मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १९

विकिस्रोतः तः
← सर्गः १८ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः २० →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्



ओं पूर्वोक्तमेवार्थं पुनरपि स्पष्टयति

विशिष्टांशसधर्मत्वमुपमानेषु गृह्यते ।

को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥ २,१९.१ ॥

"विशिष्टांशेन" कार्यसाधकेनांशेन । "साधर्म्यं" सादृश्यम् । एकांशेनापि कार्यस्य सिद्धत्वान्न कोऽपीत्यर्थः ॥ २,१९.१ ॥

 

 

दृष्टान्तबुद्धादेकात्मज्ञानशास्त्रार्थवेदनात् ।

महावाक्यार्थसंवित्त्या शान्तिर्निर्वाणमुच्यते ॥ २,१९.२ ॥

"एकम्" केवलम् । "आत्मज्ञानं" प्रतिपाद्यत्वेन यस्मिन् । तादृशं यत्"शास्त्रं" । तस्य यो "ऽर्थः" । तस्य "वेदनात्" विचारात् । उत्पन्नया "महावाक्यार्थसंवित्त्या" । गर्भीकृतावान्तरवाक्यमहावाक्यार्थपरिच्छेदेन । सिद्धा "शान्तिः" मनःक्षोभराहित्यम् । पण्डितैः "निर्वाणमुच्यते" । "वेदनात्" कथंभूतात् । "दृष्टान्तैः बुद्धात्" ज्ञातात्सिद्धादिति यावत् ॥ २,१९.२ ॥

 

 

 

उपसंहारं करोति

तस्माद्दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैरलम् ।

यया कयाचिद्युक्त्याशु महावाक्यार्थमाश्रयेत् ॥ २,१९.३ ॥

"अलम्" कृतम् । नैतैः प्रयोजनमित्यर्थः ॥ २,१९.३ ॥

 

 

शान्तिः श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान् भवेत् ।

भोक्तव्य ओदनः प्राप्तः किं तत्सिद्धिविकल्पितैः ॥ २,१९.४ ॥

"शान्तिः" मनोविकल्परूपक्षोभराहित्यम् । "सिद्धिविकल्पितैः" कथमेतत्सम्पन्नमिति विकल्पैः ॥ २,१९.४ ॥

 

 

अकारणं कारणिभिर्बोधार्थमुपमीयते ।

उपमानैस्तूपमेयसदृशैरेकदेशतः ॥ २,१९.५ ॥

"अकारणं" कारणरहितब्रह्म । "एकदेशतः" एकेन धर्मेण ॥ २,१९.५ ॥

 

 

स्थातव्यं नेह भोगेषु विवेकविकलात्मना ।

उपलोदरसंजातपरिपीनान्धभेकवत् ॥ २,१९.६ ॥

स्पष्टम् ॥ २,१९.६ ॥

 

 

दृष्टान्तैर्युक्तिभिर्यत्नाद्वाञ्छितं त्यजतेतरत् ।

विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ॥ २,१९.७ ॥

"वाञ्छितं" अभिलषितम् । "इतरत्" विचारव्यतिरिक्तम् । "शान्तिश्" च "शास्त्रार्थश्" च ताभ्यां शालते इति तादृशेन ॥ २,१९.७ ॥

 

 

शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः  ।

अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः ॥ २,१९.८ ॥

तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ।

सम्प्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥ २,१९.९ ॥

"शास्त्रं" च "उपशमश्" च "सौजन्यं" च "प्रज्ञा" च "तज्ज्ञसमागमश्" च । तैः उपलक्षितः । "अन्तरान्तरे" मध्ये मध्ये "सम्पन्नाः" । "धर्म्यानां" धर्मादनपेतानां "अर्थानामुपार्जनम्" । तस्य "क्रियाः" यस्य सः । तादृशः "प्राज्ञः तावत्विचारयेत्" । "यावतपुनर्नाशां" प्रध्वंसाभावरहिताम् । "तुर्यपदाभिधां" तुर्यपदेति नामधेयाम् । "आत्मनि विश्रान्तिं" आत्मविश्रान्तिलक्षणां शान्तिम् । "सम्प्रयाति" ॥ २,१९.८९ ॥

