योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३९
एकोनचत्वारिंशदधिकशततमः सर्गः १३९
श्रीवसिष्ठ उवाच ।
चित्तमेव जगत्कर्तृ संकल्पयति यद्यथा ।
असत्सत्सदसच्चैव तत्तथा तस्य तिष्ठति ।। १
तेन संकल्पितः प्राणः प्राणो मे गतिरित्यपि ।
न भवामि विनानेन तेन तत्तत्परायणम् ।। २
अहं कतिपयं कालं ननु प्राणविनाकृतः ।
न भवामि पुनर्नूनं भवाम्येवेति कल्पितम् ।। ३
यत्र तेनाङ्गं तत्रैतत्प्राणेनाशु क्षणाद्वपुः ।
उदितं पश्यति मनो मायापुरमिवाततम् ।। ४
न भवाम्येव भूयोऽहं प्राणदेहविनाकृतः ।
दृढनिश्चयभागित्थं चितो भवति नो पुनः ।। ५
दोलायितं तु संदेहाद्दुःखमास्ते कुनिश्चयम् ।
विकल्पेनैवमस्यैतज्ज्ञानान्नाल्पेन यास्यति ।। ६
यस्यायमहमित्यस्ति तस्य तन्नोपशाम्यति ।
वर्जयित्वात्मविज्ञानं केनचिन्नाम हेतुना ।। ७
नान्यत्र प्रथते ज्ञानं मोक्षोपायविचारणात् ।
ऋते तस्मात्प्रयत्नेन मोक्षोपायो विचार्यताम् ।। ८
किलाहमिदमित्येव नाविद्या विद्यते क्वचित् ।
मोक्षोपायादृते नैतत्कुतश्चिदयतेऽन्यतः ।। ९
एवं यन्मनसाभ्यस्तमुपलब्धं तथैव तत् ।
तेन मे जीवितं प्राणा इति प्राणे मनः स्थितम् ।। 6.2.139.१०
देहे सौम्ये स्थिते प्राणे मनो मननवद्भवेत् ।
क्षुब्धे प्राणगतं क्षोभं पश्यन्नान्यत्प्रपश्यति ।। १४
यदा स्वकर्मणि स्पन्दे व्यग्रः प्राणो भृशं भवेत् ।
तदा तदीहितव्यग्रः प्राणो नात्मोद्यमी भवेत् ।। १२
एते हि प्राणमनसी त्वन्योन्यं रथसारथी ।
के नाम नानुवर्तन्ते रथसारथिनौ मिथः ।। १३
इत्यादिसर्गे स्वात्मैव चेतितः परमात्मना ।
तेनैषाद्यापि नियतिर्नाबुधानां निवर्तते ।। १४
देशकालक्रियाद्रव्यैर्मनःप्राणशरीरिणाम् ।
प्रयान्त्यधिगता देहेष्वरूढानां परे पदे ।। १५
स्वं प्राणमनसी साम्यात्कुर्वती कर्म तिष्ठतः ।
वैषम्याद्विषमं चैकं शान्ते शान्ता सुषुप्तता ।। १६
यदाहारादिरुद्धासु नाडीषु क्वापि पिण्डितः ।
शान्तमास्ते जडः प्राणस्तदोदेति सुषुप्तता ।। १७
नाडीष्वन्नावपूर्णासु तथा क्षीणासु वा क्लमात् ।
निःस्पन्दस्तिष्ठति प्राणस्तदोदेति सुषुप्तता ।। १८
नाडीनां मृदुरूपत्वात्पूर्णत्वाद्वा व्रणोदरे ।
क्वापि प्राणे स्थिते लीने निःस्पन्दास्ते सुषुप्तता ।। १९
तापस उवाच ।
अथ यस्य प्रविष्टोऽहं हृदये सोऽभवन्निशि ।
सुषुप्तघननिद्रालुराहारपरितृप्तिमान् ।। 6.2.139.२०
तेन सार्धमहं तत्र तच्चित्तेनैकतां गतः ।
सुषुप्तनिद्रां सुघनां गुणीभूतोऽनुभूतवान् ।। २१
ततोऽन्धस्यस्य जीर्णेऽन्तर्नाडीमार्गे स्फुटे स्थिते ।
प्राकृते स्पन्दिते प्राणे सुषुप्तं तनुतां ययौ ।। २२
सुषुप्ते तनुतां याते हृदयादिव निर्गतम् ।
अपश्यमहमत्रैव भुवनं भास्करादिमत् ।। २३
तच्च क्षुब्धार्णवोत्थेन पूर्यमाणं महाम्भसा ।
विमुक्तेनेव कल्पाभ्रैरभ्रंकषतरंगिणा ।। २४
