सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/साम ४९७

विकिस्रोतः तः

वार्षाहरम्

वार्षाहरम्.

साकौसं [ १.६.१.२.१ ] --

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण दिद्युते ॥

अचिक्रदा३त् । आचिक्रदा३त् । अचिक्रदा५दे । वृषाहरा३इ । वार्षाहरा३इ। वृषाहरा५ए। महान्मित्रा३ः। माहान्मित्रा३ः। महान्मित्रा५ए। नदर्शता३ः । नादर्शता३ः। नदर्शता५ए। संसूरिया३इ। सांसूरिया३इ । संसूरिया५ए । णदिद्युता३इ । णादिद्युता३इ। णदा५ इद्युताउ । वा ॥ [ग्राम १४.१.१ ]