मध्यमकशास्त्रम्/धातुपरीक्षा पञ्चमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/स्कन्धपरीक्षा चतुर्थं प्रकरणम् धातुपरीक्षा पञ्चमं प्रकरणम्
[[लेखकः :|]]
मध्यमकशास्त्रम्/रागरक्तपरीक्षा षष्ठं प्रकरणम् →

नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ ५.१ ॥
अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित् ।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ ५.२ ॥
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ ५.३ ॥
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ ५.४ ॥
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥ ५.५ ॥
अविद्यमाने भावे च कस्याभावो भविष्यति ।
भावाभावविधर्मा च भावाभावमवैति कः ॥ ५.६ ॥
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशमाकाशसमा धातवः पञ्च ये परे ॥ ५.७ ॥
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ५.८ ॥