हितोपदेशम् 02

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

--ओ)०(ओ--
प्रथम: कथा-संग्रहः
इ. मित्र-लाभः अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पंडितो ब्रवीत्-भो राज-पुत्राः शृणुत-
काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम्। व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥हित्_१.१॥
तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि। राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां। विष्णु-शर्मोवाच-शृणुत यूयम्। संप्रति मित्र-लाभः प्रस्तूयते। यस्यायम् आद्यः श्लोकः-
असाधना वित्त-हीना बुढिमंतः सुहृन्-मताः। साधयंत्य् आशु कार्याणि काक-कूर्म-मृगाखुवत्॥हित्_१.२॥
राजपुत्रा ऊचुः-कथम् एतत् ?
सो ब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः। तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसंति। अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलंबिनि भगवति कुमुदिनी-नायके चंद्रमसि। लघुपतन-नामा वायसः प्रबुढः कृतांतम् इव द्वितीयम् अटंतं पाश-हस्तं व्याघम् अपश्यत्। तम् आलोक्याचिंतयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम्। न जाने किम् अनभिमतं दर्शयिष्यति। इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति। यतः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च। दिवसे दिवसे मूढम् आविशंति न पंडितम्॥हित्_१.३॥
अंयच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम्। उठायोठाय बोढव्यं किम् अद्य सुकृतं कृतम्। आयुषः खंडम् आदाय रविर् अस्तं गमिष्यति॥हित्_१.४॥
अथ तेन व्याधेन तंडुल-कणान् विकीर्य जालं विस्तीर्णम्। स च तत्र प्रच्छंनो भूत्वा स्थितः। अस्मिंन् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तंडुल-कणान् अवलोकयामास। ततः कपोत-राजस् तंडुल-कण-लुब्धान् कपोतान् प्राह-कुतो त्र निर्जने वने तंडुल-कणानां संभवः। तन् निरूप्यतां तावत्। भद्रम् इदं न पश्यामि प्रायेणानेन तंडुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम्।
कंकणस्य तु लोभेन मग्नः पंके सुदुस्तरे। वृढ-व्याघ्रेण संप्राप्तः पथिकः संमृतः॥हित्_१.५॥
कपोता ऊचुः-कथम् एतत् ?

कथा १[सम्पाद्यताम्]

सो ब्रवीत्-अहम् एकदा दक्षिणारण्ये चरंन् अपश्यम् एको वृढो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पंथाः ! इदं सुवर्ण-कंकणं गृह्यताम्। ततो लोभाकृष्टेन केनचित् पांथेन आलोचितम्-भाग्येन एतत् संभवति। किंतु अस्मिन् आत्म-संदेहे प्रवृत्तिर् न विधेया। यतः-
अनिष्टाद् इष्ट-लाभेपि न गतिर् जायते शुभा। यत्रास्ते विष-संसर्गो मृतं तद् अपि मृत्यवे॥हित्_१.६॥
किंतु सर्वत्रार्थार्जन-प्रवृत्तौ संदेह एव। तथा चोक्तम्-
न संशयम् अनारुह्य नरो भद्राणि पश्यति। संशयं पुनर् आरुह्य यदि जीवति पश्यति॥हित्_१.७॥
तन् निरूपयामि तावत्। प्रकाशं ब्रूते। कुत्र तव कंकणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति। पांथो वदत्-कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाच-शृणु रे पांथ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम्। अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च। वंश-हीनश् चाहम्। ततः केनचिद् धार्मिकेणाहम् उपदिष्टः। दान-धर्मादिकं चरतु भवान् इति। तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृढो गलित-नख-दंतः न कथं विश्वास-भूमिः ? उक्तं च-
इज्याध्ययन-दानानि तपः सत्यं धृतिः क्षमा। अलोभ इति मार्गो यं धर्मस्याष्ट-विधः स्मृतः॥हित्_१.८॥
तत्र पूर्वश् चतुर्वर्गो दंभार्थम् अपि सेव्यते। उत्तरस् तु चतुर्वर्गो महात्मंय् एव तिष्ठति॥हित्_१.९॥
मम चैतावान् लोभ-विरहः। येन स्व-हस्त-स्थम् अपि सुवर्ण-कंकणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः। यतः-
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम्। प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम्॥हित्_१.१०॥
मया च धर्म-शास्त्राणि अधीतानि। शृणु-
मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा। दरिद्रे दीयते दानं सफलं पांडु-नंदन॥हित्_१.११॥
प्राणा यथात्मनो भीष्टा भूतानाम् अपि ते तथा। आत्मौपम्येन भूतानां दयां कुर्वंति साधवः॥हित्_१.१२॥
अपरं च- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये। आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति॥हित्_१.१३॥
अंयच् च- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत्। आत्मवत् सर्व-भूतेषु यः पश्यति स पंडितः॥हित्_१.१४॥
त्वं च अतीव-दुर्गतः। तेन तत् तुभ्यं दातुं स-यत्नो हम्। तथा चोक्तम्-
दरिद्रान् भर कौंतेय मा प्रयच्छेश्वरे धनम्। व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः॥हित्_१.१५॥
