ब्राह्मणगीता १४
३४
[ब्र्]
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना।
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम॥१॥
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः।
तन्मन्ये कारणतमं यत एषा प्रवर्तते॥२॥
[ब्र्]
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः।
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः॥३॥
[ब्राह्मनी]
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम्।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु॥४॥
[ब्र्]
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा॥५॥
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते।
कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम्॥६॥
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते।
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते॥७॥
यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत्।
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः॥८॥
सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान्।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति॥९॥
[वा]
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये।
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते॥१०॥
[अर्जुन]
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥११॥
[वा]
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय॥१२॥
॥इति ब्राह्मणगीता समाप्ता॥