मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १०

विकिस्रोतः तः
← सर्गः ९ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः ११ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओं परममुपसंहारं करोति

अतः पौरुषमाश्रित्य श्रेयसे नित्यबान्धवम् ।

एकाग्रं कुरु चित्तं त्वं शृणु चोक्तमिदं मम ॥ २,१०.१ ॥

"उक्तम्" उपदेशम् ॥ २,१०.१ ॥

 

 

अवान्तराभिपातीनि स्वारूढानि मनोरथम् ।

पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय ॥ २,१०.२ ॥

"अवान्तरेषु" भोगरूपेषु मध्यमेषु विश्रान्तिस्थानेषु । न तु परमात्मरूपे परमे विश्रान्तिस्थाने । "अभिपातीनि" पतनशीलानि । "मनोरथं" चित्तानुसन्धानम् । "स्वारूढानि" सुष्ठु आरूढानि । "इन्द्रियाणि संयम्य" प्रत्याहृत्य । "समतां" रागद्वेषरहितत्वम् "नय" । अन्यथा न श्रोष्यसीति भावः ॥ २,१०.२ ॥

 

 

इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।

मोक्षोपायमयीं वक्ष्ये संहितां सारसम्मिताम् ॥ २,१०.३ ॥

"मोक्षोपायमयीं" मोक्षस्य यः उपायः तन्मयीं तद्वाचकामित्यर्थः । "संहिताम्" शास्त्रम् । "सारसम्मिताम्" सारतुल्याम् ॥ २,१०.३ ॥

 

 

अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् ।

संपूर्णौ शमसन्तोषावादायोदारया धिया ॥ २,१०.४ ॥

सपूर्वापरवाक्यार्थविचारविषयादृतम् ।

मनः समरसं कृत्वा सानुसन्धानमात्मनि ॥ २,१०.५ ॥

सुखदुःखक्षयकरं महानन्दैकसाधनम् ।

मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु ॥ २,१०.६ ॥

हे "राम" । त्वं "मया वक्ष्यमाणं मोक्षोपायं शृणु" । किं कृत्वा । "अपुनर्ग्रहणाये"त्यादि । सुषुप्तौ त्यक्तामपि वासनां पुरुषः पुनः गृह्णातीति "अपुनर्ग्रहणाये"त्युक्तम् । "अन्तः" मनसि । अन्यथा न श्रोतुं शक्नोषीति भावः । "आदाय" गृहीत्वा । "मनः" कथंभूतम् । "आत्मनि समरसम्" एकरसम् । न तु विषयेषु विक्षिप्तम् । तथा "सपूर्वापरः" संपूर्णः यः "वाक्यार्थविचारः" । स एव "विषयः" संचारस्थानम् । तत्र्"आदृतम्" ॥ २,१०.४६ ॥

 

 

इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः ।

पदं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥ २,१०.७ ॥

"पदम्" विश्रान्तिस्थानम् ॥ २,१०.७ ॥

 

 

एवं श्रीरामस्य पौरुषमाश्रयणीयत्वेनोपदिश्य विश्वामित्रप्रेरणया स्मृतं ब्रह्मोक्तमुपदेशं कथयितुं प्रस्तावं करोति

इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।

सर्वदुःखक्षयकरं परमाश्वासनं धियः ॥ २,१०.८ ॥

"इदं" वक्ष्यमाणम् । "धियः" बुद्धेः । "परमाश्वासनम्" उत्कृष्टमाश्वासनकारि ॥ २,१०.८ ॥

 

 

 

श्रीरामः पृच्छति

केनोक्तं कारणेनेदं ब्रह्मन् पूर्वं स्वयंभुवा ।

कथं च भवता प्राप्तमेतत्कथय मे प्रभो ॥ २,१०.९ ॥

"इदं" वक्ष्यमाणं ज्ञानम् ॥ २,१०.९ ॥

 

 

