधानो यो धनार्जनम् इच्छति। परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम्॥हित्_१.१५१॥
तथा चोक्तं- दानोपभोग-हीनेन धनेन धनिनो यदि। भवामः किं न तेनैव धनेन धनिनो वयम्॥हित्_१.१५२॥
यतः- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न याधत्ते। श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेंद्रियो भवेत्॥हित्_१.१५३॥
अंयच् च- असंभोगेन सामांयं कृपणस्य धनं परैः। अस्येदम् इति संबंधो हानौ दुःखेन गम्यते॥हित्_१.१५४॥
अपि च- न देवाय न विप्राय न बंधुभ्यो न चात्मने। कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः॥हित्_१.१५५॥
तथा चोक्तम्- दानं प्रिय-वाक्-सहितं ज्ञानम् अगर्वं क्षमांवितं सौर्यम्। त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर् भद्रम्॥हित्_१.१५६॥
उक्तं च- कर्तव्यः सञ्चयो नित्यं न तु कार्यो तिसञ्चयः। अतिसञ्चय-शीलो यं धनुषा जंबुको हतः॥हित्_१.१५७॥
ताव् आहतुः-कथम् एतत् ?
मंथरः कथयति-

कथा ५[सम्पाद्यताम्]

आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः। स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अंविष्यन् विंध्याटवी-मध्यं गतः। तत्र तेन मृग एको व्यापादितः। ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः। ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः। शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात। तथा चोक्तम्-
जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः। निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते॥हित्_१.१५८॥
अथ तयोः पादास्फालनेन एकः सर्पो पि मृतः। अत्रांतरे दीर्घरावो नाम जंबुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत्। आलोक्याचिंतयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम्।
अथवा- अचिंतितानि दुःखानि यथैवायांति देहिनाम्। सुखांय् अपि तथा मंये दैवम् अत्रातिरिच्यते॥हित्_१.१५९॥
मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ। अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः॥हित्_१.१६०॥
ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदंड-लग्नं स्नायु-बंधनं खादामि, इत्य् उक्त्वा तथाकरोत्। ततश् छिंने स्नायु-बंधने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः। अतो हं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि। तथा च-
यद् ददाति यद् अश्नाति तद् एव धनिनो धनम्। अंये मृतस्य क्रीडंति दारैर् अपि धनैर् अपि॥हित्_१.१६१॥
किं च- यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने। तत् ते वित्तम् अहं मंये शेषं कस्यापि रक्षसि॥हित्_१.१६२॥
यातु, किम् इदानीम् अतिक्रांतोपवर्णनेन। यतः-
नाप्रायम् अभिवाञ्छंति नष्टं नेच्छंति शोचितुम्। आपत्स्व् अपि न मुह्यंति नराः पंडित-बुढयः॥हित्_१.१६३॥
तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः-
शास्त्राण्य् अधीत्यापि भवंति मूर्खा यस् तु क्रियावान् पुरुषः स विद्वान्। सुचिंतितं चौषधम् आतुराणां न नाम-मात्रेण करोत्य् अरोगम्॥हित्_१.१६४॥
अंयच् च- न स्वल्पम् अप्य् अध्यवसाय-भीरोः करोति विज्ञान-विधिर् गुणं हि। अंधस्य किं हस्त-तल-स्थितो पि प्रकाशयत्य् अर्थम् इह प्रदीपः॥हित्_१.१६५॥
तद् अत्र सखे दशातिशेषेण शांतिः करणीया। एतद् अप्य् अतिकष्टं त्वया न मंतव्यम्।
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा। चक्रवत् परिवर्तंते दुःखानि च सुखानि च॥हित्_१.१६६॥
अपरं च- निपानम् इव मंडूकाः सरः पूर्णम् इवांडजाः। सोद्योगं नरम् आयांति विवशाः सर्व-संपदः॥हित्_१.१६७॥
अपि च- उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम्। शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः॥हित्_१.१६८॥
विशेषतश् च- विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तो प्य् अर्थैः परिभव-पदं याति कृपणः। स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सैंहीं श्वा किं धृत-कनक-मालो पि लभते॥हित्_१.१६९॥
किं च- धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि। कर-निहत-कंदुक-समाः पातोत्पाता मनुष्याणाम्॥हित्_१.१७०॥
अंयच् च- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता। गर्भाद् उत्पतिते जंतौ मातुः प्रस्रवतः स्तनौ॥हित्_१.१७१॥
अपि च सखे शृणु- येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः। मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति॥हित्_१.१७२॥
अपरं च सतां रहस्यं शृणु, मित्र !