 

 

 

नन्वात्मनि विश्रान्त्या किं सेत्स्यतीत्य् । अत्राह

तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् ।

जीवतोऽजीवतश्चैव गृहस्थस्याथ वा यतेः ॥ २,१९.१० ॥

न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।

निर्मन्दर इवांभोधिः स तिष्ठति यथास्थितम् ॥ २,१९.११ ॥

"जीवतः" जीवन्मुक्तस्य्"आजीवतः" विदेहमुक्तस्य । "अर्थः" प्रयोजनम् । ननु कथमसौ तिष्ठतीत्य् । अत्राह । "निर्मन्दर" इति । "सः" विश्रान्तियुक्तः ॥ २,१९.१०११ ॥

 

 

एकांशेनोपमानानामुपमेयसधर्मता ।

बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना ॥ २,१९.१२ ॥

"चोद्येन चञ्चुः" वित्तः । प्रसिद्ध इति यावत् । इति "चोद्यचञ्चुः" चोद्यशीलेनेत्यर्थः ॥ २,१९.१२ ॥

 

 

 

यया कयाचिद्युक्त्याशु बोद्धव्यं बोध्यमेव ते ।

मुक्तये तन्न पश्यन्ति व्याकुलाश्चोद्यचञ्चवः ॥ २,१९.१३ ॥

"ते" इति कर्तरि षष्ठी । "त्वाम्" इति शेषः । "व्याकुलाः चोद्यचञ्चवः" । "तत्" तदा । त्वाम् "न पश्यन्ति" । किमुताधिगच्छन्तीति भावः ॥ २,१९.१३ ॥

 

 

 

चोद्यचञ्चोः लक्षणं कथयति

हृदये संविदाकाशे विश्रान्तेऽनुभवात्मनि ।

वस्तुन्यनर्थं यः प्रष्टा चोद्यचञ्चुः स उच्यते ॥ २,१९.१४ ॥

"हृदये" मनसि । "विश्रान्ते"ऽपि "अनुभवात्मनि संविदाकाशे" चिदाकाशे । "वस्तुनि यः अनर्थम्" संशयरूपमनर्थम् । "प्रष्टा" पृच्छकः भवति । पण्डितैः "सः चोद्यचञ्चुः उच्यते" । स्वानुभवाविष्टेऽपि वस्तुनि यः पुनः पुनः चोद्यानुत्पादयति सः चोद्यचञ्चुरिति भावः ॥ २,१९.१४ ॥

 

 

 

अभिमानविकल्पांशैरज्ञो ज्ञप्तिं विकल्पयन् ।

बोधं मलिनयत्यन्तर्मुखं सर्प इवामलम् ॥ २,१९.१५ ॥

"अभिमानेना"हं सम्यक्चोदनशील इत्यभिमानेन कृतैः "विकल्पांशैः" । चोद्यरूपैः विकल्पांशैः । "अन्तः" स्वस्मिन् । "अज्ञः" स्वाम् "ज्ञप्तिं" बुद्धिम् । "विकल्पयन्" विकल्पयुक्तां कुर्वन् । "बोधं मलिनयति" भेदमालिन्यदूषितं करोति । अतः त्वया व्यर्हाः विकल्पाः । न कार्या इति भावः ॥ २,१९.१५ ॥

 

 

उपदेशे उपयोग्यानां प्रमाणां निर्णयं प्रस्तौति

सर्वप्रमाणसत्तानां पदमब्धिरपामिव ।

प्रमाणमेकमेवेह प्रत्यक्षं राम तच्छृणु ॥ २,१९.१६ ॥

"सर्वासाम्" अनुमानादिभेदभिन्नानां समस्तानां "प्रमाणसत्तानां" । "अब्धिरिवापां" स्थानमाश्रयम् । "एकं प्रत्यक्षमेव इह" लोके "प्रमाणम्" अस्ति । न हि अनुमानादयः प्रत्यक्षं विना स्थातुं शक्नुवन्ति । हे "राम" । त्वम् "तत्" प्रत्यक्षं नाम प्रमाणम् । "शृणु" ॥ २,१९.१६ ॥

