ब्राह्मणगीता ११
३१
[ब्र्]
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः।
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः॥१॥
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः।
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः॥२॥
एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः॥३॥
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता॥४॥
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः॥५॥
स निगृह्य महादोषान्साधून्समभिपूज्य च।
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह॥६॥
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः।
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया॥७॥
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते॥८॥
अकार्यमपि येनेह प्रयुक्तः सेवते नरः।
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत॥९॥
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते।
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्॥१०॥
स तैर्गुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते।
जन्म क्षये भिन्नविकीर्ण देहः पुनर्मृत्युं गच्छति जन्मनि स्वे॥११॥
तस्मादेनं सम्यगवेक्ष्य लोभं निगृह्य धृत्यात्मनि राज्यमिच्छेत्।
एतद्राज्यं नान्यदस्तीति विद्याद् यस्त्वत्र राजा विजितो ममैकः॥१२॥
इति राज्ञाम्बरीषेण गाथा गीता यशस्विना।
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता॥१३॥