"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> शिशुं जज्ञानं हर्य... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.5.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 प...
(भेदः नास्ति)

११:३४, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन |
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ||११७५ ||

१अ
१छ्

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां |
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ||११७६ ||

२अ
२छ्

चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् |
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति || ११७७ ||

३अ
३छ्

एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् |
वर्धन्तो अस्य वीर्यं || ११७८ ||

१अ
१छ्

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना |
ते नो धत्त सुवीर्यं || ११८१ ||

२अ
२छ्

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय |
देवानां योनिमासदं || ११८० ||

३अ
३छ्

मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः |
अनु विप्रा अमादिषुः || ११८१ ||

४अ
४छ्

देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः |
स गोभिर्वासयामसि || ११८२ ||

५अ
५छ्

पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः |
परि गव्यान्यव्यत || ११८३ ||

६अ
६छ्

मघोन आ पवस्व नो जहि विश्वा अप द्विषः |
इन्दो सखायमा विश || ११८४ ||

७अ
७छ्

नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं |
भक्षीमहि प्रजामिषं || ११८५ ||

८अ
८छ्

वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि |
सहो नः सोम पृत्सु धाः || ११८६ ||

९अ
९छ्

सोमः पुनानो अर्षति सहस्रधारो अत्यविः |
वायोरिन्द्रस्य निष्कृतं || ११८७ ||

१अ
१छ्

पवमानमवस्यवो विप्रमभि प्र गायत |
सुष्वाणं देववीतये || ११८८ ||

२अ
२छ्

पवन्ते वाजसातये सोमाः सहस्रपाजसः |
गृणाना देववीतये || ११८९ ||

३अ
३छ्

उत नो वाजसातये पवस्व बृहतीरिषः |
द्युमदिन्दो सुवीर्यं || ११९० ||

४अ
४छ्

अत्या हियाना न हेतृभिरसृग्रं वाजसातये |
वि वारमव्यमाशवः || ११९१ ||

५अ
५छ्

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं |
सुवाना देवास इन्दवः || ११९२ ||

६अ
६छ्

वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः |
दधन्विरे गभस्त्योः || ११९३ ||

७अ
७छ्

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् |
विश्वा अप द्विषो जहि || ११९४ ||

८अ
८छ्

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः |
योनावृतस्य सीदत || ११९५ ||

९अ
९छ्

सोमा असृग्रमिन्दवः सुता ऋतस्य धारया |
इन्द्राय मधुमत्तमाः || ११९६ ||

१अ
१छ्

अभि विप्रा अनूषत गावो वत्सं न धेनवः |
इन्द्रं सोमस्य पीतये || ११९७ ||

२अ
२छ्

मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् |
सोमो गौरी अधि श्रितः || ११९८ ||

३अ
३छ्

दिवो नाभा विचक्षणोऽव्यो वारे महीयते |
सोमो यः सुक्रतुः कविः || ११९९ ||

४अ
४छ्

यः सोमः कलशेष्वा अन्तः पवित्र आहितः |
तमिन्दुः परि षस्वजे || १२०० ||

५अ
५छ्

प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि |
जिन्वन्कोशं मधुश्चुतं || १२०१ ||

६अ
६छ्

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां |
हिन्वानो मानुषा युजा || १२०२ ||

७अ
७छ्

आ पवमान धारय रयिं सहस्रवर्चसं |
अस्मे इन्दो स्वाभुवं || १२०३ ||

८अ
८छ्

अभि प्रिया दिवः कविर्विप्रः स धारया सुतः |
सोमो हिन्वे परावति || १२०४ ||

९अ
९छ्

उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः |
वाणस्य चोदया पविं || १२०५ ||

१अ
१छ्

प्रसवे त उदीरते तिस्रो वाचो मखस्युवः |
यदव्य एषि सानवि || १२०६ ||

२अ
२छ्

अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः |
पवमानं मधुश्चुतं || १२०७ ||

३अ
३छ्

आ पवस्व मदिन्तम पवित्रं धारया कवे |
अर्कस्य योनिमासदं || १२०८ ||

४अ
४छ्

स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः |
एन्द्रस्य जठरं विश || १२०९ ||

५अ
५छ्

अया वीती परि स्रव यस्त इन्दो मदेष्वा |
अवाहन्नवतीर्नव || १२१० ||

१अ
१छ्

पुरः सद्य इत्थाधिये दिवोदासाय शंबरं |
अध त्यं तुर्वशं यदुं || १२१छ् ल्स्दिर् ||

२अ
२छ्

परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् |
क्षरा सहस्रिणीरिषः || १२१२ ||