प्रोह्यत्पर्वतपूरेण महावर्तविराविणा ।
वहद्वनालीतृण्याढ्यैर्व्याप्तेनोन्मूलितागया ।। २५
पूर्वमेवावदग्धायास्त्रिलोक्याः खण्डखण्डकैः ।
पूर्णेन परितः प्रौढैः खपुराद्रिमहीमयैः ।। २६
अहं तत्रैव पश्यामि यावत्कस्मिंश्चिदास्पदे ।
कस्यांचित्पुरि कस्मिंश्चिद्गुहे वध्वा पुरे स्थितः ।। २७
सदारः सहभृत्योऽहं सपुत्रः सहबान्धवः ।
सहभाण्डोपस्करणः सगृहोऽपहृतोऽम्भसा ।। २८
उह्यमानं क्षयाम्भोभिस्तद्गृहं तच्च पत्तनम् ।
लङ्घ्यमानं द्रुमाकारैः पूर्यमाणं च वारिभिः ।। २९
बृहत्कलकलारावं जेतुमब्धिमिवोद्यतम् ।
अतिक्षुभितवास्तव्यमनपेक्षितपुत्रकम् ।। 6.2.139.३०
आवर्ततरलाढ्याभिर्वृत्तिभिर्व्यूढमाकुलम् ।
साक्रन्दोरस्ताडनोत्कजनजम्बालभीषणम् ।। ३१
स्फुटत्कुड्यत्रुटत्काष्ठरटच्छङ्कुकृतोद्रटम् ।
प्रपतच्छादनच्छत्रगवाक्षस्थाङ्गनामुखम् ।। ३२
इति यावत्क्षणं पश्यन्नहं तद्भावमागतः ।
परिरोदिमि दीनात्मा तावत्तत्सकलं गृहम् ।। ३३
चतुर्धा भित्तिभेदेन वृद्धबालाङ्गनान्वितम् ।
जगाम शतधा वीच्यां शिलायामिव निर्झरः ।। ३४
उह्यमानोऽहमभवं ततः प्रलयवारिणि ।
त्यक्तसर्वकलत्रादिचित्तः प्राणपरायणः ।। ३५
क्षिप्तस्तरङ्गजालेन योजनाद्योजनव्रजे ।
उह्यमानद्रुमशिखाज्वालान्तरितजर्जरः ।। ३६
काष्ठकुड्यतटीपीठकटुसंघट्टघट्टितः ।
आवर्तनृत्यपातालतले गत्वोत्थितश्चिरात् ।। ३७
चलाचलागमापायवलद्गुलुगुलारवे ।
जले बहुलकल्लोले मग्नोन्मग्नः पुनः पुनः ।। ३८
संघट्टभग्नशैलेन्द्रपङ्किले सलिले क्षणम् ।
पल्वले वारण इव मग्नः सत्पयसोद्धृतः ।। ३९
यावदाश्वसिमि क्षिप्रं डिण्डीरे चाद्रिखण्डके ।
तावदेत्य हतो वेगाद्वैरिणेवातिवारिणा ।। 6.2.139.४०
नानावलनकल्लोलजलजालजुषा तदा ।
न तदस्ति न यद्दृष्टं दुःखं दुःखात्मना मया ।। ४१
एतस्मिन्नन्तरे तत्र तदा तत्तामसेक्षण ।
यावज्जीवचिराभ्यासाद्विषादित्वात्सचेतसः ।। ४२
प्राक्तनं संस्मृते रूपं स्वं समाधिमयं मया ।
आ अहो नु जगत्यन्यरूपेऽहं तापसः स्थितः ।। ४३
अहं कस्यचिदन्यस्य स्वप्नदृष्टिदिदृक्षया ।
प्रविष्टोऽहमयं स्वप्ने पश्यामीमं भ्रमं त्विति ।। ४४
वर्तमानदृढाभ्यासमिथ्याज्ञानमयात्मनि ।
कल्लोलैरुह्यमानोऽपि ततोऽहं सुखितः स्थितः ।। ४५
इदं वारितयापश्यं प्रलयाब्धिविवर्तनाः ।
उह्यमानाद्रिनगरग्रामोर्वीखण्डपादपाः ।। ४६
उह्यमानामराहीन्द्रनारीनरनभश्चराः ।
उह्यमानमहारम्भलोकपालपुरालयाः ।। ४७
अथाहमद्रिमिश्राम्बुकल्लोलाद्रिविघट्टनाः ।
मुहुः पश्यञ्जगन्नाशमनन्तरमचिन्तयम् ।। ४८
चित्रमेष त्रिनेत्रोऽपि जीर्णं तृणमिवार्णवे ।
उह्यते हा हतविधेर्नाऽकार्यं नाम विद्यते ।। ४९
चतुर्धा भित्तिभेदेन प्रकटाशयतामहम् ।
पद्मानीव गृहाण्यप्सु दर्शयन्ति रवेः प्रभाः ।। 6.2.139.५०
चित्रं तरङ्गवलनासु समुल्लसन्ति
