मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः ९ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओं पुनः दैवनिराकरणं करोति । ओं

नाकृतिर्न च कर्माणि नास्पदं न पराक्रमः ।

तन्मिथ्याज्ञानवत्प्रौढं दैवं नाम किमुच्यते ॥ २,८.१ ॥

पूर्वार्धे "यस्ये"ति शेषः ॥ २,८.१ ॥

 

 

स्वकर्मफलसंप्राप्ताविदमित्थमितीह याः ।

गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥ २,८.२ ॥

"इदमित्थमिति गिर" इदमित्थं संपन्नमिति वाचः ॥ २,८.२ ॥

 

 

 

तथैव मूढमतिभिर्दैवमस्तीति निश्चयः ।

आत्तो दुरवबोधेन रज्जाविव भुजङ्गमः ॥ २,८.३ ॥

"आत्तो" गृहीतः । "दुरवबोधेन" अज्ञानेन । "इव"शब्दः यथाशाब्दार्थे ॥ २,८.३ ॥

 

 

 

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।

अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान् भव ॥ २,८.४ ॥

गतार्थोऽयम् ॥ २,८.४ ॥

 

 

मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।

दैवाद्दाहोऽस्तु मा वेति वक्तव्यं तेन पावके ॥ २,८.५ ॥

"मूढानुमानसंसिद्धं दैवं यस्य दुर्मतेः" अज्ञानिनः । "अस्ति" परमार्थसदस्ति । "तेन" दुर्मतिना । "पावके" अग्नौ स्थित्वा । "दैवाद्दाहः अस्तु मा"स्तु "वेति वक्तव्यम्" । तत्र त्वसौ नैतद्वक्तुं शक्नोति दाहैकलब्धेरिति भावः ॥ २,८.५ ॥

 

 

 

दैवमेवेह चेत्कर्म पुंसः किमिव चेष्टया ।

स्नानदानाशनादारान् दैवमेव करिष्यति ॥ २,८.६ ॥

"कर्म" कर्मसंपादकमित्यर्थः । न चैतत्संभवति अकिंचित्कुर्वतः "स्नाना"द्यनुपपत्तेरिति भावः ॥ २,८.६ ॥

 

 

 

किं वा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।

संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥ २,८.७ ॥

"संचार्यते" संचरणशीलः संपाद्यते । "किम्" इति । "केन" इति शेषः । दैवाङ्गीकारे न कोऽपि "कस्या"प्युपदेशं कुर्यादिति भावः ॥ २,८.७ ॥

 

 

न च निःस्पन्दता लोके दृष्टेह शवतां विना ।

स्पन्दश्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम् ॥ २,८.८ ॥

स्पष्टम् ॥ २,८.८ ॥

 

 

ननु दैवेन सहैव पुरुषः कार्यं करोतीत्य् । अत्राह

न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।

हस्तादीनीहतश्चैव न दैवेन क्वचित्कृतम् ॥ २,८.९ ॥

 

 

"अमूर्तेन" मूर्तिरहितेन "दैवेन" । "हस्तादीनीहतः" चेष्टतः । "मूर्तस्य" पुरुषस्य । "सहकर्तृता च न" भवति । अतः "दैवेन कृतम्" दैवकर्तृकं कार्यम् । "क्वचित्न" भवति ॥ २,८.९ ॥

 

 

 

ननु मनोबुद्ध्यादिवदमूर्तस्यापि दैवस्य मूर्तेन सह कर्तृत्वमस्त्येवेत्य् । अत्राह

मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते ।

आगोपालं किल प्राज्ञैस्तेन दैवमसत्सदा ॥ २,८.१० ॥

मृतशरीरे कर्तृत्वादर्शनान् "मनोबुद्धी" कल्प्येते । न च दैवस्यात्र कश्चिदुपयोग इति । न तत्कल्पनावसर इति भावः ॥ २,८.१० ॥

 

 

ननु कदाचित्तस्मादेव दृश्यात्शरीरादेः कार्यं दृष्टं कदाचिन्न दृष्टमिति अदृष्टस्य दैवस्य कल्पना युक्तैवेत्य् । अत्राह

पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः ।

कल्पना वा प्रमाणं चेत्पौरुषं किं न कल्प्यते ॥ २,८.११ ॥

"बुद्धिः" ज्ञानम् । "पृथक्चेत्" यद्यस्ति । तद्"आर्थः अन्य" एकस्मात्द्वितीयः पृथगिति यावत् । अस्ति बुद्धिः "सा एव" । न तु भिन्ना "चेद्" भवति । तदा "तयोः" अर्थयोः "का अन्यता" भवति । अतोऽत्र केवलसद्दृश्याच्छरीरादेरेव कार्यं भवत्विति भावः । नन्वत्र बुद्धिपृथक्त्वोपयोगो नास्ति । कल्पनाया एव प्रमाणत्वादित्य् । अत्राह । "कल्पने"ति । "कल्पना" प्रथमं "प्रमाणं" नास्ति "चेद्" । "वा"स्ति । तदा "पौरुषं किं न कल्प्यते" । कल्पनया संभाव्यते समानन्यायत्वात् ॥ २,८.११ ॥