अंयत् च- दातव्यम् इति यद् दानं दीयतेनुपकारिणि। देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः॥हित्_१.१६॥
तद् अत्र सरसि स्नात्वा सुवर्ण-कंकणम् इदं गृहाण। ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पंके निमग्नः पलायितुम् अक्षमः। तं पंके पतितं दृष्ट्वा व्याघ्रो वदत्-अहह महा-पंके पतितो सि। अतस् त्वाम् अहम् उठापयामि। इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पांथो चिंतयत्-
न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः। स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः॥हित्_१.१७॥
किं च- अवशेंद्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया। दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना॥हित्_१.१८॥
तन् मया भद्रं न कृतम्। यद् अत्र मारात्मके विश्वासः कृतः। तथा चोक्तम्-
नदीनां शस्त्र-पाणीनां नखिनां शृंगिणां तथा। विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च॥हित्_१.१९॥
अपरं च- सर्वस्य हि परीक्ष्यंते स्वभावा नेतरे गुणाः। अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते॥हित्_१.२०॥
अंयच् च- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी। विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः॥हित्_१.२१॥
इति चिंतयंन् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च। अतो हं ब्रवीमि-कंकणस्य तु लोभेनेत्य् आदि। अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति। यतः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः। सुचिंत्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-कालेपि न याति विक्रियाम्॥हित्_१.२२॥
एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ?
वृढस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते। सर्वत्रैवं विचारे च भोजनेपि प्रवर्तताम्॥हित्_१.२३॥
यतः- शंकाभिः सर्वम् आक्रांतम् अन्नं पानं च भूतले। प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ?॥हित्_१.२४॥
यथा चोक्तम्- ईर्ष्यी घृणी त्व् असंतुष्टः क्रोधनो नित्य-शंकितः। पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः॥हित्_१.२५॥
एतच् छ्रुत्वा तंडुल्-कण-लोभेन नभो-मंडलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः। यतः-
सुमहांत्य् अपि शास्त्राणि धारयंतो बहु-श्रुताः। छेत्ताः संअयानां च क्लिश्यंते लोभ-मोहिताः॥हित्_१.२६॥
अंयच् च- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते। लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम्॥हित्_१.२७॥
अंयच् च- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय। प्रायः समापन्न-विपत्ति-काले धियो पि पुंसां मलिना भवंति॥हित्_१.२८॥
अनंतरं ते सर्वे जाल-निबढा बभूवुः, ततो यस्य वचनात् तत्रावलंबितास् तं सर्वे तिरस्कुर्वंति स्म। यतः,
न गणस्याग्रतो गच्छेत् सिढे कार्ये समं फलम्। यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हंयते॥हित्_१.२९॥
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः
आपदाम् आपतंतीनां हितो प्य् आयाति हेतुताम्। मातृ-जंघा हि वत्सस्य स्तंभी-भवति बंधने॥हित्_१.३०॥
अंयच् च- स बंधुर् यो विपन्नानाम् आपद्-उढरण-क्षमः। न तु भीत-परित्राण-वस्तूपालंभ-पंडितः॥हित्_१.३१॥
विपत्-काले विस्मय एव कापुरुष-लक्षणम्। तद् अत्र धैर्यम् अवलंब्य प्रतीकारश् चिंत्यताम्, यतः-
विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः। यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृति-सिढम् इदं हि महात्मनाम्॥हित्_१.३२॥
संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम्। तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम्॥हित्_१.३३॥
अंयच् च- षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता। निद्रा तंद्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता॥हित्_१.३४॥
इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम्। यतः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका। तृणैर् गुणत्वम् आपन्नैर् बध्यंते मत्त-दंतिनः॥हित्_१.३५॥
संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि। तुषेणापि परित्यक्ता न प्ररोहंति तंडुलाः॥हित्_१.३६॥
इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः। अनंतरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो चिंतयत्-
संहतास् तु हरंत्य् एते मम जालं विहंगमाः। यदा तु निपतिष्यंति वशम् एष्यंति मे तदा॥हित्_१.३७॥
ततस् तेषु चक्षुर् विषयम् अतिक्रांतेषु पक्षिषु स व्याधो निवृत्तः। अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ?