श्रीवसिष्ठः उत्तरं कथयति

अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।

चिदाकाशोऽविनाशात्मा प्रदीपः सर्ववस्तुषु ॥ २,१०.१० ॥

"चिदाकाशः" चिदिति नामधेयः आकाशः "चिदाकाशः" । सः "अस्ति" परमार्थसन् भवति । कथंभूतः । "अनन्ताः" अपरिच्छिन्नाः । ये "विलासाः" सर्गावभासनसंकोचनरूपाः विलासाः ते । "आत्मा" स्वरूपं यस्य सः । तथा "सर्वगः" सर्वव्यापकत्वातुपचारेण सर्वगन्ता । न हि मुख्यं सर्वगत्वमस्य संभवति निष्क्रियत्वेन गमिक्रियानाश्रयत्वात् । पुनः कथंभूतः । "सर्वेषाम्" समस्तानां भावाभावस्वरूपाणां पदार्थानाम् । "संश्रयः" स्फूर्तिप्रदत्वेन सत्ताप्रदत्वेन चाश्रयः । पुनः कथंभूतः । "अविनाशात्मा" विनाशस्यापि साक्षितया सत्ताप्रदत्वेन च तेन रहितः आत्मा यस्य सः । न हि स्वस्फूर्तिप्रदस्य स्वसत्तापादकस्य च कश्चितावरणं कर्तुं शक्तः तदावृतौ स्वस्याप्यसिद्धत्वात् । पुनः कथंभूतः । "सर्ववस्तुषु प्रदीपः" प्रकाशकत्वात् । ननु कुत्रासावस्तीति चेन् । न । सर्वत्र वर्तमानस्य कुत्रेति वक्तुमशक्यत्वात् । ननु तथापि कथं नासौ सर्वत्र दृश्यते इति चेद् । असदेतत् । द्रष्ट्रेकस्वरूपे तस्मिन् कथं न दृश्यत इत्यस्यापि वक्तुमशक्यत्वात् । तथापि कोऽसाविति चेत् । यः पृच्छति स एवेति ब्रूमः । ननु कः पृच्छति इति चेत् । अहन्तया अतिप्राकट्येन भासमानः सः स्वयमेव स्वान्तः विचार्यतामित्यलं रहस्योद्घाटनेन ॥ २,१०.१० ॥

 

 

 

ततः किमित्य् । अत्राह

स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत ।

स्पन्दमानरसापूरात्तरङ्गः सागरादिव ॥ २,१०.११ ॥

"स्पन्दास्पन्दयोः" सृष्ट्यावेशौदासीन्ययोः "समाकारात्" चित्त्वाख्यसमानाकारयुक्तात् । "ततः" तस्माच्चिदाकाशात् । "विष्णुः" भाविसृष्टिस्थितिकारी नारायणाख्यो देवताविशेषः । समष्टिरूपं शुद्धबुद्धितत्त्वं च्"आजायत" । संहारकारणस्य शुद्धाहङ्काररूपस्य रुद्रस्य कथनं सृष्टिमात्रकथनाकाङ्क्षया न कृतम् । विष्णुः क "इव" । "तरङ्ग इव" । यथा "स्पन्दमानरसापूरात्सागरात्तरङ्गः" जायते तथेत्यर्थः ॥ २,१०.११ ॥

 

 

 

सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् ।

तारकाकेसरवतः परमेष्ठी व्यजायत ॥ २,१०.१२ ॥

"तस्य" नारायणस्य शुद्धबुद्धितत्त्वस्य च । "सुमेरुकर्णिकात्" तथा "तारकाकेसराथृदयाम्बुजात्" हृत्कमलात्तदन्तर्गतात्ब्रह्माण्डातिति यावत् । भाविसर्वजगदाधारत्वयोग्यात्स्वरूपलेशाच्च । "परमेष्ठी" भाविसृष्ट्युत्पत्तिकारी ब्रह्माख्यो देवताविशेषः । समष्टिरूपं शुद्धमनस्तत्त्वं च "व्यजायत" ॥ २,१०.१२ ॥

 

 

 

वेदवेदार्थदेवेशमुनिमण्डलमालितम् ।

सोऽसृजत्सकलं सर्गं विकल्पौघं यथा मनः ॥ २,१०.१३ ॥

"सकलं" जगत्बाह्यत्वेन भासमानं समस्तं जगत् । समष्टिभूतशुद्धमनस्तत्त्वरूपात् । परमेष्ठिन एव हि सर्वं जगदुत्पन्नम् । अत्रोपमानत्वं व्यष्टिरूपस्य "मनसः" ज्ञेयम् । समष्टिरूपस्य मनसः उपमेयत्वात् ॥ २,१०.१३ ॥

 

 

 

जम्बुद्वीपस्य कोणेऽस्मिन् वर्षे भारतनामनि ।

स ससर्ज जनं पुत्रैराधिव्याधिपरिप्लुतम् ॥ २,१०.१४ ॥

"जनम्" मानवजनम् । "पुत्रैः" प्रजापतिभिः कृत्वा सामान्यजनैश्च ॥ २,१०.१४ ॥

 

