सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७/कौमुदः

विकिस्रोतः तः
Blue star water lily
कौमुदस्य बृहतः सामनी.
कौमुदस्य बृहतः सामनी

कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति ।
श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ।। २८० ।। ऋ. ७.३२.१४

(२८०।१) ।। कौमुदस्य बृहतः सामनी द्वे । (द्वयोः कुमुदो बृहत्) कौमुदस्य बृहद् बृहतीन्द्रः।।
कस्तमिन्द्रा।। त्वाऽ२वासाऽ२उ । आमर्त्योदधर्षताइ । श्रद्धाहाइतेऽ२ । माघवन्पा । रियाइदाऽ१इइवीऽ२ ।। वाजीवाजाऽ२म्।। सिषाऽ२३ । साऽ२ताऽ२३४औहोवा । ऊऽ३२३४पा ।।
( दी० ८ । प० १०। मा० ७ )२८ (ण्ले । ४८४)

(२८०।२)
कस्तमिन्द्रत्वा । वसाऽ३उ । आऽ२३४ । मर्त्योदध । षताइ। श्रद्धाहाइतेऽ२ । माघवन्पा । रियाइ । दाइवाओऽ२३४वा । ऊऽ२३४पा।। वाजीवाजाऽ२म्।। सिषाऽ२३ । साऽ२ताऽ२३४औहोवा।। ऊऽ२३४पा ।।
( दी० ८ । प० १४ । मा० ८ )२९( ढ्वै । ४८५)



[सम्पाद्यताम्]

टिप्पणी

बृहतश्च कौमुदस्य सामनी द्वे। स्वर्ज्योतिर्निधनमुत्तरम् ॥ आर्षेयब्रा. ३.५.८

कस्तमिन्द्रेति द्विकं प्रयुञ्जानो ब्रह्मवर्चसी भवति श्रद्धा चास्य भवति ॥सामविधानब्रा. २.७.२

चतूरात्र -- अभित्वा वृषभा सुत"इति तृतीयस्याह्नो रथन्तरं कस्तमिन्द्र त्वा वसव इति वामदेव्यं - तांब्रा. २१.९.१६

कौमुदस्य साम (प्रातरग्निः)

कुमुदशब्दोपरि टिप्पणी

The water lily has a special place in Sangam literature and Tamil poetics, where it is considered symbolic of the grief of separation; it is considered to evoke imagery of the sunset, the seashore, and the shark. - English Wikipedia