मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १२

विकिस्रोतः तः
← सर्गः ११ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १३ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


श्रीरामस्य बुद्धिसमाधानाय पुनरपि श्रीरामे सम्यक्प्रष्टृत्वं स्वस्मिंश्च सम्यग्वक्तृत्वं कथयति

परिपूर्णमना मान्यः प्रष्टुं जानासि राघव ।

वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् ॥ २,१२.१ ॥

हे "राघव" । "परिपूर्णम्" भोगाशाराहित्येन तृप्तम् । "मनः" यस्य । तादृशः । अत एव "मान्यः" त्वम् । "प्रष्टुं जानासि" । "उक्तं" मदुक्तम् । "वेत्सि च" । "तेनाहं" तव "वक्तुमादरात्प्रवृत्तः" । अन्यथा न ब्रूयामिति भावः ॥ २,१२.१ ॥

 

 

 

रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम्  ।

मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव ॥ २,१२.२ ॥

"आत्मनि" न तु बाह्यवस्तुषु । "संस्थाप्य" सम्यक्स्थापयित्वा ॥ २,१२.२ ॥

 

 

 

विद्यते त्वयि सर्वैव पृच्छकस्य गुणावली ।

वक्तुर्गुणाली च मयि रत्नश्रीर्जलधौ यथा ॥ २,१२.३ ॥

स्पष्टम् ॥ २,१२.३ ॥

 

 

आत्तवानसि वैराग्यं विवेकात्सङ्गजं मुनेः ।

चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥ २,१२.४ ॥

 

 

"आत्तवान्" गृहीतवान् । "असि" त्वम् ॥ २,१२.४ ॥

 

 

चिरमा शैशवादेव तवाभ्यासोऽस्ति सद्गुणैः ।

शुद्धः शुद्धस्य दीर्घैश्च पद्मस्येवातिसंततैः ॥ २,१२.५ ॥

"गुणैः" वैराग्यादिभिः । तन्तुभिश्"च" । "अतिसंततैः" अतिशयेनाविच्छिन्नैः ॥ २,१२.५ ॥

 

 

 

फलितमाह

अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् ।

न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥ २,१२.६ ॥

"कथां" ब्रह्मोक्तां स्वतःस्फुरितां वा मोक्षकथाम् । इतः परं ब्रह्मोक्तमेवोपदेशं श्रीवसिष्ठः श्रीरामाय करोतीति ज्ञेयम् ॥ २,१२.६ ॥

 

 

 

ब्रह्मोक्तां मोक्षकथां प्रस्तौति

ये केचन समारम्भा याश्च काश्चन दृष्टयः ।

ते च ताश्च पदे दृष्टे निःशेषं यान्ति वै शमम् ॥ २,१२.७ ॥

"पदे" चिन्मात्राख्ये । "दृष्टे" स्वात्मतया अनुभूते । "वै" निश्चये । "शमम्" शान्तिम् ॥ २,१२.७ ॥

 

 

 

ननु एता दृष्टयः अद्य तावत्कस्यचिच्छान्तिं गता अद्य वा नेत्य् । अत्राह

यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः ।

तदस्यां संसृतौ साधुश्चिन्तां सोढुं सहेत कः ॥ २,१२.८ ॥

"भव्यचेतसः" साधोः । "यदि विज्ञानविश्रान्तिः विज्ञाने" विज्ञानस्वरूपे आत्मनि । "विश्रान्तिः" संसारदृष्टिनाशद्वारेण विश्रामः । "न भवेत्" । "तत्" तदा । "अस्यां" एतादृग्दुःखरूपायाम् । "संसृतौ" संसारे । "कः साधुः चिन्तां" विश्रामानासादनाव्यभिचारिणीं संसारचिन्तां "सहेत" । न कोऽपीत्यर्थः । "अस्मदादिवद्" इति शेषः । विश्रामासादनेन तस्य चिन्ता एव नास्ति येनासौ इह तिष्ठतीति भावः ॥ २,१२.८ ॥

 

 

 

ननु भव्यस्य चिन्ता कुत्र गच्छतीत्य् । आह

परप्राप्त्या विलीयन्ते सर्वा मननवृत्तयः ।

कल्पान्तार्कगणासङ्गात्कुलशैलशिला इवा ॥ २,१२.९ ॥

"परस्य" परमात्मनः "प्राप्त्या" । "सर्वाः मननवृत्तयः" मनोमननव्यापाराः चिन्ता इति यावत् । भव्यस्य "विलीयन्ते" । अत्र दृष्टान्तमाह । "कल्पान्ते"ति ॥ २,१२.९ ॥