 

जनं विशिनष्टि

भावाभावविषण्णाङ्गमुत्पातध्वंसतत्परम् ।

सर्गेऽस्मिन् भूतजातीनामाप्यायनकरं परम् ॥ २,१०.१५ ॥

"भूतजातीनां" देवादीनाम् । "आप्यायनकरम्" हव्यकव्यादिद्वारेण तृप्तिकरम् ॥ २,१०.१५ ॥

 

 

जनस्य तस्य दुःखं सद्दृष्ट्वा सकललोककृत् ।

जगाम करुणामीशः पुत्रदुःखाद्यथा पिता ॥ २,१०.१६ ॥

"तस्य जनस्य" मानवजनस्य । "ईशः" ब्रह्मा शुद्धमनस्तत्त्वं च । "करुणां" दयाम् । अत्र च शुद्धमनसः करुणा सृज्यमानस्मृतिकारचित्तावेशद्वारेण ज्ञेयेत्यलं रहस्योद्घाटनेन ॥ २,१०.१६ ॥

 

 

ननु ततः किमकरोदित्य् । अत्राह

क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।

स्यादिति क्षणमेकाग्रश्चिन्तयामास भूतपः ॥ २,१०.१७ ॥

"हताशानां" नष्टानाम् । "हतायुषां" नश्वराणाम् । "अन्तः" अवसानम् ॥ २,१०.१७ ॥

 

 

ब्रह्मणः चिन्तामुपसंहरति

इति संचिन्त्य भगवान् ससर्ज पुनरीश्वरः ।

तपो धर्मं च दानं च सत्यं तीर्थानि चैव ह ॥ २,१०.१८ ॥

"ससर्ज" स्वयम् । कृतेषु स्मृतिशास्त्रेषु जनान् प्रति कर्तव्यत्वेन दृष्टवानित्यर्थः ॥ २,१०.१८ ॥

 

 

एतत्सृष्ट्वा पुनर्देवश्चिन्तयामास भूतकृत् ।

पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् ॥ २,१०.१९ ॥

स्पष्टम् ॥ २,१०.१९ ॥

 

 

पुनः केन पुंसां सर्वस्य दुःखस्यान्तः भविष्यतीत्याशङ्क्य चिन्तयति

निर्वाणं नाम परमं सुखं येन पुनर्जनः ।

न जायते न म्रियते तज्ज्ञानादेव लभ्यते ॥ २,१०.२० ॥

तन्निर्वाणं केन स्यादित्याशङ्क्य चिन्तयति । "तज्ज्ञानाद्" इति । "तत्" निर्वाणम् । "ज्ञानातेव" परमात्मतत्त्वज्ञानातेव । न तु तपःप्रभृतिभ्यः "लभ्यते" ॥ २,१०.२० ॥

 

 

"एव"कारप्रयोगयोग्यतां स्वयमेव साधयति

संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि ।

तपो दानं तथा तीर्थमणूपायः प्रकीर्तितः ॥ २,१०.२१ ॥

"अणूपायः" अवान्तरोपायः ॥ २,१०.२१ ॥

 

 

 

तर्हि जनानां ज्ञानं कथं सेत्स्यतीत्याशङ्क्य चिन्तयति

तत्तावद्दुःखमोक्षार्थं जनस्यास्य महात्मनः ।

प्रत्यग्रं तरुणोपायमाशु प्रकटयाम्यहम् ॥ २,१०.२२ ॥

इयं चिन्ता तु उत्पादयिष्यमाणज्ञानोपदेशकारचिन्तावेशद्वारेण ज्ञेया ॥ २,१०.२२ ॥

 

 

परमेष्ठिचिन्तामुपसंहरति

इति संचिन्त्य भगवान् ब्रह्मा कमलसंभवः ।

मनसा परिसंकल्प्य मामुत्पादितवानिमम् ॥ २,१०.२३ ॥

"माम्" प्रोक्तस्वचिन्तोद्भवस्थानभूतानामुपदेशकाराणां मध्ये मुख्यभूतं त्वादृशजनज्ञानोत्पादनसमर्थं मोक्षोपायाख्यशास्त्रोपदेशकं वसिष्ठाख्यं "माम्" । "मनसे"ति राहोः शिर इतिवत्प्रयोगः ॥ २,१०.२३ ॥

