सूर्यसिद्धान्त त्रिप्रश्नाधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


३.०१क शिलातले +अम्बुसम्शुद्धे वज्रलेपे +अपि वा समे /
३.०१ख तत्र शङ्क्वङ्गुलैर् इष्टैः समम् मण्डलम् आलिखेत् //

३.०२क तन्मध्ये स्थापयेच् छङ्कुम् कल्पनाद्वादशाङ्गुलम् /
३.०२ख तच्छायाग्रम् स्पृशेद् यत्र वृत्ते पूर्वापरार्धयोः //

३.०३क तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ /
३.०३ख तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा //

३.०४क याम्योत्तरदिशोर् मध्ये तिमिना पूर्वपश्चिमा /
३.०४ख दिङ्मध्यमत्स्यैः सम्साध्या विदिशस् तद्वद् एव हि //

३.०५क चतुरस्रम् बहिः कुर्यात् सूत्रैर् मध्याद् विनिर्गतैः /
३.०५ख भुजसूत्राङ्गुलैस् तत्र दत्तैर् इष्टप्रभा स्मृता //

३.०६क प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले /
३.०६ख उनण्डले च विषुवन्मण्डले परिकीर्त्यते //

३.०७क रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा /
३.०७ख इष्टच्छायाविषुवतोर् मध्यम् अग्राभिधीयते //

३.०८क शङ्कुच्छायाकृतियुतेर् मूलम् कर्णो +अस्य वर्गतः /
३.०८ख प्रोज्झ्य शङ्कुकृतिम् मूलम् छाया शङ्कुर् विपर्ययात् //

३.०९क त्रिम्शत्कृत्यो युगे भानाम् चक्रम् प्राक् परिलम्बते /
३.०९ख तद्गुणाद् भूदिनैर् भक्ताद् द्युगणाद् यद् अवाप्यते //

३.१०क तद्दोस् त्रिघ्ना दशाप्ताम्शा विज्ञेया अयनाभिधाः /
३.१०ख तत्सम्स्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम् //

३.११क स्फुटम् दृक्तुल्यताम् गच्छेद् अयने विषुवद्वये /
३.११ख प्राक् चक्रम् चलितम् हीने छायार्कात् करणागते //

३.१२क अन्तराम्शैर् अथावृत्य पश्चाच् छेषैस् तथाधिके /
३.१२ख एवम् विषुवती छाया स्वदेशे या दिनार्धजा //

३.१३क दक्षिणोत्तररेखायाम् सा तत्र विषुवत्प्रभा //
३.१३ख शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते /

३.१४क लम्बाक्षज्ये तयोश् चापे लम्बाक्षौ दक्षिणौ सदा /
३.१४ख मध्यच्छाया भुजस् तेन गुणिता त्रिभमौर्विका //

३.१५क स्वकर्णाप्ता धनुर्लिप्ता नतास् ता दक्षिणे भुजे /
३.१५ख उत्तराश् चोत्तरे याम्यास् ताः सूर्यक्रान्तिलिप्तिकाः //

३.१६क दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश् चाक्षलिप्तिकाः /
३.१६ख ताभ्यो +अक्षज्या च तद्वर्गम् प्रोज्झ्य त्रिज्याकृतेः पदम् //

३.१७क लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया /
३.१७ख स्वाक्षार्कनतभागानाम् दिक्साम्ये +अन्तरम् अन्यथा //

३.१८क दिग्भेदे +अपक्रमः शेषस् तस्य ज्या त्रिज्यया हता /
३.१८ख परमापक्रमज्याप्ता चापम् मेषादिगो रविः //

३.१९क कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसम्युतात् /
३.१९ख मृगादौ प्रोज्झ्य भगणान् मध्याह्ने +अर्कः स्फुटो भवेत् //

३.२०क तन्मान्दम् असकृद् वामम् फलम् मध्यो दिवाकरः /
३.२०ख स्वाक्षार्कापक्रमयुतिर् दिक्साम्ये +अन्तरम् अन्यथा //

३.२१क शेषम् नताम्शाः सूर्यस्य तद्बाहुज्या च कोटिज्या /
३.२१ख शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् //

३.२२क कोटिज्यया विभज्याप्ते छायाकर्णाव् अहर्दले /
३.२२ख क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया //

३.२३क अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका /
३.२३ख विषुवद्भायुतार्काग्रा याम्ये स्याद् उत्तरो भुजः //

३.२४क विषुवत्याम् विशोध्योदग्गोले स्याद् बाहुर् उत्तरः /
३.२४ख विपर्ययाद् भुजो याम्यो भवेत् प्राच्यपरान्तरे //