 

 

 

प्रत्यक्षमेव कथयति

सर्वार्थसारमध्यक्षं वेदनं विदुरुत्तमाः ।

नूनं तत्प्रति यत्सिद्धं तत्प्रत्यक्षमुदाहृतम् ॥ २,१९.१७ ॥

"उत्तमाः" श्रेष्ठाः । "सर्वार्थानां सार"प्रकाशनद्वारेण सिद्धिप्रदत्वात्सारभूतं "वेदनं" ज्ञानमेव । "अध्यक्षं विदुः" सारभूतवस्तुवाचकत्वाद्"अध्यक्ष"शब्दस्य । हे राम । "नूनं" निश्चये । "तत्प्रति" वेदनरूपमध्यक्षं प्रति । "यत्सिद्धं" भवति । पण्डितैः "तद्" वस्तु "प्रत्यक्षमुदाहृतम्" । अक्षं प्रति सिद्धं प्रत्यक्षमिति व्युत्पत्तेः । अक्षशब्दस्य च भामेतिवदध्यक्षवाचकत्वम् ॥ २,१९.१७ ॥

 

 

ततः किमित्य् । अत्राह

अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथास्थितम् ।

प्रत्यक्षमिति नामेह कृतं जीवः स एव च ॥ २,१९.१८ ॥

अतः पण्डितैः । "अनुभूतेः" अनुभूतिरूपस्य । "प्रतिपत्तेः" प्रतिपत्तिरूपस्य । "वेदनस्य" । "इह" लोके । "यथास्थितम्" न त्वन्यथा संभावितम् । "प्रत्यक्षमिति नाम कृतम्" । वेदनस्यैव वेदनं प्रति सिद्धत्वादन्यस्य सर्वस्य तस्मिंल्लयासादनात्"स एव जीवः" भवति । वेदनादन्यस्य शरीरादेः पाषाणतुल्यत्वेन जीवत्वायोगातनुभूतिप्रतिपत्त्योः स्फुटत्वास्फुटत्वकृतो भेदो ज्ञेयः ॥ २,१९.१८ ॥

 

 

पदार्थानामेतद्रूपत्वमेव कथयति

स एव संवित्स पुनरहंताप्रत्ययात्मकः ।

स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥ २,१९.१९ ॥

"स एव" जीव एव । आरोहावस्थायां "संवित्" भवति । "स" एवावरोहावस्थायां "अहंताप्रत्ययात्मकः" भवति । "सः" अहंताप्रत्ययात्मकः जीवः । "यया संवित्त्या" येन घटादिसंवेदनेन रूपेण । "उदेति" स्फुरति । "सा" संवित्तिः । पण्डितैः "पदार्थ इति स्मृता" । न हि पदार्थस्य संवित्तिव्यतिरेकेण पृथक्स्वरूपमस्ति । सत्त्वेऽप्यसन् कल्पत्वात् । न हि संवित्तिं विना सत्सत्भवति ॥ २,१९.१९ ॥

 

 

 

पदार्थानां जगत्त्वं कथयति

स संकल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः ।

जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा ॥ २,१९.२० ॥

"सः" पदार्थः । "संकल्पविकल्पाद्यैः" संकल्पविकल्पप्रभृतिभिः प्रमातृनिष्टैः विपर्ययज्ञानैः । "कृतनानाक्रमः" सन् । "जगत्तया स्फुरति" । किं "यथा" । "अम्बु यथा" । "यथा" तत्"तरङ्गादितया" स्फुरति तथेत्यर्थः ॥ २,१९.२० ॥

 

 