 

 

 

ननु केनोपादानकारणेन त्वमुत्पन्न इत्य् । अत्राह

कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः ।

पितुस्तस्य पुरः शीघ्रमूर्मिरूर्मेरिवानघ  ॥ २,१०.२४ ॥

"कुतोऽपि" अनिर्वाच्यात्कस्माच्चिदुपादानकारणात् । "उत्पन्नः अहम्" । "ततः तस्य पितुः पुरः शीघ्रमुपस्थितः" प्राप्तः । क "इवो"त्पन्नः । "ऊर्मिरूर्मेरिव" परमार्थविचारे सर्वेषामुत्पत्तिरदृश्येवेति सामान्योत्पत्तिरेवात्रोक्तेत्यलं रहस्योद्घाटनेन ॥ २,१०.२४ ॥

कीदृशः त्वमुपस्थितः किं च कृतवानित्य् । अत्राह

कमण्डलुधरो नाथः सकमण्डलुना मया ।

साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥ २,१०.२५ ॥

"साक्षमालम्" इति पूर्वकालक्रियाविशेषणम् । एतेन स्वस्य ध्यानमुक्तम् ॥ २,१०.२५ ॥

 

 

 

ततः तव तेन किमुक्तं कृतं चेत्य् । अत्राह

एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले ।

शुक्लेऽभ्र इव शीतांशुं योजयामास पाणिना ॥ २,१०.२६ ॥

अत्र शुद्धमनःस्पर्शः मयि जातः इति भङ्ग्या उक्तम् ॥ २,१०.२६ ॥

 

 

मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।

मामुवाच पिता ब्रह्मा स हंसः सारसं यथा ॥ २,१०.२७ ॥

"माम्" वसिष्ठाख्यं माम् । वचनं चात्रान्तरः परामर्शः ज्ञेयः ॥ २,१०.२७ ॥

 

 

 

किमुवाचेत्य् । अत्राह

मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।

अज्ञानमभ्याविशतु शशः शशधरं यथा ॥ २,१०.२८ ॥

आन्तरभावेन स्थितशुद्धचित्तवशेनैव हि सर्वेषामज्ञानित्वं ज्ञानित्वं च भवति । एतेन प्रथमं स्वस्य ज्ञानित्वं द्योतितम् ॥ २,१०.२८ ॥

 

 

ब्रह्मवचनमुपसंहरति

इति तेनाशु शप्तः सन् विचारसमनन्तरम् ।

अहं विस्मृतवान् सर्वं स्वरूपममलं द्विजः ॥ २,१०.२९ ॥

"अहं द्विजः" वसिष्ठाख्यः ब्राह्मणः । स्वं "स्वरूपं" । "विस्मृतवान्" व्यस्मार्षमिति सम्बन्धः ॥ २,१०.२९ ॥

 

 

अथाहं दीनतां यातः स्थितोऽसंबुद्धया धिया ।

दुःखशोकाभिसंतप्तो जातो जन इवाधमः ॥ २,१०.३० ॥

"असंबुद्धया" निश्चयरहितया ॥ २,१०.३० ॥

 

 

कष्टं संसारनामायं दोषः कथमिवागतः ।

इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥ २,१०.३१ ॥

अहम् "इति चिन्तितवान्" इति संबन्धः । एतेन अज्ञानित्वानन्तरं स्वस्य वैराग्यप्रादुर्भावः सूचितः ॥ २,१०.३१ ॥

 

 

 

अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि ।

दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ २,१०.३२ ॥

"अथाभ्यधात्" उक्तवान् । एतेन वैराग्यानन्तरं मम ज्ञानं प्रति औन्मुख्यं जातमिति सूचितम् ॥ २,१०.३२ ॥

 

 

ननु ततस्त्वया किं कृतमित्य् । अत्राह

ततः पृष्टः स भगवान्मया सकललोककृत् ।

हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ २,१०.३३ ॥

एतेन "मया" स्वयमेव विमर्षः कृत इति सूचितम् ॥ २,१०.३३ ॥

 

 