चित्रग्रीव उवाच- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम्। कार्य-कारणतश् चांये भवंति हित-बुढयः॥हित्_१.३८॥
तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गंडकी-तीरे चित्र-वने निवसति। सो स्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः। हिरण्यकश् च सर्वदा अपाय-शंकया शत-द्वारं विवरं कृत्वा निवसति। ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः। चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न संभाषसे ?
ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-संभ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः।
यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः। यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान्॥हित्_१.३९॥
अथ पाश-बढांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ?
चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत्।
यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म। तस्माच् च तेन च तथा च तदा च तच् च तावच् च तत्र च विधातृ-वशाद् उपैति॥हित्_१.४०॥
राग-शोक-परीताप-बंधन-व्यसनानि च। आत्मापराध-वृक्षाणां फलांय् एतानि देहिनाम्॥हित्_१.४१॥
एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बंधनं छेत्तुं सत्वरम् उपसर्पति। तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु। प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिंधि। मम पाशं पश्चाच् छेत्स्यसि।
हिरण्यको प्य् आह-अहम् अल्प-शक्तिः। दंताश् च मे कोमलाः। तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दंता न त्रुट्यंति, तावत् तव पाशं छिनद्मि। तद्-अनंतरम् अप्य् एतेषां बंधनं यावत् शक्यं छेत्स्यामि।
चित्रग्रीव उवाच-अस्त्व् एवम्। तथापि यथा-शक्ति बंधनम् एतेषां खंडय।
हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां संमतम्। यतः-
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि। आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि॥हित्_१.४२॥
अंयच् च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः। तान् निघ्नता किं न हतं रक्षता किं न रक्षितम्॥हित्_१.४३॥
चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किंत्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि। यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्। संनिमित्ते वरं त्यागो विनाशे नियते सति॥हित्_१.४४॥
अयम् अपरश् चासाधारणो हेतुः।
जाति-द्रव्य-बलानां च साम्यम् एषां मया सह। मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति॥हित्_१.४५॥
अंयच् च- विना वर्तनम् एवैते न त्यजंति ममांतिकम्। तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान्॥हित्_१.४६॥
किं च- मांस-मूत्र-पुरीषास्थि-पूरितेत्र कलेवरे। विनश्वरे विहायास्थां यशः पालय मित्र मे॥हित्_१.४७॥
अपरं च पश्य- यदि नित्यम् अनित्येन निर्मलं मल-वाहिना। यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम्॥हित्_१.४८॥
यतः- शरीरस्य गुणानां च दूरम् अत्यंतम् अंतरम्। शरीरं क्षण-विध्वंसि कल्पांत-स्थायिनो गुणाः॥हित्_१.४९॥
इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु। अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते। एवम् उक्त्वा तेन सर्वेषां कपोतानां बंधनानि छिन्नानि। ततो हिरण्यकः सर्वान् सादरं संपूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बंधन-विधौ सति दोषम् आशंक्य आत्मनि अवज्ञा न कर्तव्या। यतः-
यो धिकाद् योजन-शतान् पश्यतीहामिषं खगः। स एव प्राप्त-कालस् तु पाश-बंधं न पश्यति॥हित्_१.५०॥
अपरं च- शशि-दिवाकरयोर् ग्रह-पीडनं गज-भुजंगमयोर् अपि बंधनम्। मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः॥हित्_१.५१॥
अंयच् च- व्योमैकांत-विहारिणो पि विहगाः संप्राप्नुवंत्य् आपदं बध्यंते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि। दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि॥हित्_१.५२॥
इति प्रबोध्य आतिथ्यं कृत्वा आलिंग्य च तेन संप्रेषितश् चित्रग्रीवो पि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको पि स्व-विवरं प्रविष्टः।
यानि कानि च मित्राणि कर्तव्यानि शतानि च। पश्य मूषिक-मित्रेण कपोता मुक्त-बंधनाः॥हित्_१.५३॥
अथ लघु-पतनक-नामा काकः सर्व-वृत्तांत-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो सि, अतो हम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि। अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि। एतच् छ्रुत्वा हिरण्यको पि विवराभ्यंतराद् आह-कस् त्वम् ?
