मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः ७

विकिस्रोतः तः
← सर्गः ६ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः ८ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओमत्यन्तोपादेयत्वेन पुनरपि पौरुषचर्चामेव प्रस्तौति

प्राप्य व्याधिविनिर्मुक्तं देहमल्पाधिवेधितम् ।

तथात्मानं समादध्याद्यथा भूयो न जायते ॥ २,७.१ ॥

"अल्पो" यः "आधिः" जीवनोपायादिनिमित्ता चित्तपीडा । तेन "वेधितम्" ताडनायुक्तं कृतम् । "समादध्यात्" चिन्मात्रतत्त्वे समाधानयुक्तं कुर्यात् ॥ २,७.१ ॥

 

 

 

दैवं पुरुषकारेण योऽतिवर्तितुमिच्छति ।

इह चामुत्र च जयेत्स संपूर्णाभिवाञ्छितः ॥ २,७.२ ॥

"दैवम्" अनुद्योगरूपं दैवम् । "संपूर्णे अभिवाञ्छिते" भोगमोक्षरूपे काङ्क्षिते यस्य "सः" ॥ २,७.२ ॥

 

 

 

ये समुद्योगमुत्सृज्य स्थिता दैवपरायणाः ।

ते धर्ममर्थकामौ च नाशयन्त्यात्मविद्विषः ॥ २,७.३ ॥

"आत्मविद्विट्त्वं" च तेषां भोगमोक्षरूपात्मककार्यनाशकत्वाज्ज्ञेयम् ॥ २,७.३ ॥

 

 

 

संवित्स्पन्दो मनःस्पन्द इन्द्रियस्पन्द एव च ।

एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः ॥ २,७.४ ॥

"एभ्यः" संविदादिस्पन्देभ्यः ॥ २,७.४ ॥

 

 

संवित्तत्त्वादेव पौरुषोत्थानं कथयति

यथा संवेदनं चेतस्तथान्तःस्पन्दमृच्छति ।

तथैव कायश्चलति तथैव फलभोक्तृता ॥ २,७.५ ॥

"यथा" येन प्रकारेण । "संवेदनम्" संविदः स्फुरणं स्यात् । "तथा" तेन प्रकारेण । "चेतः अन्तःस्पन्दम्" संकल्पाख्यां चेष्टाम् । "ऋच्छति" गच्छति । "तथैव" चित्तस्पन्दानुसारेण एव । "कायः चलति" हिताहितप्राप्तिपरिहाररूपां क्रियां प्रति चेष्टते । ततः "तथैव" कायचलनानुसारेणैव । "फलभोक्तृता" भवति । "जीवस्ये"ति शेषः ॥ २,७.५ ॥

 

 

 

आबालमेतत्संसिद्धं यत्र यत्र यथा तथा ।

दैवं तु न क्वचिद्दृष्टमतो जयति पौरुषम् ॥ २,७.६ ॥

"आबालं" बालपर्यन्तम् । "एतत्" मदुक्तम् । फलितमाह्"आत" इति ॥ २,७.६ ॥

 

 

 

पुरुषार्थेन देवेशगुरुरेष बृहस्पतिः ।

शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥ २,७.७ ॥

देवेशस्य गुरुः "देवेशगुरुः" ॥ २,७.७ ॥

 

 

दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः ।

पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ २,७.८ ॥

"देवेन्द्रतुल्यताम्" इन्द्रसाम्यम् ॥ २,७.८ ॥

 

 

महान्तो विभवाढ्या ये नानाश्चर्यसमाश्रयाः ।

पौरुषेणैव दोषेण नरकातिथितां गताः ॥ २,७.९ ॥

"दोषेण" दोषहेतुना । उच्छास्त्रितेनेति यावत् ॥ २,७.९ ॥

 

 

 

भावाभावसहस्रेषु दशासु विविधासु च ।

स्वपौरुषवशादेव विवृत्ता भूतजातयः ॥ २,७.१० ॥

"विवृत्ताः" रूपान्तरं गताः । "भावाभावा"द्याविष्टाः संपन्ना इति यावत् ॥ २,७.१० ॥

 

