सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/विष्पर्धसस्साम (प्रयो)

विकिस्रोतः तः
विष्पर्धसस्साम

प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् ।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणं ॥ ५८ ॥ ऋ. ८.१०३.४


(५८।१) ॥ विष्पर्धसस्साम । विष्पर्धसो बृहत्यग्निः ॥
प्रयोरायाऽ५इनिनीषताइ ॥ मर्तोयस्तेवसोदाशत् । सवीराऽ२३न्धा । ताअग्नउ । क्थशꣳसिनम् || त्मनासाऽ२३हा । स्रपोषाऽ२३इणाऽ३४३म् । ओऽ२३४५इ ।। डा ।।
(दी० ९ । प० ९ | मा० ९)२७ (धो । ९७ )


[सम्पाद्यताम्]

टिप्पणी