 

 

दुःसहा राम संसारविषावेशविषूचिका ।

योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥ २,१२.१० ॥

"संसार" एव "विषावेश"कृता "विषूचिका" विषूचिकाख्यो रोगविशेषः । सा "संसारविषावेशविषूचिका" । "गारुडमन्त्रेण" हि "विषावेशः" नश्यति ॥ २,१२.१० ॥

 

 

 

सः योगः कथं प्राप्यत इत्यपेक्षायां गद्येन कथयति

स च योगः सुजनेन सह शास्त्रार्थविचारात् ।

परमार्थज्ञानमयो लभ्यत एव ॥ २,१२.११ ॥

 

"लभ्यत एवे"त्यन्तम् । टीका । "सः" मननवृत्तिविलयहेतुः "योगः सुजनेन सह शास्त्रार्थविचारात्लभ्यत एव" । न तु न लभ्यते । "सः" कथंभूतः । "परमार्थस्य" चिन्मात्रतत्त्वस्य । यत्"ज्ञानं" तन्"मयः" । न तु प्राणरोधनादिरूपः ॥ २,१२.११ ॥

 

 

 

 

ननु यदि विचारेणापि न किंचित्सेत्स्यति तर्हि किं कार्यमित्य् ।

अत्राहअवश्यमिह हि विचारे कृते सकलदुःखक्षयो भवतीति मन्तव्यम्  ॥ २,१२.१२ ॥

 

 

 

"मन्तव्यम्" इत्यन्तम् । स्पष्टम् ॥ २,१२.१२ ॥

 

 

फलितं कथयति

नातो विचारदृष्टयोऽवहेलया द्रष्टव्याः । विचारवशतः पुरुषेण सकलमिदमाधिपञ्जरं सर्पेण त्वचमिव परिपक्वां परित्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोद इव जगदखिलमालोक्यते सम्यग्दर्शनवता ॥ २,१२.१३ ॥

 

"सम्यग्दर्शनवते"त्यन्तम् । टीका । यतः परमार्थतत्त्वं विचारादेव लभ्यते "अतः विचारदृष्टयः" विचाराख्याः दृष्टयः । "अवहेलया" अनादरेण । "न द्रष्टव्याः" । ननु किं विचारेण सेत्स्यतीत्य् । अत्राह । "विचारे"ति । "विचारवशतः" "सम्यग्दर्शनवता" सम्यग्दर्शनयुक्तेन सता "पुरुषेण" ।" अखिलम्" बाह्यमाभ्यन्तरं च सर्वम् । "जगत्विनोद इव" क्रीडा इव्"आलोक्यते" । तद्भावाभावप्रयुक्तहर्षशोकरहितत्वात् । "पुरुषेण" कथंभूतेन । "सकलमिदम्" अनुभूयमानम् । "आधिपञ्जरम्" विकल्पाख्यं पञ्जरम् । "सर्पेण परिपक्वां त्वचमिव परित्यज्य विगतज्वरेण" तापरहितेनात एव "शीतलान्तःकरणेन" ॥ २,१२.१३ ॥

 

 

 

नन्वसम्यग्दर्शनवत्त्वस्य को दोषो येन विचारात्सम्यग्दर्शनवत्त्वमाश्रीयते इत्य् । अत्राह

असम्यग्दर्शनवतो हि परं दुःखमिदम् । विषमो ह्यतितरां संसाररोगो भोगीव दशति । असिरिव च्छिनत्ति । शर इव वेधयति । रज्जुरिव वेष्टयति । पावक इव दहति । रात्रिरिवान्धयति । अशङ्कितपरिपातितपरुषपाषाण इव विवशीकरोति । हरति प्रज्ञाम् । नाशयति स्थितिम् । पातयति मोहान्धकूपे । तृष्णया जर्जरीकरोति । न तदस्ति किंचिद्दुःखं संसारी यन्न प्राप्नोति ॥ २,१२.१४ ॥

 