 

शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धिता ।

सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥ २,७.११ ॥

त्रिभिः प्रकारैः सिद्धिता "त्रिसिद्धिता" । "फलम्" इति शेषः । "स्वतः" शास्त्रादि विना स्वप्रतिभामात्रादेव । केचिद्धि "शास्त्रात्" सिद्धा भवन्ति । केचित्"गुरुतः" । केचित्"स्वतः" ॥ २,७.११ ॥

 

 

 

अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ।

यत्नेन चित्तमित्याशु सर्वशास्त्रार्थसंग्रहः ॥ २,७.१२ ॥

"अशुभेषु" भोगार्जनरूपेष्वशुभकार्येषु ॥ २,७.१२ ॥

 

 

यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् ।

तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः ॥ २,७.१३ ॥

"पुत्र" हे शिष्य । "स्थिताः" । "उपदेष्टृत्वेने"ति शेषः ॥ २,७.१३ ॥

 

 

यथा यथा प्रयत्नो मे फलमाशु तथा तथा ।

इत्यहं पौरुषादेव फलभाङ्न तु दैवतः ॥ २,७.१४ ॥

"इत्य्" एवम् । निश्चयवान् भवेदिति भावः ॥ २,७.१४ ॥

 

 

पौरुषाद्दृश्यते सिद्धिः पौरुषं धीमतां क्रमः ।

दैवमाश्वासनामात्रं दुःखपेलवबुद्धिषु ॥ २,७.१५ ॥

"दुःखेन पेलवा" उद्योगासहा । "बुद्धिः" येषां तेषु ॥ २,७.१५ ॥

 

 

प्रत्यक्षप्रमुखान्नित्यं प्रमाणं पौरुषः क्रमः ।

फलतो दृश्यते लोके देशान्तरगमादिकात् ॥ २,७.१६ ॥

अस्माभिः "पौरुषः" पुरुषसम्बन्धी "क्रमः" । पादचालनादिरूपं पौरुषमिति यावत् । "देशान्तरगमादिकात्फलतः" फलात् । "नित्यं प्रमाणं" अर्थक्रियाकारि  "दृश्यते" । "फलतः" कथंभूतात् । "प्रत्यक्षं" प्रत्यक्षप्रमाणम् । "प्रमुखं" ग्राहकत्वेन प्रधानं यस्य । तादृशात्प्रत्यक्षदृष्टादित्यर्थः । अतः पौरुषमेव सफलम् । न दैवमिति भावः ॥ २,७.१६ ॥

 

 

 

भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः ।

वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥ २,७.१७ ॥

स्पष्टम् ॥ २,७.१७ ॥

 

 

पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः ।

समुत्तरन्त्ययत्नेन न तु मूकतयानया ॥ २,७.१८ ॥

"मूकतया" दैवपरत्वरूपेण उद्योगराहित्येन ॥ २,७.१८ ॥

 

 

 

यो यो यथा प्रयतते स स तद्वत्फलैकभाक् ।

न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् ॥ २,७.१९ ॥

"तद्वत्" तथा । "तूष्णीं स्थितेन" उद्योगरहितेन तिष्ठता ॥ २,७.१९ ॥

 

 

 

शुभेन पुरुषार्थेन शुभमासाद्यते फलम् ।

अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥ २,७.२० ॥

स्पष्टम् ॥ २,७.२० ॥

 

 

 

पुरुषार्थफलप्राप्तिर्देशकालवशादिह ।

प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता ॥ २,७.२१ ॥

"प्राप्तिः" "प्राप्ते"ति कार्यं करोति इतिवत्प्रयोगः । "असौ" "पुरुषार्थफलप्राप्तिः" ॥ २,७.२१ ॥

 

 

न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् ।

उक्तं दैवाभिधानेन स्वं लोके कर्मणः फलम् ॥ २,७.२२ ॥

स्पष्टम् ॥ २,७.२२ ॥

 