ननु त्वयासौ किं पृष्टस्तेन च किमुक्तमित्य् । अत्राह

कथं नाथ महद्दुःखमयं संसार आगतः ।

कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे ॥ २,१०.३४ ॥

तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् ।

अहं पितुरपि प्रायः किलाधिक इव स्थितः ॥ २,१०.३५ ॥

"पितुः" आधिक्यं शुद्धमनस्तत्त्वातिलङ्घनेन प्राप्ता चिन्मात्रता ज्ञेया । एतेन स्वस्य स्वतःसिद्धत्वमुक्तम् । त्रिविधा हि सिद्धाः उत्तरोत्तरमुत्कर्षवन्तः सन्ति । गुरुतः शास्त्रतः स्वत इति ॥ २,१०.३४३५ ॥

 

 

 

ततो विदितवेद्यं मां निजप्रकृतिमास्थितम् ।

स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥ २,१०.३६ ॥

मयि इदं स्फुरितमित्यान्तरोऽभिप्रायः ॥ २,१०.३६ ॥

 

 

 

किमुवाचेत्य् । अत्राह

शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः ।

पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥ २,१०.३७ ॥

मम मध्ये एवेदमज्ञत्वं प्रादुर्भूतमासीतिति मम स्फुरितमिति भावः ॥ २,१०.३७ ॥

 

 

 

पुनः किमुवाचेत्य् । अत्राह

इदानीं शान्तशापस्त्वं परं बोधमुपागतः ।

संस्थितोऽहमिवैकात्मा कनकं कनकादिव ॥ २,१०.३८ ॥

"इदानीमहं" ज्ञानी जात इत्यपि मम स्फुरितमिति भावः ॥ २,१०.३८ ॥

 

 

ततोऽपि पुनः किमुवाचेत्य् । अत्राह

गच्छेदानीं महापीठे जम्बुद्वीपान्तरस्थितम्  ।

साधो भारतवर्षं त्वं लोकानुग्रहहेतुना ॥ २,१०.३९ ॥

स्पष्टम् ॥ २,१०.३९ ॥

 

 

 

तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधियः ।

उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिनः ॥ २,१०.४० ॥

स्पष्टम् ॥ २,१०.४० ॥

 

 

विरक्तचित्ताश्च तथा महाप्राज्ञा विरागिणः ।

उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ॥ २,१०.४१ ॥

ततः अहं वैराग्यरहितानां कर्मकाण्डद्वारेणोपदेशं करोमि । विरक्तानां तु ज्ञानकाण्डद्वारेणेत्यपि स्फुरितम् । अन्यथा त्वदुपदेशेऽप्यहं न प्रवर्तेयमिति भावः ॥ २,१०.४१ ॥

 

 

ब्रह्मवाक्यमुपसंहरति

इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।

इह राघव तिष्ठामि यावद्भूतपरंपरा ॥ २,१०.४२ ॥

"यावद्भूतपरंपरे"त्युपदेष्टृभूतज्ञानिसामान्येनोक्तं स्वस्य चिरजीवित्वेन वा । बाह्य अर्थस्तु स्फुटतया न प्रतिपदमुक्तः ॥ २,१०.४२ ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

कर्तव्यमस्ति मम नेह हि किंचिदेव

स्थातव्यमित्यभिमना भुवि संस्थितोऽस्मि ।

संशान्तया सततसुप्तधियेव वृत्त्या

कार्यं करोमि न च किंचिदहं करोमि ॥ २,१०.४३ ॥

"हि" निश्चये । "मम" समस्तज्ञानिसन्तानस्य वसिष्ठाख्यस्य च । "इह" लोके । "किंचित्" "एव कर्तव्यं नास्ति" परमात्मतत्त्वप्राप्त्या कृतकृत्यत्वात् । तथापि "अहं भुवि" भूमौ । "संस्थितः अस्मि" । कथंभूतः । स्थातव्यं मया इहावश्यम् । नियत्यनुरोधेन "स्थातव्यमिति" एवम् "अभिमनाः" अभिनिविष्टमनाः निश्चितमना इति यावत् । "अहं संशान्तया" लाभालाभानुसन्धानरूपक्षोभरहितया "वृत्त्या" वा । पारेण "कार्यम्" शरीरयात्रानिमित्तं कर्म । अकरणे प्रत्यवायनिमित्तं नित्यं कर्म च "करोमि" । "वृत्त्या" कया "इव" । "सततसुप्ता" या "धीः" । तया "इवा"त्यन्तशान्तयेत्यर्थः । तथापि "अहं किंचिद्" अपि "न च करोमि" नाहं कर्तेति निश्चयानुभावादित्यर्थः । इति शिवम् ॥ २,१०.४३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे दशमः सर्गः ॥ २,१० ॥