"रामायणम्/युद्धकाण्डम्/सर्गः ४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ३९०: पङ्क्तिः ३९०:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२३, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्थः सर्गः ॥६-४॥

श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः ।
ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥

याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः ।
क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥

अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥

सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः ।
सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥

जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः ।
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥

अभिप्रयाम सुग्रीव सर्व अनीक समावृताः ।
निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥

निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ।
उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥

विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् ।
ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥

उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।
अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥

वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ।
फल मूलवता नील शीत कानन वारिणा ।
पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥

दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥

राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः ।
निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥

अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ।
यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥

एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् ।
सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥

कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥

गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः ।
यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥

पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः ।
गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥

यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ।
यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥

अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ।
अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥

सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा ।
जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥

ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ।
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥

व्यादिदेश महावीर्यान् वानरान् वानर Rषभः ।
ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥

गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ।
ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥

जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् ।
शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥

वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा ।
तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥

क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् ।
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥

उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः ।
अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥

पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ।
रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥

इति गर्जन्ति हरयो राघवस्य समीपतः ।
पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥

पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह ।
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥

बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः ।
हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥

सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् ।
कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥

अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ।
सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥

सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः ।
तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥

सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् ।
वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥

सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् ।
एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥

अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् ।
सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥

रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशाम्स्तथा जनपदानपि ॥६-४-३९॥

सागरौघनिभम् भीमम् तद्वानरबलम् महत् ।
निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥

तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः ।
तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥

कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ ।
महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥

तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा ।
उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥

हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ।
समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥

महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥

अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः ।
पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥

प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः ।
उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥

ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥

त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् ।

विमले च प्रकाशेते विशाखे निरुपद्रवे ॥६-४-५१॥
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ।

नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥
मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना ।

सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् ।

प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च ।
प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥

व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो ।
देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥

एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि ।
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥

अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः ।
ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥

कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः ।
भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥

सा स्म याति दिवा रात्रम् महती हरि वाहिनी ।
हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥

उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् ।
नदीस्रोताम्सि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६-४-६०॥

सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् ।
समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥

मध्येन च समन्ताच्च वनानि फलवन्ति च ।
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥

ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः ।
हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६-४-६३॥

हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् ।
यौवनोत्सेकजाद्दर्पाद्विविधाम्श्चक्रुरध्वनि ॥६-४-६४॥

तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे ।
केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६-४-६५॥

प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि ।
भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥

आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः ।
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥

ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥

सा स्म याति दिवारात्रम् महती हरिवाहिनी ।
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥६-४-७०॥

वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः ।
मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥

ततः पादप सम्बाधम् नाना मृग समाकुलम् ।
सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥

काननानि विचित्राणि नदी प्रस्रवणानि च ।
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥

चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥

अशोकाम्श्च करञ्जाम्श्च प्लक्षन्य्ग्रोधपादपान् ।
जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥६-४-७६॥

मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः ।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७७॥

अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः ।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥

सुमहद्वानरानीकम् चादयामास सर्वतः ।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥

केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥

चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।
रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥६-४-८१॥

चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।
मुचुलिन्दार्जुनाश्चैव शिम्शपाः कुटजास्तथा ॥६-४-८२॥

हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥६-४-८३॥
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ।
प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥

व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥६-४-८५॥

प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः ।
ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥

व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ।
पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥

स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः ।
अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥

फलानि अमृत गन्धीनि मूलानि कुसुमानि च ।
बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥

द्रोण मात्र प्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥

पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः ।
विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥

वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः ।
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥

बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः ।
यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥

महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः ।
अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥

ततः शिखरम् आरुह्य रामो दशरथ आत्मजः ।
कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥

ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् ।
आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥

अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् ।
रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥

अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः ।
वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥

एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् ।
इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥

अतः परम् अतीरो अयम् सागरः सरिताम् पति ।
न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥

तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह ।
यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥

इति इव स महाबाहुः सीता हरण कर्शितः ।
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥

सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव ।
सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥

स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् ।
गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥

रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः ।
सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥

विरराज समीपस्थम् सागरस्य तु तद् बलम् ।
मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥

वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः ।
विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥

तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०९॥

सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥

सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥

दूर पारम् असम्बाधम् रक्षो गण निषेवितम् ।
पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥

चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११३॥

चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् ।
चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥

दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् ।
अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥

सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् ।
मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥

उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥

सुर अरि विषयम् घोरम् पाताल विषमम् सदा ।

सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् ।
सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥

सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥
ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले ।

समुत्पतित मेघस्य वीच्चि माला आकुलस्य च ।
विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥

अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः ॥६-४-१२१॥
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे ।

रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् ।

ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ।

ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२४॥
ब्रान्त ऊर्मि जल सम्नादम् प्रलोलम् इव सागरम् ।

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्थः सर्गः ॥६-४॥

संबंधित कड़ियाँ

बाहरी कडियाँ