सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/द्यौताने(वृत्रस्यत्वा)

विकिस्रोतः तः
द्यौताने, धृषत मारुतस्य सामनी वा द्वे.
द्यौताने, धृषत मारुतस्य सामनी वा द्वे।

वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥ ३२४ ॥ ऋ. ८.९६.७



(३२४।१) द्यौताने, धृषतो मारुतस्य सामनी वा द्वे । द्युतानस्त्रिष्टुबिन्द्रः ॥
हाऽ३ । ओऽ३हाऽ३ । ओऽ३हाऽ३ । हाइ । वृत्रस्यत्वा । श्वसथात् । ईषमाणाः ॥ विश्वेदेवाः । अजहूऽ३ः । येसखायाः ॥ मरुद्भिराइ । द्राऽ३सखि । यन्तेअस्तू ॥ अथेमावाइ । श्वाऽ३:पृत । नाजयासी । हाऽ३ । ओऽ३हाऽ३ । ओऽ३हाऽ३ । हाऽ३४ । औहोवा । आऔऽ३होऽ२३४५ ॥
( दी० ८ । प० २२ । मा० १० ) २२ ( ठौ । ५५० )


( ३२४/२ )
होयेऽ३ । हयायेऽ३ । हया । औहोऽ२३४वा । हाऽइ । वृत्रस्यत्वा । श्वसथात् । ईषमाणाः । विश्वेदेवाः । अजहूऽ३: । येसखायाः । मरुद्भिराइ । द्राऽ३सखि । यन्तेअस्तू ।। अथेमावाइ । श्वाऽ३: पृत । नाजयासी । होयेs३ । हयायेs३ । हया ।
औहोऽ२३४वा । हाऽ३४ । औहोवा ॥ आऔऽ३हो । आऔऽ३होऽ२३४५ ॥
(दी० १० । प० २५ । मा० ११ ) २३ ( म । ५५१ )


[सम्पाद्यताम्]

टिप्पणी