३अ
३छ्

अपघ्नन्पवते मृधोऽप सोमो अराव्णः |
गच्छन्निन्द्रस्य निष्कृतं || १२१३ ||

१अ
१छ्

महो नो राय आ भर पवमान जही मृधः |
रास्वेन्दो वीरवद्यशः || १२१४ ||

२अ
२छ्

न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् |
यत्पुनानो मखस्यसे || १२१५ ||

३अ
३छ्

अया पवस्व धारया यया सूर्यमरोचयः |
हिन्वानो मानुषीरपः || १२१६ ||

१अ
१छ्

अयुक्त सूर एतशं पवमानो मनावधि |
अन्तरिक्षेण यातवे || १२१७ ||

२अ
२छ्

उत त्या हरितो रथे सूरो अयुक्त यातवे |
इन्दुरिन्द्र इति ब्रुवन् ||१२१८ ||

३अ
३छ्

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं |
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः || १२१९ ||

१अ
१छ्

प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् |
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति || १२२० ||

२अ
२छ्

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः |
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ||१२२१ ||

३अ
३छ्

१०

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे |
स वृषा वृषभो भुवत् ||१२२२ ||

१अ
१छ्

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः |
द्युम्नी श्लोकी स सोम्यः || १२२३ ||

२अ
२छ्

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः |
ववक्ष उग्रो अस्तृतः || १२२४ ||

३अ
३छ्

११

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय |
पुनाहीन्द्राय पातवे || १२२५ ||

१अ
१छ्

तव त्य इन्दो अन्धसो देवा मधोर्व्याशत |
पवमानस्य मरुतः || १२२६ ||

२अ
२छ्

दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे |
सुनोता मधुमत्तमं || १२२७ ||

३अ
३छ्

१२

धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः |
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा || १२२८ ||

१अ
१छ्

शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु |
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || १२२९ ||

२अ
२छ्

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश |
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः || १२३० ||

३अ
३छ्

१३

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः |
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे || १२३१ ||

१अ
१छ्

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा |
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि || १२३२ ||

२अ
२छ्

१४

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः |
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ||१२३३ ||

१अ
१छ्

तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः |
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः || १२३४ ||

२अ
२छ्

१५

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः |
वायुमा रोह धर्मणा || १२३५ ||

१अ
१छ्

पवमान नि तोशसे रयिं सोम श्रवाय्यं |
इन्दो समुद्रमा विश || १२३६ ||

२अ
२छ्

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः |
नुदस्वादेवयुं जनं || १२३७ ||

३अ
३छ्

१६

अभी नो वाजसातमं रयिमर्ष शतस्पृहं |
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं || १२३८ ||

१अ
१छ्

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः |
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो || १२३९ ||

२अ
२छ्

परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः |
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः || १२४० ||

३अ
३छ्

१७

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम || १२४१ ||

१अ

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः || १२४२ ||

२अ

दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व || १२४३ ||

३अ

१८

प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियं |
अग्ने रथं न वेद्यं || १२४४ ||

१अ
१छ्

कविमिव प्रशंस्यं यं देवास इति द्विता |
नि मर्त्येष्वादधुः || १२४५ ||

२अ
२छ्

त्वं यविष्ठ दाशुषो न्ऱींपाहि शृणुही गिरः |
रक्षा तोकमुत त्मना || १२४६ ||

३अ
३छ्

१९

एन्द्र नो गधि प्रिय सत्राजिदगोह्य |
गिरिर्न विश्वतः पृथुः पतिर्दिवः || १२४७ ||

१अ
१छ्

अभि हि सत्य सोमपा उभे बभूथ रोदसी |
इन्द्रासि सुन्वतो वृधः पतिर्दिवः || १२४८ ||

२अ
२छ्

त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि |
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः || १२४९ ||

३अ
३छ्

२०

पुरां भिन्दुर्युवा कविरमितौजा अजायत |
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः || १२५० ||

१अ
१छ्

त्वं वलस्य गोमतोऽपावरद्रिवो बिलं |
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः || १२५१ ||

२अ
२छ्

इन्द्रमीशानमोजसाभि स्तोमैरनूषत |
सहस्रं यस्य रातय उत वा सन्ति भूयसीः || १२५२ ||

३अ
३छ्