सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः
Jump to navigation Jump to search


पन्यंपन्यमित्सोतार आ धावत मद्याय |
सोमं वीराय शूराय || १६५७ ||

एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायं |
इन्द्रं गीर्भिर्गिर्वणसं || १६५८ ||

पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् |
नि यमते शतमूतिः || १६५९ ||



आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः |
न त्वामिन्द्राति रिच्यते || १६६० ||

विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे |
य इन्द्र जठरेषु ते || १६६१ ||

अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् |
अरं धामभ्य इन्दवः || १६६२ ||



जराबोध तद्विविड्ढि विशेविशे यज्ञियाय |
स्तोमं रुद्राय दृशीकं || १६६३ ||

स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः |
धिये वाजाय हिन्वतु || १६६४ ||

स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः |
उक्थैरग्निर्बृहद्भानुः || १६६५ ||

जराबोधीयम्



तद्वो गाय सुते सचा पुरुहूताय सत्वने |
शं यद्गवे न शाकिने || १६६६ ||

न घा वसुर्नि यमते दानं वाजस्य गोमतः |
यत्सीमुपश्रवद्गिरः || १६६७ ||

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् |
शचीभिरप नो वरत् ||१६६८ ||

मार्गीयवम्



इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं |
समूढमस्य पांसुले || १६६९ ||

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः |
अतो धर्माणि धारयन् ||१६७० ||

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे |
इन्द्रस्य युज्यः सखा || १६७१ ||

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततं || १६७२ ||

तद्विप्रासो विपन्युवो जागृवांसः समिन्धते |
विष्णोर्यत्परमं पदं || १६७३ ||

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे |
पृथिव्या अधि सानवि || १६७४ ||

वारवन्तीयम्


मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् |
आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि || १६७५ ||


इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते |
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः || १६७६ ||



अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत |
पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत || १६७७ ||

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यं |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः || १६७८ ||



इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे |
नरे च दक्षिणावते देवाय सदनासदे || १६७९ ||

तं सखायः पुरूरुचं यूयं वयं च सूरयः |
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यं || १६८० ||

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण |
यो देवान्विश्वां इत्परि मदेन सह गच्छति || १६८१ ||



कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति |
श्रद्धा इत्तेमघवन्पार्ये दिवि वाजी वाजं सिषासति || १६८२ ||

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु |
तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता || १६८३ ||


१०
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः |
एवा हि वीर स्तवते सदावृधः || १६८४ ||

इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिं |
उदानंश शवसा न भन्दना || १६८५ ||

तं वो वाजानां पतिमहूमहि श्रवस्यवः |
अप्रायुभिर्ज्ञेभिर्वावृधेन्यं || १६८६ ||


११
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे |
देवत्रा हव्यमूहिषे || १६८७ ||

विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरं |
अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यं || १६८८ ||


१२
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया |
जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे || १६८९ ||

स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः |
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः || १६९० ||


१३
वयमेनमिदा ह्योऽपीपेमेह वज्रिणं |
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते || १६९१ ||

वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति |
सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया || १६९२ ||


१४
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः |
तद्वां चेति प्र वीर्यं || १६९३ ||

इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः |
ऋतस्य पथ्या अनु || १६९४ ||

इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च |
युवोरप्तूर्यं हितं || १६९५ ||


१५
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे |
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः || १६९६ ||

दाना मृगो न वारणः पुरुत्रा चरथं दधे |
न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा || १६९७ ||

य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः |
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ||१६९८ ||


१६
पवमाना असृक्षत सोमाः शुक्रास इन्दवः |
अभि विश्वानि काव्या || १६९९ ||

पवमाना दिवस्पर्यन्तरिक्षादसृक्षत |
पृथिव्या अधि सानवि || १७०० ||

पवमानास आशवः शुभ्रा असृग्रमिन्दवः |
घ्नन्तो विश्वा अप द्विषः || १७०१ ||


१७
तोशा वृत्रहणा हुवे सजित्वानापराजिता |
इन्द्राग्नी वाजसातमा || १७०२ ||

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वृणे || १७०३ ||

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं |
साकमेकेन कर्मणा || १७०४ ||


१८
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत |
अग्ने ससृज्महे गिरः || १७०५ ||

उप च्छायामिव घृणेरगन्म शर्म ते वयं |
अग्ने हिरण्यसन्दृशः || १७०६ ||

य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः |
अग्ने पुरो रुरोजिथ || १७०७ ||


१९
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं |
अजस्रं घर्ममीमहे || १७०८ ||

य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् |
ऋतूनुत्सृजते वशी || १७०९ ||

अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य |
सभ्राडेको वि राजति || १७१० ||