स ब्रूते-लघुपतनक-नामा वायसो हम्। हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः-
यद् येन युज्यते लोके बुधस् तत् तेन योजयेत्। अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति॥हित्_१.५४॥
अपरं च- भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम्। शृगालात् पाशबढो सौ मृगः काकेन रक्षितः॥हित्_१.५५॥
वायसो ब्रवीत्--कथम् एतत् ?
हिरण्यकः कथयति-

कथा २[सम्पाद्यताम्]

अस्ति मगध-देशे चंपकवती नाम अरण्यानी। तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टांगः केनचित् शृगालेनावलोकितः। तं दृष्ट्वा शृगालो चिंतयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ?
मृगेणोक्तम्-कस् त्वम् ?
स ब्रूते-क्षुद्र-बुढि-नामा जंबुको हम्। अत्रारण्ये बंधु-हीनो मृतवत् एकाकी निवसामि। इदानीं त्वां मित्रम् आसाद्य पुनः स-बंधुर् जीव-लोकं प्रविष्टो स्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति।
मृगेणोक्तम्-एवम् अस्तु।
ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ। तत्र चंपक-वृक्ष-शाखायां सुबुढि-नामा काको मृगस्य चिर-मित्रं निवसति। तौ दृष्ट्वा काको वदत्-सखे चित्रांग ! को यं द्वितीयः ? मृगो ब्रूते-मित्र ! अकस्माद् आगंतुना सह मैत्री न युक्ता। तन् न भद्रम् आचरितम्। तथा चोक्तम्-
अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित्। मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः॥हित्_१.५६॥
तौ आहतुः--कथम् एतत् ?
काकः कथयति-

कथा ३[सम्पाद्यताम्]

अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति। अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उढृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति। अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः। ततस् तम् आयांतं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः। तच् छ्रुत्वा जरद्गवेन उक्तम्-को यम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो स्मि यतो यं मां व्यापादयिष्यति। अथवा-
तावद् भयस्य भेतव्यं यावद् भयम् अनागतम्। आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्॥हित्_१.५७॥
अधुनातिसंनिधाने पलायितुम् अक्षमः। तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवंदे।
गृध्रो वदत्-कस् त्वम् ?
सो वदत्-मार्जारो हम्।
गृध्रो ब्रूते-दूरम् अपसर नो चेत् हंतव्यो सि मया।
मार्जारो वदत्-श्रूयतां तावत् मद्-वचनम्। ततो यद्य् अहं वध्यस् तदा हंतव्यः। यतः -
जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित्। व्यवहारं परिज्ञाय वध्यः पूज्यो थवा भवेत्॥हित्_१.५८॥
गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो सि ?