"प्राप्नोती"त्यन्तम् । टीका । "परम्" अग्रकोटिं यातम् । ननु केन कृतं "दुःखम्" अस्य्"आसम्यग्दर्शनवतः" स्यादित्य् । अत्राह । "विषम" इति । "वेधयति" ताडयति । विशेषेण कथनमशक्यं ज्ञात्वा सामान्येन कथयति । "न तद्" इति । "संसारी" संसारयुक्तः । अतः संसारकृतमेवेह्"आसम्यग्दर्शनवतो दुःखम्" अस्तीति भावः ॥ २,१२.१४ ॥

 

 

 

 

 

ननु विषयरूपोऽयं संसार एवमेव भवति । किमस्माकं करोतीत्य् । अत्राह

दुरन्तेयं किल विषयविषमविषविषूचिका । यदि न चिकित्स्यते तदतितरां नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति । यत्र शितासिशतपात उत्पलताडनम् । अग्निदाहो हिमावसेको ।ऽङ्गविकर्तनं चन्दनचक्रकरचना । घूर्णद्वातान्तः परिपेषोऽङ्गपरिमालनम् । अनवरतानलज्वालाविचलितचामरनाराचनिकरनिपातो निदाघविनोदनधारागृहशीकरवर्षणम् । शिरश्छेदः सुखनिद्रा । मूकीकरणं पाटवमुद्रा महानुपचयः ॥ २,१२.१५ ॥

 

 

 

"महानुपचय" इत्यन्तम् । टीका । "दुरन्ता" नाशयितुमशक्या । "विषयाः" संसारिकाः भोगाः । ते एव "विषमविषविषूचिका" । सा "यदि न चिकित्स्यते" । "तत्" तदा । "अतितरां नरकनगराणां" यः "निकरः" समूहः । स एव "फलं" । तस्य "अनुबन्धः" प्रवाहेन प्रवर्तनम् । सः अस्यामस्तीति तादृशी सती सा । "तत्तत्" तादृशं तादृशं दुःखं "करोति" । तत्किमित्यपेक्षायामाह । "यत्रे"ति । "यत्र" यस्मिन् दुःखे सति । यद्दुःखमपेक्ष्येति यावत् ।" घूर्णन्" स्फुरन् यः "वातः" । तस्य्"आन्तः" मध्ये । "परिपेषः" चूर्णीभावः । "अङ्गपरिमालनम्" अङ्गकोमलतापादकं मर्दनं भवति । वातमध्ये चूर्णीभावादपि तत्कष्टतरमिति भावः । "अनवरताः" याः "अनलज्वालाः" । ता एव "विचलितचामराणि" यस्मिन् । तादृशः यः "नाराचनिकरः" । तस्य "निपातः" । "निदाघस्य" अर्थात्"निदाघ"कृततापस्य । "विनोदना"र्थं दूरीकरणार्थं यानि "धारागृहाणि" । तेषां ये "शीकराः" । तेषां "वर्षणं" भवति । "पाटवमुद्राः पाटवस्य" चातुर्यस्य । "मुद्रा" संकोचः । कृशतेति यावत् । "महानुपचयः" वृद्धिः भवति ॥ २,१२.१५ ॥

 

 

 

फलितं कथयति

तदेवंविधे कष्टचेष्टासहस्रदारुणे संसारचपलयन्त्रेऽस्मिन् राघव नावहेला कर्तव्या । अवश्यमिदं हि विचारणीयम् ॥ २,१२.१६ ॥

 

 

"विचारणीयम्" इत्यन्तम् । टीका । "तत्" ततो हेतोः । हे "राघव" । "एवंविधे" पूर्वोक्तमहाकठिनदुःखदायिनि । अत एव "कष्टचेष्टासहस्रदारुणे अस्मिन्" अनुभूयमाने । "संसार" एव "चपलयन्त्रम्" तस्मिन् । "अवहेला" किं ममायं करोतीति अनादरः । "न कर्तव्या" । पुनः किं कार्यमित्य् । अत्राह्"आवश्यम्" इति । पण्डितैः "अवश्यमिदम् "अयं संसारः । "विचारणीयम्" । किमयम् । इदमिति विचारविषयतां नयेत् ॥ २,१२.१६ ॥

 

 

अन्यत्किं करणीयमित्य् । अत्राह

एवं चावबोद्धव्यं यथा किलास्ति विचाराच्छ्रेयोऽवाप्तिरिति ॥ २,१२.१७ ॥

 

 

