सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/त्रैतानि त्रीणि (चन्द्रमा)

विकिस्रोतः तः
त्रैतानि
त्रैतानि

<ऽpan ऽtyle="font-ऽize: 14pt; line-height: 200%">
चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ४१७ ॥ ऋ. १.१०५


(४१७/१) ॥ त्रैतानि त्रीणि । त्रितः पंक्तिरिन्द्रो विश्वेदेवाः ॥
चन्द्रमाआउवा | प्सुवान्ताराउवा । सुपर्णोधाउवा ॥ वतेदिवि । नवोहिराउवा । ण्यनाइमायाउवा | पदंविन्दाउवा । तिविद्युताः ॥ वित्तम्माआउवा । स्यरोदाऽ२३साऽ३४३इ | ओऽ२३४५इ ॥ डा ॥
( दी० ५ । प० १२ | मा० १३ ) ३१ ( फि । ७२८ )
(४१७/२)
चन्द्रमाआ ॥ प्सूऽ३ आन्ताऽ३रा । सूपर्णोधाव । ताऽ२३इ । दिविया । नवोऽ२हिरण्यनेमयः पदंविन्द । तिविद्यूतोऽ२३४हाइ ॥ वित्तꣳहोइ | मआऽ२३हो | । ॥ स्यरोदाऽ२३साऽ३४३इ | ओऽ२३४५इ ॥ डा ॥ ( दी० ६ | प० १२ | मा० ८ ) ३२ ( खै । ७२९ )
(४१७/३)
चन्द्रमाऽ३ आप्सुवन्तरा ॥ सूपर्णोधा | वताइदाऽ१इवीऽ२०। नवोऽ२ हिरण्यनेमयः पदंविन्द | तिविद्यूताऽ२३: ॥ वित्तꣳहोइ । मआऽ२३हो॥ स्यरोदाऽ२३साऽ३४३इ । ओऽ२३४५इ ॥ डा ॥
( दी० ५ | प० १० | मा० ८ )३३ ( मै । ७३० )
(४१७।४) ॥ सौपर्णे द्वे । द्वयोः सुपर्णः पंक्तिरिन्द्रो विश्वेदेवाः ॥
चन्द्रमाअप्सुवा ॥ तरा । सुपर्णोधावतेदाऽ२३इवी | नवाऽ२३होइ। हिरण्यनेमयःपदंविन्द । तिविद्युताऽ२३: ॥ वित्तꣳहोइ । मआऽ२३‍हो॥ स्यरोऽ२३ । दाऽ२साऽ२३४ औहोवा ॥ ऊऽ३२३४पा ।।
 ( दी० ७ । प० ११ । मा० ७ ) ३४ ( च्ले । ७३१ )

(४१७/५)
चन्द्रोहोमाअप्सुवन्तरा । ओऽ६वा ॥ सुपर्णोधावतेदाइवायेऽ३ । होवाऽ३होऽ२इ । हुवाऽ२३४५इ। नवोहाइरण्यनामायाऽ२३: । होवाऽ३होऽ२इ। हुवाऽ२३४५इ ॥ पदं विन्दन्तिवाइद्यूताऽ२३: । होवाऽ३होऽ२इ । हुवाऽ२३४५इ ॥ वित्तम्मेअस्यरोदासायेऽ३ । होवाऽ३होऽ२इ । हुवाऽ३ओऽ५वाऽ६५६ ।। ऊऽ३२३४पा॥
 ( दी ० १० | प० १५ | मा० १६ ) ३५ ( म्लू । ७३२)

</ऽpan>


टिप्पणी

त्रैतं नाथकामः कुर्वीत। आप्त्यान् साते नयतो ऽरण्ये पिपासाविन्दत्। ते धन्वन् कूपम् अविन्दन्। तन् नैकतो ऽवरोढुम् अकामयत न द्वितः। तत् त्रितो ऽवारोहत्। तौ यदापिबताम् अतृप्यताम् अथ हैनं तद् एव रथचक्रेणापिधाय गोभिः प्रैताम्। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तेनास्तुत। स सम् इन्दुभिः इत्य् एव निधनम् उपैत्। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम् उत्प्लावयांचकार येनापिहित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स तं नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद॥ स पदेनान्वैत्। तं प्रतिख्यायायन्तम् ऋक्षो ऽन्यो भूत्वा मर्कटो ऽन्यो वनम् अवास्कन्दताम्। तद् उ भ्रातृव्यहा साम। भ्रातृव्यतां वाव तस्य ताव् अगच्छतां याव् ऋक्षं च मर्कटं चाकरोत्। अथो हास्मै वर्षुक एव पर्जन्यो भवति। तद् उ पशव्यम् एव। केवलान् वै स तान् पशून् अकुरुत। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥ यद् उ त्रित आप्त्यो ऽपश्यत् तस्मात् त्रैतम् इत्य् आख्यायते॥ जै.ब्रा. १.१८४

त्रैतं भवति प्रतिष्ठायै पदनिधनं राथन्तरं राथन्तरं ह्येतदहः नाथविन्दु साम विन्दते नाथं नाथविन्दून्येतान्यहानि यत् छन्दोमा नाथमेवैतैर्विन्दते तांब्रा १४.११.२२, १४.११.२४