जनयंत्य् अर्जने दुःखं तापयंति विपत्तिषु। मोहयंति च संपत्तौ कथम् अर्थाः सुखावहाः॥हित्_१.१७३॥
अपरं च- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता। प्रक्षालनाद् धि पंकस्य दूराद् अस्पर्शनं वरम्॥हित्_१.१७४॥
यतः- यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि। भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान्॥हित्_१.१७५॥
अंयच् च- राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि। भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव॥हित्_१.१७६॥
तथा हि- जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम्। इच्छा-संपद् यतो नास्ति यच् चेच्छा न निवर्तते॥हित्_१.१७७॥
अंयच् च भ्रातः शृणु- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते। लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिंतयेत्॥हित्_१.१७८॥
सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः। तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥हित्_१.१७९॥
अपरं च- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते। प्राप्त एवार्थतः सो र्थो यतो वाञ्छा निवर्तते॥हित्_१.१८०॥
किं बहुना, विश्रंभालापैर् मयैव सहात्र कालो नीयताम्। यतः-
आम्रणांताः प्रणयाः कोपाश् च क्षण-भंगुराः। परित्यागाश् च निःसंगा न भवंति महात्मनाम्॥हित्_१.१८१॥
इति श्रुत्वा लघुपतनको ब्रूते-धंयो सि मंथर ! सर्वथा आश्रयणीयो सि। यतः-
संत एव सतां नित्यम् आपद्-उढरण-क्षमाः। गजानां पंक-मग्नानां गजा एव धुरंधराः॥हित्_१.१८२॥
अपरं च- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धंयः। यस्यार्थिनो वा शरणागता वा नाशाविभंगा विमुखाः प्रयांति॥हित्_१.१८३॥
तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः संतुष्टाः सुखं निवसंति स्म। अथ कदाचित् चित्रांग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः। तत्-पश्चाद् आयांतं भय-हेतुं संभाव्य मंथरो जलं प्रविष्टः। मूषिकश् च विवरं गतः, काको पि उड्डीय वृक्षाग्रम् आरूढः। ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को प्य् अवलंबितः। पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः। मंथरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो नुभूयताम्। अत्रावस्थानेन वनम् इदं सनाथीक्रियताम्।
चित्रांगो ब्रूते-लुब्धक-त्रासितो हं भवतां शरणम् आगतः। ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि। भवंतश् च अनुकंपयंतु मैत्र्येण। यतः- लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम्। ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः॥हित्_१.१८४॥
हिरण्यको प्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः। यतः- औरसं कृत-संबंधं तथा वंश-क्रमागतम्। रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम्॥हित्_१.१८५॥
तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम्। तच् छ्रुत्वा मृगः सानंदो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः।
अथ मंथरो ब्रूते-सखे मृग ! केन त्रासितो सि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरंति ?
मृगेणोक्तम्-अस्ति कलिंग-विषये रुक्मांगदो नाम नृपतिः। स च दिग्विजय-व्यापार-क्रमेण आगत्य चंद्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदंती श्रूयते। तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम्।
तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयांतरं गच्छामि।
काक-मृगाव् अपि उक्तवंतौ-मित्र ! एवम् अस्तु !
हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मंथरस्य कुशलम्। स्थले गच्छतो स्य का विधा ?
अंभांसि जल-जंतूनां दुर्गं दुर्ग-निवासिनाम्। स्व-भूमिः श्वापदादीनां राज्ञां सैंयं परं बलम्॥हित्_१.१८६॥
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः। काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत्॥हित्_१.१८७॥
तद् यथा-

कथा ६[सम्पाद्यताम्]

अस्ति ब्रह्मारण्ये कर्पा̆ऊरतिलको नाम हस्ती। तम् अवलोक्य सर्वे शृगालाश् चिंतयंति स्म। यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत्। ततस् तन्-मध्याद् एकेन वृढ-शृगालेन प्रतिज्ञा कृता। मया बुढि-प्रभावाद् अस्य मरणं साधयितव्यम्। अनंतरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टांग-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु।
हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ?