ननु शुद्धस्य वेदनस्य कथमेवंरूपता सम्पन्नेत्य् । अत्राह

प्रागकारणमेवाशु सर्गादौ सर्गलीलया ।

स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयमात्मनि ॥ २,१९.२१ ॥

"प्रत्यक्षं" वेदनरूपं प्रत्यक्षम् । "प्राक्" सर्गात्प्राक् । "अकारणमेव" सत् । "सर्गादौ" सर्गोन्मुखतासमये । "सर्गलीलया स्फुरित्वा" । "आत्मनि" सर्गरूपे स्वात्मनि । "स्वयं" स्वातन्त्र्येण । "कारणीभूतम्" । न च स्वातन्त्र्यकृते कथमिति पर्यनुयोगः युक्तः इति भावः ॥ २,१९.२१ ॥

 

 

 

ननु वेदनरूपस्य जीवस्य कारणत्वं किंरूपमस्तीत्य् । अत्राह

कारणत्वं विचारोऽस्य जीवस्यासदपि स्थितम् ।

सदिवास्यां जगद्रूपसम्पत्तौ व्यक्तिमागतम् ॥ २,१९.२२ ॥

"जगद्रूपसम्पत्तौ विचारः" विमर्शः । "अस्य" शुद्धवेदनरूपस्य "जीवस्य" । वा "कारणत्वं" भवति । कथम्भूतं "कारनत्वं" । "असदपि" परमार्थतः असत्स्वरूपमपि । "सदिव स्थितम्" । पुनः कथम्भूतम् । अभि"व्यक्तिं" प्राकट्यं "गतम्" ॥ २,१९.२२ ॥

 

 

ननु पुनरपि किं तस्य जीवस्य कारणत्वं नश्यत्यथ वा नेत्य् । अत्राह

स्वयमेव विचारस्तु सनञर्थं स्वकं वपुः ।

नाशयित्वा करोत्याशु प्रत्यक्षं परमं पदम् ॥ २,१९.२३ ॥

"स्वयमेव विचारः सनञर्थं" स्वाभावयुक्तम् । "स्वकं वपुः" निजविचाराख्यं स्वरूपं "नाशयित्वा" । "परमं पदं" कारणत्वानवच्छिन्नं स्वस्वरूपम् । "प्रत्यक्षं" "करोति" । विचारवशादेव । पुनरपि जीवस्य कारणत्वं नश्यतीति भावः ॥ २,१९.२३ ॥

 

 

ननु विचारः कथं परमं पदं प्रत्यक्षीकरोतीत्यपेक्षायामाह

विचारयन् विचारोऽपि नात्मानमधिगच्छति ।

यदा तदा निरुल्लेखं परमेवावशिष्यते  ॥ २,१९.२४ ॥

"विचारः" विमर्शः । "आत्मानं विचारयन्" किंरूपोऽहमिति विमर्शविषयीकुर्वन् । "यदा आत्मानं नाधिगच्छति" न किंचिद्रूपत्वात्न लभते । "तदा निरुल्लेखं" विमर्शरहितम् । "परं" पदं शुद्धचिन्मात्राख्यश्रेष्ठं स्वरूपम् । "एवाव"तिष्ठते विचारणीयाभावादित्यर्थः ॥ २,१९.२४ ॥

 

 

 

ननु पुरुष एतस्यामवस्थायां बुद्धीन्द्रियकर्माणि करोति न वेत्य् । अत्राह

मनस्यनीहिते शान्ते तैर्बुद्धीन्द्रियकर्मभिः ।

नेह कैश्चित्कृतैरर्थो नाकृतैरप्यभावनात् ॥ २,१९.२५ ॥

"मनसि" विचारस्वरूपे मनसि । "अनीहिते" स्वक्रियामकुर्वति । अत एव "शान्ते" सति । पुरुषस्य "तैः" प्रसिद्धैः । "कैश्चिद्" "बुद्धीन्द्रियकर्मभिः" "कृतैः" । "अर्थः न" भवति । "अकृतैश्" च्"आर्थः न" भवति । कुतः । "अभावनात्" भावनाराहित्यात् । नैरपेक्ष्यादिति यावत् ॥ २,१९.२५ ॥