"इती"त्यन्तम् । टीका । पुरुषेण्"ऐवं च बोद्धव्यम्" निश्चेयम् । एवं कथम् । "यथा किल" निश्चये । "विचारात्श्रेयोऽवाप्तिः" मोक्षप्राप्तिर्"अस्ती"ति ॥ २,१२.१७ ॥

 

 

नन्वयं विवेकः कस्यचिदस्त्यथवा नेत्य् । अत्राह

अन्यच्च रघुकुलेन्दो । यदि नैते महान्तो मुनयो महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्तत्कथमदुःखक्षमा अपि दुःखमयीं तमोवृत्तिपूर्वकसंसारकदर्थनामनुभवन्तः सततमेव मुदितमनसस्तिष्ठन्ति ॥ २,१२.१८ ॥

 

 

"तिष्ठन्ती"त्यन्तम् । टीका । हे "रघुकुलेन्दो" । अहम् "अन्यच्च" । "ब्रवीमी"ति शेषः । "यदि एते" पुरःस्थाः । "महान्तः मुनयः महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेन" विवेकाख्यकवचेन्"आवगुण्ठितानि" वलितानि । "शरीराणि" येषां ते । तादृशाः ज्ञानयुक्ता इति यावत् । "न" भवन्ति । "तत्" तदा । एते मुन्यादयः "अदुःखक्षमाः अपि कथं दुःखमयीं" । तथा "तमोवृत्तिपूर्विका" तमोवृत्तिकारणा । या "संसारकदर्थना" संसारक्लेशः । ताम् "अनुभवन्तः" । "सततमेव" न तु अभिमतप्राप्त्या कदाचिदेव । "मुदितमनसः तिष्ठन्ति" । अतः अस्त्येवैषां विवेक इति भावः ॥ २,१२.१८ ॥

 

 

 

गद्यांशयुक्तेन पद्येनात्र हेतुं कथयति

इह हि

विकौतुका विगतविकल्पविप्लवा

यथा स्थिता हरिहरपद्मजादयः ।

नरोत्तमाः समधिगतात्मदीपकास्

तथा स्थिता जगति विबुद्धबुद्धयः ॥ २,१२.१९ ॥

पद्यान्तम् । टीका । "हि" यस्मात् ।" इह जगति" । "नरोत्तमाः" नरेभ्यः समस्तमनुष्येभ्यः तेषां मध्ये वा "उत्तमाः" श्रेष्ठाः । तथा "समधिगतः" विवेकविभवेन सम्यगनुभूतः । "आत्मा" एव परमात्मा एव । "दीपः" यैः ते । तादृशाः "विबुद्धबुद्धयः" विवेकयुक्तबुद्धयः पूर्वोक्ताः मुन्यादयः । "तथा" तिष्ठन्ति । तथा कथमित्यपेक्षायामाह । "विकौतुका" इति । "विकौतुकाः" विषयाकाङ्क्षारहिताः । "आदि"शब्देनेन्द्रादीनां ग्रहणम् ॥ २,१२.१९ ॥

 

 

फलितं कथयति

तथा च

परिक्षीणे मोहे गलति च घनेऽज्ञानजलदे

परिज्ञाते तत्त्वे समधिगत आत्मन्यभिमते ।

विचार्यार्यैः सार्धं गलितवपुषोर्वै सदसतोर्

धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २,१२.२० ॥

पद्यान्तम् । टीका । "तथा च" सति । "वै" निश्चये । "आर्यैः" सद्भिः "सार्धम्" । "विचार्य" संसारमात्मतत्त्वं च विचार्य । "मोहे" अज्ञानकार्ये सावधानत्वे "परि"गलिते सति । ततः "घने" निबिडे । "अज्ञानजलदे" अज्ञानमेव च । "गलति" सति । ततः "सदसतोः" सदसद्बुद्धिविषयीभूतयोः अर्थयोः । सदसद्बुद्धिपरिगलनेन "गलितवपुषोः" सतोः । ततः "अभिमते" परमोपादेये । "आत्मनि तत्त्वे" जीवाख्ये तत्त्वे । "परिज्ञाते" देहादिव्यतिरिक्ततया सम्यक्निश्चिते सति । न केवलं परिज्ञाते किं तु "समधिगते" देहादित्यागेन स्वात्मतया सम्यगनुभूते सति । ततः "तत्त्वे" जीवादिसाक्षितया स्थिते शुद्धचिन्मात्रतत्त्वे । "धिया" गलनोन्मुखया बुद्ध्या । "दृष्टे" जीवसत्ताप्रदत्वेन दृष्टे सति । "इदम्" क्रियमाणम् । "जागतं" जगत्संबन्धि । "अटनम्" शरीरयात्रानिमित्तं व्यवहरणम् । "रमणम्" क्रीडा भवति । पदार्थनिष्टभावाभावकृतहर्षशोकस्पर्शकारित्वाभावादिति भावः ॥ २,१२.२० ॥

