सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.1 प्रथमोऽर्द्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ



अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
मूनुं सत्यस्य सत्पतिं ॥ १४८९ ॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥ १४९० ॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत् ॥१४९१ ॥


आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२ ॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३ ॥
श्यैतम्
सदोविशीयम्


प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।[१]
इन्द्रमभि जायमानं समस्वरन् ॥१४९४ ॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
दिवो न वारं सविता व्यूर्णुते ॥ १४९५ ॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६ ॥
यौधाजयम्


इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।
अग्ने देवेषु प्र वोचः ॥ १४९७ ॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे क्षरसि ॥ १४९८ ॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥ १४९९ ॥


अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ॥ १५०० ॥
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्ममिद्दधे ॥ १५०१ ॥
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥ १५०२ ॥


अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ १५०३ ॥
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ १५०४ ॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देवतातये रायो दानाय चोदय ॥ १५०५ ॥


त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥ १५०६ ॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं ।
शर्याभिर्न भरमाणो गभस्त्योः ॥ १५०७ ॥
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
सदासरो वाजमच्छा सनिष्यदत् ॥१५०८ ॥


एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधांसि चोदयते महित्वना ॥ १५०९ ॥
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवं ।
नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ १५१० ॥
न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
न की राया नैवथा न भन्दना ॥ १५११ ॥


नदं व ओदतीनां नदं योयुवतीनां ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ १५१२ ॥
श्रुध्यम्

१०
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ १५१३ ॥
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १५१४ ॥

११
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५ ॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६ ॥
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७ ॥
अग्निर्वैश्वानरः

१२
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥ १५१८ ॥
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तमीमहे महागयं ॥ १५१९ ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं ।
दधद्रयिं मयि योषं ॥ १५२० ॥


१३
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान्वक्षि यक्षि च ॥ १५२१ ॥
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं ।
देवां आ वीतये वह ॥ १५२२ ॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
अग्ने बृहन्तमध्वरे ॥ १५२३ ॥

१४
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥ १५२४ ॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यं ।
विश्वासु पृत्सु दुष्टरं ॥ १५२५ ॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसं ।
मार्डीकं धेहि जीवसे ॥ १५२६ ॥

१५
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
तेन जेष्म धनंधनं ॥ १५२७ ॥
यया गा आकरामहै सेनयाग्ने तवोत्या ।
तां नो हिन्व मघत्तये ॥ १५२८ ॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनं ।
अङ्धि खं वर्त्तया पविं ॥ १५२९ ॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
दधज्ज्योतिर्जनेभ्यः ॥ १५३० ॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
बोधा स्तोत्रे वयो दधत् ॥१५३१ ॥

१६
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥ १५३२ ॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
स्तोता स्यां तव शर्मणि ॥ १५३३ ॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्यर्चयः ॥ १५३४ ॥


  1. अथैताः प्रत्नं पीयूषं पूर्व्यं यद् उक्थ्यम् इति सतोबृहतयो भवन्ति। अनुष्टुब् वै यज्ञम् असृजत। वाग् वा अनुष्टुप्। प्रजापतिर् वा अनुष्टुप् छन्दः। सो ऽब्रवीद् यज्ञं सृष्ट्वा - छन्दांसि पुत्रका विन्दध्वम् इति। तान्य् एतयाविन्दन्त। यद् त्रिपदा तेन गायत्री। उष्णिक्ककुभौ तयाविन्दन्त। यद् द्वादशाक्षराणि पदानि तेन जगती। तेनो एवानुष्टुप्। अक्षरैर् एव बृहत्य् अविन्दत। यद् दोहवती तेन पंक्तिः। आयतनेन त्रिष्टुप्। यद् विश्ववती तेन सर्वाणि छन्दांसि। तान्य् एतयैवाविन्दन्त। विन्दते य एवं वेद। सर्वेषां वा एषा छन्दसां रसस् तेजस् संभृतम्। सर्वेषाम् एवैतच् छन्दसां रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति॥जैब्रा ३.२८५