ननु तदा कर्मेन्द्रियाणां का वार्तेत्य् । अत्राह

मनस्यनीहिते शान्ते न प्रवर्तन्त एव ते ।

कर्मेन्द्रियाणि कर्मादावसंचारितयन्त्रवत् ॥ २,१९.२६ ॥

"कर्मेन्द्रियाणां" तस्यामवस्थायां "प्रवर्तनमेव ना"स्ति । का वार्ता तत्कर्मणां स्यादिति भावः । एतादृशी चावस्था जीवन्मुक्तानां दुर्लभैव । न हि सर्वदा ते अत्रैव तिष्ठन्ति । विदेहमुक्तास्तु सर्वदा एतन्मया एवेत्यलं बहुना ॥ २,१९.२६ ॥

 

 

 

वेदनरूपविचारशान्त्यैव मनःशान्तिर्भविष्यतीत्यभिप्रायेणाह

मनोयन्त्रस्य चलने कारणं वेदनं विदुः ।

प्राणाली दारुमेषस्य रज्जुरन्तर्गता यथा ॥ २,१९.२७ ॥

पण्डिताः "मनोमन्त्रस्य चलने वेदनम्" एव "कारणं विदुः" । वेदनानन्तरमेव हि मनः चलति । "प्राणाली" अस्य मनसः "अन्तर्गता रज्जुः" भवति । कस्य । यस्य "दारुमेषस्य यथा" । अयं भावः । "मनः" दारुमेषतुल्यम् । "प्राणाली" रज्जुतुल्या । "वेदनम्" रज्जुग्राहकतुल्यम् । इति वेदनस्यैव मनःप्रवृत्तौ कारणत्वात् । युक्ता तच्छान्तौ तच्छान्तिरिति ॥ २,१९.२७ ॥

 

 

 

ननु भवतु वेदनशान्त्या मनःशान्तिः । वेदनक्षोभेन मनसः क्षोभे सति जगत्कुतो निर्यातीत्य् । अत्राह

रूपालोकमनस्कारपदार्थाद्याकुलं जगत् ।

विद्यते वेदनस्यान्तर्वातेऽन्तः स्पन्दनं यथा ॥ २,१९.२८ ॥

"पदार्थाः" रूपाधारभूतानि द्रव्याणि । अतो वेदनादेव "रूपादि"रूपम् "जगन्" निर्यातीति भावः ॥ २,१९.२८ ॥

 

 

ननु स्वभावतः शुद्धस्य वेदनस्यान्तः कथमेतदस्तीत्य् । अत्राह

सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।

भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥ २,१९.२९ ॥

"शुद्धम्" केनापि रूपेणापरिनिष्ठितम् । अत एव "सर्वात्मवेदनं यथोदेति तदात्मकं भाति" स्फुरति । न तु तन्मध्ये मलमिव जगदस्तीति भावः । कथम्भूतं "वेदनं" । "दिक्कालश्" च "बाह्यं" च्"आन्तश्" च । तत्दिगादि । "प्रसृतः" विस्तारं गतः । दिगादिरूपः "देहः" स्वरूपं यस्य । तत्"प्रसृतदिक्कालबाह्यान्तारूपदेहकम्" ॥ २,१९.२९ ॥

 

 

 

पुनः पुनः श्लोकान्तरेण तदेव प्रतिपादयति

द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः ।

स्वं यथा तत्र यद्रूपं प्रतिभाति तथैव तत् ॥ २,१९.३० ॥

"द्रष्टा एव" वेदनस्वरूपः "द्रष्टा एव" । "दृश्यतया भासते" । इति तादृशं "स्वरूपं धारयन् स्थितः" भवति । "तत्र" सति "तस्ये"ति शेषः । तस्य द्रष्टुः "स्वं रूपं यथा भाति" स्फुरति । "तत्" स्वं रूपम् । "तथैव" भवति । नान्यथा स्वप्नवदिति शेषः ॥ २,१९.३० ॥

 

 

 