सो वदत्-अहम् अत्र गंगा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चांद्रायण-व्रतम् आचरंस् तिष्ठामि। युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवंति, अतो भवद्भ्यो विद्यावयो-वृढेभ्यो धर्मं श्रोतुम् इहागतः। भवंतश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हंतुम् उद्यताः ? गृहस्थ-धर्मश् च एषः -
अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते। छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः॥हित्_१.५९॥
किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव।
तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता। एतांय् अपि सतां गेहे नोच्छिद्यंते कदाचन॥हित्_१.६०॥
अंयच् च- बालो वा यदि वा वृढो युवा वा गृहम् आगतः। तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः॥हित्_१.६१॥
अपरं च- निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वंति साधवः। न हि संहरते ज्योत्स्नां चंद्रश् चांडाल-वेश्मनः॥हित्_१.६२॥
अंयच् च- अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति॥हित्_१.६३॥
अंयच् च- उत्तमस्यापि वर्णस्य नीचो पि गृहम् आगतः। पूजनीयो यथा-योग्यं सर्व-देव-मयो तिथिः॥हित्_१.६४॥
गृध्रो वदत्-मार्जारो हि मांस-रुचिः। पक्षि-शावकाश् चात्र निवसंति। तेनाहम् एव ब्रवीमि। तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चांद्रायणम् अध्यवसितम्। यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम्। यतः-
सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये। सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः॥हित्_१.६५॥
अंयच् च- एक एव सुहृद् धर्मो निधनेप्य् अनुयाति यः। शरीरेण समं नाशं सर्वम् अंयद् हि गच्छति॥हित्_१.६६॥
किं च- यो त्ति यस्य यदा मांसम् उभयोः पश्यतांतरम्। एकस्य क्षणिका प्रीतिर् अंयः प्राणैर् विमुच्यते॥हित्_१.६७॥
अपि च- मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते। शक्यस् तेनानुमानेन परो पि परिरक्षितुम्॥हित्_१.६८॥
शृणु पुनः- स्वच्छंद-वन-जातेन शाकेनापि प्रपूर्यते। अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत्॥हित्_१.६९॥
एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः। ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति। अथ येषाम् अपत्यानि खादितानि। तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा। तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः। पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः। अतो हं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि।
--ओ)०(ओ--
इत्य् आकर्ण्य स जंबुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत्। तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा-
यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि। निरस्त-पादपे देशे एरंडो पि द्रुमायते॥हित्_१.७०॥
अंयच् च- अयं निजः परो वेति गणना लघु-चेतसाम्। उदार-चरितानां तु वसुधैव कुटुंबकम्॥हित्_१.७१॥
यथा चायं मृगो मम बंधुस् तथा भवान् अपि। मृगो ब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रंभालापैः सुखम् अनुभवद्भिः स्थीयताम्। यतः- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः। व्यवहारेण मित्राणि जायंते रिपवस् तथा॥हित्_१.७२॥
काकेन उक्तम्-एवम् अस्तु। अथ प्रातः सर्वे यथाभिमत-देशं गताः। एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिंन् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति। तद् अहं त्वां तत्र नीत्वा दर्शयामि। तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति। ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः। अनंतरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बढो चिंतयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अंयः समर्थः ?
अत्रांतरे जंबुकस् तत्रागत्य उपस्थितो चिंतयत्-फलितस् तावद् अस्माकं कपट-प्रबंधः। मनोरथ-सिढिर् अपि बाहुल्यान् मे भविष्यति। यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि। तानि च बाहुल्येन मम भोजनानि भविष्यंति। स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिंधि तावन् मम बंधनम्। सत्वरं त्रायस्व माम्। यतः-
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम्। भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बांधवान्॥हित्_१.७३॥
अपरं च- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-संकटे। राज-द्वारे श्मशाने च यस् तिष्ठति स बांधवः॥हित्_१.७४॥
जंबुकः पाशं मुहुर् मुहुर् विलोक्याचिंतयत्-दृढस् तावद् अयं बंधः। ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दंतैः स्पृशामि ? मित्र ! यदि चित्ते न अंयथा मंयसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति। अनंतरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ंविष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्-
सुहृदां हित-कामानां यः शृणोति न भाषितम्। विपत् संनिहिता तस्य स नरः शत्रुनंदनः॥हित्_१.७५॥
काको ब्रूते-स वञ्चकः क्वास्ते ?
मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव।
काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम्।
अपराधो न मेस्तीति नैतद् विश्वास-कारणम्। विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि॥हित्_१.७६॥
दीप-निर्वाण-गंधं च सुहृद्-वाक्यम् अरुंधतीम्। न जिघ्रंति न शृण्वंति न प्श्यंति गतायुषः॥हित्_१.७७॥
परोक्षे कार्य-हंतारं प्रत्यक्षे प्रिय-वादिनम्। वर्जयेत् तादृशं मित्रं विष-कुंभं पयोमुखम्॥हित्_१.७८॥
ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम्। यतः- संलापितानां मधुरैर् वचोभिर् मिथ्योपचारैश् च वशीकृतानाम्। आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति॥हित्_१.७९॥
अंयच् च- उपकारिणि विश्रब्धे शुढ-मतौ यः समाचरति पापम्। तं जनम् असत्य-संधं भगवति वसुधे कथं वहसि॥हित्_१.८०॥
दुर्जनेन समं सख्यं वैरं चापि न कारयेत्। उष्णो दहति चांगारः शीतः कृष्णायते करम्॥हित्_१.८१॥
अथवा स्थितिर् इयं दुर्जनानाम्-
प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किम् अपि रौति शनैर् विचित्रम्। छिद्रं निरूप्य सहसा प्रविशत्य् अशंकः सर्वं खलस्य चरितं मशकः करोति॥हित्_१.८२॥
तथा च- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम्। मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्॥हित्_१.८३॥
अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः। तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् संदर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ। अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उठाय सत्वरं पलायिष्यसे।
मृगस् तथैव काक-वचनेन स्थितः। ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः। अथासौ-आः ! स्वयं मृतो सि ? इत्य् उक्त्वा मृगं बंधनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव। ततः कियद् दूरे अंतरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उठाय पलायितः। तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः। तथा चोक्तम्-
त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः। अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते॥हित्_१.८४॥
अतो हं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि।
इति मृग-वायस-शृगाल-कथा
काकः पुनर् आह-
भक्षितेनापि भवता नाहारो मम पुष्कलः। त्वयि जीवति जीवामि चित्रग्रीव इवानघ॥हित्_१.८५॥
अंयच् च- तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम्। सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते॥हित्_१.८६॥
किं च- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्। न हि तापयितुं शक्यं सागरांभस् तृणोल्कया॥हित्_१.८७॥
हिरण्यको ब्रूते-चपलस् त्वम्। चपलेन सह स्नेहः सर्वथा न कर्तव्यः। तथा चोक्तम्-
मार्जारो महिषो मेषः काकः कापुरुषस् तथा। विश्वासात् प्रभवंत्य् एते विश्वासस् तत्र नो हितः॥हित्_१.८८॥
किं चांयत्-शत्रु-पक्षो भवान् अस्माकम्। शत्रुणा संधिर् न विधेयम्। उक्तं चैतत्- शत्रुणा न हि संदध्यात् संश्लिष्टेनापि संधिना। सुतप्तम् अपि पानीयं शमयत्य् एव पावकम्॥हित्_१.८९॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतो पि सन्। मणिना भूषितः सर्पः किम् असौ न भयंकरः॥हित्_१.९०॥
यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत्। नोदके शकटं याति न च नौर् गच्छति स्थले॥हित्_१.९१॥
अपरं च- महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु। भार्यासु च विरक्तासु तद्-अंतं तस्य जीवनम्॥हित्_१.९२॥
लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव संकल्पः। यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति। अंयथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति। तथा हि-
मृद्-घटवत् सुख-भेद्यो दुःसंधानश् च दुर्जनो भवति। सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु संधेयः॥हित्_१.९३॥
किं च- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम्। भयाल् लोभाच् च मूर्खाणां संगतः दर्शनात् सताम्॥हित्_१.९४॥
किं च- नारिकेल-समाकारा दृश्यंते हि सुहृज्जनाः। अंये बदरिकाकारा बहिर् एव मनोहराः॥हित्_१.९५॥
अंयच् च- स्नेह-च्छेदेपि साधूनां गुणा नायांति विक्रियाम्। भंगेपि हि मृणालानाम् अनुबध्नंति तंतवः॥हित्_१.९६॥
अंयच् च- शुचित्वम् त्यागिता शौर्यं सामांयं सुख-दुःखयोः। दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः॥हित्_१.९७॥
एतैर् गुणैर् उपेतो भवद्=अंयो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो हं भवताम् एतेन वचनामृतेन। तथा चोक्तम्-
घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखंड-विलेपनम् सुखयति प्रत्यंगम् अप्य् अर्पितम्। प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मंत्रोपमम्॥हित्_१.९८॥
अंयच् च- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया। क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम्॥हित्_१.९९॥
अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते। यतः-
पटुत्वं सत्यवादित्वं कथा-योगेन बुढ्यते। अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते॥हित्_१.१००॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_02&oldid=17775" इत्यस्माद् प्रतिप्राप्तम्