सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.6 षष्ठी दशतिः

विकिस्रोतः तः
← 1.1.6.5 पञ्चमी दशतिः (५३३-५४४) सामवेदः/कौथुमीया/संहिता - सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः
1.1.6.6 षष्ठी दशतिः (५४५-५५३)
[[लेखकः :|]]
1.1.6.7 सप्तमी दशतिः (५५४-५६५) →
ऋ. ५४६ नहुषो मानवः, ५४७ ययातिर्नाहुषः, ५४८ मनुः सांवरणः, ५४९ ऋजिष्वाम्बरीषौ, ५५० रेभसूनू काश्यपौ, ५५१ रेभसूनू काश्यपौ, ५५२ ऋजिष्वाम्बरीषौ, ५५३ प्रजापतिर्वाच्यो वा।

ग्रामगेय - ५४६ क्रौञ्चानि त्रीणि। त्रयाणां क्रुङनुष्टुप्पूषाभगोद्यावापृथिवी। ५४७त्वाष्ट्री सामनी द्वे। द्वयोस्त्वाष्ट्र्योनुष्टुप्सोमेन्द्रौ।।

पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ५४५ ॥
रौद्रः

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ ५४६ ॥

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥ ५४७ ॥

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥ ५४८ ॥

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ ५४९ ॥

अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यं ।
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ ५५० ॥
पार्जन्यम्

आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् ।
शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ॥ ५५१ ॥

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥ ५५२ ॥

प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥ ५५३ ॥