सर्वमात्मा यथा यत्र संकल्पत्वमिवागतः ।

तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ॥ २,१९.३१ ॥

"सर्वमात्मा" भवति । अतः स आत्मा "यत्र यथा तिष्ठति तत्र तथा तद्रूप इव राजते" । परमार्थतस्तु न राजते । स्वरूपे तथैव स्थितत्वादित्"ईव"शब्दोपादानम् । "आत्मा" कथम्भूत इव । "संकल्पत्वं" संकल्पभावम् । "गत इवा"न्यथा नानारूपत्वमस्य न युज्येतेति भावः ॥ २,१९.३१ ॥

 

 

 

सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते ।

द्रष्टृत्वं द्रष्टृसद्भावे दृश्यस्य त्वस्ति नासतः ॥ २,१९.३२ ॥

"द्रष्टुः सर्वात्मकतया" शुद्धतया स्थितेन "सर्व"भावेन । "दृश्यत्वं युज्यत इव" । परमार्थतस्तु न युज्यते द्रष्टृत्वादप्रच्युतेरित्"ईव"शब्दोपादानम् । "असतः" स्वरूपेणासतः । "दृश्यस्य द्रष्टृत्वं" "नास्ति" । "द्रष्टृतया" "सम्भाविते" स्वस्मिन् स्वापेक्षत्वेनात्माश्रयापत्तेः ॥ २,१९.३२ ॥

 

 

 

फलितं कथयति

अकारणकमेवातो ब्रह्मकल्पमिदं स्थितम् ।

प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुपाधयः ॥ २,१९.३३ ॥

"अतः अकारणकम्" परमार्थतः शुद्धस्य ब्रह्मणः अकर्तृकत्वात्कारणरहितम् । "इदं" जगत् । "ब्रह्मकल्पम्" ब्रह्मसदृशम् । "स्थितं" भवति । कथम्भूतं जगत् । "प्रत्यक्षमेव" स्फुटमेव । "निर्मातृ" प्रमातृरहितं शुद्धस्य ब्रह्मणो मातृतायोगाद् । अन्यथा अशुद्धतापत्तेः । ननु मा भवतु ब्रह्मणः कारणत्वं मातृत्वं वा । तदंशानां तु तद्भवत्वित्य् । अत्राह । "तस्यांशा" इति । "तु" पक्षान्तरे । "तस्य" ब्रह्मणः । "अंशाः अनुपाधयः" कारणत्वादिरूपोपाधिरहिता भवन्ति । अन्यथा तद्द्वारेण तस्यापि सोपाधित्वप्रसङ्गात् ॥ २,१९.३३ ॥

 

 

 

एवं प्रासङ्गित्वं परित्यज्य प्रकृतमेवानुसरति

स्वयत्नमात्रेतररूपको यस्

तद्दैवशब्दार्थमपास्य दूरे ।

शूरेण साधो पदमुत्तमं तत्

स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥ २,१९.३४ ॥

"यः स्वयत्नमात्रकातितररूपकः" इतररूपत्वेन कल्पितः । "तद्दैवशब्दार्थं दूरे अपास्य" । हे "साधो" । "शूरेण ततुत्तमं पदमन्तः स्वपौरुषेण" मानसिकेन पौरुषेण । "लभ्यते" ॥ २,१९.३४ ॥

 

 

सर्गान्तश्लोकेन विचारावधिं कथयति

विचारयाचार्यपरम्पराणां

मतेन सत्येन सितेन तावत् ।

यावद्विशुद्धां स्वयमेव बुद्धाम्

अनन्तरूपां परतामुपैषि ॥ २,१९.३५ ॥

त्वम् "सत्येन सितेन" दोषरहितेन । "आचार्यपरम्पराणां मतेन" मतानुसारेण । "तावत्" तावत्कालं "विचारय" । "यावत्परताम्" उत्तीर्णचिद्रूपताम् "उपैषि" । "परताम्" कथम्भूताम् । "विशुद्धाम्" चेत्याख्यमलरहिताम् । पुनः कथम्भूताम् । "स्वयमेवा"व"बुद्धाम्" अनुबुद्धाम् । पुनः कथम्भूताम् । "अनन्तरूपाम्" अपरिच्छिन्नस्वरूपाम् । इति शिवम् ॥ २,१९.३५ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे एकोनविंशः सर्गः ॥ २,१९ ॥