सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.7 सप्तमी दशतिः

विकिस्रोतः तः

पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां ॥ १५५ ॥

प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥ १५६ ॥

वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥ १५७ ॥

इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्चन्तु कारवः ॥ १५८ ॥

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥ १५९ ॥
सौमित्रे द्वे - इहवद्दैवोदासम्

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ १६० ॥
शाक्वरवर्णम् इत्यादि
माधुच्छन्दसम् (आरण्यकम्)

अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदं ॥ १६१ ॥

य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य त्वमीशिषे ॥ १६२ ॥

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥ १६३ ॥

आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखायः स्तोमवाहसः ॥ १६४ ॥


टिप्पणी

साम १६३ योगे योगे तवस्तरं इति --

ब्राह्मणाच्छंशिसामप्रशंसा --योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम (साम १६३) रात्रेरेव समृध्यै - तांब्रा. ९.२.२०


साम १६४ आ त्वेता नि षीदतेति--

मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. ९.२.१९। जैमिनीयं ब्राह्मणं १.२२६ अपि द्रष्टव्यम् अस्ति।