सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/गृत्समदस्य मदौ द्वौ

विकिस्रोतः तः
गृत्समदस्य मदौ


इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनं ।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यं ॥ ४१० ॥ ऋ.१.८०.१

(४१०।१)
॥ गृत्समदस्य मदौ द्वौ । द्वयोः गृत्समदः पंक्तिरिन्द्रः ॥

इत्थाहिसो ॥ मइन्माऽ२३दाः । ब्रह्मचका । रवर्द्धाऽ२३नाम् । शविष्ठव ।
ज्रिन्नोजाऽ२३सा । पृथिव्यानिश्शशाअहिम् ॥ अर्चानाऽ१नूऽ२ ॥ स्वरौहोऽ२ |
जियमोऽ२३४५इ ॥ डा ॥
( दी० ५। प० ११ ।मा० ६) १७ (पू । ७१४ )

(४१०।२)
इत्थाहिसोऽ५मइन्मदाः ॥ ब्रह्मचका । रवर्द्धाऽ२३नाम् । शाविष्ठाऽ२३४वा |
ज्रिनोजाऽ२३४सा । पृथिव्यानिःशशाअहिम् ॥ अर्चाऽ३न्होइ ।अनूऽ२३हो ॥
स्वाराजियम् । इडाऽ२३भाऽ३४३ ।ओऽ२३४५इ ॥ डा ॥
( दी० ५ । प० १२ । मा० ८ )१८ ( फै । ७१५ )

टिप्पणी