 

 

 

अन्यच्च कथयामीत्याह

अन्यच्च राघव

प्रसन्ने चित्तत्त्वे हृदि सविभवे वल्गति परे

समाभोगीभूतास्वखिलकलनादृष्टिषु पुरः ।

शमं यान्तीष्वन्तःकरणघटनास्वाहितरसं

धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २,१२.२१ ॥

पद्यान्तम् । टीका । हे "राघवा"हम् "अन्यच्च" ब्रवीमि । किं ब्रवीषीत्य् । अत्राह । "प्रसन्ने" इति । "परे" उत्तीर्णे । "चित्तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "प्रसन्ने" स्वप्रकाशनपरतया प्रसादोन्मुखे सति । अत एव तस्मिन् परे चित्तत्त्वे "सविभवे" शक्तिसहिते । "हृदि" सत्त्वभावेन स्थिते । "हृदि वल्गति" स्फुरति सति । विमर्शविषयतामायाते सतीति यावत् । ततः "अखिलकलनादृष्टिषु" समस्तजीवादिकलनारूपासु दृष्टिषु । "समाभोगीभूतासु" सतीषु । व्यापकचिन्मात्रस्वरूपतासादनेन विस्ताररहितास्वपि विस्तारयुक्तासु संपन्नासु सतीषु । ततः "अन्तःकरणघटनासु" अन्तःकरणरचनासु । "आहितरसं" स्वेच्छया । "शमं" चिन्मात्रस्वरूपे लयम् । "पुरः" अग्रे "यान्तीषु" । ततश्च "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "दृष्टे" आत्मतयानुभूते सति । "इदं जागतमटनं रमणं" भवति ॥ २,१२.२१ ॥

 

 

 

पुनरपि पूर्वाभिप्रायेणैवाह

अन्यच्च

रथः स्फारो देहस्तुरगरचना चेन्द्रियगतिः

परिस्पन्दो वातादहमकलितानन्तविषमः । ।     परो वार्वा देही जगति विहरामीत्यनघया

धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २,१२.२२ ॥

सर्गान्तश्लोकं तावत् । टीका । "देहः" स्थूलदेहः । "स्फारः" सर्वत्र स्फुरणशीलः । "रथः" भवति । "इन्द्रियगतिः" इन्द्रियरचना "तुरगरचना" भवति । हेयोपादेयरूपादिप्राप्तिपरिहारार्थं दर्शनादिद्वारेण देहरथचालकत्वात् । "परिस्पन्दः" "तुरगरचना"भूतानामिन्द्रियगतीनां चेष्टा देहं प्रति प्रेरणसामर्थ्यं "वातात्" भवति । वातेन हि इन्द्रियाणि दर्शनादिक्रियाभाञ्जि सन्ति देहं चालयन्ति । "वा" पक्षान्तरे । "देही" देहाभिमानी जीवः । "अर्वा" तुरगः भवति । पर्यन्ततः तस्यैव देहचालकत्वात् । पुरः देहादिभ्यः उत्तीर्णशुद्धचिन्मात्ररूपः "अहं जगति विहरामि" विहारं करोमि । "अहं" कथंभूतः । "अकलितानि" स्वात्मत्वनिश्चयेन दुःखदत्वेनानिश्चितानि । "अनन्तानि विषमानि" सुखदुःखरूपाः संकटाः येन । तादृशः । राजा हि रथादिभ्यः परः सनकलितानन्तनिम्नोन्नतश्च भवति । "इति" अनेन निश्चयेन । "अनघया" स्वस्मिन् बद्धत्वज्ञानादिदोषरहितया । "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" प्रोक्तस्वरूपे तत्त्वे । "दृष्टे" सति । "इदं जागतमटनं रमणं" भवति । इति शिवम् ॥ २,१२.२२ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे द्वादशः सर्गः ॥ २,१२ ॥