 

पुरुषो जायते लोके वर्धते क्षीयते पुनः ।

न तत्र दृश्यते दैवं जरायौवनबाल्यवान् ॥ २,७.२३ ॥

"तत्र" पुरुषे ॥ २,७.२३ ॥

देशाद्देशान्तरप्राप्तिर्हस्तस्थद्रव्यधारणम् ।

व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः ॥ २,७.२४ ॥

स्पष्टम् ॥ २,७.२४ ॥

अर्थप्रापककार्यैकप्रयत्नपरता बुधैः ।

प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेऽनया ॥ २,७.२५ ॥

"अर्थप्रापकं" यत्"कार्यं" । तत्र "एकम्" केवलम् । "प्रयत्नपरता" ॥ २,७.२५ ॥

 

 

अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या ।

सोक्ता प्रोन्मत्तचेष्टेति न किंचित्प्राप्यतेऽनया ॥ २,७.२६ ॥

"अनर्थप्राप्तौ" अनर्थप्राप्त्यर्थं यत्"कार्यम्" । तत्र "एकं प्रयत्नपरता" ॥ २,७.२६ ॥

 

 

क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् ।

साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥ २,७.२७ ॥

"उन्नीयते" निश्चीयते ॥ २,७.२७ ॥

 

 

अनन्तं समतानन्दं परमार्थं स्वकं विदुः ।

तद्येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः ॥ २,७.२८ ॥

"स्वकं परमार्थम्" निजं परमप्रयोजनम् ॥ २,७.२८ ॥

 

 

सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः ।

वर्धेते ते मिथोऽभ्यासात्सरोब्दाविव कालतः ॥ २,७.२९ ॥

"सच्छास्त्रादि"रूपः "गुणः मत्या" भवति । बुद्धिरहितस्य "सच्छास्त्रादौ" प्रवृत्त्यभावात् । "मतिः सच्छास्त्रादिगुणात्" भवति । "ते" सच्छास्त्रादिगुणमती । "मिथः" अन्योन्यम् । "अभ्यासात्वर्धेते" वृद्धिं गच्छतः । काव्"इव" । "सरोब्दाविव" । यथा "सरोब्दौ" सरोमेघौ । "कालतः मिथः वर्धेते" तथेत्यर्थः । कदाचिद्धि सरः मेघवृष्टेन जलेन वर्धते । कदाचित्तु मेघः सरसः गृहीतेन जलेनेति ॥ २,७.२९ ॥

 

 

 

आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः ।

गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हितः ॥ २,७.३० ॥

"पुरुषयत्नेन" पौरुषेण्"आभ्यस्तैः" अनुशीलितैः । "स्वः अर्थः" मोक्षाख्यं निजं प्रयोजनम् ॥ २,७.३० ॥

 

 

पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः ।

रचितानि जगन्तीह विष्णुना न तु दैवतः ॥ २,७.३१ ॥

स्पष्टम् ॥ २,७.३१ ॥

 

 

सर्गान्तश्लोकेन श्रीरामस्य पौरुषं कर्तव्यत्वेनोपदिशति

जगति पुरुषकारकारणेऽस्मिन्

कुरु रघुनाथ चिरं तथा प्रयत्नम् ।

व्रजसि तरुसरीसृपाभिधानां

सुभग यथा न दशामशङ्कमेव ॥ २,७.३२ ॥

"जगति" कथंभूते । "पुरुषकारः" पौरुषं "कारणं" यस्य । तादृशे । चिन्मात्रपौरुषादेव हि जगदुत्पन्नम् । "प्रयत्नम्" पौरुषम् । "तरुसरीसृपाभिधानां दशां" तर्वादिरूपतामित्यर्थः । तर्वादयो हि पौरुषराहित्येनैव दुःखमनुभवन्तीति तेषां ग्रहणं कृतम् । इति शिवम् ॥ २,७.३२ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे सप्तमः सर्गः ॥ २,७ ॥