 

 

 

पुनरपि प्रकृतं मूर्तामूर्तयोः सहकर्तृत्वासंभवमेव कथयति

नामूर्तेन च सङ्गोऽस्ति नभसेव वपुष्मतः  ।

मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ॥ २,८.१२ ॥

"वपुष्मतः" मूर्तस्य शरीरिणः । "अमूर्तेन" मूर्तिरहितेन दैवेन । "सङ्गः" सहकर्तृत्वं "नास्ति" । केन्"एव" । "नभसा इव" । ननु तथापि अमूर्तमेव कर्तृ भवत्वित्य् । अत्राह । "मूर्तं चे"ति । अस्माभिः "मूर्तम्" एव "लग्नं" कार्यलग्नं "दृश्यते" । अतः तस्यैव कर्तृत्वं युक्तमिति भावः । फलितं कथयति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "दैवं न विद्यते" । तत्कल्पनायाः निरस्तत्वात् ॥ २,८.१२ ॥

 

 

 

विनियोक्ताथ भूतानामस्त्यन्यत्तज्जगत्त्रये ।

शेरतां भूतवृन्दानि दैवं सर्वं करिष्यति ॥ २,८.१३ ॥

"विनियोक्ता" प्रेरकः । "अन्यद्" दैवाख्यमन्यत्वस्तु । "शेरताम्" कार्येष्वनुद्योगं भजन्ताम् ॥ २,८.१३ ॥

 

 

 

दैवेनेत्थं नियुक्तोऽस्मि किं करोमीदृशं स्थितम् ।

समाश्वासनवागेषा न दैवं परमार्थतः ॥ २,८.१४ ॥

"ईदृशं स्थितम्" ईदृशं संपन्नम् ॥ २,८.१४ ॥

 

 

 

मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः ।

प्राज्ञास्तु पुरुषार्थेन पदमुत्तममागताः ॥ २,८.१५ ॥

"तत्पराः" स्वयंकल्पितदैवपराः । "ते" मूढाः । "पुरुषार्थेन" पौरुषेण । "उत्तमं पदम्" मोक्षाख्यमुत्कृष्टं स्थानम् ॥ २,८.१५ ॥

 

 

 

ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।

तैस्तैः कैरिव लोकेऽस्मिन् वद दैवं प्रचक्ष्यते ॥ २,८.१६ ॥

"प्रचक्ष्यते" कथ्यते । न केनापि प्रचक्ष्यते इति भावः ॥ २,८.[१६ ॥

 

 

कालविद्भिर्विनिर्णीता यस्यास्ति चिरजीविता ।

स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम् ॥ २,८.१७ ॥

"कालविद्भिः" दैवज्ञैः ॥ २,८.१७ ॥

 

 

कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।

अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥ २,८.१८ ॥

"तज्ज्ञः" पण्डितः ॥ २,८.१८ ॥

 

 

विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः ।

पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ॥ २,८.१९ ॥

स्पष्टम् ॥ २,८.१९ ॥

 

 

 

अमीभिर्न परै राम पुरुषैर्मुनितां गतैः ।

पौरुषेणैव संप्राप्ता चिरं गगनगमिता ॥ २,८.२० ॥

"अमीभिः" पौरुषयुक्तैरेभिरेव । "परैः" पौरुषरहितैः सामान्यजन्तुभिः । "गगनगमिता" परमाकाशचारित्वम् ॥ २,८.२० ॥

 

 

उत्साद्य देवसंघातांश्चक्रुस्त्रिभुवनोदरे ।

पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥ २,८.२१ ॥

"उत्साद्य" बाधित्वा । "देवसंघातान्" देवसमूहान् । "दानवेश्वराः" हिरण्याक्ष्यादयः ॥ २,८.२१ ॥

 

 

आलूनशीर्णमाभोगि जगदाजह्रुरोजसा ।

पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥ २,८.२२ ॥

"आलूनशीर्णम्" अतिचञ्चलम् ॥ २,८.२२ ॥

 

 

 

राम पौरुषयुक्त्यैव सलिलं धार्यते न वा ।

चिरं करण्डके युक्त्या न दैवं तत्र कारणम् ॥ २,८.२३ ॥

"करण्डके" रन्ध्रयुक्ते काण्डसाधिते द्रव्यविशेषे । केनचित्प्रयोगेन हि करण्डेऽपि जलं तिष्ठति ॥ २,८.२३ ॥

 

 

हरणादानसंरम्भविभ्रमभ्रमभूमिषु ।

शक्तता दृश्यते राम न दैवस्यौषधेरिव ॥ २,८.२४ ॥

"हरणे"त्याद्युपलक्षणं सर्वक्रियाणाम् ॥ २,८.२४ ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

सकलकारणकार्यविवर्जितं

निजविकल्पवशादुपकल्पितम् ।

त्वमनवेक्ष्य हि दैवमसन्मयं

श्रय शुभाशय पौरुषमुत्तमम् ॥ २,८.२५ ॥

गतार्थोऽयम् । इति शिवम् ॥ २,८.२५ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणेऽष्टमः सर्गः ॥ २,८ ॥