सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/यज्ञसारथि(इमंस्तोमं)

विकिस्रोतः तः
यज्ञसारथि गानम्
यज्ञसारथिगानम्

॥ कौत्सम् । कुत्सो जगत्यग्निः । यज्ञसारथि ॥
इ꣣म꣢ꣳस्तो꣣ऽ२३४मा꣥म् । अ꣣र्हा꣢ते꣣ऽ२३४जा꣥ । ता꣡वे꣢꣯द꣡से꣢ऽ३ । हो꣡इ ॥ र꣣था꣢᳐मी꣣ऽ२३४वा꣥ । सं꣢मा᳐हे꣣ऽ२३४मा꣥ । मा꣡नी꣢꣯ष꣡या꣢ऽ३ । हो꣡इ ॥ भ꣣द्रा꣢᳐ही꣣ऽ२३४ना꣥: । प्र꣢मा᳐ती꣣ऽ२३४रा꣥ । स्या꣡स꣢ꣳ स꣡दे꣢ऽ३ । हो꣡इ॥ अ꣣ग्ना꣢इ᳐सा꣣ऽ२३४ख्या꣥इ । मा꣢रा᳐इषा꣣ऽ२३४मा꣥ । वा꣡यं꣢त꣡वा꣢ऽ३ । हो꣡ऽ२३४५इ ॥ डा॥
(छो । १०८)
(दी० २ । प० १७ । मा० ९)३८

कुत्स आङ्गिरसः । अग्निः । जगती । ( ऋ० १।९४।१)

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥६६।।


॥ कौत्सम् । कुत्सो जगत्यग्निः । यज्ञसारथि ॥
(६६।१) इमꣳस्तोऽ२३४माम् । अर्हातेऽ२३४जा । तावेदसेऽ३ । होइ ॥ रथामीऽ२३४वा । संमाहेऽ२३४मा । मानीषयाऽ३ । होइ ॥ भद्राहीऽ२३४नाः । प्रमातीऽ२३४रा । स्यासꣳ सदेऽ३ । होइ॥ अग्नाइसाऽ२३४ख्याइ । माराइषाऽ२३४मा । वायंतवाऽ३ । होऽ२३४५इ ॥ डा॥

(छो । १०८)
(दी० २ । प० १७ । मा० ९)३८

[सम्पाद्यताम्]

टिप्पणी

योगवासिष्ठ ६.२.१३९.१३ अनुसारेण प्राणः एवं मनः अन्योन्यस्य सारथ्यौ स्तः। यदा देहस्य नाड्यः अन्नरसेन आपूर्णाः भवन्ति अथवा श्रमेण क्लान्ताः भवन्ति, तदा सुषुप्तता भवति एवं प्राणः हृदये प्रविश्य तत्र वासं करोति। यदा प्राणः हृदयात् उदित्वा एतासु नाडीषु प्रवेशं करोति, तदा स्वप्नानां आविर्भावः भवति। जातवेदसशब्दः संकेतं करोति यत् अस्य साम्नः लक्ष्यः केनापि प्रकारेण देहस्य चेतनायाः अक्षुण्णा स्थितितः सम्बद्धः अस्ति।

द्र. भारुण्डसाम