३.२५क माध्याह्निको भुजो नित्यम् छाया माध्याह्निकी स्मृता /
३.२५ख लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे //

३.२६क क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ /
३.२६ख सौम्याक्षोना यदा कान्तिः स्यात् तदा द्युदलश्रवः //

३.२७क विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः /
३.२७ख स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका //

३.२८क स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका /
३.२८ख त्रिज्यावर्गार्धतो +अग्रज्यावर्गोनाद् द्वादशाहतात् //

३.२९क पुनर् द्वादशनिघ्नाच् च लभ्यते यत् फलम् बुधैः /
३.२९ख शङ्कुवर्गार्धसम्युक्तविषुवद्वर्गभाजितात् //

३.३०क तदेव करणी नाम ताम् पृथक् स्थापयेद् बुधः /
३.३०ख अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा //

३.३१क भक्ता फलाख्यम् तद्वर्गसम्युक्तकरणीपदम् /
३.३१ख फलेन हीनसम्युक्तम् दक्षिणोत्तरगोलयोः //

३.३२क याम्ययोर् विदिशोः शङ्कुर् एवम् याम्योत्तरे रवौ /
३.३२ख परिभ्रमति शङ्कोस् तु शङ्कुर् उत्तरयोस् तु सः //

३.३३क तत्त्रिज्यावर्गविश्लेषान् मूलम् दृग्ज्याभिधीयते /
३.३३ख स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते //

३.३४क छायाकर्णौ तु कोणेषु यथास्वम् देशकालयोः /
३.३४ख त्रिज्योदक्चरजायुक्ता याम्यायाम् तद्विवर्जिता //

३.३५क अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा /
३.३५ख त्रिज्याभक्ता भवेच् छेदो लम्बज्याघ्नो +अथ भाजितः //

३.३६क त्रिभज्यया भवेच् छङ्कुस् तद्वर्गम् परिशोधयेत् /
३.३६ख त्रिज्यावर्गात् पदम् दृग्ज्या छायाकर्णौ तु पूर्ववत् //

३.३७क अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता /
३.३७ख दृग्ज्या तद्वर्गसम्शुद्धात् त्रिज्यावर्गाच् च यत् पदम् /

३.३८क शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः /
३.३८ख छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः //

३.३९क उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् /
३.३९ख उत्क्रमज्याभिर् एवम् स्युः प्राक्पश्चार्धनतासवः //

३.४०क इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता /
३.४०ख क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता //

३.४१क तच्चापम् भादिकम् क्षेत्रम् पदैस् तत्र भवो रविः /
३.४१ख इष्टे +अह्नि मध्ये प्राक्पश्चाद् धृते बाहुत्रयान्तरे //

३.४२क मत्स्यद्वयान्तरयुतेस् त्रिस्पृक्सूत्रेण भाभ्रमः /
३.४२ख त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः //

३.४३क क्रमाद् एकद्वित्रिभज्यास् तच्चापानि पृथक् पृथक् /
३.४३ख स्वाधो +अधः परिशोध्याथ मेषाल् लङ्कोदयासवः //

३.४४क खागाष्टयो +अर्थगो +अगैकाः शरत्र्यङ्कहिमाम्शवः /
३.४४ख स्वदेशचरखण्डोना भवन्तीष्टोदयासवः //

३.४५क व्यस्ता व्यस्तैर् युताः स्वैः स्वैः कर्कटाद्यास् ततस् त्रयः /
३.४५ख उत्क्रमेण षडेवैते भवन्तीष्टास् तुलादयः //

३.४६क गतभोग्यासवः कार्या भास्कराद् इष्टकालिकात् /
३.४६ख स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः //

३.४७क अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् /
३.४७ख तद्वत् तदेष्यलग्नासून् एवम् यातात् तथोत्क्रमात् //

३.४८क शेषम् चेत् त्रिम्शताभ्यस्तम् अशुद्धेन विभाजितम् /
३.४८ख भागैर् युक्तम् च हीनम् च तल्लग्नम् क्षितिजे तदा // (C भागहीनम् च युक्तम् च)

३.४९क प्राक्पश्चान् नतनाडीभिस् तस्माल् लङ्कोदयासुभिः /
३.४९ख भानौ क्षयधने कृत्वा मध्यलग्नम् तदा भवेत् //

३.५०क भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च /
३.५०ख सम्पीण्ड्यान्तरलग्नासून् एवम् स्यात् कालसाधनम् //

३.५१क सूर्याद् ऊने निशाशेषे लग्ने +अर्काद् अधिके दिवा /
३.५१ख भचक्रार्धयुताद् भानोर् अधिक्के +अस्तमयात् परम् //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]