सो वदत्-जंबुको हं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः। यद् विना राज्ञा स्थातुं न युक्तम्। तद् अत्राटवी-राज्येभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः। यतः-
कुलाचार-जनाचारैर् अतिशुढः प्रतापवान्। धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि॥हित्_१.१८८॥
अपरं च पश्य- राजानं प्रथमं विंदेत् ततो भार्यां ततो धनम्। राजंय् असति लोकेस्मिन् कुतो भार्या कुतो धनम्॥हित्_१.१८९॥
अंयच् च- पर्जंय इव भूतानाम् आधारः पृथिवी-पतिः। विकलेपि हि पर्जंये जीव्यते न तु भूपतौ॥हित्_१.१९०॥
किं च- नियत-विषय-वर्ती प्रायशो दंड-योगाज् जगति पर-वशेस्मिन् दुर्लभः साधु-वृत्तेः। कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुल-नारी दंड-भीत्याभ्युपैति॥हित्_१.१९१॥
तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन। इत्य् उक्त्वा उठाय चलितः। ततो सौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पंके निमग्नः। हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पंके पतितो हं म्रिये। परावृत्य पश्य !
शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ। यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत्। तद् अनुभूयताम् अशरणं दुःखम्। तथा चोक्तम्-
यदासत्-संग-रहितो भविष्यसि भविष्यसि। यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि॥हित्_१.१९२॥
ततो महा-पंके निमग्नो हस्ती शृगालैर् भक्षितः। अतो हं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि।
--ओ)०(ओ--
ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मंथरष् तज्-जलाशयम् उत्सृज्य प्रचलितः। तेपि हिरण्यकादयः स्नेहाद् अनिष्टं शंकमानास् तम् अनुजग्मुः। ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मंथरः प्राप्तः। स च तं गृहीत्वा उठाय धनुषि बढ्वा धंयो स्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः। अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छंति स्म। ततो हिरण्यको विलपति-
एकस्य दुःखस्य न यावद् अंतं गच्छाम्य् अहं पारम् इवार्णवस्य। तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवंति॥हित्_१.१९३॥
स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते। तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति॥हित्_१.१९४॥
अपि च- न मातरि न दारेषु न सोदर्ये न चात्मजे। विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे॥हित्_१.१९५॥
इति मुहुः विचिंत्य प्राह-अहो मे दुर्दैवम्। यतः-
स्व-कर्म-संतान-विचेष्टितानि कालांतरावर्ति-शुभाशुभानि। इहैव दृष्टानि मयैव तानि जन्मांतराणीव दशांतराणि॥हित्_१.१९६॥
अथवा इठम् एवैतत्। कायः संनिहितापायः संपदः पदम् आपदाम्। समागमाः सापगमाः सर्वम् उत्पादि भंगुरम्॥हित्_१.१९७॥
पुनर् विमृश्याह- शोकाराति-भय-त्राणं प्रीति-विश्रंभ-भाजनम्। केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम्॥हित्_१.१९८॥
किं च- मित्रं प्रीति-रसायनं नयनयोर् आनंदनं चेतसः पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते। ये चांये सुहृदः समृढि-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलंति तत्त्व-निकष-ग्रावा तु तेषां विपत्॥हित्_१.१९९॥
इति बहु विलप्य हिरण्यकश् चित्रांग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मंथरं मोचयितुं यत्नः क्रियताम्।
ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश।
हिरण्यको ब्रूते-चित्रांगो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु। काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु। नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गंतव्यम्। ततो हं मंथरस्य बंधनं छेत्स्यामि। संनिहिते लुब्धके भवद्भ्यां पलायितव्यम्।
ततश् चित्रांग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रांतः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत्। ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगांतिकं चलितः। अत्रांतरे हिरण्यकेन आगत्य मंथरस्य बंधनं छिन्नम्। छिन्न-बंधनः कूर्मः सत्वरं जलाशयं प्रविष्टः। स च मृग आसन्नं तं व्याधं विलोक्योठाय द्रुतं पलायितः। प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यंन् अचिंतयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः। यतः-
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते। ध्रुवाणि तस्य नश्यंति अध्रुवं नष्टम् एव हि॥हित्_१.२००॥
ततो सौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः। मंथरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः।
अथ राज-पुत्रैः सानंदम् उक्तम्-सर्वे श्रुतवंतः सुखिनो वयम्। सिढं नः समीहितम्।
विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि संपन्नम्। अपरम् अपीदम् अस्तु-
मित्रं यांतु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां भूपालाः परिपालयंतु वसुधां शश्वत् स्व-धर्मे स्थिताः। आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश् चंद्रार्ध-चूडामणिः॥हित्_१.२०१॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_02क&oldid=17776" इत्यस्माद् प्रतिप्राप्तम्