मध्यमकशास्त्रम्/चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्

विकिस्रोतः तः
← गतागतपरीक्षा द्वितीयं प्रकरणम् चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्
[[लेखकः :|]]
स्कन्धपरीक्षा चतुर्थं प्रकरणम् →


दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ ३.१ ॥
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ ३.२ ॥
न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३.३ ॥
नापश्यमानं भवति यदा किंचन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ ३.४ ॥
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् ॥ ३.५ ॥
तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् ।
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥ ३.६ ॥
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः ॥ ३.७ ॥
द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् ।
नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम् ॥ ३.८ ॥
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ ३.९ ॥