"रामायणम्/अरण्यकाण्डम्/सर्गः ११" इत्यस्य संस्करणे भेदः
< रामायणम् | अरण्यकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: Removing संस्कृत category as all pages here r of sanskrit using AWB |
→बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB |
||
पङ्क्तिः ३०१: | पङ्क्तिः ३०१: | ||
**[[रामायण उत्तरकाण्ड]] |
**[[रामायण उत्तरकाण्ड]] |
||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Sanskrit]] |
|||
[[वर्गः:काव्य]] |
[[वर्गः:काव्य]] |
||
[[वर्गः:Hinduism]] |
[[वर्गः:Hinduism]] |
११:०५, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-११॥
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना । पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥ तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च । नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥ सारसान् चक्रवाकां च नदी पुलिन चारिणः । सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥ यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः । महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥ ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे । ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥ पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् । सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥ प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥ ततः कौतूहलात् रामो लक्ष्मणः च महारथः । मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥ इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने । कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥ तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा । प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥ इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् । निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥ स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः । दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥ ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः । अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥ अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः । इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥ ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः । प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥ अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः । नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥ ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः । तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥ तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् । रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥ तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः । श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥ आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥ एवम् कथयमानः स ददर्श आश्रम मण्डलम् । कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥ उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः । जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥ येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥ क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् । अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥ त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् । तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥ रमतः च आनुकूल्येन ययुः संवत्सरा दश । परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥ सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह । स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥ तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः । अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥ उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् । अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥ वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् । न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥ कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः । प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥ अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् । मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥ यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥ सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् । अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥ अगस्त्यम् अभिगच्छ इति सीतया सह राघव । दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥ अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः । योजनानि आश्रमात् तात याहि चत्वारि वै ततः । दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥ स्थली प्राय वनोद्देशे पिप्पली वन शोभिते । बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥ पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः । हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥ तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् । दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥ तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् । रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥ रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह । स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥ यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् । अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥ इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च । प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥ पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् । सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥ सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् । इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥ एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः । अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥ यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः । संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥ पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः । गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥ तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः । लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥ एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् । पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥ विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः । पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥ ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् । अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥ निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया । यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥ इह एकदा किल क्रूरो वातापिः अपि च इल्वलः । भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥ धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् । आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥ भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् । तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥ ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् । वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥ ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् । भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥ ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः । विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥ ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् । भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥ स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् । अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥ कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः । भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥ अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् । प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥ सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा । चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥ तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः । विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥ एवम् कथयमानस्य तस्य सौमित्रिणा सह । रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥ उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि । प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥ सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः । न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥ तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले । भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥ अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् । आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥ गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः । यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥ नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा । चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥ पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् । ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥ हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् । मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥ ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः । पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥ स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः । आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥ अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥ प्राज्य धूम आकुल वनः चीर माला परिष्कृतः । प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥ निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया । दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥ तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः । दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥ यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा । तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥ नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥ मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः । संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥ अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः । अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥ एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् । अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥ आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् । शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥ अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः । अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥ न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः । नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥ अत्र देवाः च यक्षाः च नागाः च पतगैः सह । वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥ अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः । त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥ यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥ आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः । निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकादशः सर्गः ॥३-११॥