गन्धर्वकिंनरनरामरनागनार्यः ।
भूरिभ्रमैर्भ्रमरहारमिव ह्रदिन्यः
पद्मिन्य एव सकलामलजङ्गमाख्याः ।। ५१
विद्याधरीभुजलतावलितेन्दुकान्त-
कक्ष्याविभागमणिजालगवाक्षलक्ष्म्यः ।
देवासुरोरगमहागृहभित्तिभागाः
सौवर्णनौगणवदम्बुभरे भ्रमन्ति ।। ५२
मत्तेभकुम्भपरिणाहिनि कुङ्कुमाङ्के
शच्याः पयोधरभरे रतिखेदखिन्नः ।
लग्नः सुखादिव करोति तरङ्गदोलाः
संशीर्यमाणमणिगेहगतोऽत्र शक्रः ।। ५३
हा वान्ति वारिवलनावलितान्तरिक्ष-
मृक्षावधूतकुसुमप्रकरान्किरन्तः ।
वाताः पतद्विबुधमन्दिररत्नसाना-
बुद्यानकोटरगता इव साक्षतेन ।। ५४
यन्त्रोत्थहेमदृषदा सदृशाम्बुरूपं
क्षुब्धाद्रिभीमजलवीचिशिखेरितं खे ।
व्यावर्तते दिवि दलावृतकर्णिकास्थ-
ध्यानैकनिष्ठपरमेष्ठिसरोजमेतत् ।। ५५
मेघा इवातिघनघुंघुमघोषभीमा
वीचीचयाः कनकपत्तनविद्युतोऽमी ।
व्योम्नि भ्रमन्ति गजवाजिमृगेन्द्रनाग-
वृक्षाद्रिकाननमहीतलतुल्यदेहाः ।। ५६
उह्यमानोदभूवीच्यामतसीकुसुमश्रियाम् ।
यमोऽप्ययं यमेनेव वारिपूरेण नीयते ।। ५७
एते बुद्ध्यन्ति सलिलेऽखिललोकपाला
नागा नगैश्च नगरैः सह लक्षसंख्याः ।
लक्ष्म्याकरोदरगुहागतवारिपूर-
व्यावर्तनागुडगुडैरभिलक्ष्यपूराः ।। ५८
दुर्वारवारिवलनापरिपूरितेषु
पातालभूतलनभस्तलदिक्तटेषु ।
मत्स्या इवेन्द्रयमयक्षसुरासुरौघाः
सग्रामपत्तनविमाननगा भ्रमन्ति ।। ५९
उह्यमानस्य कृष्णस्य तनुरेवाम्बुरूपिणी ।
मातृजङ्घेव वत्सस्य कष्टं बन्धनतां गता ।। 6.2.139.६०
अन्योन्यमावलयतामहो बुडबुडारवः ।
श्रूयते देवदैत्यानां स्वस्त्रीहलहलाकुलः ।। ६१
कोलाहलाकुलपुरोत्तमवेगपात-
विक्षुब्धवारिपटलीवलिताम्बरासु ।
दिक्षु भ्रमज्जलदजालघनास्विवैष
संलक्ष्यते जलमयः स्फुटकुड्यबन्धः ।। ६२
हा कष्टमेष तरसा पयसापनीत
आवर्तवृत्तिपरिवर्तनया स्वधस्तात् ।
एते कुबेरयमनारदवासवाद्याः
प्राणान्पयोभ्रपटलैर्विधुरास्त्यजन्ति ।। ६३
प्राज्ञाः प्रशान्तजडदेहमिहोह्यमानं
मानोज्झिताः शवतयैव च तद्वहन्ति ।
ब्रह्मेन्द्रविष्णुपुरखण्डकसंकटाम्बु
संघट्टनेन कटुकुट्टनदृक्षु तेन ।। ६४
स्त्रीणां गणोऽर्धपरिपिष्ट इहैति कष्टं
कस्त्रातुमेनमपरः कुजडं समर्थः ।
न ह्यन्तकस्य दशनैरभिचर्व्यमाणा
त्रातुं परस्परमियं जनता समर्था ।। ६५
पर्वतप्रतिघसर्पसर्पणाः
संसरन्ति विपुला जलोच्चयाः ।
तेषु नाव इव देवपत्तना-
न्युन्नमय्य वपुराशु यान्त्यधः ।। ६६
द्वीपाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणै-
व्याप्तं वारिविलोलितैः सरसिजैरालूनमूलैरिव ।
एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितं
कष्टं ते क्व गता महर्द्धिविभवा देवा जगन्नायकाः ।। ६७
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि- वि० श० जगन्नाशवर्णनं नामैकोनचत्वारिंशदधिकशततमः सर्गः ।। १३९ ।।