मध्यमकशास्त्रम्/स्कन्धपरीक्षा चतुर्थं प्रकरणम्

विकिस्रोतः तः
← चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् स्कन्धपरीक्षा चतुर्थं प्रकरणम्
[[लेखकः :|]]
धातुपरीक्षा पञ्चमं प्रकरणम् →

रूपकारणनिर्मुक्तं न रूपमुपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ ४.१ ॥
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥ ४.२ ॥
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।
अकार्यकं कारणं स्यात्नास्त्यकार्यं च कारणम् ॥ ४.३ ॥
रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते ॥ ४.४ ॥
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
तस्मात्रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥ ४.५ ॥
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते ॥ ४.६ ॥
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥ ४.७ ॥
विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ ४.८ ॥
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ४.९ ॥