ब्राह्मणगीता १२
३२
[ब्र्]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि॥१॥
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्॥२॥
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः॥३॥
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते॥४॥
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना।
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत॥५॥
तमासीनं ध्यायमानं राजानममितौजसम्।
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः॥६॥
समाश्वास्य ततो राजा व्यपेते कश्मले तदा।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्॥७॥
पितृपैतामहे राज्ये वश्ये जनपदे सति।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम्॥८॥
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया॥९॥
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत्।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता॥१०॥
तया न विषयं मन्ये सर्वो वा विषयो मम॥११॥
[S]
आत्मापि चायं न मम सर्वा वा पृथिवी मम।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते॥११॥
पितृपैतामहे राज्ये वश्ये जनपदे सति।
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया॥१२॥
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव।
नावैषि विषयं येन सर्वो वा विषयस्तव॥१३॥
[ज्]
अन्तवन्त इहारम्भा विदिता सर्वकर्मसु।
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत्॥१४॥
कस्येदमिति कस्य स्वमिति वेद वचस्तथा।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्॥१५॥
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया।
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम॥१६॥
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा॥१७॥
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा॥१८॥
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा॥१९॥
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा॥२०॥
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा॥२१॥
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा॥२२॥
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह।
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै॥२३॥
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्॥२४॥
त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः।
सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः॥२५॥